श्रीनृसिंहार्चनपद्धतिः
ब्रह्माण्डानन्दनाथ
श्रीलक्ष्मीनृसिंहो जयति ।
आनन्दमानन्दकरप्रसन्नं ज्ञानस्वरूपं निजभावयुक्तम् ।
योगेन्द्रमीड्य भवरोगवैद्यं श्रीमद्गरुं नित्यमहं भजामि ॥ १॥
श्रीगुरुं परमानन्दसहजानन्द निर्भरम् ।
शिवरूपिणमैक्येन भावयेहं सदा मुदा ॥ २॥
ब्रह्मानन्दं गुरुं नृत्वा अमृतानन्द पादुकाम् ।
पूर्णानन्दस्वरूपोयं तस्मै श्रीगुरवे नमः ॥ ३॥
विलोक्य सर्व तन्त्राणि सौततन्त्रानुसारिणी ।
नत्वा सङ्क्षेपतो वक्ष्ये नृसिंहार्चन पद्धतिम् ॥ ४॥
तत्र श्रीमान्साधकेन्द्रः प्रातः सन्ध्यापूर्वं दण्डद्वयात्मके ब्राह्मे मुहूर्ते समुत्थाय बहिर्दिगत्वापश्यकं कृत्वा हस्तौ पादौ प्रक्षाल्य शुद्धवाससी परिधाय गन्धादि भूषयित्वा शुभासनोपरि उपविश्य आचम्य सङ्कल्पं कुर्याद्यथा ॐ अद्य श्री अमुकमासे अमुकपक्षे अमुकतिथौ दुरितक्षयार्थं कायकवाङ्मनसः कृत्पापक्षयार्थं श्रीलक्ष्मीनृसिंहप्रीत्यर्थे प्रातः कृत्यमहं करिष्ये । इति सङ्कल्पः । ततो । स्वशिरस्थाधोमुख शुक्लवर्णसहस्रदलकमलकर्णिकान्तर्गतं चन्द्रमण्डलान्तस्थहंसपीठे निजगुरुं शुक्लवर्णं शुक्लालङ्कारभूषितं द्विभुजं द्विनयनं वराभयकरं शान्तं प्रसन्नमानसं वामोरूस्थरक्तशक्तियुतं वामेन धृतरक्तोत्पलया दक्षिणेन धृतचारुकलेवरं दिव्याभिषेकेन सम्प्रदायानुगतनामपूर्वकं ध्यात्त्वा मानसैराराधयेद्यथा ॥
लं पृथिव्यात्मकं श्रीगुरुमूर्तये गन्धं समर्पयामि नमः ।
हं आकाशात्मकं श्रीगुरुमूर्तये पुष्पं समर्पयामि नमः ।
वं यं वायव्यात्मकं श्रीगुरुमूर्तये धूपं समर्पयामि नमः ।
खं त्मकं श्रीगुरुमूर्तये दीपं समर्पयामि नमः ।
वं अमृतात्मकं श्रीगुरुमूर्तये नेवेद्यं समर्पयामि नमः ।
सं सोमात्मकं श्रीगुरुमूर्तये ताम्बूलं समर्पयामि नमः ।
पश्चात्पादुकामन्त्रं जपेद्यथा ।
ऐं ह्रीं श्रीं ह स ख क्रें ह स क्ष मल वरयूंसहख में स ह क्ष म ल व र यूं श्री अमुकानन्दनाथ श्री अमुकी देव्यम्बा श्री पादुकां पूजयामि नमः । गुरुं एवं परमगुरुं एवं परात्परमगुरुं एवं परमेष्ठिगुरुं० दशपञ्चधात्रिधा वा सङ्केतनाम्ना सञ्जप्य गुरोर्दक्षिणकरे गुह्येति मन्त्रेण समर्पयेत् । गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात्परमेश्वर इति मन्त्रेण समर्पणं कुर्यात् । स्तुत्वा नत्वा प्रणम्य ॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २॥
नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे ।
यस्य वागमृतं हन्ति विषं संसारसज्ञकम् ॥ ३॥
इति प्रणम्य स्तुवति ।
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिध्यै स्वीकृतानेकविग्रहः ॥ १॥
नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥ २॥
स्वतन्त्राय कृपालुप्तविग्रहाय शिवात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ ३॥
विवेकिनां विवेकाय विमर्शाय विमर्शिनम् ।
प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ ४॥
पुरस्तान्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः ।
सदामाच्चित्रभावेन विधेहि भवदासनम् ॥ ५॥
त्वत्प्रसादादहं देव कृतकृत्योऽस्मि सर्वतः ।
मायामृत्युमहापाशाद्विमुक्तोऽस्मि शिवोऽस्मि च ॥ ६॥
इति स्तुत्वा नत्वा प्रातः प्रभृति सायान्तं ध्यायामि प्रातरन्ततः ।
यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ॥ १॥
इति सर्वं गुरवे निवेद्य तदाज्ञां गृहीत्वा तत्पादगलितामृतधारया क्षालितं निर्मलमात्मानं विचिन्तयेत् । ततो मूलाधारेरूणे चतुर्दले त्रिकोणं ध्यात्त्वा तन्मध्ये कामं स्फुरब्दालार्कवर्णं सत्त्वरजस्तमोगुणाक्रान्तं बिन्दुं सञ्चित्य तदुर्ध्वं कुण्डलिनीशक्ति चैतन्यरूपिणीं तडिन्निभां मृणालान्तरालतन्तुतुल्यां प्रसुप्तभुजगाकारां सार्द्ध त्रिवलयेन संस्थितां मनोरूपदण्डेनोकृत्योत्थाप्य हुङ्कारेण गुरुपदिष्टमार्गेण मूलाधारं स्वाधिष्ठान मणिपूरकानाहत विशुद्धाज्ञाख्यष्चक्र भेदक्रमेण शिरस्याधोमुखसहस्रारकमलं नीत्त्वा आत्मानं चिन्तयेत् । तत्रस्थ चन्द्रमण्डलाद्विगलितामृतधारया रक्तवर्णां तां कुण्डलिनीं ष्चक्रस्थदेवान् सन्तर्प्य पुनः आज्ञाविशुद्धादिक्रमेण मूलाधारमानयेत् ततो मूलाधारात् ब्रह्मरन्ध्रातं मूलविद्यामुह्यदिनकरोपेतां विभाव्य यावच्छ्वासं दृढासनं तत्प्रभापटलपाटलव्याप्तं शरीरं चिन्तयेत् इति मानसकृत्य अथ हस्तव्यापारादिकृत्यं मूलेन प्राणायामत्रयं कृत्वा ऋष्यादि करषडङ्गन्यासपूर्वकं हृदयकमले देवं ध्यात्वा मानसैर्गन्धाद्युपचारैः सम्पूज्य गुरुमन्त्रदेवतात्मानमैक्यं विभाव्य यथाशक्तिं मूलविद्यां जपयित्वा गुह्येति मन्त्रेण समर्प्य स्तुत्त्वा नत्त्वा देवाज्ञां प्रार्थयेत् । अथ अजपासङ्कल्पः । ॐ अं श्री अजपामन्त्रस्य हंसऋषिः अव्यक्तागायत्री छन्दः परमहंसो देवता श्रीमद्लक्ष्मीनृसिङ्गत्वेन योगसिद्ध्यै विनियोगः । हंसऋषये नमः शिरसि अव्यक्तागायत्रीछन्दसे नमो मुखे परमहंस देवतायै नमो हृदये हं बीजाय नमः गुह्ये सः शक्तये नमः पादयोः सोहं कीलकाय नमः सर्वाङ्गे सूर्यात्मने अङ्गुष्ठाभ्यां नमः सोमात्मने तर्जनीभ्यां नमः स्वाहा निरञ्जनात्मने मध्यमाभ्यां नमः निराभासात्मने अनामिकाभ्यां नमः अव्यक्तात्मने कनिष्ठिकाभ्यां नमः अनन्तात्मने करतलकरपृष्ठाभ्यां नमः सूर्यात्मने हृदयाय नमः सोमात्मने शिरसे स्वाहा निरञ्जनात्मने शिखायै वषट् निराभासात्मने कवचाय हुं अव्यक्तात्मने नेत्रत्रयाय वौषट् अनन्तात्मने अस्त्राय फट् ॥
अथ ध्यानम् ।
गमागमस्थं गमनादिशून्यं चिद्रूपरूपं तिमिरान्तकारम् ।
पश्यामि तत्सर्वजनप्रधानं नमामि हंसं परमार्थरूपम् ॥ १॥
रक्तवर्णं गणेशं च मूलाधारे चतुर्दले ।
वादिवेदसमायुक्ते षट्शतं च समर्पयेत् ॥ २॥
स्वाधिष्ठाने विद्रुमाभं षट्कोणं वादिपत्रके ।
सवित्र्या च समायुक्ते षट्सहस्रसमर्पयेत् ॥ ३॥
विद्युल्लसत्प्रभाभं च मण्डलादिदशाक्षरम् ।
लक्ष्मीनारायणं वेदे षट्सहस्रं निवेदयेत् ॥ ४॥
महानलप्रभावे चकादिद्वादशपत्रके ।
उमामहेश्वरौ वन्दे षट्सहस्रं समर्पयेत् ॥ ५॥
विशुद्धे धूम्रवर्णं च कलापत्रे स्वरान्यसेत् ।
प्राणशक्त्यात्मकौ वन्दे सहस्रां च समर्पयेत् ॥ ६॥
आज्ञायां विद्युदाभायां शुभ्रौ हं क्षं नियोजयेत् ।
परमात्मा पराशक्तिसहस्रं च समर्पयेत् ॥ ७॥
कर्पूर द्युतिसंराजत्सहस्रदलपङ्कजे ।
अनिलात्मकं गुरुं ध्यायेत् सहस्रं च समर्पयेत् ॥ ८॥
इति अजपासङ्कल्पः । अजपा नाम गायत्री योगिनां मोक्षदायिनी । तस्य सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते ॥ ततो देवाज्ञां प्रार्थयेत् । त्रैलोक्य चैतन्यमयित्रिशक्ते । श्री विश्वस्य मातर्भवदाज्ञयैव ॥ प्रातः समुत्थाय तव प्रियार्थम् । संसारयात्रामनुवर्तयिष्ये ॥ इति प्रार्थ्य । अहं देव न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहमात्मानमिति चिन्तयेत् ॥ इति गुरुदेवतात्मनामैक्यं विभाव्य भूमिं सम्प्रार्थयेद्यथा,
समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥
धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ।
तेन सत्येन मां पाहि पाशान्मोचय धारिणी ॥
इति प्रार्थ्योत्थाय श्वासानुसारेण भूमौ पादं दत्वा बहिर्व्रजेत् इति प्रातः कृत्यम् । प्रातःकृत्यमकृत्वा यो देविं भक्तितो यजेत् निष्फला तस्य पूजा स्या शौचहीना यथा क्रिया ॥
अथ शौचविधिः । ततो ग्रामात्बहिर्नैऋत्यां वा याम्यां दिशि शरक्षेपमात्रं गत्वा मलमूत्रोत्सर्गं कुर्याद्यथा एकान्ते जनवर्जिते । तृणास्तंरितभूदेशे कुर्यान्मलविसर्जनम् ॥ भूतानुत्सारयेद्यथा गच्छन्तु ऋषयो देवाः पिशाचाः यक्षराक्षसः । पितृभूतगणाः सर्वे करिष्ये मलमोचनम् । तालत्रयं दत्वा उत्तराभिमुखो भूत्वा उपविश्य मलोत्सर्जनं कुर्यात् । शिरः प्रावृत्य वाससा कर्णस्थ ब्रह्मसूत्रः सत् । कुर्यान्मलविमोचनम् । मलोत्सर्गं कृत्वा मूत्रपुरीषादन्यत्रोपविश्य शौचं कुर्याद्ययाविधिः । एकालिङ्गे गुदे स्तिस्त्रः दशभिर्वामपाणिना उभयोः करसमं च पादयो स्त्रिरुच्यते अथवा स्थूलामलकमानेन गृहीत्त्वा मृदमादरात् शौचं कार्यं प्रयत्नेन गन्धलेपक्षयावधि ॥ एवं शौचं विधाय अष्टौ गण्डुशान् त्यजेत् ॥
अथ दन्तधावनक्रमे यथा । अनिषिद्धदिनेषु विहितकाष्ठेन दन्तान् शोधयेद्यथा । चूतचम्पक जम्बूक अपामार्गादि वा त्रये । अष्टादशद्वादशं वा अङ्गुलं प्रार्थ्य तं हरेत् । आयुर्बलंयशोवर्चः प्रज्ञापशुधनानि च । श्रियं प्रज्ञां च मेधां च तन्नो देहि वनस्पते ॥ ॐ ह्रीं तर्हिउत्खाहेति छित्वा ॐ कामदेवाय सर्वजनप्रियाय नमः इत्यनेन मन्त्रेण दन्तान्संशोध्य वा अग्रेण जिह्वामुल्लिख्य दन्तकाष्ठं क्षालयित्वा नैऋत्यां दिशि शुद्धदेशे निःक्षिपेत् । मूलेन मुखं प्रक्षाल्याचम्य देवस्थानात् निर्माल्यमपसार्य स्नानार्थं तीर्थे गच्छेत्तीर्थदेवान्नमस्कृत्य अस्त्रेण तीरं प्रक्षाल्य तत्र धौतां बराणि संस्थाप्य हस्तौ पादौ प्रक्षाल्याचम्य मूलेन वा वैदिकमन्त्रेण मृत्तिकयाङ्गानि लेपयेत् ॥
उक्तं च गौतमीये अस्त्रेणालोड्य मृत्स्ना त्रिभागन्तां तु कारयेत् । जले चैङ्काद्वादशधा निक्षिपेदस्त्रमुच्चरन् एकं मूर्द्धादिनाभ्यन्त पठन् मूलं विलेपयेत् शेषं पादादिनाभ्यन्तं तथैव परिलेपयेत् स्वर्णरजतमुद्रारूपान् कुशाननामातर्जन्योर्धृत्वात्मानं देवरूपं विभाव्य ततो नाभिमात्रोदके गत्वा मलापकर्षणं स्नानं कृत्वाचम्य वैदकं स्नानं कुर्याद्यथा ॐ अद्येत्यादिना देशकालौ स्मृत्वा यथाकाममेतन्मन्त्रप्रतिबन्धकं मम अशेषदुरितक्षयार्थे श्रीमत् लक्ष्मीनृसिंहनरहरिप्रीत्यर्थे प्रातः स्नानमहं करिष्येति सङ्कल्पः । स्वशिरसि गुरुं नमस्कृत्य प्राणायामं ऋष्यादि करषडङ्गं कृत्वा स्वहत्कमले देवं ध्यात्वा मानसैः उपचारैः सम्पूज्य तीर्थान्यावाह्येद्यथा,
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरी जलेस्मिन्सन्निधिं कुरु ॥
आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥
क्रोमित्यङ्कुशमुद्रया सूर्यमण्डलात्तीर्थानि आवाहयामिति धेनुमुद्रयाऽमृतीकृत्य मत्स्यमुद्रयाऽच्छाद्य चक्रेण संरक्षास्त्रेण छोटिकाभिर्दशद्दिग्बन्धनं कुर्यात् ॥
अथ तीर्थशक्त्यां समष्टिध्यानं सर्वानन्दमयीं अशेषदुरितध्वंसां मृगाङ्कप्रभां त्र्यक्षं चोर्ध्वकरद्वयेन दधतीं पाशं सृणीं च क्रमात् । दोर्भ्यां चामृतपूर्णहेमकलशं मुक्ताक्षमालां वराम् । गङ्गासिन्धुसरिद्वयादिसहितां श्रीतीर्थशक्तिं भजे ॥ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः-
सर्वानन्दमयी तीर्थशक्ते एह्येहि स्वाहा इति मन्त्रेण नमस्कृत्य तस्मिन् जले स्वदेवताया यन्त्रं विभाव्य तत्रच्छाद्यानवशक्तयपीठमन्वन्तं जलेन सन्तर्प्य ततो स्वहृत्कमलात्तत्र देवमावाह्य ततो वक्ष्यमाणप्रकारेण गुरूपदिष्टमार्गेण आवाहनादि आयुधान्तां मुद्रां प्रदृश्य जलैः सम्पूज्य तत्पादद्वयनिर्गतजलेनाचम्य तत्त्वमुद्रया स्वमूर्ध्नि मूलेन सप्तधा अभिषिच्य अङ्गुलीभिः सप्तछिद्राणि संरुध्य मूलमुच्चरन् त्रिरुन्मज्योन्मज्य मूलेन कलशमुद्रया स्वमूर्ध्नि त्रिधाभिषिच्य त्रिः वा द्वोत्रिः हृदि पुनराचम्य मूलान्ते साङ्गां सावर्णां सर्ववाहनां सायुधां श्रीमत्लक्ष्मीनृसिंहनरहरनरहराय तर्पयामि नमः इति त्रिधा सन्तर्प्य वक्ष्यमाणप्रकारेण सूर्यमन्त्रेण सूर्याञ्जलिस्त्रिः ततो ब्रह्मादी देवा तर्पयामि नमस्त्रिः ॥
देवसन्मुखे तीर्थे सनकादीन्मुनींस्तर्पयामि नमस्त्रिः । ऋषिवामेतीर्थे कव्यवाहनादीन् पित्तॄंस्तर्पयामि नमस्त्रिः । पितृदक्षे तीर्थे पुनराचम्य प्राणायामं ऋष्यादिकं कृत्वा ध्यात्वा संहारमुद्रया देवं स्वहृदये उद्वास्य तीर्थानि सूर्यमण्डले उद्वास्य तीर्थं नमस्कृत्य तीरमागत्य तीरे शोधपत्रं जलित्वाय स्वाहा ॥
तानि संस्पृष्ट्वा मूलेन शिखां बध्वा ॐ अद्येत्यादिना श्रीलक्ष्मीनृसिंहसंहिताय मम धर्मार्थकाममोक्षार्थे प्रातःसन्ध्योपासनमहं करिष्येति सङ्कल्पः ॥
सङ्कल्पेन विना राजन् यत्किञ्चित्कुरुते यदि ।
फलं चाल्पाल्पकं तस्य धर्मस्यार्धक्षयो भवेत् ॥
सङ्कल्प एव मुख्यः स्यात्स्नानदानादि कर्मसु ।
ततः सङ्कल्परहितं तत्सर्वं निष्फलं भवेत् ॥
मूलत्रय बीजेन प्राणायामं त्र्यं कृत्वा ऋष्यादिकरषडङ्गं विधाय ध्यात्वा सूर्यमण्डलात्तीर्थाम्यावाहेद्यथा ब्रह्माण्डोदरेति । गङ्गे च यमुनेति २ क्रौं इत्यङ्कुशमुद्रया पश्चाद्धेतुमत्सचक्र अवगुण्ठण छोटिकाभि प्रदर्श्य मूलेन सप्ताभिमन्त्र्य ततो वामहस्ते जलमादाय दक्षेन सम्पुटिकृत्य हं यं रं वं लं पं च भूतकेन त्रिरभिमन्त्र्याङ्गुल्यन्तरगलदुर्दक बिन्दुभिस्तत्वमुद्रया मूलेन सप्तधा मूर्ध्नि अभिषिच्य शेषं जलं दक्षहस्ते निधाय इडयाकृष्य वामेति बीजेनान्तः प्रविष्टं विचित्य तेन समस्त कलुषं प्रक्षाल्ययं पिङ्गलया विरच्य तज्जलं कज्जलप्रभं विभाव्य पुरतः कल्पितवज्रशिलायां मूलास्त्रेण आस्फालयेत् । हस्तौ प्रक्षाल्याचत्र्योत्थाय सूर्यमण्डले गायन्त्री ध्यात्वा अर्घ्यं दद्याद्यथा उद्यदादित्यसङ्काशां लोहिताख्यवरां नृणां शुक्लां जीनधरां ब्राह्मी हंसासनकृतायाम् ॥
एवं ध्यात्वा अर्घ्यं दद्यात् । ॐ ह्रीं श्रीं नृसिंहाय विद्महे भक्तवत्सलाय धीमहि तन्नो विष्णुः प्रचोदयात् । एवं सूर्यमण्डलाद्देवमयीं गायत्रीं इदमर्घ्यं स्वाहेति त्रिः गोपादौ चाञ्जलि कृत्वा पूरयेदद्भिरञ्जलि गोरटङ्गमात्रमुधृत्य जलमध्ये जलं क्षिपेत् । गोश्रृङ्गेति गोकर्णे च गायत्रीमष्टोत्तरशतं वा यथशक्त्या जपेत् । गुह्येति मन्त्रेण समर्प्य मध्याह्ने शुक्लाम्बर धरां रौद्रीं वृषाषनकृताश्रयां त्रिनेत्रां वरदां पाशं शूलं च नृकरोटिकां सायाह्ने श्यामवर्णां चतुर्बाहु शङ्खं च क्रलसत्करां गदापद्मधरा देवीं गरुडासनकृताश्रयां इति सन्ध्यविधिः । अथ तर्पणविधिरूच्यते । ततो वक्ष्यमाण प्रकारेण जले यन्त्रं विभाव्य मन्वाद्यापीठं मन्वन्तं पीठशक्तीं सन्तर्प्य पचा स्वहृदयात् वक्ष्यमाणप्रकारेण देवमावाह्य आवाहनादि अयुधान्ताम्तप्रदर्श्य मूलमुच्चारन् साङ्गां सावर्णां सवाहनां सायुधां श्रीलक्ष्मीनृसिंहनरहराय तर्पयामि नमः स्वाहेति त्रिः दिव्यौद्यतः सिद्धौयन्त मानवौद्यन्त श्रीगुरुं तर्पयामि श्रीपरमगुरुं तर्पयामि श्री परात्परगुरुं तर्पयामि श्रीपरमेष्टीगुरुं तर्पयामि ॐ ह्रीं हृदयाय नमः । हृदयदेवं तर्पयामि ॐ हीं श्रीं शिरसे स्वाहा । शिरोदेवं तर्पयामि ॐ ह्रीं श्रीं नरहराय श्रीलक्ष्मीसहिताय शिखायै वषट् शिखादेवं तर्पयामि ॐ ह्रीं श्रीं क्लीं ह्यौं हूत्कवचाय हुं कवचदेवं तर्पयामि श्रीलक्ष्मीसहिताय श्रीनरहाय नेत्रत्रयाय वौषट् नेत्रदेवं तर्पयामि ॐ ह्रीं क्लीं श्रीं ह्रौं क्ष्रौं ह्रूः श्रीलक्ष्मीसहिताय श्रीनरहराय नमः । अस्त्राय फट् । अस्त्रदेवं तर्पयामि मूलेन षोडशवारं तर्पयेत् आवर्णाङ्गदेवतांस्तर्पयेत् । बटुकं तर्पयामि । योगिनीं तर्पयामि क्षेत्रपालं तर्पयामि । गणपतिं तर्पयामि । इन्द्रादीन् लोकपालान् तर्पयामि । नमः तदशक्तौ मूलमुच्चार्य पूर्ववत् साङ्गेति पठन् दशधा देवतामेव तर्पयेत् । इति साम्प्रदायविदा सूर्यार्घ्यं दद्याद्यथा ताम्रपात्रे दुर्वाक्षतरक्तचन्दनक्रुशफलपुष्पादिना अर्घ्यं विधाय उत्थाय ह्रीं हंसः मार्तण्ड भैरवाय प्रकाशशक्तिसहिताय इदमर्घ्यं स्वाहेति त्रिः पश्चात्सूर्यमण्डले स्वेष्टदेवतां ध्यात्वा अर्घ्यं दद्याद्यथा पूर्वोक्तः क्रमेणार्धं निर्माय मूलमुच्चार्य उद्यदादित्यमण्डलवर्त्तिन्यै ब्रह्मचैतन्यमयायै श्रीलक्ष्मीनृसिंहाय इदमर्घ्यं स्वाहेति त्रिः मध्याह्ने रुद्रचैतन्यमयायै सायाह्ने विभुचैतन्यमयायै मूलं अष्टोत्तरशतं वा यथाशक्त्या प्रजप्य गुह्यादिना समर्प्य एवं सन्ध्याशक्तावपि ऋष्यादिकं कृत्त्वा ध्यात्त्वा त्रिकालं वा गायत्रीं अष्टोत्तरशतं जपेत् । न तु कालं लोपयेत् । पुनराचम्य ऋष्यादिकं कृत्त्वा ध्यात्त्वा संहारमुद्रया देवं स्वहृदि विसृज्य तीर्थानि सूर्यमण्डले उद्वास्य तीर्थं नमस्कृत्य इति तर्पणविधिः प्रातः सन्ध्यां परित्यज्यदेवता पूजनं चरेत् । मोहात्कृत्वा महेशानितारकी जायते नरः । प्रातः सन्ध्यां परित्यज्य होमं वा तर्पणं शिवे कुर्वन्नरकार्यो विप्रस्त्यजन् स्वानोभवे ध्रुवं पिशाचो जायते देव अपि वेदान्त परगः सन्ध्यानामपिसर्वासां प्रातः सन्ध्या गरीयसा तस्मात्तान्नत्यजेद्विप्रः त्यजन्नरकमाप्नुयात् इति त्रिपुरार्णव वचनादि यमवश्यं कर्तव्येति शिवशासनम् ॥
अथ पूजाविधिः लिख्यते । ततो वस्त्रपूतजलम्पात्रमापूर्य्यादाय स्वहृत्कमले देवं ध्यात्त्वा । नमस्कृत्यानुवाकं पठेत् देवस्थानमाविशेन् । तत्र स्थित्वा हस्तौ पादौ प्रक्षाल्य आचम्य पठेत् सूर्यः सोमोयमः कालोमहाभूतानिपञ्च च एत शुभशुभस्येह कर्मणोनवसाक्षिणः इति नमस्कृत्य (गा) हारदेशे सामान्यार्थी संस्थापयेद्यथा स्वपूरणास्त्रिकोणवृत्त चतुरस्त्रं मण्डलं कृत्त्वा ह्रीं आं धारशक्तै नमः इति सम्पूज्य नम इत्याधारं प्रक्षाल्यतन्मण्डले निधाय मंवह्निमण्डलाय दशकलाव्याप्तात्मने धर्मप्रदाय नमः इत्याधारं सम्पूज्य ततोस्त्राय फडिति पात्रं प्रक्षाल्याऽधारे निधाय अं अर्कमण्डलाय द्वादशकला व्याप्तात्मने अर्थप्रदाय नमः इति सम्पूज्य मूलेन च जलमापूर्य्य ॐ सोममण्डलाय षोडशकलाव्याप्तात्मने कामप्रदाय नमः इति सम्पूज्य मूलेन च जलमापूर्य ॐ सोममण्डलाय षोडशकलाव्याप्तात्मने कामप्रदाय नमः इति सम्पूज्य पूर्वावतीर्थान्यावाह्य पूर्ववत् मुद्रां प्रदर्श्य मूलमष्टधाप्रजाप्य इति सामान्यार्घ्यं तज्जलं पूर्वपात्रे निक्षिप्य तेनोदकेनाचम्य अस्त्रमन्त्रेण द्वारं सम्प्रोक्ष्य द्वारदेवतां पूजयेद्यथा उर्ध्वं गं गणेशाय नमः । वामशाखायां क्षं क्षेत्रपालाय नमः । दक्षिणे बं बटुकाय नमः । अधः यां योगिनीभ्यो नमः । वामकोपे गं गङ्गायै नमः । दक्षकोणे यं यमुनायै नमः । दक्षे श्रीलक्ष्म्यै नमः । अधः वामकोणे ऐं सरस्वत्यै नमः ॥
इति पूर्वादिकोणचतुष्टयं सम्पूज्य ततो द्वारपालदेवदेव्योद्वारं रक्षन्तु यत्नतः निवार्य विघ्नसङ्घातमित्याज्ञापरमेश्वरि देवताज्ञां श्रावयित्वा मां गं सङ्कोचयन् देहलीं लङ्घयन् वा पादपुरः सरमन्तः प्रविश्य अपक्रामन्तुभूतानि पिशाचाः प्रेतगुह्यकाः ये चान्ये निवसत्येते देवता भुवि संस्थिताः अपसर्पतु ये भूता ये भूता भुविसंस्थिताः येधिभूता विघ्नकर्त्तारस्तेनश्यन्तु शिवाज्ञया ॐ सर्वविघ्नानुसारर्योत्सारये हुं फट् स्वाहेति वामपार्ष्णि घातेनो ह्रूं धोधं तालत्रयेण निमेषरहित दृष्ट्या च भूम्यान्तरिक्षदिव्यान्विध्नानुत्सारयेत् ततः कांस्यघण्टास्वरं कृत्वा द्वारमाच्छाद्य वाससा ततो ईशानकोणे हौं दीपनाथाय नमः । नैऋत्ये क्षं वा रक्तपुरुषाय नमः । वायवेवंविधात्रे नमः देहत्यादे देहत्यै नमः । इति गन्धपुष्पाभ्यां सम्पूज्य ॐ तीक्ष्णदंष्ट्र महाकायकल्पान्तदहनोपम भैरवाय नमः । तुभ्यं अनुज्ञां दातुमर्हसि इति भैरवाज्ञां गृहीत्वा ततो जपस्थानं विशोधयेत् तद्यथा ॐ रक्ष रक्ष हुं फट् स्वाहेति भूमि परिषिच्य अस्त्रमन्त्रेण प्रोक्ष्य तेनैवदर्भैस्ताडयित्वा कवचेनाक्ष्ययेदिति चतुर्विधसंस्कारो भुवि आसुरे रवें वज्ररेखे हुं फट् स्वाहेति त्रिकोणमण्डलं कृत्वा ॐ ह्रीं आधारशक्तौ नमः । कूङ्कूर्माय नमः । अं अनन्ताय नमः । वं वराहाय नमः । पं पृथिव्यै नमः । इति सम्पूज्यतत्रचित्रकम्बलाद्यासनं संस्थाप्य तस्योपरि हस्तं दत्वा मन्त्रं पठेत् पृथिव्यामेरुपृष्ठ ऋषिः । सुतलं छन्दः । कूर्मो देवता । स्वात्मानं वीराद्यासने उपवेशने विनियोगः । ॐ पृथ्वी त्वया धृता लोका । देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि । पवित्रं कुरु चासनम् । इति पठित्वा वीराद्यासने प्राङ्मुखो उपविश्य आचम्य ॐ मणिधारिणि वज्रिणीमहाप्रतिसरे रक्ष रक्ष मां हुं फट् स्वाहेति मन्त्रेण वस्त्रान्तिके रक्षाग्रन्थि बन्धयेत् । सङ्कल्पं कुर्याद्यथा ॐ अद्येत्यादिना श्रीलक्ष्मीनृसिंहाय प्रीत्यर्थे भूतशुद्ध्यादिमानसान्तं जपपूजनमहं करिष्येति सङ्कल्पः । स्वशिरसिमातकाम्बुजं ध्यात्वा तत्र दीपनाथं पूजयेद्यथा तारतत्रयं श्रीकण्ठोक्त क्षेत्राद्यक्षरं च ज्ञात्वा अमुकेशर्मिवर्णे श्रीनन्दनाथाय अतिरक्तवर्णाय रक्तद्वादशशक्तियुक्ताय आस्ं इक्षेत्र इमां पूजां गृह्ण गुह्ण स्वाहा ॥
ततः स्वशिरसि प्रातः कृत्योक्तं गुरुं ध्यात्वा सम्पूज्य कृताञ्जलिपुटेन गुरुचतुष्टयपर्यन्तं नमस्कृत्य पश्चाद्दक्षस्कन्धे गं गणपतये नमः । वामस्कन्धे क्षे क्षेत्रपालाय नमः । वामजानुनि दुं दुर्गायै नमः । दक्षजानुनि सं सरस्वत्यै नमः । हृदि श्रीलक्ष्मीनृसिंहदेवतायै नमः । ॐ श्लीं लीं पशुं हुं फडिति मन्त्रेण वामपादप्रघातादिमघातेनोर्द्वाधः तर्जनीमध्यमाभ्यां तालत्रयं कुर्यात् । तेनैव मन्त्रेण छोटिकाभिर्दशादिग्बन्धनं कुर्यात् । अथ प्राणायाम विधिः । मूलाधारे मनः संयोज्य दक्षिणाङ्गुष्ठेन दक्षनासापुटं धृत्वा ध्यात्वा मूलप्रणवं मूलाद्यबीजं वा षोडशवारं वामनासया वायुमापूर्य कनिष्ठानामाभ्यां वामनासापुटं धृत्वा चतुःषष्टिवारं जपन् वायुकुम्भयित्वा द्वात्रिंशद्वारं जपन्दक्षनासापुटेन वायुं रेचयेदित्येकः । एवं विपरीतेन द्वितीयः पुनः शुद्धेन तृतीयः एवं प्राणायामत्रयं कुर्यात् । उक्तं च गौतमीये ब्रह्महत्यासुरापानमगम्यागमनं तथा सर्वमाशुदहत्येव प्राणायामेन वै द्विजः भ्रूणहत्यादि पापानि नाशयेन्मासमात्रतः । प्रातः सायं चरेन्नित्यं षोडशप्राणसंयमः । अथ भूतशुद्धिं पुनः प्राणायामक्रमेण हूङ्कारेण मूलाधारात्कुण्डलिनीमुत्थाप्य हंसेति जीवात्मनि विलीय । संयोज्य सोऽहमिति मन्त्रेण परमात्मानि विलाप्य अस्य श्री पञ्चमहाभूतमन्त्रस्य अत्रिभरद्वाजब्रह्मेद्रेश्वराऋषयः त्रिष्टुप् अनुष्टुप् बृहतीपङ्क्ती जगती छदांसि समीरणाग्निजलपृथिव्याकाशो देवता । शोषणदाहनप्लावन पिण्डीकरणस्थापनार्थे जपे विनियोगः । अभिरद्वाजब्रह्मेद्र ऋषिभ्यो नमः शिरसि । त्रिष्टुप् अनुष्टुप् बृहती पङ्क्ती जगती छन्दासि छन्देभ्यो नमः मुखे । समीरणाग्निजलपृथिव्याकाशे देवताभ्यो नमो हृदि । हं अङ्गुष्ठ्भ्यां यं तर्जनीभ्यां रं मध्यमाभ्यां वं अनामिकाभ्यां शं(??) कनिष्ठिकाभ्यां लं करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि एवं ऋष्यादिकं कृत्वा ततो भूतानि विलापयेद्यथा पादादि जानुपर्यन्तं स्थितं पृथ्वीमण्डलं चतुरस्त्र वज्रलाञ्छितं ब्रह्मदैवतं चतुरद्वारं पीतवर्णं लं बीजयुक्तं धारयेत् जान्वादिनाभिपर्यन्तं आपमण्डले लीनं विचित्य जान्वादिनाभिपर्यन्तस्थिताप्सुमण्डलं अर्धचन्द्राकारं शुक्लवर्णं पार्श्वद्वयोपद्यलाञ्छितं विष्णुदैवतं वं बीजयुक्तं ध्यात्वा जान्वादिहृदयपर्यन्तं वाह्निमण्डलेलीनं विचित्य नाभ्यादिहृदयपर्यन्तं वाह्निमण्डलं त्रिकोणाकारं स्वस्तिकलाञ्छितं रक्तवर्णं रुद्रदैवतं रं बीजयुक्तं ध्यायेत् हृदयादिभूपर्यन्तं वायुमण्डलं धूम्रवर्णं ईश्वरदैवत्यं षट्कोणाकारं षबिन्दुलाञ्छितं यं बीजयुक्तं आकाशेलीनं विभाव्य भ्रूमध्यादिब्रह्मरन्ध्रान्तं आकाशमण्डलं वर्तुलं ध्वजलाञ्छितं श्वेतवर्णं सदाशिवलाञ्छितं दैवतं हं बीजयुक्तं ध्यायेत् । अहङ्कारेलीनं विचित्य तं च महतत्त्वे तं च प्रकृतौ तां च ब्रह्मणि विलापयेत् । ततो वामकुक्षौ पापपुरुषं ध्यायेद्यथा ब्रह्महत्याशिरस्कन्धस्वर्णस्तेयभुजद्वये सुरापानहृदायुक्तं गुरुतल्पकटिद्वयं तत्संसर्गपद्वन्द्वम्मङ्गप्रत्यङ्गपातकं उपपातकरोमाणं रक्ताश्मश्रुविलोचनं खड्गचर्मधरं पाप मङ्गुष्ठपरिमाणकं अधोमुखं कृष्णवर्णं वामकुक्षौ विचितयेत् ॥
यमिति वायुबीजं धूम्रवर्णं विचित्य षोडशवारमावृत्तेन वामनासया वायुमापूर्य सपापदेहं विशोष्य रं इतिवह्निबीजं रक्तवर्णं विभाव्य चतुःषष्टिवारमावृत्तेनवह्निबीजेन कुम्भकयोगेन सपापन्देहं दह्य पुनर्यमिति वायुबीजं धूम्रवर्णं विचित्य द्वात्रिंशद्दारमावृत्तेन दक्षनासया पापपुरुषस्य भस्म रेचयेत् । ततो वमिति वरुणबीजं शुक्लवर्णं विचित्य षोडशवारमावृत्तेन वायुं पूरयेत् । ललाटे चन्द्रमण्डलान्मातृकावर्णं ध्यात्वा चतुःषष्टिवारमावृत्तेन वायुं कुम्भयित्वा दृढं कृत्य हं इत्याकाशबीजं व्यापकं विचित्य द्वात्रिंशद्वारमावृत्तेन वायु रेचयेत् । पुनरुत्पादयेद्देहे पवित्रं परमात्मनः शब्द ब्रह्मात्मिकामायामातृकाप्रकृतिम्परा अजायाश्च जगन्मातुराकाशनभसोनिलः अनिलादभवह्निर्वह्नेरापस्तेनो महिः स्वयमेभ्योपिभूतेभ्योस्तेजोरूपं कलेवरं देवताराधनेयोग्यमन्यत्रमविचितयेत् । तास्मिश्च देवतारूपं सर्वमन्त्रमयं विभुं आत्मरूपेण देहे च जीवभावेन तिष्ठति । ॐ ह्रों सदाशिवाय व्योमाधिपतये शान्त्यातीतकलात्मने नमः । ब्रह्मरन्ध्राद्भूमध्यपर्यन्तं व्यापयेत् । ॐ ह्रैं ईश्वराय वाय्वाधिपतये शान्तिकलात्मने नमः । भ्रुवोः हृदयपर्यन्तं ॐ ह्रूं रुद्राय तेजोधिपतये विद्याकलात्मने नमः । हृदयादिनाभिपर्यन्तं ॐ ह्रीं विष्णवे अपामधिपतये प्रतिष्ठाकलात्मने नमः । नाभेराजानुपर्यन्तं ॐ ह्रां ब्रह्मणे पृथिव्याधिपतये निवृत्तिकलात्मने नमः । जान्वोरापादपर्यन्तं व्यापकं इति व्यापकेन सृष्टिक्रमं विचित्य पुनः पूर्ववत् बुद्धचा विलोमेन समानीय सोहं १६ हंसः ६४ हुं ३२ परमात्मनः सकाशा प्रकृतिः तस्यां तस्मादहङ्कारस्तस्मादाकाशः आकाशाद्वायुः वायोराग्निरग्नेरापः अद्भ्यः पृथिवी पृथिव्यां ओषधयः ओषधीभ्यो अन्नं अन्नाद् रेतः । रेतसः पुरुषः । स अन्नमयो रसमयः । एवं सृष्टिक्रमेण स्वस्व स्थाने भूतानि संस्थाप्य ततः शुद्धचैतन्यनिर्मलदेवताराधन योग्यं शरीरं विभावयेदिति भूतशुद्धिः । भूतशुद्धि विना कर्तुं जपहोमार्चनक्रियाः भवन्ति निष्फलां सर्वाम्प्रकारेणाप्यनुष्ठिताः । योगाद्यभ्यासयोगेनमेताभ्यासेन नाशयेत् । भूतशुद्धि विधायेत्थं विध्ययोग्यस्यादैशिकोत्तमः । ततस्तस्मिन्देवतात्मके शरीरे प्राणान्संस्थाप्य अथ प्राणप्रतिष्ठा आं १६ ह्रीं ६४ क्रों ३२ एवं क्रमेण प्राणायामं त्रयं कुर्यात् । ॐ अस्य श्री प्राणप्रतिष्ठा मन्त्रस्य ब्रह्माविष्णुरुद्रा ऋषयः । ऋग्यजुः सामानि छन्दांसि । चैतन्यरूपाशक्तिर्देवता । आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । मम प्राणप्रतिष्ठापने विनियोगः । ब्रह्माविष्णुरुद्रऋषिभ्यो नमः शिरसि । ऋग्यजुः सामानि छन्देभ्यो नमो मुखे । चैतन्यरूपा प्राणशक्तिर्देवतायै नमो हृदये । आं बीजाय नमो गुहो । ह्रीं शक्तये नमः पादयोः । क्रों कीलकाय नमः सर्वाङ्गे । अथ कराङ्गन्यासौ आं ह्रीं क्रों अं कं ४ आं पृथ्व्यां तेजोवायु आकाशात्मने अङ्गुष्ठाभ्यां नमः निवृत्तिकलात्मने नमः । जान्वोरापादपर्यन्तं व्यापकं इति व्यापकेन सृष्टिक्रमं विचिन्त्य पुनः पूर्ववद्द्द्धुद्वयाविलोमेन समनीय सोहं १६ हंसः ६४ हुं ३२ परमात्मनः सकाशात्प्रकृतिः तस्यां महत्तत्वं तस्मादहङ्कारस्तत्मादाकाशः आकाशाद्वायुः वायोराग्निरग्नेरापः अद्भ्यपृथिवीपृथिव्यां ओषधयः ओषधीभ्योऽन्नं अन्नाद्रेतः रेतसः पुरुषः स अन्नमयोरसमयः । एवं सृष्टिक्रमेण स्व स्व स्थाने भूतानि संस्थाप्य ततः शुद्धचैतन्यनिर्मलदेवताराधन योग्यं शरीरं विभावयेदिति भूतशुद्धिः । भूतशुद्धिं विनाकर्तुं जपहोमार्च्चनक्रियाः भवन्ति निष्फलाः सर्वाः प्रकारेणाप्यनुष्ठिताः । योगाद्यभ्यास योगेन मेताभ्यासेन नाशयेत् । भूतशुद्धिविधायेत्यं विध्योयोग्यस्योदेशिकोत्तमः । ततस्तस्मिन्देवतात्मके शरीरे प्राणान्संस्थाप्य अथ प्राणप्रतिष्ठा आं १६ ह्रीं ६४ क्रों ३२ एवं क्रमेण प्राणायामत्रयं कुर्यात् ॥
ॐ अस्य श्री प्राणप्रतिष्ठामन्त्रस्य ब्रह्माविष्णुरुद्राऋषयः । ऋग्यजुः सामानि छन्दांसि । चैतन्यरूपाशक्तिर्देवता । आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । मम प्राणप्रतिष्ठापने विनियोगः । ब्रह्माविष्णुरुद्राऋषिभ्यो नमः शिरसि । ऋग्यजुः सामानिछन्देभ्यो नमो मुखे । चैतन्यरूपाप्राणशक्तिर्देवतायै नमो हृदये । आं बीजाय नमो गुह्ये । ह्रीं शक्तये नमः पादयोः । क्रों कीलकाय नमः सर्वाङ्गे । अथ कराङ्गन्यासौ आं ह्रीं क्रों अं कं ५ आं पृथ्वीतेजोवायुराकाशात्मने अङ्गुष्ठाभ्यां नमः ३ ईशष्टस्पर्शरूपरस गन्धात्मने तर्जनीभ्यां स्वाहार उं टं छ कुं श्रोत्र ३ इ चं ४ ईशष्टस्पर्शरूपरसगन्धात्मने तर्जनीभ्यां स्वाहा १ उं टं ४ कुं श्रोत्र- त्वक् चक्षुर्जिह्वा घ्राणात्मने मध्यमाभ्यां वषट्१ एतं४ ऐं वाक्पाणिपादपायुपस्थात्मने अनामिकाभ्यां हुं३ औं पं४ ॐ वचनादानविसर्गानन्दात्मने कनिष्ठिकाभ्यां वौषट् १ । अं यं रं लं वं शं षं सं हं लं अः । मनोबुध्यहङ्कारचित्तात्मने करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिषडङ्गेन्यसेत् ॥
अथ ध्यानम् । रक्ताम्भोधिस्थितोल्लसद्दरुणासरोजाधिरूढाकराब्जैः पाशकोदण्डमिक्षूद्भवमथगुणाप्यङ्कुशम्पञ्चबाणान् बिभ्राणास्कृपालं त्रिनयन विलसत् पीनवक्षोरूहाभ्यां देविरबालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परान्नः । इति ध्यात्वा मानसोपचारैः सम्पूज्य लेलिहामुद्रया हृदिहस्तं दत्वा अमुकमन्त्र पठेत् । ॐ आं ह्रीं क्रीं यं रं लं वं शं षं सं हं ल्लं क्षं हंसः सोहं ममप्राणाः इह प्राणा ॐ १६ मम जीव इहस्थितः ॐ १६ मम सर्वेन्द्रियाणि ॐ १६ मम वाङ्मनस्त्वक्चक्षुजिह्वा श्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा । इति प्राणप्रतिष्ठा ॥
अथ मातृकान्यासः । न्यासमस्य प्रवक्ष्यामि मनोः सर्वफलप्रदम् । न्यासं विना यं प्राहुरासुरं विफलं बुधाः । षोडशस्वरेणपूरकं कुर्यात् १६ । कादिमान्तानिकुम्भकं कुर्यात् २५ । पद्भियोक्षान्तानि रेचकं कुर्यात् १० । एवं प्राणायम त्रयं कुर्यात् । अगस्त्यसंहितायां पूरयेद्वायुं स्वरैवर्गैश्च कुम्भयेत् रेचयेद्यादिकैर्वणैः ततः पिङ्गलया पुनः ॐ अस्य श्रीसृष्टिकामातृका सरस्वती देवता हलोबीजानि स्वराः शक्त्यः । अव्यक्तं कीलकं सृष्ट्यर्थे न्यासे विनियोगः । ब्रह्मा ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । सृष्टिमातृका सरस्वती देवतायै नमो हृदये । कादयोमान्तानि न्यासस्य ब्रह्मा ऋषिः । गायत्री छन्दः । सृष्टिमातृकायै बीजेभ्यो नमो गुह्ये । स्वराशक्तये नमः पादयोः । पादयोः क्षान्तानि कीलकाय नमः सर्वाङ्गेः । ॐ अं कं४ आं अङ्गुष्ठाभ्यां नमः । ॐ इं चं४ ई तर्जनीभ्यां नमः । स्वाहा । ॐ उं टं४ ळं मध्यमाभ्यां नमः वषट् । ॐ एं तं४ ऐ अनामिकाभ्यां नमः । हुं ॐ ॐ पं४ ॐ कनिष्ठिकाभ्यां नमः । वौषट् । ॐ अं यं९ अ करतलकरपृष्ठाभ्यां नमः फट् । एवं हृदयादि ॥
अथ ध्यानम् । शरत्पूर्णेदु शुभ्रांसकललिपिमयीं लोलवक्त्रां त्रिनेत्रां शुक्लालङ्कारभूषां शशिमुकुटजटाजूटयुक्तां प्रसन्नां पुस्त्रक् पूर्णकुम्भां वरमपिदधनीं शुक्लपादाम्बराद्यां वाक्देवीं पद्मवक्त्रां स्तनभरनमितां चिन्तयेत्साधकेन्द्रः१ इति ध्यात्वा मानसैरूपचारैः पूजयित्वान्यसेत् । ततो कण्ठमूले षोडशारेषोडशस्वरान्विन्यस्य ॐ अं नमः १६ इत्यादि अनाहतेद्वादशारे द्वादशवर्णान्विन्यस्यकं नमः १२ इत्यादि मणिपूरे दशदलेदशवर्णान्विन्यस्य डं नमः इ१० इत्यादि स्वाधिष्ठाने षट्दले षद्ववर्णान्विन्यस्य ॐ वं नमः ६ इत्यादि मूलाधारे चतुर्दलेचतुरो वर्णान्विन्यस्य ॐ वं नमः ४ इत्यादि आज्ञाचक्रे द्विदलेवर्णद्वयं विन्यस्य ॐ हं नमः । ॐ क्षं नमः सृष्टिन्यासः । स्थितिन्यासः । मणिपूरावादिगन्तं न्यसेत् । ॐ डं नमः इत्यादि । अथसंहृदितिन्यासः । आज्ञाचक्रात्ज्ञादि अ अं तं विलोमेन न्यसेत् । ॐ क्षं नमः इत्यादि । अथ बहिः सृष्टिन्यासः । ॐ अं नमो ललाटे मध्यमानामाभ्यां न्यसेत् । ॐ आं नमो मुखावृत्ते तर्जनी र्जीं व ॐ इं नमो दक्षनेत्रे तर्जन्यनामाभ्यां ॐ ईं नमो वामनेत्रे तथैव । ॐ ॐ नमो दक्षकर्णेऽगुष्टेन । ॐ उं नमो वामकर्णे तथैव । ॐ ज्ञं नमो दक्षनासापुटे कनिष्ठाङ्गुष्टाम्भ्यां ॐ ऋ नमो वामनासापुटे तथैव । ॐ लूं नमो दक्षगण्डेमध्यमाया । ॐ लूं नमो ऊर्ध्वदन्तपङ्क्तौऽनामया । ॐ ॐ नमो अधोदन्तपङ्क्तौ तथैव । ॐ अं नमो शिरसि मध्यमानामयाः । ॐ आं नमो मुखाभ्यन्तरे रसनायां मध्यमयाऽनामाभ्यामन्यत्र दक्षदोर्मूलाद्वामपार्श्वातिं मध्यमानामाकनिष्ठाभिर्न्यसेत्
ॐ कं नमो दक्षबाहुमूले । ॐ खं नमो कूप्परे ।
ॐ गं नमो मणिबन्धे । ॐ ॐ नमोऽङ्गुलिमूले ।
ॐ ॐ नमोऽङ्गुल्यग्रे । ॐ टं नमोऽदक्षपादमूले ।
ॐ ठं नमो जानुनि । ॐ डं नमो गुल्फे ।
ॐ ठं नमोऽङ्गुलीमूले । ॐ णं नमोऽङ्गुल्यग्रे ।
ॐ तं नमो वामपादमूले । ॐ यं नमो जानुनि ।
ॐ दं नमो गुल्फे । ॐ धं नमोऽङ्गुलीमूले ।
ॐ नं नमोऽङ्गुल्यग्रे । ॐ पं नमो दक्षपार्श्वे ।
ॐ फं नमो वामपार्श्वे । ॐ बं नमो पृष्ठे ।
सर्वाङ्गुलीभिः । ॐ भं नमो नाभौ तर्जनीवर्जं सर्वाङ्गुलीभिः । ॐ मं नमो जठरेकरतलेन । ॐ यं त्वगात्मनेनमोहदि । ॐ रं असृगात्मने नमो वामांसे । ॐ शं असृगात्मने नमो हृदक्षपाण्यं ॐ षं मेदात्मने नमो हृदयादि वामपाण्यन्तम् । ॐ सं शुक्रात्मने नमो हृदयादिजठरान्तम् । क्षं परमात्मने नमो हृदयादिमुखान्तं करतलेन इति सृष्टिमातृका ॐ अस्य श्री स्थितिमातृकान्यासस्य विष्णुऋषिः गायत्री छन्दः । स्थितिमातृका सरस्वती देवता या दयः क्षान्तानि बीजानि नमो गुह्ये । स्वराः शक्तयः नमः पादयोः कादयोः कादयोम्मान्तानि कीलकाय नमः सर्वाङ्गे । स्वदेह स्थित्यर्थे न्यासे विनियोगः । ऋष्यादिन्यथास्थाने न्यसेत् । ॐ उं टं४ । ॐ मध्यमाभ्यां नमः । ॐ एं तं४ ऐं अनामिकाभ्यां नमः । ॐ ॐ पं४ औं कनिष्ठिकाभ्यां नमः । ॐ अं कं४ आं अङ्गुष्ठाभ्यां नमः । ॐ इं चं४ ई तर्जनीभ्यां नमः । स्वाहा । ॐ अं यं९ अ करतलकरपृष्ठाभ्यां नमः । फट् । ॐ उं टं४ ॐ शिखायै वषट् । ॐ एं तं४ ऐं कवचाय हुम् । ॐ औं पं४ औ नेत्रत्रयाय वौषट् । ॐ अं कं४ आं हृदयाय नमः । ॐ इं चं४ ईं शिरसे स्वाहा । ॐ अं यं९ अ अस्त्राय फट् ॥
अथ ध्यानम् । पक्षीन्द्रासन संस्थिता भगवतीम् । श्यामां पिंशगावृतां शङ्ख चक्रगदाब्जपाशसृणिभून्मालां दधानां पराम् । विद्याभीतिवरप्रदां त्रिनयनामापीनत्तुङ्गस्तनीम् । विष्णुमयीं समस्तजननीं ध्यायामि तामम्बिकां१ इति ध्यात्वा मानसोपचारैरभ्यर्च्य ॐ डं नमे दक्षगुल्फे स्थान मुद्रास्तुपूर्ववत् । ॐ ठं नमः । ऐं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं लं अं नमो ललाटे । आं ईं ॐ ऊं ऋ ऋ लूं लूं एं ऐं ॐ औं अं अ कं खं गं घं डं चं छं जं ऊं ञं टं ठं नमो दक्षोरु ठं नमः दक्षजानुनी इतिस्थितिमातृकाः । अथ संहारमातृका न्यासः । ॐ अस्य श्री संहारमृतकान्यासस्य कालाग्निरुद्रऋषये शिरसि गायत्री छन्दसे नमो मुखे । संहारमातृकासरस्वती देवतायै नमो ह्रदि । मादयः कान्तानि बीजानि नमो गुह्ये । बिलोमस्वराः शक्तयः नमः पादयोः । क्षेदयोयान्तानि कीलकाय नमः । सर्वाङ्गे व्यापयेत् । ॐ आं क्षं लं हं सं षं शं वं लं रं यं अं अस्त्राय फट् । ॐ औं मं भं बं फं पं ॐ नेत्रत्रयाय वौषट् । ॐ ऐं नं थं दं थं तं एं कवचाय हुम् । ॐ ॐ णं ठं डं ठं टं डं शिखायै वषट् । ॐ अं हुं जं छं चं इं शिरसे स्वाहा । ॐ आं ङं घं गं खं कं हृदयाय नमः । एवं कराङ्गुलीषु ॥
अथ ध्यानम् । धूम्राङ्गीम्मुक्तकेशीम्मशिमालिनमुखीं घोररूपां त्रिनेत्रां अस्त्रैर्हस्तैर्दधानां व्यजनकरधृतां दीप्तमग्नितृणादयां हाहाकार दृहासांसमयवरकर । ज्वालयन्तीं दिशांश्च भक्तेभ्यः प्रेमनद्धान्दिशनु प्रतिदिनं भारतीं तां नमामि१ एवं ध्यात्वात्मानसैरूपचारैः सम्पूज्य न्यसेत् । ॐ क्षं परमात्मने नमः । हृदब्ज मुखान्तं विलोमेन तत्र ततत्स्थाने यथोक्त मुद्राभिर्न्यसेत् । ॐ ळं जीवात्मने नमः । ॐ हं प्राणात्मने नमः । ॐ सं शुक्रात्मने नमः । ॐ षं मज्जात्मने नमः । ॐ शं अस्थ्यात्मने नमः । ॐ वं मेदात्मने नमः । ॐ लं मांसात्मने नमः । ॐ रं असृगात्मने नमः । ॐ यं त्वगात्मने नमो ह्ऱ्दि ॐ मं नमः । ॐ भं ॐ बं ॐ फं ॐ पं । ॐ नं ॐ धं ॐ दं ॐ थं ॐ तं । ॐ णं ॐ ढं ॐ डं ॐ ठं ॐ टं । ॐ ञं ॐ झं ॐ जं ॐ अं ॐ छं ॐ चं । ॐ ङं ॐ घं ॐ गं ॐ खं ॐ कं ॐ अः ॐ अं ॐ औं ॐ ओं ॐ ऐं ॐ एं ॐ ॡं ॐ ऌं ॐ ॠं ॐ ऋं ऊं ॐ (लृ र्लं) उं ॐ ईं ॐ इं ॐ आं ॐ अं इति संहारमातृका । अयङ्क्रमोमुमुक्षविषयः गृहस्थानां स्थित्यन्तं ब्रह्मचारिणसृष्ट्यन्तम् । अथ तारोस्था कलामातृका न्यासः । ॐ अस्य श्री प्रणवकलामातृकान्यासस्य प्रजापति ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । प्रणवकलामातृकासरस्वतीदेवतायै नमो हृदि । हलोबीजानि नमो गुह्ये । स्वराशक्तये नमः पादयोः । नमो मुखे । प्रणवकलामातृकासरस्वतीदेवतायै नमो हृदि हलोबीजानि नमो गुह्ये स्वराशक्तये नमः पादयोः । अव्यक्त कीलकाय नमः सर्वाङ्गे । अं ॐ अं अङ्गुष्ठाभ्यां नमः । इं ॐ ईं तर्जनीभ्यां नमः । स्वाहा । ॐ उं ॐ मध्यामाभ्यां नमः । वषट् । ऐं ॐ ऐं अनामिकाभ्यां नमः । हुं ॐ ॐ कनिष्ठिकाभ्यां नमः वौषट् । अं ॐ अं करतलकरपृष्ठाभ्यां नमः फट् । एवं ह्रदादि । अथ ध्यानम् । हस्तैपद्मंरथाङ्गङ्गुणमपिहरिणं पुस्तकं वर्णमालां टं कं शूलकपालं वरममृतलसत् हेमकुम्भं वहन्ती मुक्ताविद्युत्पयोदस्फटिक नवजपां बन्धुरैः पञ्चवक्त्रैः त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां शारदां तां नमामि । इति ध्यात्वा मानसैरूपचारैः सम्पूजयित्वा न्यसेत् ॥
ॐ अं निवृत्तिकलायै नमः ललाटे अनामामध्यमाभ्यां नमः स्थानमुद्रोक्त पूर्ववत् । ॐ आं प्रतिष्ठाकलायै नमः । ॐ ईं शान्तिकलायै नमः । ॐ उं इन्धिकाकलायै नमः । ॐ ऊं दीपिकाकलायै नमः । ॐ ऋ रेचिकाकलायै नमः । ॐ ऋ मोचिका कलायै नमः । ॐ लूं सूक्ष्मकालायै ॐ लूं सूक्ष्पाघ्रतायै नमः । ॐ एं अमृतकलायै नमः । ॐ ऐं ज्ञानामृतकलायै नमः । ॐ औं आप्यायिनीकलायै नमः । ॐ औं ॐ अं व्योमरूपिणी कलायै नमः । ॐ आं अनन्तकलायै नमः । ॐ आं व्यापिनी कलायै नमः । एताचे रजाः कला सदाशिवेन सञ्जातानादादेताः सितात्विषः अक्षस्त्रक् पुस्तकगुणकपालाथकराम्बुजाः इति ध्यायेत् । ॐ कं सृष्टिकलायै नमः । ॐ खं ऋद्धिकलायै नमः । ॐ गं स्मृतिकलायै नमः । ॐ घं मेधाकलायै नमः । ॐ डं कान्तिकलायै नमः । ॐ चं लक्ष्मीकलायै नमः । ॐ छं द्युतिकलायै नमः । ॐ जं स्थितिकलायै नमः । ॐ उं सिद्धिकलायै नमः । एताकचवर्गकला अकाराब्रह्मणोत्पन्नस्वत्त्व चामीकारप्रभाः कराम्बुज धृताक्षसृक् पङ्कजाभयकुण्डिकाः इति ध्यात्वा ॐ टं जराकलायै नमः । ॐ ठं पालिनीकलायै नमः । ॐ डं शान्तिकलायै नमः । ॐ ढं ईश्वरकलायै नमः । ॐ णं रतिकलायै नमः । ॐ तं कामिकलायै नमः । ॐ थं वरदाकलायै नमः । ॐ दं ल्हादिनी कलायै नमः । ॐ धं नीतिकलायै नमः । ॐ नं दीर्घाकलायै नमः । इतिटतवर्गकला । उकाराद्विष्णोत्तपन्नास्तमालदलसन्निभा अभीत्यादिवरचैवाष्टबाहुप्रकीर्तिताः इति ध्यात्वा ॐ पं तीक्ष्णाकलायै नमः । ॐ फं रौद्राकलायै नमः । ॐ बां भद्राकलायै नमः । ॐ भं निद्राकलायै नमः । ॐ मं तन्द्राकलायै नमः । ॐ यं क्षुधाकलायै नमः । ॐ रं क्रोधिनी कलायै नमः । ॐ लं क्रियाकलायै नमः । ॐ वं उल्कारी कलायै नमः । ॐ शं मृत्युकलायै नमः । एतादृशवर्गकलाः रुद्रेण मायया उत्पन्ना शरच्चन्द्रनिभप्रभाः उद्वहन्त्योभयंशूलङ्कपालम्बाहुभिर्वरं इति ध्यात्वा ॐ षं पिताकलायै नमः ॐ सं श्वेताकलायै नमः । ॐ हं अरुणाकलायै नमः । ॐ लं असिताकलायै नमः । ॐ क्षं अनन्ताकलायै नमः । इत्येताषक्षवर्गकला ईश्वरेणोदिताः बिन्दोर्जपाकुसुमसान्निभाः अभयं हरिणण्टङ्कन्दधानां बाहुभिर्वरं इति ध्यात्वा इति पञ्चाशदाख्याताः कलाः सर्वसमृद्धिदाः मोक्षार्थी च सदा कुर्याद्देव्याऽऽत्मसमाप्नुयात् । इति तारोत्थकलामातृकान्यासः । ॐ अस्य श्रीकण्ठपूर्णोदयादिन्यासस्य दक्षिणामूर्तिः ऋषिः । गायत्री छन्दः । अर्धनारीश्वरो देवता । हलो बीजानि स्वराः शक्तयः । अव्यक्तकीलकं श्रीलक्ष्मीनृसिंहाराधनाङ्गत्वेज्ञानसिध्यर्थ जपे विनियोगः । दक्षिणामूर्ति ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । अर्धनारीश्वरोदेवतायै नमो ह्रदि । हलो बीजाय गुह्ये । स्वराशक्तये नमः पादयोः । अव्यक्तकीलकाय नमः सर्वाङ्गे । हृत्स्थां अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां स्वाहा । ह्रूं मध्यमाभ्यां वषट् । ह्रैं अनामिकाभ्यां नमः । हुं ह्रौं कनिष्ठिकाभ्यां वौषट् । ह्रः करतलकरपृष्ठाभ्यां नमः फट् ॥
एवं हृदयादि अथ ध्यानम् । वधुककाञ्चननिभरुचिराक्षमालां पाशाङ्कुशौच वरदं निजबाहु दण्डौ । बिभ्राणमिन्दुसकलाभरणत्रिनेत्रा अर्द्धाविके शमनिशं वपुराश्रयामि । इति ध्यात्वा मानसैरूपचारैः पूजयित्वा न्यसेत् । ह्रौं अं श्रीकण्ठेश पूर्णोदरीभ्यां नमः ललाटे स्थानमुद्रा रक्तपूर्ववत् ह्रौं अं अनन्तेशविरजाभ्यां नमः । ह्रौं सूक्ष्मेशशाल्मलीभ्यां नमः । ह्रौं ईं त्रिमूर्तिशलोलक्ष्मीभ्यां नमः । ह्रौं ॐ अमरेशवर्तुलाक्षीभ्यां नमः । ह्रौं ॐ अर्घोशदीर्घाघोणाभ्यां नमः । ह्रौं कृं भारभूतीशदीर्घमुखीभ्याम् । ह्रौं ऋं अतीथीश गौमुखीभ्यां नमः । ह्रौं ऌं हरेशकुण्डोदरोभ्यां नमः । ह्रौं ऐं भौतिकेशविकृतिमुखीभ्यां नमः । ह्रौं ओषध्योजातेश ज्वालामुखीभ्याम् । ह्रौं औं अनुग्रहेश ऊर्ध्वकेशोमुखीभ्याम् । ह्रौं अं अक्रूरेशश्रीमुखीभ्याम् । ह्रौं अ महासेनेश विद्यामुखीभ्याम् । ह्रौं कङ्क्रोधीशमहाकालीभ्यां नमः । ह्रौं खं चण्डेशमरस्वतीभ्याम् । ह्रौं गं पञ्चान्तकेश सर्वसिद्धिगौरीभ्याम् । ह्रौं हरि घं शिवोत्तमेश त्रैलोकविद्याभ्याम् । ह्रौं डं एकरुद्रेशमन्त्र शक्तिभ्यां नमः । ह्रौं चं कूर्मेश आत्मशक्तिभ्याम् । ह्रौं एकनेत्रेशभूतमातृकाभ्याम् । ह्रौं जं चतुराननेशलम्बोदरीभ्याम् । ह्रौं ॐ अजेशद्राविणीभ्याम् । ह्रौं ञं सर्वेशनागरीभ्याम् । ह्रौं टं सोमेशं च खेचरीभ्यांओ । ह्रौं ठं लाङ्गलीशं मञ्जरीभ्याम् । ह्रौं डं दारुकेशरूपिणीभ्यां नमः । ह्रौं ठं अर्धनारीश्वरेश वीरिणीभ्यां नमः । ह्रौं णं उमाकान्तेश काकोदरीभ्यां नमः । ह्रौं तं आषाढीश पूतनाभ्यां नमः । ह्रौं थं दण्डीश भद्रकालीभ्यां नमः । ह्रौं दं अत्रीश योगिनीभ्यांओ । ह्रौं धं मीनेश शङ्खिनीभ्यां नमः । ह्रौं नं मेषेश गर्जनीभ्यां नमः । ह्रौं पं लोहिकेश कालरात्रिभ्यां नमः । ह्रौं फं शिखीश कुब्जाम्बिकाभ्यां नमः । ह्रौं वं छगलण्डेश कपर्दिनीभ्यां नमः । ह्रौं भं द्विरण्डेशवज्रिणीभ्यां नमः । ह्रौं मं महेशकालेशजयाभ्यां नमः । ह्रौं यं वालीश सुमुखीभ्यां नमः । ह्रौं रं भुजङ्गेश रेवतोभ्यां नमः । ह्रौं लं पिनाकीश माधवीभ्यां नमः । ह्रौं वं खङ्गीशवायवीभ्यां नमः । ह्रौं शं वक्रेश वारुणीभ्यां नमः । ह्रौं षं श्वेतेश रक्षोविदारिणीभ्यां नमः । ह्रौं सं भृग्वाशसरुजाभ्यां नमः । ह्रौं हं नकुलीशलक्ष्मीभ्यां नमः । ह्रौं लं शिवेशव्यापिनीभ्यां नमः । ह्रौं क्षं संवर्तकेश महामायाभ्यां नमः । इति श्रीकण्ठन्यासः ॥
अथ केशवादिर्न्यासः । ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीलक्ष्मीनारायणो देवता । क्लीं बीजं श्रीं शक्तिः । अच्युतस्वरूपप्राप्तये विनियोगः । ब्रह्मा ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । श्रीलक्ष्मीनारायणदेवतायै नमो हृदि । क्लीं बीजाय नमो गुह्ये । श्री शक्तये नमः पादयोः । ह्रीं कीलकाय नमः सर्वाङ्गे । क्लीं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां स्वाहा । क्लूं मध्यमाभ्यां नमः वषट् । क्लै अनामिकाभ्यां हुम् । क्लौं कनिष्ठिकाभ्यां वौषट् । क्लः करतलकरपृष्ठाभ्यां पट् । एवं हृदादि ॥
अथ ध्यानम् । उद्यदादित्यसङ्काशं तप्तजाम्बूनदप्रभं कमलावसुधाशोभिपार्श्व द्वन्द्व परात्परं विचित्र रत्नविहितं नानालङ्कारभूषितं पीतवस्त्रपरिधानं शङ्खकौमोदकीकरं वामतश्चक्रप च ध्यात्वैवं पार्श्वयोस्ततः शरचापेशसृणीधारयन्तं भुजैस्ततः । एवं ध्यात्वा मानसैरूपचारैः अभ्यर्च्यन्यसेत् । क्लीं अं केशवकीर्तिभ्यां नमः ललाटे स्थानमुद्रास्तुपूर्ववत् क्लीं आं नारायणायशान्तीभ्यां नमः । क्लीं इं माधव तुष्टीभ्यां नमः । क्लीं ईं गोविन्दपुष्टीभ्यां नमः । क्लीं उं विष्णुधृतीभ्यां नमः । क्लीं ओं मधुसूदनशान्तीभ्यां नमः । क्लीं ऌं हृषीकेशहर्षाभ्यां नमः । क्लीं ऐं पद्मनाभश्रद्धाभ्यां नमः । क्लीं ऐं दामोदरलज्जाभ्यां नमः । क्लीं ओं वासुदेवलक्ष्मीभ्यां नमः । क्लीं एं सङ्कर्षणसरस्वतीभ्यां नमः । क्लीं अं प्रद्युम्न प्रीतिभ्यां नमः । क्लीं अः अनिरुद्धसरतिभ्यां नमः । क्लीं कञ्चक्रिजयाभ्यां नमः । क्लीं खं गदिनेदुर्गाभ्यां नमः । क्लीं गं शार्ङ्गिणे प्रभाभ्यां नमः । क्लीं ऋं त्रिविक्रमक्रियाभ्यां नमः । क्लीं ॠं वामनपादाभ्यां नमः । क्लीं ऌं श्रीधरमेघाभ्यां नमः । क्लीं घं खड्गिसत्याभ्यां नमः । क्लीं डं शिखिचाण्डिकाभ्यां नमः । क्लीं चं हलिविजयाभ्यां नमः । क्लीं छं मुसलीविलासिनीभ्यां नमः । क्लीं जं शूलीविजयाभ्यां नमः । क्लीं ऊं पाशिनेविरजाभ्यां नमः । क्लीं ञं अङ्कुशिविश्वाभ्यां नमः । क्लीं टं मुकुन्दविनदाभ्यां नमः । क्लीं ठं नन्दसुनन्दनाभ्यां नमः । क्लीं डं नन्दिस्मृतिभ्यां नमः । क्लीं ढं नरवृद्धीभ्यां नमः । क्लीं षां नरक जित्समृद्धीभ्यां नमः । क्लीं तं हरशुद्धीभ्यां नमः । क्लीं थं कुष्टाबुद्धीभ्यां नमः । क्लीं दं सत्यभुक्तीभ्यां नमः । क्लीं धं सात्वतमतीभ्यां नमः । क्लीं नं शौरी क्षमाभ्यां नमः । क्लीं पं शूरापरमाभ्यां नमः । क्लीं फं सत्यभुक्तीभ्यां नमः । क्लीं बं भूधरक्लेदिनीभ्यां नमः । क्लीं भं विश्वमूर्तित्रिनेत्राभ्यां नमः । क्लीं मं वैकुण्ठ वसुदाभ्यां नमः । क्लीं यं त्वगात्मकपुरुषोत्तमवसुधाभ्यां नमः । क्लीं रं असृगात्मकवलयेपराभ्यां नमः । क्लीं लं मांसात्मक वलानुजपरायणाभ्यां नमः । क्लीं वं मेदात्मकबीजसूक्ष्मीभ्यां नमः । क्लीं शं अस्थ्यात्मकवृषघ्नंसन्ध्याभ्यां नमः । क्लीं षं मज्जात्मक वृषप्रज्ञाभ्यां नमः । क्लीं सं शुक्रात्पकहंसप्रभाय नमः । क्लीं हं प्राणात्पत्मक वराहनिसाध्या नमः । क्लीं ल्लञ्जीवात्मक विमलामोघाभ्यां नमः । क्लीं श्रं कोपात्मक नृसिंहविदारिताभ्यां नमः । केशवादिरथन्न्यासोन्यासमात्रेण देहिनी अच्युतत्वन्ददात्येवसत्यं सत्यं न संशयः ॥
मुमुक्षव्ययतय्चरेयुर्व्यासमुत्तमं शक्तिकमलामारैस्तयैकैकशः न्यासाः तेचतुष्ट्यः ग्रन्थगौरवभयात् अस्माभिर्न लिख्यते शुद्धोविन्द विसर्गयूत्वथकलायुक्तेशवादिस्तथा श्रीकण्ठादियुत्शक्तिकमलामोरे स्तथैकैकशः न्यासास्तेदशधापृनिगदितास्युर्ब्रह्म योगान्तिकाः सर्व साधनासिद्धिसाधनविधौ सङ्कल्प कल्पद्रुमाः । अथ प्रपञ्चयागमातृकाकन्यासः तद्यथा ॐ ह्रीं हंसः सोहं स्वाहा इति परमात्माष्टाक्षरमन्त्रस्य ब्रह्मा ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । सच्चिदानन्द ज्योतिरात्मास्वरूपिणी मातृका सरस्वती देवतायै नमो हृदि स्वाहा । अङ्गुष्ठाभ्यां नमः । सोहं तर्जनीभ्यां स्वाहा हंसः मध्यमाभ्यां वषट् । ह्रीं अनामिकाभ्यां हुम् ॥
कनिष्ठिकाभ्यां वौषट् । हरिहराय करतलकरपृष्ठाभ्यां फट् । एवं हृदादि । अथ ध्यानम् । तारादि पञ्च मनुभिः परिचीयमानं मानैरगम्यमनिशं जगदेकमूलं संवित्समस्तममरेश्वरमच्युतं ते तेजः अतिसान्द्रसुधाम्बुराशिं इति सकल प्रपञ्चातिरिक्तः ध्यानं सर्वसाक्षीसच्चिदानन्दरूपोऽहमित्यात्मानं ध्यात्वा श्रीमत्लक्ष्मीनृसिंहात्माग्नौ तत्स्थानयुताद्वर्णान् जुहोमीतिबुद्ध्या प्रपञ्चन्याससृष्टिक्रमेण न्यसेत् अं ॐ ह्रीं हंसत्सोहंस्वाहा नमो ललाटे स्थानमुद्रास्तु पूर्ववत् आ ॐ नमः मुखावृत्ते इत्यादि क्षं ॐ ह्रीं हंसः सोहं स्वाहा हृदावादिमुखपर्यन्तं करतलेन इति सृष्टिक्रमः एवं वर्णमयं होमं कृत्वा दिव्यतनुवरः प्रजपेत् सकलान्मन्त्रान् ततः सिद्धिमवाप्नुयान् इतिप्रपञ्चयाग न्यासः । न्यस्यमन्त्री यथाल्पासन्देहे विश्वस्य मातरं जपेन्मन्त्रान् भजे देवान् यजेदाग्निमनन्यधीः देवोभूत्वाजपेदेवन्नादेवमर्च्चयेदुधः इति प्राह श्रुतिः इतिकृत्तधीः कृतो भवति ध्रुवम् । अथमूलमन्त्रन्यासः ॐ अस्य श्रीलक्ष्मीनृसिंहमन्त्रस्य अत्रीनारदब्रह्माऋषिः । गायत्री छन्दः । श्रीलक्ष्मीनृसिंहोदेवता । क्षौं बीजं ह्रीं शक्तिः श्रीं कीलकं ममधर्मार्थकाममोक्षार्थेन्यासे विनियोगः । अत्रीनारदब्रह्माऋषये नमः शिरसि । गायत्री छन्दसे नमः मुखे । श्रीलक्ष्मीनृसिंहोदेवतायै नमः हृदि । क्षौं बीजाय नमः गुह्ये ह्रीं शक्तये नमः पादयोः । श्रीं कीलकाय नमः सर्वाङ्गे इतिरमादिन्यासः अथ करषडङ्गन्यासः । क्षां अङ्गुष्ठाभ्यां नमः । क्षीं तर्जनीभ्यां नमः । क्षूं मध्यमाभ्यां नमः । क्षैं अनामिकाभ्यां नमः । क्षौं कनिष्ठकाभ्यां नमः । क्षः करतलकरलपृष्ठाभ्यां नमः । क्षां हृदयाय नमः । क्षीं शिरसि स्वाहा । क्षूं शिखायै वषट् । क्षैं कवचाय हुम् । यै क्षौं नेत्रत्रयाय वौषट् । क्षः अस्त्राय फट् । इति एकाक्षर षडङ्गन्यासः ॥
अथ बीजन्यासः । ॐ क्षौं ह्रीं श्रीं क्लीं ह्यौं हाः अङ्गुष्ठाभ्यां नमः हृदि । ॐ क्षौं ह्रीं श्रीं क्लीं हाः तर्जनीभ्यां नमः शिरसे । स्वाहा । ॐ क्षौं ह्रीं श्रीं क्लीं ह्रौं मध्यमाभ्यां नमः शिखायै वषट् । ॐ क्षौं ह्रीं श्रीं क्लीं ह्रौं अनामिकाभ्यां नमः । कवचाय हुम् । ॐ क्षौं ह्रीं श्रीं क्लीं ह्रौं हः कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वषट् । ॐ क्षौं ह्रीं श्रीं क्लीं ह्रौ हः करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । इति बीजन्यासः ॥
अथ अक्षरन्यासः । ओङ्कारं मूर्ध्नि क्ष्रौङ्कारं ललाटे । हीङ्कारं मुखे । श्रीङ्कारन्नेत्रत्रयोः । क्लीं कारं कर्णयोः । हौं करंसङ्खयोः हःकारं चिबुके । सप्तबीजानिसान्यासग्रे । श्रीङ्कारं कण्ठे । लकारंस्कन्धयोः । क्ष्मीकारं ककूदि । सकारंस्तनयो हिकारंहृदि । तकारं जठरे । यकारं नाभौ । नं कारं पार्श्वयोः सिङ्कारं पृष्ठे । हाकारं गुह्ये । यकारं लिङ्गदेशे । हःकारं गुदे । ह्रौं उरुमूले क्लीं कारञ्जङ्घयोः । श्रीङ्कारं गुट्योः । ह्रीं कारं फीचयोः । क्ष्रौंकारङ्गुल्फयो । ओङ्कारं पादाग्रे । श्रीनरहराय नमः सर्वाङ्गे । इति अक्षरन्यासः । अथ पदन्यासः । ॐ क्षौं ह्रीं श्रीं क्लीं ह्रौं हः ललाटे । श्रीलक्ष्मीसहितायनृसिंहाय हृदि । हः क्षौं क्लीं श्रीं ह्रीं क्ष्रौं ॐ श्रीनरहराय नमो गुह्ये । इति पदन्यासः । अथ शृङ्खलान्यासः आद्यपदम्मूर्ध्नि अन्तपद पदं मुखे मध्यपदं ललाटे ॥
आद्यपदं ललाटे । अन्तपदं कण्ठे । मध्यपदं मुखे । आद्यपदं कण्ठे आद्यपदमन्तपदन्नाभौ मध्यपदंहृदि । आद्यपदं हृदि । मध्यपदं गुह्ये । अन्तपदं नाभौ । आद्यपदं नाभौ । अन्तपदं गुह्ये । मध्यमपदं पादयोः । आद्यपदं पादयोः । अन्तपनाभौ । मध्यपदङ्गुह्ये । आद्यपदं गुह्ये अन्तपदं हृदि । मध्यपदं नाभौ । आद्यपदं नाभौ । मध्यपदं हृदि । अन्तपदं कण्ठे । आद्य पदं कण्ठे । अन्तपदं ललाटे । मध्यपदं मुखे । आद्यपदं मुखे । मध्यपदं ललाटे । अन्तपदं मूर्ध्नि इति शृङ्खलान्यासः । अथमूलेन सप्तवारं शरीरं व्यापकं कुर्यात् । अथ पीठन्यासं कृत्वा ततो अंशद्वयोपकल्पित पादचतुष्ट्यं मुखनाभिपार्श्वद्वयमयोपकल्पित गात्रकं पीठरूपं निजदेहं ध्यात्वा तत्र न्यसे । मं मण्डूकाय नमः मूलाधारे काङ्कालाग्निरुद्राय नमः । स्वाधिष्ठाने पम्प्रकृत्यै नाभौ आं आधारशक्तौ कुङ्कूर्माय नमः ॥
अं अनन्ताय नमः । वं वराहाय नमः । पं पृथिव्यै नमः । सुं सुधासिङ्घवे नमः । रं रक्तद्वीपाय नमः । कं कल्पकोर्द्यनाय नमः । चिं चिन्तामणिमण्डपाय नमः । श्वें श्वतछत्राय नमः । रं रन्नवेदिकाय नमः । इति हृदि न्यसेत् । धं धर्माय नमः वामांसे ज्ञां ज्ञानाय नमः दक्षांसे नमः वै वैराग्याय नमः वामोरौ ऐं ऐश्वर्याय नमः दक्षोरौ अं अधर्माय नमः मुखे अं अज्ञाग्नाय वामपार्श्वे अं अवैराग्याय नमः नाभौ अं अनैश्वर्याय नमः दक्षपार्श्वे ततो मध्ये आं आनन्दकन्दाय नमः । संसञ्चित्रालयाय पं प्रकृतमयपत्रेभ्यो नमः षंषोडशविकारमयकेशरेभ्यो नमः पञ्चाशद्वर्णबीजाद्यकर्णिकायै नमः , अन्द्वादशवालात्मने व्याप्तात्मने अर्कमण्डलाय नमः ॐ षोडशकलाव्याप्तात्मने सोममण्डलाय नमः मन्दशकलाव्याप्तात्मने वह्निमण्डलाय नमः सं सत्वाय । रं रजसे । तं तमसे । आं आत्मने । अं अन्तरात्मने नमः पं परमात्मने नमः न्हीं ज्ञानात्मने नमः आं आत्मतत्त्वाय विं विद्यातत्त्वाय नमः कं कलातत्त्वाय नमः मां मायातत्त्वाय नमः ब्रह्मणे नमः विष्णवे नमः रुद्राय नमः ईश्वराय नमः इति चतुः कोपोषुमध्ये सदाशिवाय नमः । केशरेषु इच्छायै नमः । ज्ञानायै नमः क्रियायै नमः कामदायिन्यै नमः रत्यै नमः रति प्रियायै नमः नन्दायै नमः मध्येमनोन्मन्यै नमः । त्रिकोणात्मन्यै नमः । त्रिकोणेषु ऐम्परायै नमः ऐं अपरायै नमः ऐं परापरायै नमः मध्येसौंसदाशिवमहाश्वेत पद्मासनाय नमः । इति न्यासः ॥
आदौ पीठं समभ्यर्च्य समस्तपीठदेवता विनापीठेनचेत्पूजा विफला भवति प्रिये अथान्तगविधिः प्रातः स्मरणोक्तप्रकारेण मूलाधारात्कुण्डलिनीमुत्थाप्य ब्रह्मरन्ध्रं नीत्वा परमानन्दं नीत्वा परमानन्दनिर्भरो भूत्वा तत्तेजसा परिणतान्तरात्मनिकराञ्जलौ पुष्पाणि गृहीत्वा देवं ध्यायेद्यथा उद्यद्भानुसहस्रकान्तिमरुणक्षौमांशिरोमालिकां रक्तालिप्तपयोधराञ्जपवटी विद्यामभीतिवरं हस्ताब्जैर्दधतीं त्रिनेत्र विलसत् वक्त्रारविन्दाश्रियं देवं बद्ध हिम्माशुरत्नमुकुटां वन्दे समन्दस्मिताम् ॥
एवं ध्यात्वा हृत्स्थां यन्त्रे पुष्पाञ्जलि निक्षिप्य मनसा आवाहनादि आयुधान्तामुद्राः प्रदर्श्यवाह्येओक्त प्रकारेण मूलेन मूर्ति सम्पूज्य षडङ्गानि सम्पूज्य आवरणदेवतां पूजयित्वा पश्चाद्गन्धपुष्पधूपदीपनैवेद्या ताम्बूलयथोक्तमानसोपचारैरभ्यर्च्य पश्चान्मातृकामालया अष्टोत्तरशतं प्रजप्य गुह्येति मन्त्रेण समर्प्य अथ होमतन्त्रमूलाधारेष्वात्मा अन्तरात्मापरमात्मा ज्ञानात्मेति चतुरष्टात्मकङ्कुण्डं विधाय तन्मध्ये जुहुयात् चिद् हौं विचिन्त्य तद्यथा धर्माधर्मविर्दीप्ते आत्माग्नौ मनसाकृत्वा सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहं स्वाहेति पञ्चाहुति हुत्वा पश्चात्तत्रैव मावथवीं देवीं ध्यात्वा षडङ्गमन्त्र षडाहुतिं हुत्वा ऐं हृदयाय नमः । हृदयदेवं स्वाहा ॥
एवं क्रमेण पश्चान्मूलं स्वाहा तैः पञ्चविंशाधाजुहुयात् पश्चात् पूर्णाहुतिं जुहुथा यथा प्रकाशाकाशहस्ताभ्यां अवलम्ब्योन्मनी श्रुत धर्माधर्मकलास्नेहपूर्णमग्नि जुहोम्यहं स्वाहेति तत्तेजः कोटीसूर्य प्रतीकाशं चन्द्रकोटिसमप्रभं विद्युत्कोटिसमाभासं मूलादिब्रह्मरन्ध्रेतं एकाकारेण भावयेत् । नित्यशुद्धबुद्धमुक्त सत्यस्वभावे निर्गुणं निरवयवं सर्वगतं अवस्थात्रय विनिर्मुक्तं असङ्गं सच्चिदानन्दाद्वयन्त ब्रह्माहस्मीति अभेदेनावस्थानं समाधि । एवं सञ्चिन्त्यकृतकृत्यो भवेत् । इति प्रातः कृत्यादिमानसीपूजान्तं कर्म समाप्य मानसं पूजनं जाप्यं मानसं होमतर्पणम् । याचनं अभिषेकं च मन्त्रिणां यतीनां फलदं महत् । इत्यन्तर्यागः ॥
अथ बाह्यपूजा पशुजनवर्ज्यस्थाने कुर्यात् । जपस्थानं पूजास्थानं माला पुस्तकदर्शनं स्वभक्तेषु महेशनिदर्शनं चैव कारयेत् । अथ पूजापीठनिर्णयं योगिनीतन्त्रे लिङ्गस्थां पूजयेत् देवं पुस्तकस्थां तथैव च मण्डलस्थां महामायां मन्त्रस्थां प्रतिमा सु च जलस्थां वा शिलायां वा पूजयेत्परमेश्वरीं इति पीठनिर्णयः । तत्रद्यु सृणादिलिप्ते सुवर्णादि पात्रे स्फटिके रक्तचन्दनपीठे सिन्दूरवेदिकायां वा सुवर्णादिशलाकया चक्रमुल्लिखेत् । सिद्धं वा पातालरेखं गगनरेखं भूतस्थं कूर्म पृष्ठं च मेस्तं वा तत्र यन्त्रनिर्माणं उक्तशारदायां पद्ममष्टदलोपेतं षट्कोणं च त्रिकोणकं कलापत्रेन संयुक्तं द्वात्रिंशद्दलकर्णिकां चतुर्द्धार समायुक्तं त्रिरेखाभिः समान्वितं भूग्रहं विलिखेत्तत्र एवं पीठं मनोहरं पुरोवृत्तीपीठे निधाय ॐ क्ष्रौं ह्रीं श्रीं क्लीं हं सं खं फ्रें ह्रौं हः इति मन्त्रेण बिन्दुचक्रे मूर्ति सञ्चित्य वस्त्रेणाछाद्य अथ पात्रस्थापनं कुर्याद्यथा साध्यसाधकयोर्मध्ये षट् त्रिशदङ्गुलं भवेत् द्वादशाङ्गुलमूर्ध्वे च अधोभागे षडङ्गुलं द्वादशाङ्गुल मध्यं तु तत्र संस्थापयेदुधः । तत्र सौवर्णं राजतं ताम्रं महाशङ्खं नालिकेर अब्जकाच सम्भवं वा पात्रं संस्थापयेद्बधः ततोद्वारपूजोक्त स्ववामे सामान्यार्ध्यं संस्थाप्य स्वदक्षभागे तथैव प्रोक्षणीपात्रं संस्थाप्य तेज जले गन्धाक्षतपुष्पाणि सम्प्रोक्ष्य वमितिधेनुद्रयामृतीकृत्य इति सामान्यसंस्कारः ॥
सामान्यार्घ्यस्योर्धृभागे कलशं स्थापयेद्यथा यक्षकर्दमादिगन्धमिश्रितजलेन भूमि विलिप्य यक्षकर्दमे यथा कुङ्कुमागुरुकस्तुरी कर्पूरं चन्दनं तथा महासुगन्धमित्युक्तं नामतो यक्षकर्दमः तत्र मत्स्यमुद्रया षट्कोणान्तर्गतं बिन्दु विलिख्य बाह्येवृत्तं चतुरस्त्रं च कृत्वा सामान्यार्य्योदकेनाप्रोक्ष्य ही आधारशक्तिभ्यो नमः । इति गन्धपुष्पाभ्यां सम्पूज्य नमः इत्याधारं प्रक्षाल्य मण्डले निधाय मन्दशकलाव्याप्तात्मने वाह्निमण्डलाय नमः इति गन्धपुष्पाभ्यां सम्पूज्य फडिति घटं प्रक्षाल्य रक्तवस्त्रमाल्यादिना भूषयित्वा ॐ मितिमन्त्रेण त्रिपदिकोपरिदेवबुद्ध्याधारे संस्थाप्य अन्द्वादशकलाव्याप्तात्मने सूर्यमण्डलाय नमः इति घटं सम्पूज्य मूलंविलोममातृकामुच्चार्य कलशकारणेन सम्पूर्ण्य तत्र चन्दनादि निक्षिप्य ॐ षोडशकलाव्याप्तात्मने सोममण्डलाय नमः इति गन्धपुष्पाभ्यां सम्पूज्य अस्त्रेण संरक्ष्य हुंइत्यवगुण्ठ्य मूलेनवीक्ष्यतेनैवाभ्युक्ष्य तारेण पुष्पादिना सम्पूज्य देवतात्माकं विभाव्य ततो शापमोचनं कुर्याद्यथा कलशोपटिहस्तं दत्वा मन्त्राणि पठेत् ॐ सां सीं सूं सैं सौं सः शुक्रशापविमोचितायै सुरादेव्यै इति द्वादशाधा जपेत् । ॐ वां वीं वूं वैं वौं वः ब्रह्मशापविमोचिकायै सुरदिव्यै नमः इति १० ॐ ह्रीं श्रीं क्रां क्रीं क्रूं क्रैं क्रौं क्रः सुधावृष्टाशापविमोचय अमृतं स्रावयर स्रावयर स्वाहा इति १० एकमेव परम्ब्रह्म स्थूलसूक्ष्ममयं ध्रुवं कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहं इत्यनेन ब्रह्मशापादिमोचयसूर्यमण्डलसम्भूते वरुणालयसम्भवे अमाम्बीजमये देव शुक्रशापाद्विमुच्यतां इति शुक्रशापविमुक्तिः ॥
वेदानां प्रणवो बीजं ब्रह्मानन्दमयी यदि तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु । पावमानः परानन्दः । पावमानं परोरसः । पावमानः परंज्ञानं तेन ते पावयाम्यहं ततो कलशे आनन्दभैरवाय नमः इति आनन्दभैरवीं ध्यायेद्यथा सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलं अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनं अमृतार्णवमध्यस्थं ब्रह्मपरिस्थितं वृषारूढं नीलकण्ठं सर्वाभरणभूषितं कपालखव्टाङ्गधरं घण्टाडमरुवादिनं पाशाङ्कुशधरं देवं गदामुसलधारिणं खड्गखेटकपद्दशम्मुद्गरं शूलदण्डकं विचित्रखेटकम्मुण्डं वरदाभयपाणिनं लोहितं देवदेवेशं भावयेत्साधकोत्तमः एवं ध्यात्वा हसक्षमलवरयूं आनन्दभैरवाय वषट् इत्यानन्द भैरवं त्रिः सम्पूज्य भावयेच्च सुरान्देवीं चन्द्रकोटियुतप्रभां हेमकुन्देन्दुधवलाम्पञ्चवक्त्रां त्रिलोचनां अष्टादशभुजैर्युक्तां पाशाङ्कुश करोद्यतां प्रहसती विशालाक्षी देवदेवस्य सत्सखीं एवं ध्यात्वा सहक्षमल वरयीं सुधादेव्यै वौषट् इत्यानन्दभैरवीं त्रिः सम्पूज्य ततो द्रव्यमध्ये त्रिकोणं विलिख्य पश्चिमरेखामारभ्य अं आं इत्यादि उत्तरकोणपर्यन्तं अ अं इत्यादिपर्यन्तं तत्कोणमारभ्य अग्रकोणपर्यन्तं कं खं इत्यादिपर्यन्तं तत्कोणमारभ्य दक्षिणकोणपर्यन्तं थं दं इत्यादिसान्तं हं क्षं मध्ये आदिताव कं वर्णमण्डलं खण्डसिद्धिदं अन्तरुपत्र सितह क्षरन्नलपतिपरावः कथाशिवे पश्चात्पूलाधारा कुण्डलिनीमुत्थाप्य शिवेन संयोज्य तरुद्ग लितामृतधारां वहनीनासापुटेन द्रव्यमध्ये पतितां विभाव्य गङ्गेचेति मन्त्रेण सूर्यमण्डलात्तीर्थान्यावाह्य एवमितिधेनुमुद्रयामृतीकृत्य आत्ममुद्रयाछाद्य हुम्मित्यवगुण्ठ्य चक्रेण संरक्ष्यास्त्रेणछोटिभिर्दिग्बन्धनं कुर्यात् ॥
अथ कलश ध्यानम् । देवदानवसंवादे मध्यमाने महोदधौ उत्पन्नोऽसि महाकुम्भ विष्णुनाविधृतकरे त्वत्तोये सर्वदेवा स्युः सर्वे वेदाः समाश्रिताः त्वयि तिष्ठान्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः शिवस्त्वप्रसिचाङ्गस्त्वं विष्णुस्त्वं च प्रजापतिः आदित्याद्याग्रहाः सर्वे विश्वेदेवाः सपैतृकाः त्वयि तिष्ठन्तु कलशे यतः कामफलप्रदाः त्वत्प्रसादादिमयं यज्ञं कर्तुमिहजलोद्भवं त्वदालोकनमात्रेण भुक्तिमुक्तिफलप्रदं सान्निध्यं कुरु भो कुम्भ प्रसन्नो भव सर्वदा । इति कलशध्यानम् ॥
कल इति कलशध्यानं कलशे प्राणप्रतिष्ठां कुर्याद्यथा तस्य मस्तकोपरि लेलिहामुद्रया करं दत्वा मन्त्रं पठेत् ॐ आं ह्रीं क्रों हंसः सोहं श्रीलक्ष्मीनृसिंहराय अस्मिनाधारसहितकलशे अग्निसूर्यसोमकलानां प्राण इह प्राणाः ३४ जीव इहस्थितः ३४ सर्वेद्रियाणि३४ वाङ्मनत्वक्चक्षुर्जिह्वा श्रोत्रप्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा इति प्राप्रतिष्टागन्धदिभिः कलशं सम्पूज्य हंसः शुचिषत्वसुरं तरिक्षसद्धोता वेदिषत् अतिथिर्दुरोपासत् नृषद्धरसदृत्सह्योमसदब्जा गोजाऋतजा आद्रिजाऋतम्बृहत् इति ऋचान्तस्योपरि त्रिः सञ्जप्य ततश्चतुर्दिक्षु च मध्ये पूर्वोक्तं गगनरत्नाय नमः । दक्षिणे स्लूं स्वर्गरत्नाय नमः । पश्चिमे ह्युं पातालरत्नाय नमः । उत्तरे म्लं पल्यं रत्नाय नमः । मध्ये म्लं नागरत्नाय नमः ॥
इत्थं पञ्चरत्नानि सम्पूज्य पञ्चमुद्रया नमस्कृत्य इति कलशस्थापनं एतास्मिन्मये देवंहितायादीनां शोधनं यथा यं९ मितिशोषणं २९ मिति दाहनं वं९ मिति अमृतेन प्लावनं वमिति अमृतेन प्लावन वमितिधेनुमुद्रयामृतीकृत्य मूलंइकवचे नावगुण्ठ्य अस्त्रेणसंरक्ष्य एवं संस्कारं द्वितीयाचतुर्थीनां साधारणतया बोद्धव्यः क्रमेणऋचं यजेत् । ॐ प्रतिदिक्षु स्रवतो वीर्येण मृगोन भीमकुचरोगरिष्टाः यस्योरुषु त्रिषुविक्रमणेवधक्षियान्ति भुवनानि विश्वाः अनेन शुद्धेशुद्धि । अथ तृतीय शोधनं ॐ त्र्यम्बकं यजामहे सुङ्गधि पुष्टिवर्धनं ऊर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् । अथ चतुर्थी शोधनं ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीवचक्षु एतं तं तद्धि प्राशोन्त्यवो जाग्नीवांसः समिधते विष्णोर्यत्परमं पदं मूलेन किञ्चित्शुद्धि कलशे निक्षिप्य कुम्भसमीपे चन्दन रक्त चन्दन सिन्दूर कुङ्कुमैकत्रमेलनेन त्रिकोणवृत्तचतुरस्रं विलिख्य तत्र सर्व पथिकदेवेभ्यो नमः गन्धपुष्पाभ्यां सम्पूज्य तदुपरि तीर्थभक्तशुद्धिमानमुद्रान्वितं बलिं निघाय तत्त्वमुद्रया तं बलिमुत्सृज्य ह्रीं श्रीं सर्वपथिक देवेभ्यो नमः इति मन्त्रेण बलिं दद्यात् । तं बलिं वामपाणिना उत्तुल्य मूलमुच्चरन् कलशोपरि त्रिधा भ्राम्य पूजाबाह्ये निक्षिपेत् इति कलशस्थापनम् ॥
अथ विशेषार्घ्यं तत आत्मचक्रयोर्मध्ये उक्त कर्दमेन मत्स्यमुद्रया त्रिकोणषट्कोणवृत्तचतुरस्त्रम्मण्डलं विधाय मध्येमायां विलिख्य चतुरस्रकोणेषु प्रादक्षिण्ये न पीठ चतुष्टष्टयं पूजयेद्यथा आग्न्यादिकोणमारभ्य ईशानकोणपर्यन्तं ॐ उड्डाण पीठाय नमः । जालन्धर पीठाय नमः । ॐ पूर्णगिरि पीठाय नमः । ॐ कामरूप पीठाय नमः । षट्कोणेषु षडङ्गानि सम्पूज्य त्रिकोणेषु मूलषडङ्गत्रयेण सम्पूज्य मध्ये ह्रीं आधारशक्तै नमः इति गन्धपुष्पाभ्यां सम्पूज्य नमः इत्याधारं प्राक्षाल्य मण्डले निधाय मन्दशकलाव्याप्तात्मने धर्मप्रद वह्नि मण्डलाय नमः । गन्धपुष्पाभ्यां सम्पूज्य गन्ध मिश्रिताक्षतेन तदुपरि प्रादक्षिण्येन कलां पूजयेद्यथा यं धूम्रार्चिषे नमः । रं उष्मायै नमः । लं ज्वालिन्यै नमः । वं ज्वालिन्यै नमः । शं विस्फुलिङ्गिन्यै नमः । षं सुश्रियै नमः । सं स्वरूपायै नमः । हं कपिलायै नमः । लं हव्यवाहायै नमः । क्षं कव्यवाहायै नमः । इति सम्पूज्य अस्त्रेण प्रक्षालितपात्रमण्डले निधाय अं द्वादशकलानामात्मने अर्थप्रदार्कमण्डलाय नमः । इति गन्धपुष्पाभ्यां सम्पूज्य परितः कलां पूजयेद्यथा कं भं तपिनिकलां पूजयामि नमः । खं वं नापिनीकलां पूजयामि नमः । गं फं धूम्राकलां पूजयामि नमः । घं पं मरीचीकलां पूजयामि नमः । डं नं ज्वलिनीकलां पूजयामि नमः । चं धं रुच्यैकलां पूजयामि नमः । छं दं सूक्ष्मीनाकलां पूजयामि नमः । जं थं भोगदाकलां पूजयामि नमः । ऊं तं विश्वाकलां पूजयामि नमः । अं णं वाधिनीकलां पूजयामि नमः । टं ठं धारिणीकलां पूजयामि नमः । ठं डं क्षमाकलां पूजयामि नमः इति सम्पूज्य ततः कलशस्थ द्रव्यं अन्यपात्रेणोधृत्य वामहस्तेन शुद्धिखण्डस्पर्शधारया मूलं विलोम मातृका पठन् अर्घ्यपात्रमापूर्य ततो न्हीं मिति बीजेनाङ्गुष्ठेन अनामिकाभ्यां गन्धमिश्रित पुष्पेण अर्घ्यस्थ जलमालोड्य ॐ षोडशकलाव्याप्तात्मने कामप्रद सोममण्डलाय नमः ॥
गन्धपुष्पाभ्यां सम्पूज्य परितः कला पूजयेद्यथा अं अमृतकलां पूजयामि नमः । आं मानदाकलां पूजयामि नमः । इं पूषाकलां पूजयामि नमः । ईं तुष्टौ कलां पूजयामि नमः । उं पुष्टौ कलां पूजयामि नमः । ऊं ऋत्येकलां पूजयामि नमः । ऋं धृत्यैकलां पूजयामि नमः । ॠं शशिनीकलां पूजयामि नमः । ऌं घण्टिकाकलां पूजयामि नमः । ॡं कान्त्यैकलां पूजयामि नमः । एं ज्योत्स्ना कलां पूजयामि नमः । ऐं श्रियैकलां पूजयामि नमः । ॐ प्रीती कलां पूजयामि नमः । औं अङ्गदाकलां पूजयामि नमः । अं पूर्णाकलां पूजयामि नमः । अः पूर्णामृताकलां पूजयामि नमः । इति सम्पूज्य तत्प्राध्येत्कुशेन त्रिकोणं षट्कोणं वृत्तचतुरस्त्रं कृत्वा ततः पूर्ववत् त्रिकोण त्रिरेखायां अं आं१४ कं४ चं४ ८४ तं४ पं४ यं७ एवं विलिख्य मध्ये हं क्षं मूलखण्डत्रये त्रिकोणं सम्पूज्य षट्कोणं षडङ्गानि सम्पूज्य चतुरस्त्रकोणेषु पूर्ववत् उजापुकानि सम्पूज्य ततो गङ्गेचेनिमन्त्रेणङ्कुश मुद्रया सूर्यमण्डलात्तीर्थान्यावाह्य पश्चादानन्दभैरवानन्द भैरव्यौ पूर्ववत् तत्तन्मन्त्रेण सम्पूज्य पुनः पूर्ववत् रत्नमन्त्रेण सम्पूज्य लूं गगनरत्नेभ्यो नमः । इत्यादि ततो विष्णुर्योनिं कल्पयतुत्वष्टारूपाणिपिसुतुः आसिञ्चतुः प्रजापतिर्धाता गर्भं दधातु ते ॥
गर्भं देहि सिनीवाली गर्भं देहि सरस्वती गर्भं ते ह्याश्विनौ देवावाधत्ताम्पुष्कर स्रजेति ल्लूं स्लूं ग्लूं ज्लूं स्वाहा अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं श्रावयर स्वाहा तस्योपरि सम्पठेत् हुम्मित्यवगुण्ठ्य वमितिधेनुमुद्रयामृतीकृत्य मत्स्यमुद्रयाछाद्य चक्रेणसंरक्ष्यास्त्रेण तालत्रयच्छोटिकाभिर्दिग्बन्धनं कृत्वा तदुपरिमूलमष्टधा सञ्जप्य प्राणप्रतिष्ठां कुर्याद्यथा ॐ आं ह्रीं क्रौं हंसः सोहं स्वाहा । श्रीलक्ष्मी नृसिंहाय विशेषार्घ्यस्य अस्मिन्नाधारसहित आग्निसूर्यसोमकलानां प्राण इह प्राणा एवं जीव सर्वोद्रियाणि वाङ्मनत्वक् चक्षुर्जिह्वाश्रोत्र घ्राणप्राण इहागत्य सुखं चिरं तिष्ठन्तु स्वाहेति प्राणप्रतिष्ठा१५ ॐ प्रजप्यपञ्चोपचारैः अयं सम्पूज्य पञ्चमुद्रया नमस्कृत्य ततः सामान्यविशेषार्घयोर्मध्ये गुरुपात्रं वीरपात्रं भागपात्रं योगिनीपात्रं शक्तिपात्रं मात्मपात्रं बलिपात्रं च सामान्यार्य्योक्त विधिना स्थापयेत् पाद्यार्चमन मधुपर्कपात्राणि च विशेषार्घोत्तरगानि तथैव संस्थाप्य शुद्धोदकैरापूर्य गन्धपुष्पाक्षतैरभ्यर्च्य पुष्यादिनाविशेषर्घ्य बिन्दुमुद्धृत्य सर्वपात्रे क्षिपेत् । इति पात्रस्थापनविधिः ॥
एवं पात्रासादना अशक्तश्चेत् कलशसामान्य विशेष प्रोक्षणीपाणिसंस्थाप्य तदोक्तं चन्द्रपीठे वामे शङ्खं प्रतिष्ठाप्य मध्ये चार्घ्यं प्रकल्पयेत् दक्षिणे प्रोक्षणी चार्घ्यं अर्घ्यं त्रयेति कल्पनात् तत्रवचनं एकपात्रं न कुर्वीत यदि साक्षात्कुलेश्वरः मन्त्राश्च प्राङ्मुखायान्ति विघ्चैव पदे पदे । उक्तं चरत्रेश्वरे दृष्ट्वार्घपात्रं देवेशि ब्राह्माद्या देवता सदा नृत्यन्ति सर्वयोगिन्यः प्रीताः सिद्धिददत्स्वपि स्वदक्षभागे गन्धपुष्पाक्षतानिस्वपृष्ठ भागेकर प्रक्षालनार्थ पात्रं संस्थाप्य ततः प्रोक्षणीपात्रजलेन पुष्पाणि प्रोक्षयेद्यथा ॐ पुष्पकेनुराजार्हते शताय सभ्य सम्बन्धाय ॐ पुष्पे पुष्पे महापुष्पेसु पुष्पे पुष्पसम्भवे पुष्पवच्चयावकीर्णे हुं फट् स्वाहेति पुष्पशुद्धिविधाय हुं फडिति मन्त्रेण नाराचमुद्रया सीमदृष्टि पुष्पस्यावलोकनेन गन्धादि सर्वभारं दिग्बन्धनं विधाय देवता दक्षभागे घृतदीपंसंस्थाप्य वामे तैलमयं दीपं संस्थाप्य घृतन्दीपं सुदर्शनमन्त्रेण पूजयेद्यथा । रां रीं रूं रैं रौं रः ॐ सहस्रार हं फ् गन्धपुष्पाभ्यां सम्पूज्य तैलदीपाशुपतास्मे सम्पूज्य ॐ श्लीं पशुं हुं फट् दीपद्वयं गन्धपुष्पाभ्यां सम्पूज्य हस्तद्वयेनदीपशिखां स्पृष्टाव मन्त्रं पठेद्यथा घोराय घोर तमाय महाद्यथा घोराय घोर तमाय महारौद्राय वीरभद्राय ज्वालामालिने सर्वप्राणोपसंहर्त्रे हुं फट् स्वाहेति पठित्वात्मानं तत्तेजसासम्मार्य ततो त्वक्कायचित्सोधयेद्यथा ॐ हुं फट् स्वाहेति मुखे । ॐ रक्ष रक्ष फट् स्वाहेति हृदि हस्तं दत्वा मात्मारां विधाय ओम्मिति मन्त्रेण चन्दनपुष्पाणि कराभ्याम्मर्दयित्वा तानि वाम हस्ते समादाय आघ्राय ते सर्वे विलयं यान्तु ये मां हिंसिति हिंसिकाः मृत्यु रोग भयक्लेशाः पतन्तु रिपुमस्तके इति मन्त्रेण ईशान्यां दिशि दूरतः क्षिपेत् । हस्तौ प्रक्षाल्याचम्य सामान्यार्ध्यादकेन सङ्कल्पं कुर्यात् ॐ अद्येत्यादि स्मृत्वा श्रीलक्ष्मीनृसिंहरायप्रीत्यर्थे बहिः पूजामहं करिष्येति सङ्कल्पः ॥
ततः स्वपुरोभागे आदौ सर्वविघ्ननिवारणार्थे महाविद्या तिरस्कारिणीं ध्यायेच्च पूजयेच्च जपेद्यथा । नीलं हयं समाधिरुह्य प्रयाति नीलांशुकाभरण माल्यविलेपनाद्या निद्रापुटेनभुवनानितिरोदधाना खड्गायुधाभगवति परिपातु भक्तान् । एवं ध्यात्वा गन्धपुष्पाभ्यां सम्पूज्य अग्रे किञ्चिच्छुद्धयुक्त विदुधारया सन्तर्प्य मन्त्रद्वयं पठेद्यथा ह्रीं श्रीं नमो भगवति माहेश्वरि सर्व पशुजनमनः चक्षुस्तिरस्करिणीं कुरु कुरु स्वाहा ह्रीं क्रीं ऐं ॐ तिरस्कारिणीं सकल जनवाग्वादिनी सकलपशुजने मनःचक्षुषी श्रोत्रजिह्वाम्राणतिरस्कारिणीं कुरु कुरु ठः ठः स्वाहा । इति पठयित्वा नमस्कृत्य ततो दक्षहस्ते तर्जनीङ्गुष्ठाभ्यां गन्धपुष्पे गृहित्वा वामे तत्त्वमुद्रयाशुद्धिरखण्डं गृहित्वा गुरुपात्रामृतेन शिरसि ऐं ह्रीं श्रीं अमुकानन्दनाथ अमुकीदेव्यं वा श्रीपादुकां पूजयामि तर्पयामि नमः । एवं परमगुरुं परात्परगुरुं परमेष्टिगुरुं सम्पूज्य सन्तर्प्य तथैव देवपात्रामृतेन स्वहृदिमूलमुच्चार्य्य श्रीलक्ष्मीनृसिंहाय पूजयामि नमः त्रिः ॥
ततस्तत्त्वशुद्धिं कुर्याद्यथा स्ववामकरतले कारणेन त्रिकोणं विलिख्य शुद्धिखण्डत्रयं त्रिकोणे संस्थाप्यैकं मध्ये संस्थाप्य ऐं आत्मनत्वेन स्थूलदेहं शोधयामि स्वाहेत्यग्रस्थां स्वीकृत्य क्लीं विद्यातत्वेन सूक्ष्मदेहं शोधयामि स्वाहेति दक्षिणस्यां स्वीकृत्य सौः शिवतत्वेन कारणदेहं शोधयामि स्वाहेति वामस्थां स्वीकृत्य समग्रेण सर्व तत्वैस्तत्वत्रयाश्रयं जीवं शोधयामि स्वाहेति मध्यस्थां स्वीकृत्य ॐ आं ई ज्वलतिज्र्ज्योतिरहमास्मिज्र्ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि अह्मास्मि ब्रह्माहमस्मि अहमेवहम्माञ्जुहोमि स्वाहा इति मन्त्रेण शङ्खस्थबिन्दु अन्यपात्रे गृहित्वा कुण्डलिनी जिह्वाग्रे समानीय तन्मुखे दद्यादितितत्त्वशुद्धिः ॥
ततो देवपात्रामृतेन आत्मानं पूर्वस्थापितयन्त्रे पीठन्यास वत्पीठपूजां कृत्वा मण्डूकादीन् द्यौः सदाशिव महाप्रेतपद्मासनाय नमः इत्यन्तं पठेत् प्राणप्रतिष्ठां कुर्याद्यथा ॐ आं ह्रीं क्रौं ह्रों हंसः सोहं श्रीलक्ष्मीनृसिंहराय पीठस्य प्राण एवं जीव१९ सर्वोन्द्रयाणि१९ वाङ्मनः त्वक्चक्षुजिह्वाश्रोत्रम्राणप्राण इहागत्य सुखं चिरं तिष्ठन्तु स्वाहेति प्राणप्रतिष्ठा । वामितिधेनुमुद्रयाऽमृतीकृत्य हुमित्यवगुण्ठ्य अस्मेणछोटिकाभिर्दिग्बन्धनं कुर्यात् । गन्धपुष्पाभ्यां सम्पूज्य नमस्कृत्य ततः स्वाशिरसि करसम्पुटेन गुरुं नमस्कृत्यास्मेण छोटिकाभिर्दिग्बन्धनं कुर्यात् पूर्ववत्प्राणानायाम्य ऋष्यादि करषडङ्गानि कृत्वा ततश्चक्रस्थप्रेतासनोपरिमूलेन मूर्तिं विचिन्त्यात्मानं कामकलारूपं विभाव्य त्रिषण्डामुद्रया पुष्पाणि गृहित्वा मूलाधारात्कुण्डलिनीं ब्रह्मरन्ध्रपथेन शिरस्थां शिवेन संयोज्य तत्रामृते लोलीभूतां हृदयस्थारक्तपङ्कजे समानीय सदभेदेमूलेन देवं ध्यायेद्यथा तपनसोमहुताशनलोचनं घनसमानगलं शशिसुप्रभं अभयचक्रपिनाकवरान्करैर्दधनबिन्दुधरं नृहरिं भजे१ ॥
श्रीमन्नृकेसरितनोजगदेकबन्धोः ।
श्रीनीलकण्ठ च फणार्णवसामराज वह्निदु ।
तीव्रकरनेत्रपिनाकपाणे ।
शितांशु शेखर रमेश्वर पाहि विष्णोः ॥
२वर्णांस्तार पुटात्मपादपतलेसद्रत्न पीठेम्बुजेशोणाभे वसुपत्रके स्थितमजं पीताम्बरालङ्कृतं येभूताभवनेकभूषणयुतं गोगोपगोपीवृतं गोविन्दं स्मरसुन्दरं मणिभुजं वेणुं रणान्तं स्मरेत् ३ कल्पानोकुहस्थांस्थितातिवदुषोराजोन्नतां संस्थितां पौष्यंवाणमथे क्षुचापकमले पाशाङ्कुशे बिभ्रतीं चक्रं शङ्खगदैकरैरुद्राद्विजांसांश्लिष्टदेहं हरिं नानाभूषणरक्त लेपकुसुमं पीताम्बरं संस्मरे क्षीराब्धिवसुमुख्यदेवनिकरैरग्रादिमं वेष्ठितं शङ्ख चक्रगदाम्बुजं निजकरैर्विभ्रन्त्रिनेत्रः सितः सर्पाधिशफणानेतपत्रलसतां पीताम्बरालङ्कृतो लक्ष्याश्लिष्टकरवरो नरहरीस्तान्नीलकण्ठो मुदे५ विजयेनयुतोरथस्थितः प्रसमानीय समुद्रमध्यतः प्रददन्ननयात् द्विजन्मे स्मरणीयो वसुदेवननन्दनः ६ नृसिंहोमाधवारूढो लोहितो निगमादिमः कृशानुभीयपिञ्चाणो मनुषिषहरः परः ७ महापद्मं तथा पद्मं शङ्खं मकारकछपैः मुकुन्दकुन्दनीलश्चनिधीन्दिक्षु समर्चयेत् ८ महापद्मवनान्तरस्थेकरुणातन्दविग्रह सर्वभूतहिते तात एह्येहि परमेश्वर९ देवेशभक्तसुलभे परिवार समन्विते यावत्त्वां पूजयिष्यामि तावद्देवस्थिरो भव १०
इति ध्यात्वा इति मन्त्र पठन् पुष्पानिबिन्दुपरितः मूर्ती क्षिपेद्यथा ह्यौं कनिष्ठापुष्पं आसनस्थाने निक्षिप्य ॐ क्ष्रौं मध्यमापुष्पेण तत्तेजसां संयोज्य ह्त्रौः अङ्गुष्ठपुष्पेण छत्रं विभाव्यमूलेन अञ्जलिपुष्पेण सावयवं विचिन्त्य आवाहनादि आयुधान्ता मुद्राप्रदर्श्यामूलेन श्रीलक्ष्मीनृसिंहाय साङ्गाय सपरिवारे सायुधे सवाहने इहागत्य इहाराबाह्या पुनर्मूलेन अमुकन्देवसाङ्गायेति स्थापनीमुद्रया संस्थाप्य पुनर्मूले अमुकदेवसाङ्गायेति सन्निधाय मुद्रया सन्निधाय पुनर्मूलेन अमुकदेवं सन्न्निरोधनमुद्रया सन्निरूध्य पुनर्मूलेन अमुकदेवसाङ्गायेति सन्मुखीमुद्रया सन्मुखी भव षडङ्गेकशकलीकृत्य हुम्मिति अवगुण्ठ्य धेनुमुद्रयामृतीकृत्य महामुद्रया परमीकृत्य शङ्खचक्रगदापद्म एवं मुद्राम्प्रदतूर्यं लेलिहामुद्रयाजीवन्यासङ्कुर्याद्यथा ॐ आं ह्रीं क्रों हों हंसः सोहं श्रीलक्ष्मीनृसिंहाय प्राण इहप्राणा पुनः जीव इन्द्रियाणी वाङ्मने पुनः पूर्वसम्मुच्चार्य इदमाचमनं दद्यात् । पूर्ववत्समुच्चार्य मधुपर्कं समर्पयामि नमः । मुखेव त्रिः पुनः पूर्ववदाच मनं दद्या । इति प्राणप्रतिष्ठा ॥
ततो जन्मादि द्दिष्टं संस्कारार्थे १५ प्रणवं जपेत् । ततः पादुकामुद्रां प्रदर्श्य पूजामण्डपात्स्नानमण्डपेरत्नासिंहासनोपरि आवाह्य ततः पाद्यपात्रामृतेन मूलान्ते श्रीमत् लक्ष्मीनृसिंहाय पाद्यं समर्पयामि नमः । पादयोः अर्घ्यं पात्रामृतेन पूर्ववत्समुच्चार्य इदमर्घ्यं स्वाहेति शिरसि त्रिः पूर्ववत्समुच्चार्य आचमनीयान्नामृतेन मुखे आचमनं दद्यात् च त्रिः पूर्ववत्समुच्चार्य इदं स्नानं समर्पयामि नमः । सर्वाङ्गे दत्वावारत्रयं पुनः आचमनं दद्यात् ॥
अङ्गमार्जनार्थं धौतवस्त्रं समर्पयामि नमः । एवं वस्त्राणि समर्पयामि नमः । एवं यज्ञोपवीतं समर्पयामि स्नानान्मण्डयात् भूषणमण्डपे आवाह्य एवं भूषणानि समर्पयामि नमः । एवं गन्धं समर्पयामि नमः । एवं पुष्पाणि वौषट् पुष्पाणि समर्पयामि नमः । एवं धूपं समर्पयामि नमः । दीपं समर्पयामि नमः । एवं पक्वान्नं नैवेद्यं समर्पयामि नमः । एवं ताम्बूलं समर्पयामि नमः । पुनः पादुकामुद्राम्प्रदर्श्य भूषणमण्डपात्पूजामण्डपे देवमावाह्य पुनः गन्धपुष्पधूपदीपानि दत्वा श्रृङ्गारारात्रिकं कृत्वा ततः पञ्चपुष्पाञ्जलिं दद्या यथा-मूलमुच्चार्य शिरसि ह्रदि गुह्य पादसर्वाङ्गेषु पुनः पुष्पाञ्जलिमादाय सिञ्चिन्मये परे देव परामृतसचप्रिये अनुज्ञां देहि देव सपरिवारार्चनाय मे एवं प्रार्थयित्वा पुष्पाञ्जलि क्षिपेत् । पूजारम्भे श्रीलक्ष्मीनृसिंहायस्मिविधानर्चयेद्गरुन् दिव्यौद्यचैवसिद्धौघार्मनवौघ इति त्रिधा मध्यत्रिकोणोपरि त्रिरेखायां पूजयेद्यथा ततो दक्षहस्ते अङ्गुष्ठतर्जनीभ्यां गन्धमिश्रितपुष्पाङ्क्षतानि गृहित्वा वामेन मुद्रया शुद्धिखण्डं गृहीत्वा गुरुपात्रामृतेन तर्पयेत् ॥
ॐ क्ष्रौं परमप्रकाशात् अनेनाथ श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं परशिवानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं परशक्त्यां वा श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कौलेश्वरानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं शुक्रदेव्याम्बाश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कुलेशानन्दनाथ श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कामेश्वर्यम्बाश्री पादुकां पूजयामि तर्पयामि नमः ।
इति दिव्यौघा एनं एकपङ्क्त्या पूजयेत् ।
ॐ क्ष्रौं भोगानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं क्लिन्नानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं समयानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं सहजानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
इति सिद्धौघा एवं द्वितीया पङ्क्त्या पूजयेत् ।
ॐ क्ष्रौं गगनानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं विश्वानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं विमलानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं मदनानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं भुवनानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं लीलानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं आत्मानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं प्रियानन्दनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
इति मानवौघाः । एनं तृतीयापङ्क्त्यां पूजयेत् ।
ॐ ऐं ह्रीं श्रीं हंसं खङ्क्रे रुसक्षमखर यूं सह सहक्षमलवरयीं श्री अमुकानन्दनाथ अमुकी अम्बाश्री पादुकां पूजयामि तर्पयामि नमः ।
एवं परमगुरुं श्री पादुकां पूजयामि तर्पयामि नमः ।
एवं परात्परगुरुं श्री पादुकां पूजयामि तर्पयामि नमः ।
एवं परमेष्टीगुरुं श्री पादुकां पूजयामि तर्पयामि नमः ।
इति गुरुपरम्परां पूजयेत् ।
अथ षडङ्गदेवपूजनम् । ॐ क्ष्रौं सर्वज्ञताहृदयाय नमः । ह्रदे देवश्री पादुकां पूजयामि तर्पयामि नमः । ॐ क्ष्रौं नित्यमनुप्ताय शिरसे स्वाहा । शिरोदेव श्री पादुकां पूजयामि तर्पयामि नमः । ॐ क्ष्रौं अनादिबोधिताशिखायै वषट् शिखादेवश्री पादुकां पूजयामि तर्पयामि नमः । ॐ क्ष्रौं स्वतन्त्राय कवचाय हुं कवचदेवश्री पादुकां पूजयामि तर्पयामि नमः । ॐ क्ष्रौं नित्यमलुप्तायनेत्रत्रयाय वौषट् नेत्रत्रयश्री पादुकां पूजयामि तर्पयामि नमः । ॐ रौं अनन्ताय अस्माय फट् इति त्रिकोणान्तराले अग्निशा सुखायव्यकुनेषु चतुष्ट्यं सम्पूज्य पुरुतोनेत्रं दिक्षुसर्वासु अस्मं पूजयेत् । इत्यङ्गदेवपूजनं ततो शङ्खमुद्रां प्रदर्श्य परिवारार्चनानुज्ञांलब्ध्वा वा परिवारार्चनमारभेत् मूलेनबिन्दुत्रिवारेणकोणे सम्पूज्य मध्यत्रिकोणाग्रे ब्रह्मणे सावित्रीसहिताय श्रीलक्ष्मीनृसिंहाय श्री पादुकां पूजयामि तर्पयामि नमः । अग्नीकुणे विप्लवे लक्ष्मीसहिताय नृसिंहायश्री पादुकां पूजयामि तर्पयामि नमः । ईशानकोणे रुद्रायसरस्वती सहिताय लक्ष्मीनृसिंहायश्री पादुकां पूजयामि तर्पयामि नमः । मूलेन देवं त्रिवारं तर्पयेत् । पुष्पाजलिं दद्यात् । अभीष्टसिद्धये देव शरणागतवत्सल भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनं१ इति प्रथमावरणं पादयोः पुष्पाञ्जलिं दद्यात् । स्वाग्नादिदक्षावृत्तेन षट्कोणेषु पूजयेत् ॥
ॐ क्ष्रौं शङ्कर श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं शेषनागश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं शतानन्दश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं ह्रीं यं श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं धृतिश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं पुष्टीश्री पादुकां पूजयामि तर्पयामि नमः ।
कोणपत्रेषु पूजयेत् मूलेनमूलदेवतां त्रिवारं तर्पयेत् । पुष्पाञ्जलिं दद्यात्
अभीष्ट इत्यादि द्वितीयावरणर्चनं चक्रमुद्रां प्रदर्श्य अष्टदलपत्रेषु
स्वाग्रादिमारभ्यवायव्यदलान्तं पूजयेत् ।
ॐ क्ष्रौं लक्ष्मीश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं सरस्वतीश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं चापिनी श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं प्रीतिश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कीर्तिश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कान्तिश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं तुष्टीश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं श्रियं श्री पादुकां पूजयामि तर्पयामि नमः ।
मूलेनमूलदेवतां त्रिवारं तर्पयेत् । अभीष्टसिद्धयेति तृतीयावरणार्चनं गदामुद्रां प्रदर्श्य पुष्पाजलिं दद्यात् । षोडशपत्रेषुस्वाप्रादिमारभ्य प्रादक्षिण्येन पूजयेत् ॥
ॐ क्ष्रौं रुक्मिणी श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं सत्यभामाश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं नग्नजित्तनया श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं क्वजाई श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं मित्र श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं वृन्दायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं लक्ष्मणायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं जाम्बुवत्यायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं सुशीलकायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं महिषोष्टजै श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं सुवर्णाभायायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं विचित्रायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं भास्वतायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं भास्करायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं रुन्मीलतायैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं रमाकाञ्चितायैश्री पादुकां पूजयामि तर्पयामि नमः ।
एता सम्पूज्य मूलेनमूलदेवं त्रिवारं तर्पयेत् ।
पद्ममुद्रां प्रदर्श्य पुष्पाञ्जलिं दद्यात् ।
अभीष्टसिद्धयेति चतुर्थावरणार्चनं इति चतुर्थावरणम् ।
अथ द्वात्रिंश्पत्रेषु स्वाग्रादि प्रारभ्य प्रादक्षिणे पूजयेत् ।
ॐ क्ष्रौं कृष्णायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं रुद्रायश्री क्ष्रौं मायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं महाघोरायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं मायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं भीष्णायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं उज्वलायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कसव्यायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं विकरालायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं दैत्यान्तायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं मधुसूदनायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं रक्षाक्षर्यश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं पिङ्गलाक्षयश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं जन्मज्ञायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं दीप्ततेजसे श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं सद्योणश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं सुहनवायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं विश्वाक्ष्यायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं राक्षसान्तायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं विशालायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं धूम्रकेशवायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं हयग्रीवायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं घनस्वनायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं मेघनादाय पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं मेघवर्णायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कुम्भकर्णाय श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कृतान्तकायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं तीव्रतेजायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं अग्निवर्णायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं महोग्नायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं विश्वभूषणाय श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं विद्मक्रमायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं महासेनाय श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं सिंहायश्री पादुकां पूजयामि तर्पयामि नमः ।
एतान् सम्पूज्य मूलेनमूलदेवं त्रिवारं तर्पयेत् ।
स्तम्भमुद्रां प्रदर्श्य पुष्पाञ्जलिं दद्यात् ।
अभीष्टासिद्धेति पञ्चमावरणार्चन इति पञ्चावर्णनम् ॥
ततो दिक्षुदिक्कालान् पूजयेत् पूर्वादिप्रादक्षिणेन
ॐ क्ष्रौं लं इन्द्रायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं अं अग्निश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं यं यमश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं निं निरृत्यायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं वं वरुणाय श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं यां वायुश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं कं कुबेरश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं ईं ईशान्यायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं ईशान इन्द्रियोर्मध्ये
ॐ क्ष्रौं ब्राह्मणेश्री पादुकां पूजयामि तर्पयामि नमः ।
निऋत्यवरुणमध्ये
ॐ क्ष्रौं अं अं नं अं नं श्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं वज्रायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं शक्त्यैश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं दण्डायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं खड्गायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं पाशायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं अङ्कुशायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं गदाश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं त्रिशूलायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं पद्मायश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं चक्रायश्री पादुकां पूजयामि तर्पयामि नमः ।
पुनः पुष्पाञ्जलिमादाय मूलेनमूलदेवं पूजयेत् ।
ज्ञानमुद्रां प्रदर्श्य अभीष्टसिद्धेतिषष्टमावरणार्चनं
इति षष्टमावरणन् । ततो चतुद्वरिपुस्वाग्रादिक्रमेण
ॐ क्ष्रौं बं बटुकनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं यां योगिनीनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं क्षेत्रपालनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
ॐ क्ष्रौं गं गणपतिनाथश्री पादुकां पूजयामि तर्पयामि नमः ।
इति चतुष्ट्यं सम्पूज्य मूलेनमूलदेवं त्रिवारं तर्पयेत् ।
तत्त्वमुद्रां प्रदर्श्य पुष्पाञ्जलिं दद्यात् ।
अभीष्टसिद्धति सप्तमावरणार्चनं इति सप्तमावरणनम् ।
ततो मूलेनबिन्दु परितः श्रीलक्ष्मीसहिताय श्रीनृसिंहाय नमः ।
षोडशवारं तर्पयेत् । साङ्गेति पठेत् ।
ॐ क्ष्रौं ह्रीं श्रीं क्लीं ह्रौं हुं श्रीलक्ष्मीनृसिंहाय ह्रूं ह्रौं क्लीं श्रीं ह्रीं क्ष्रौं ॐ नृसिंहनरहरायसाङ्गायसपरिवाराय सहनाय सायुधायसालङ्काराय श्रीलक्ष्मीनृसिंहाय नमः । त्रिवारं तर्पयेत् । पुनः पूजां कल्पयेद्यथामूलान्ते परमानन्द सौरभ्य परिपूर्ण दिगन्तरं गृहाण परमगन्धं कृपया परमेश्वर । श्रीलक्ष्मीनृसिंहाय गन्धं परिकल्पयामि नमः । गन्धं समर्प्य अधोमुख कनिष्ठाङ्गुष्ठयोगेन गन्धमुद्रां प्रदर्श्य ततः पुष्पानादायमूलान्ते तुरीयवनसम्भूतं नानागुणमनोहरं आनन्दसौरभं पुष्पं गृह्यतामिदममद्भुतं श्रीलक्ष्मीनृसिंहाय पुष्पं समर्पयामि नमः । अधोमुखतर्जनाङ्गुष्टयोगेन पुष्पमुद्रां प्रदर्श्य ततो धूपपात्रं अस्मेण सम्प्रोक्ष्य नमः इति धूपपात्रे धूपं दत्वा वामतर्जनीयं स्पृशन् मूलमुच्चार्य वनस्पतिरसोदिव्यौगन्धाढ्यो गन्धयुन्नमः । आधेयं सर्वदेवानां धूपोयं प्रतिगृह्यताम् । श्रीलक्ष्मीनृसिंहाय समर्पयामि नमः । घण्टां सम्पूज्य वामकरे गृहीत्वा दक्षकरे धूपपात्रं त्रिवारं भ्रामयेत् । इति धूपं तर्जनाङ्गुष्ठयोगेन धूपमुद्रां प्रदर्श्य ततो दीपपात्रं देवताग्रे संस्थाप्य रं इति प्रज्वालास्मेण सम्प्रोक्ष्य चक्रमुद्रां प्रदर्श्य उत्तोल्य सुप्रकाशो महादीप सर्वत्र तिमिरापहः सबाह्याभ्यन्तरः ज्योतिं दीपोयं प्रतिगृह्यतां १ पूर्ववत् घण्टां वादयन् पादादिदृष्टिपर्यन्तं त्रिवारं भ्रामयेत् ॥
श्रीलक्ष्मीनृसिंहाय तेजोमयं दीपं समर्पयामि नमः । मध्यमाङ्गुष्ठयोगेन दीपमुद्रां प्रदर्श्य ततो महानैवेद्यं पूजामण्डपात् भोजनमण्डपे रत्नसिंहासनोपरि आवाह्य देवतां ष्कोणवृत्त चतुरास्त्रं मण्डलं कृत्वा न्हीं आधारशक्तौ नमः गन्धपुष्पाभ्यां सम्पूज्य नमः इत्याधारं प्रक्षाल्यमण्डले निधाय अस्मेन प्रक्षालित पात्रं आधारे निधाय तत्र चतुर्विधान्नं सम्पूर्णं भक्षभोज्यचोष्यलेह्यात्मकं अस्त्रमन्त्रेण सम्प्रोक्ष्य तत्र वायुवीजेन द्वादशवाराभिमन्त्र्य तदुत्यवायुना तद्दोषंसंशोष्य दक्षिणकरतलेग्निबीजं विचिन्त्य तत्पृष्ठलग्नं वामकरतलं कृत्वा दशधा सञ्जप्य तदुत्थाग्निना तद्दोषदग्धं विभाव्य पचाद्वामकरतले अमृतबीजं विचित्य तत्पृष्टलग्नदक्षकरतलं कृत्वा दशधा प्रजप्य तदुत्थामृतधारया ज्वलितं विभाव्य चन्द्रबीजं चाम्बुसंस्थं चतुर्दशस्वरान्वितं नादबिन्दुसमायुक्तं बीजं तदमृतात्मकं इत्यनेन सप्तवारमभिमन्त्र्य मूलमष्टधा प्रजप्य ततो दक्षहस्तेन जलं गृहीत्वा वामेनाच्छाद्यक्रचं पठेद्यथा ॐ तत्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिविचक्षुराततन्तद्धि प्राश्योविपन्यवो जाग्नीवांसः समिधतेविष्णोर्यत्परमं पदं तेन जलेन सम्प्रोक्ष्य वमितिधेनुमुद्रयामृतीकृत्य अस्त्रेण तालत्रयं च दिग्बन्धनं कुर्यात् ॥
तदुपरिविशेषार्धं बिन्दुयुक्तं पुष्पं दत्वा तदन्न सकाशात् किञ्चित् किञ्चित् तं गृहीत्वा एकीकृपिडान् कृत्वा वक्ष्यमाणबटुकादीनां बलिदानार्थं स्थापयेत् । ततो देवतायै पुष्पाञ्जलिं दत्वा तन्मुखात्तेजो विनिर्गतमिति ध्यात्वा वामाङ्गुष्ठेन नैवेद्यपात्रं स्पृष्ट्वा दक्षिणकरेण पुष्पयुक्तं जलं गृहीत्वा मूलान्ते सत्पात्रेषु हविः सौख्यं विविधानेक भक्षणं निवेदयामि । तदेवं स्वानुगायैजुषाण तत् इति श्लोकं जप्त्वा साङ्गायेति पठन् श्रीलक्ष्मीनृसिंहाय यथाकालोत्पन्नं नैवेद्यं समर्पयामि नमः । इति जलमुत्सृज्य ॥
ततः आचमनं दद्यात् अमृतोपस्तरणमसि स्वाहेति देवहस्ते जलं दद्यात् नैवेद्यमुद्रां प्रदर्श्य दक्षिणकरेण प्राणादीपचमुद्रां प्रदर्श्य वामकरतले विकचोत्पलसदृशीं ग्रासमुद्रां प्रदर्श्य दक्षिणकरेण प्राणादीपं च मुद्रां प्रदर्श्ययेद्यथा ॐ प्राणाय स्वाहेत्यङ्गुष्टकनिष्ठानामाभिः ॐ अपानाय स्वाहेत्यङ्गुष्ठ तर्जनीमध्यमाभिः ॐ व्याजाय स्वाहेति अङ्गुष्ठमध्यमानामाभिः ॐ उदानाय स्वाहेत्यङ्गुष्ट तर्जनीमध्यमाभिः ॐ समानायस्वाहेत्यङ्गुष्टादिसर्वाभिः ततो भुञ्जानां ध्यायेत् ब्रह्मेशाद्यैः परिसरमभितं सूपविष्टां समन्तात्सिजद्वाल व्यजनानिकरैर्वाज्यमानासखीभिः नर्मक्रीडाप्रहसन परां पङ्क्ति भोक्तृन् हसन्ती भुङ्क्ते पात्रे कनकघटिते षड्रसान् ॥
विश्वमातः इति देवं ध्यात्वा ततः आवश्यपूजाङ्गत्वेन होमं कुर्याद्यथा देवतादक्षभागे कुण्डे स्थण्डिले हसन्त्यां वा प्रागग्र उदग्राश्चतस्रोरेखा कृत्वा चतुःसंस्कारान् कुर्याद्यथा मूलेन वीक्ष्य मूलास्त्रेण सम्प्रोक्ष्यतेनैवदर्भेन सन्ताडच कवचेन मुष्टिनाश्रित जलेन सिञ्च्य ततो त्रिकोणमध्ये कोष्ठे मूलमुच्चार्याग्नि संस्थाप्य अथाग्निमन्त्रस्य भृगु ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । अग्निर्देवतायै नमो हृदये । रं बीजाय नमो गुह्ये । स्वाहा शक्तये नमः पादयोः । कलाकीलकाय नमः सर्वाङ्गे । ॐ सहस्रार्चिषे अङ्गुष्ठाभ्यां नमः । ॐ स्वस्ति पूर्णायतर्जनीभ्यां स्वाहा । ॐ उत्तिष्ठपुरुषायमध्यमाभ्यां वषट् । ॐ धूम्रव्यापिने अनामिकाभ्यां हुम् । ॐ सप्तजिह्वाय कनिष्ठिकाभ्यां वौषट् । ॐ धनुर्धराय करतलकरपृष्टाभ्यां फट् । एवं हृदयादि ततो स्वहृत्कमले ध्यायेद्यथा ध्यायेद्वह्नि हेमवर्णं शक्ति स्वस्तिकधारिणं वराभयविशोभाद्यं स्वर्णाम्बरविभूषणं एवं ध्यात्वा मानसोपचारैः सम्पूज्य जाठराग्निनासह ऐक्यं विभाव्यावाहयेत् ॥
आवाहनादि आयुधान्तां मुद्रां प्रदर्श्य ततो गन्धादि पञ्चोपचारैः सम्पूज्य मूलेन होमद्रव्याणि सम्प्रोक्ष्य वमितिधेनुमुद्रयामृतीकृत्य ततो घृतेन व्याहतिजुहुर्यद्यथा ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वाहा वैश्वानर जातवेद इहागच्छ लोहिताक्ष सर्वकर्माणि साधय स्वाहा । अनेन त्रिवारं जुहुयात् । ततो भोजनमण्डपातत्तत्र देवमावाहयेत् । पञ्चोपचारैः सम्पूज्य पूर्ववत् ॐ भूः स्वाहेति व्याहृतिहोमं कुर्यात् । पश्चान्मूलमन्त्रेण देवेशं जुहुयात् । पञ्चाहुतक्रिमात् प्राणापानौ तथा व्यानमुदानं च समानकं ततः ॐ क्ष्रौं हृदयाय नमः हृदिदेवं स्वाहेति षडङ्गेन षडाहुति जुहुयात् । ततो मूलेन पञ्चविंशतिर्जुहुयात् । नित्यहोमविधिं कृत्वा बलिदानविधिं चरेत् । ईशाने च तथाग्नेयेनैऋते च तथाप्रिये वायव्यां क्रमतो देव मण्डलानां चतुष्ट्यं चक्रमाभितो देव त्रिकोणं व्योममालिखेत् । एवं मण्डलानि कृत्वा पूजयेद्यथा ॥
ॐ ह्रीं व्यापकमण्डलाय ऐं नमः इत्यनेन सम्पूज्य बटुकीदीन्बलिं दद्याद्यथा एह्येहिदपुत्रबटुकनाथ कपिल जटाभारभासुर त्रिनेत्रज्वालामुख सर्व विघ्नान्नाशय सर्वोपचार सहितं बलिं गृहाण स्वाहेति मन्त्रेण बलिं दद्यात्पश्चाद्वामाङ्गुष्ठ तर्जनीभ्यां मुद्रां प्रदर्श्य तस्योपरि बलिं पात्रामृतेन बिन्दुं क्षिपेत् एवं प्रतिमुद्रांबोद्धव्यं ऊर्ध्वं ब्रह्माण्डतोवादिविगगनतले भूतले निष्कले वा पाताले वा पवनसलिलयोर्यत्रकुत्रस्थिता वा क्षेत्रेपीगेपपीगदिषुचकृत पदाधूपदीपादिकेन प्रीतादेव्यः सदानः शुभबलिविधिना यान्तु वीरिद्रवन्द्याः यां योगिनीभ्यः स्वाहेतिमन्त्रेण बलिं दद्यात् । पश्चादङ्गुष्ठमध्यमानामाभिर्योन्याकारां मुद्रां प्रदर्श्य क्षां क्षों क्षूं क्षैं क्षौं क्षं हुं स्थान क्षेत्रपाल सर्वकामपूरयर स्वाहेति मन्त्रेण बलिं दद्यात् पश्चाद्वामाङ्गुष्टतर्जनी सरलया मुद्रां प्रदर्श्य गां गीं गूं गैं गौं गः गणपतये वरद सर्वजनं मेवशमानय सर्वापचार सहितं बलिं गृहाण । स्वाहेति मन्त्रेण दद्यात् तत्त्वमुद्रां प्रदर्श्य बलि पात्रामृतेन बिन्दु क्षिपेत् इति बलिदान विधिः ॥
अदत्वाबटुकादीनां यः पूजयाति ईश्वरं पूजा च विफला तस्य देवशापः प्रजायते । ततो ग्रेंसकाशात् भोजनस्थाने देवमावाह्य स्वहृदि वह्नि विसर्जयेद्यथा भो भो वह्ने महाशक्ते ग्रेः सर्वकर्मप्रसाधकः कर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सादरं पूजायाः विपुलं राज्यं अग्निकार्येन सम्पदः । जपेन पापासंशुद्धिर्ज्ञानं ध्यानेन उच्यते उत्तरायौषणं दद्याद्यथा अमृतापिधानमसि स्वाहेति ततो नैवेद्यजातमुधृत्य स्थानशुद्धिं विधाय च आचमनं जलं दद्यात् । दन्तशोधनमेव च सुगन्धलेपनं द्रव्येण हस्तलेपनं दत्वा पुनः पानीयमर्पयेत् । पुनः नानोपचारान् मूलेन पथा स्थाने समर्प्य ततः ताम्बूलं दद्यात् । पूगीफलम्महादिव्यं नागवल्लीदलान्वितं कर्पूरादि समायुक्तं ताम्बूलं प्रतिगृह्यतां श्रीलक्ष्मीनृसिंहाय ताम्बूलं समर्पयामि नमः । चक्रमुद्राम्प्रदर्श्य पुनः पादुकामुद्रां प्रदर्श्य पूजास्थाने समानीय पुनर्मूलेन छत्रं समर्प्ययामि नमः । चामरयुग्मं समर्पयामि नमः । व्यजनयुग्मं समर्पयामि नमः । रत्नोज्वलं दर्पणं समर्पयामि नमः । हिरण्यमयीं दक्षिणां समर्पयामि नमः । पुनः पूर्ववग्दन्ध पुष्पधूपान् दत्वा नीराजनं कुर्याद्यथा सौवर्णराजते कांस्येस्थालके परमेश्वरः शुद्ध्यस्मेनसंशोध्यकुङ्कुमेन विलिखेत्पदमं वसुपत्रं मनोहरं मध्ये चारूं चन्द्ररूपं कृत्वा तन्मस्तके प्रिये दीपमेकं विनिक्षिप्य वसुपत्रेष्टदीपकन् यवगोधूमदुग्धादिरचितान् शर्करायुतान् चणकान्वितं मुद्राभिः शोभितान् घृतपाचितान् कर्पूरवर्त्तिकायुक्तैर्गोघृतेन च पूरयेत् रं बीजेन प्रज्वाल्य सङ्कल्पं कारयेत्पश्चात्कर्मणा मनसेप्सितं अभिमन्त्र्यमहेशान्नि ॥
रत्नैश्वर्यां ततः परं श्रीं ह्रीं ग्लैं स्लूं प्लूं म्लूं न्कूं क्लीं श्रीं इति मन्त्रेण गन्धपुष्पाभ्यां सम्पूज्य पश्चामूलेन सम्पूज्य चक्रमुद्रां प्रदर्श्य वमितिधेनुमुद्रां प्रदर्श्य मत्स्यमुद्रयाछाद्य ततस्थालकं समुद्धृत्य मस्तकान्तं पुनः पुनः नववारं महेशानि ततो नीराजनं चरेत् मूलेन समस्तचक्रचक्रेशयुते देवनवात्मके आरात्रिकं मिदं देव गृहाण मम सिद्धये इत्युक्त्वा घण्टावादनपूर्वकं आपादशिरपर्यन्तं भ्रामयेन्नवधाप्रिये संस्थाप्य कर्पूरदीपेन त्रिधानी राज्य उपविश्य हस्तौप्रक्षाल्यमूलेन यथास्थाने पूर्ववत्पञ्चपुष्पाञ्जलिं दद्यात् । ततो मूलादिब्रह्मरन्धान्तं मूलविद्यां सूर्यसोमाग्निरूपिणीं चतुर्वर्गः त्वयि न्यस्तस्मान्मे सिद्धि सदा भव ॥
ॐ गं ह्रीं गं गजतुण्ड अविघ्नं कुरु माले त्वं जपकाले सदा मम । निर्विघ्नं कुरु देवेश सुरात्मिक नमोऽस्तुते इतितस्योपरि मन्त्रं पठेत् । चक्रमुद्राम्प्रदर्श्य तां दक्षहस्ते गृहीत्वा मध्यमा मध्यपर्वणि संस्थाप्य स्वहृदयमानीय शिरसि गुरुं नमस्कृत्य कण्ठे मन्त्रं पीतवर्णं विचित्य हृदयेषु इष्टदेवतां प्रसन्नान्ध्यायन् तदैकचित्तो भूत्वा पठेत् । तत्रादौ अष्टोत्तरशतं प्रणवं प्रजप्य जातसूतकमादौ स्यान्मृते च मृतसूतकं सूतकद्वयमुक्त्यर्थमादावन्ते च तृकं यथा सङ्ख्याष्टोत्तरशतत्रयं वा सहस्रं प्रजप्य पश्चात् मालां शिरसि संस्थाप्य पुनः पूर्ववत् स्वस्थाने कुल्लकांसञ्जप्य गुह्यातिगुह्यगोश्रीत्वं गृहाणास्मत्कृतं जपं सिद्धिः भवतु मे देवि त्वत्प्रसादात्महेश्वरी इत्यनेन देवीं वामकरे जपजलं समर्प्य उक्तं च कुलार्णवे जन्मान्तरसहस्रेषु कृतपापप्रणाशनात् परदेव प्रकाशच जप इत्यभिधीयते । पुनः पूर्ववदाचम्य प्राणानायाम्य संहारक्रमेण ऋष्यादिकं कृत्वा ध्यात्वा तथैव पूजयेद्यथा भूतादीन् पूजयेत् । लोकान् पूजयेत् । हाटकेश्वरादीन् पूजयेत् ॥
एवं अरवर्णानिविलाप्य समष्टितेजोरूपं विभाव्य पुनः गन्धपुष्पाभ्यां सम्पूज्य पश्चात्कुमारिबटुकगुरु आचार्य शाम्भवान् गुरुपदिष्टमार्गेण पूजयेत् । उत्थाय प्रदक्षिणां कृत्वा दण्डवन्नमस्कृत्य पश्चात्कवचस्तोत्र सहस्रनामशान्तिस्तोत्रदिनि यथा सावकाशं पठेत् । नोचेद्विसर्जनानन्तरं पठेदित्यावशकम् । पूर्ववत्पुष्पाञ्जलिं यथास्थाने सङ्क्षिपेत् । स्तम्भनादिपञ्चमुद्रया नमस्कृत्य देवं विसर्जयेद्यथा संहारमुद्रयायन्त्रस्थ पुष्पं गृहीत्वा पठेद्यथा गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर यत्र ब्रह्मादयो देवान् विदुः परमं पदं आघ्राय परमेश्वरं स्वहदि उद्वास्य तत्पुष्पं भूमौ निधाय शिरसि धारयेत् । ततो गतसार नैवेद्यं किञ्चिदुधृत्य पिण्डं कृत्वा ईशाने पूर्ववत्पडलं कृत्वा उच्छिष्टचाण्डालिन्यै नमः इति मन्त्रेण बलिं दद्यात् । तस्योपरि किञ्चिद्विदुः क्षिपेत् । हस्तौ प्रक्षाल्य पुनः मालां पूजयेत् । त्वं माले सर्वदेवानां प्रीतिदाशुभदा मम शुभं कुरुष्व मे भद्रे यशो वीर्यं च देहि मे । ह्रीं सिद्धौ नमः इति गन्धपुष्पाभ्यां मालां सम्पूज्य रहसि संस्थाप्य पश्चाब्दलिपात्रस्यदेवताः नाराचमुद्रयाविसृज्य पश्चाब्दलिविसर्जनं कुर्याद्यथा पूर्वस्थापितबलिपात्रस्थमन्त्रमेकपात्रे कृत्वा पूजागृहाब्दहिः पूर्ववन्मण्डलं कृत्वा तत्र बलिं दद्याद्यथा गदात्रिशूलडमरूपात्रहस्तं त्रिलोचनं कृक्षाभम्भैरवं ध्यायेत्सर्वविघ्ननिवारणम् । एवं ध्यात्वा तत्र दद्यात् उच्छिष्टभैरव एह्येहि बलिं गृहाण हुं फट् स्वाहेति तदनं तत्र विसृज्य पश्चात्कृताञ्जलिपुटोभूत्वा पठेत् । यज्ञछिद्रं जपछिद्रं छिद्रं च पूजने मम सर्वं धार्यसुभपात्रन्युञ्जीकृत्य तत्र पुष्पं दत्वा तदमृतस्निग्धभूमौमायांविलिख्य वामहस्तकनिष्ठकयाएकीकृत्य तिलकं कुर्याद्यथा यं यं स्पृशामि पादेन यं यं पश्यामि चक्षुषा स एव दासतांयातु यदि शक्रसमो भवेत् । इति मन्त्रेण तिलकं कुर्यात् ॥
ततः सर्व पात्रस्थबिन्दु आत्मपात्रे निक्षिप्य तेनात्मनिवेदनं कुर्याद्यथा दक्षहस्ते जलपुष्पाक्षतान् गृहीत्वा ॐ इति पूर्वप्राणबुद्धिर्देह धर्माधिकारानाजाग्रत् च प्रसुषुप्तितुरीयावस्थायां समनसा वाचाहस्ताभ्यां पद्भ्यामुदरेण शिश्रेन यत् स्मृतं यदुक्तं यत्कृतं तत्सर्वं गुरूदेवता प्रीयतां नमः । इति पठित्वा ब्रह्मरन्ध्रे निक्षिप्य गुरुदेवः शिवः साक्षात्तत्पत्नीतत्स्वरूपिणी अभेदेन भजेद्यस्तु तस्य देवः प्रसीदति । पात्राणि प्रक्षाल्य गोपयेत् । यन्त्रलेपं स्वब्रह्मरन्ध्रे लेपयेत् । यतीनां मानसी पूजावनीनां वनसम्भवैः वर्णानां भिक्षयातोष्य गृहस्थद्रव्यसम्भवैः मानसीसिद्धिकामस्तु वनस्थः पुष्टिसिद्धये भिक्षयावाक्प्रदावाणि गृहस्थः सर्वसिद्ध्ये नित्यातिक्रमदोषेण शतं विद्यां जपेत्सुधीः नैमित्यक्रमदोषेणसहस्रं प्रजपेत्सुधीः नित्यनैमित्तिकं काम्यम्मापेक्षाम्पूर्वपूर्वतः नित्यं नैमित्तिकं व्यक्त्वा काम्यं कुर्वति ये जनाः तेषान्तानि विनश्यन्ति शिलायामुप्तबीजवत् काम्यातिक्रमदोषेण गुरुपूजां समारभेत् गुरुपूजारतो मन्त्री सर्वान्कामानवाप्नुयात् । गुरुमुख्यक्रियासर्वासाविमर्षमयी सदा विमर्शोहि शिवः साक्षाच्छिवरूपो गुरुः सदा गुरुपूजासदाकार्या पूजादौतपहोमयोः गुरुपूजां विहायस्तु शिलायामुप्तबीजवत् छ इति श्री वामकेश्वर तन्त्रे तन्त्रानुसारेण गुरुमुखात् ज्ञातं ब्रह्माण्डानन्दनाथेनकृता श्रीलक्ष्मीनृसिंहार्चन पद्धतिः समाप्ता ॥
सम्पूर्णं श्रीरस्तु । शुभं भवतु । कल्याणमस्तु ।
॥ ल. जा. ॥ बा. गो ॥ श्री ॥ ब्रा. ॥ मु. अं ॥
इति श्रीनृसिंहार्चनपद्धतिः सम्पूर्णा ।
A note of caution or disclaimer:
The text here is given for
academic purpose, for information, only as it
appears in a book. Considered as a tantric text,
esoteric in nature, readers are advised caution
about its indiscriminate usage or application of
the same. It is very clear that a guru's
guidance is always essential for mantra
practices and practicing without the same
leads to no merit or can in fact backfire.
Proofread by M K Barman