श्रीनृसिंहमन्त्रः
रामेमुर्वादीन् दक्षिणे शेषगणेशादीन् पुरतः तप्तहाटके मन्त्रेण श्रीनृसिंहं प्रणम्य-
श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ।
कर्पूरधामधवलं कटकाङ्गदादि छत्रं त्रिनेत्रशशिशेखरमण्डिताङ्गम् । वामाङ्कसंस्थितरमानयनाभिरामं चक्राब्जशङ्खसगदं नृहरिं नमामि । अथ मन्त्रराजानुष्ठानक्रमः कथ्यते । स्नानादि नित्यक्रियाः समाप्य विविक्तदेशे सुखासने सम्यगुपविश्य गुरुपरम्परां नत्वा शुद्धीभूत शुद्धिप्राणप्रतिष्ठामातृकान्न्यासयोगपीठन्यासान्तं कृत्वाऽभद्रं कर्णेभिरिति शान्ति पठित्वा स्वस्ति न इति च प्रकृतिप्राकृताशेषविशेषा यद्विभूतयः प्रविशन्तुममान्तस्थे विष्णोश्चरणरेणवः ॥ १॥
श्रीतापिनीय श्रुतिसूत्रसारसत्सम्प्रदायामलगन्धशोभां नित्यं नृसिंहस्य करोतु ।
सैषा सन्तोषमानुष्टुभ कल्पमाला ॥ २॥
सकृच्छ्रताप्यसौविधा सद्यो दहति संस्तिम् ।
तूलदाहेकिधानस्ति मारः कालानलार्चिषः ॥ ३॥
अस्या महिमसीमानमविदित्वा निवर्तते ।
अप्यौपनिषदी वाणी पौरुषेयी तु किं पुनः ॥ ४॥
अवर्षवासिनामेनां वदतः कुटिलात्मनाम् ।
लङ्घयन्ति नृसिंहस्य दिव्यामाज्ञामवज्ञया ॥ ५॥
इति श्लोकान्पठित्वा प्रणवशक्तिबीजसम्पुटितेन मूलमन्त्रेण प्राणायामत्रयं
कृत्वा कृताञ्जलीर्भूत्वा अस्य श्रीनृसिंहानुष्टुभमन्त्रराजस्य विधिः ॥
प्रजापतिर्ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्री भगवान् मङ्गलेश्वरः । श्रीनृसिंहः परमात्मा देवता । इति शिरोवदन हृदयेषु विन्यसेत् । आद्या जगन्मूला प्रकृतिः शक्तिः । महापुरुष आद्यं बीजम् । बुद्धिर्द्वितीया शक्तिः । तदुपाधिकप्रत्यगात्मा द्वितीयं बीजम् । अमृतपूरणी मध्यवर्तिनी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्ता सुषुम्नासरस्वती कुलदेवी तृतीया शक्तिः । तत्सहचर उदानो वायुस्तृतीयं बीजम् । ईं चतुर्थी शक्तिः । हं चतुर्थं बीजम् । एवं नाभौ विन्यस्य । परब्रह्मतत्त्वं परमात्मा क्षेत्रम् । शुक्लो वर्णः । उदात्तस्वरः इत्युच्चार्य नृ इत्येतद्दष्टं कीलकं ज्ञातम् । सत्सिद्धिरप्रतिबन्धकं सिंह इत्येद्दष्टं कीलकं ज्ञातं सत्सर्वसिद्धिप्रदं इति पादयोविर्न्यसेत् । तथाऋषिं मूर्ध्नि मुखे छन्दो देवतां हृदि विन्यसेत् । आधारे बीजशक्ती च कीलकं पादयोर्न्यसेत् । ततः निरतिशयनिरन्तरनृसिंहप्रसादसिद्ध्यर्थे जपे विनियोगः प्रणवशक्तिबीजसम्पुटितेन मूलमन्त्रेण करशुद्धिं कुर्यात् । प्रकोष्ठे मणिबन्धे च कूर्परकरयोस्तले तत्पृष्ठे च दन्ते च करशुद्धिरुदाहृता । एवं करशुद्धि विधाय पञ्चागन्यासं कुर्यात् । ॐ ईं हं उग्रम् । ॐ प्लुं हं ईं ॐ अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ॐ ईं हं ज्वल० खं हं ईं ॐ तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ ईं हं नृसिंह म ईं१ दं ईं ॐ मध्यमाभ्यां नमः । शिखायै वषट् । ॐ ईं हं मृत्यु० हं हं ईं ॐ अनामिकाभ्यां नमः । कवचाय हुं । ॐ ईं हं उग्रं० भ्यहं हं ईं ॐ कनिष्ठिकाभ्यां नमः । वौषट् । अस्त्राय फट् । ततः प्रणवशक्तिबीजसम्पुटितेन मूलेन व्यापकत्रयं कुर्यात् ॥
अथाक्षरं न्यासं कुर्यात् । शिरोललाटनेत्रद्वयमुख दोः पञ्चसन्ध्यग्रकटिद्वयगुह्यनाभि हृदयगलाधरगलेषु ॐ उं ॐ ॐ ग्रं ॐ इत्यादि प्रणवसम्पुटितान्यक्षराणि न्यसेत् । अथ द्वादशविधिन्यासं कुर्यात् तद्यथा प्रणवशक्तिबीजानि प्रणवसम्पुटितानि । नमो तानि सबिन्दुकानि च दक्षिणतर्जनीमारभ्य वामतर्जनीपर्यन्तं द्वात्रिंशरेखासु विन्यस्य वामाङ्गुष्ठरेखात्रयेषु । बीजशक्तिप्रणवान् प्रणवसम्पुटितानि नमो तानि विन्यसेत् । वामकरतले मेण्ढे मूलाधारे उर्वोः जान्वोः जङ्घयोः पार्श्वयोस्तदङ्गुलीषु । हं ईं ॐ ॐ हं ॐ नमः । रक्तास्थिमज्जासु । अथद्वयक्षरन्यासः । पादादि मूर्ध्निपर्यन्तं ॐ ॐ ईं हं ॐ उग्रं ॐ नमः ॐ वीरं ॐ नमः । पादयोः एवं सर्वत्र ऊर्वोः कट्यां नाभ्यां हृदि बाह्वोः कण्ठे चुबुके ओष्ठयोः गण्डयोः कर्णयोः आस्ये नासिकयोः नेत्रयोः ॐ म्यहं हं ईं ॐ ॐ नमः मूर्ध्नि । अथ पादन्यासः । मुखादि पादपर्यन्त ॐ ईं हं ॐ उग्रं ॐ नमः मुखे मूर्ध्नि नासिकायां नेत्रयोः श्रोत्रयोः वदने ह्रदये नाभ्यां कट्ट्यां जान्वोः ॐ अहं हं ईं ॐ ॐ नमः पादयोः ॥
अथ चतुरक्षरन्यासः । नासिकादिपादपर्यन्तं ॐ ॐ ईं हं ॐ उग्रं वीरं ॐ नमः । नासिकानयनयोः श्रवणयोः नाभौ ह्रदि मूर्ध्नि बाह्वोः ॐ नमाम्यहं हं ईं ॐ नमः पादयोः । अथ पादन्यासः । ॐ ॐ ईं हं उग्रं विष्णुं ॐ नमः मूर्ध्नि । ज्वलं ॐ नमः हृदि । नृसिंहं इं ॐ नमः नाभौ ॐ मृत्यु म्यहं हं ईं ॐ ॐ नमः सर्वाङ्गेषु । अथार्धन्यासः । ॐ ईं हं उग्रं मुखं ॐ नमः मूर्धादिहृदयपर्यन्तं ॐ नृसिंह म्यहं हं ईं ॐ ॐ नमः । हृदयादिपादपर्यन्तं अथोग्रन्यासः । मुखादिपादपर्यन्तं ॐ ॐ ईं हं उग्रं उग्रं नमाम्यहं ॐ नमः मुखे । ॐ वीरं उग्रं नमाम्यहं ॐ नमः शिरसि इत्यादि घ्राणयोः चक्षुषोः श्रोतयोः केसरस्थानेषु हृदये नाभौ । ॐ मृत्युमृत्युं उग्रं नमाम्यहं हं हं ईं ॐ कट्यादिपादपर्यन्तम् । अथ वीरन्यासः । अस्य न्यासस्य पूर्ववदेव मुखादिस्थानानि ॐ ईं हं उग्रं वीरं नमाम्यहम् । मुखे ॐ वीरं वीरं ॐ नमः । नमाम्यहं ॐ नमः शिरसि घ्राणयोश्च चक्षुषोः श्रोतयोः केसरस्थानेषु हृदये नाभौ मृत्युमृत्युं वीरं नमाम्यहं हं ईं ॐ नमः कट्यादिपादपर्यन्तम् । अथ सिंहन्यासः । ॐ ईं हं उग्रसिंहं नमाम्यहं ॐ नमः मुखे ॐ वीरं सिंहं नमाम्यहं शिरसि घ्राणयोश्चक्षुषोः श्रोतयोः केसरस्थानेषु हृदये नाभौ ॐ मृत्युमृत्युं सिंहं नमाम्यहम् ॥
हं ईं ॐ ॐ नमः कट्यादिपादपर्यन्तं विन्यसेत् । इति दशविधन्यासः । अथ हरिन्यासः । ॐ ॐ ईं हं ॐ ॐ नमः मूलाधारे ॐ ग्रं ॐ नमः स्वाधिष्ठाने ॐ वीं ॐ नमः तदुपरि मणिपूरके तदाहि महाविष्णुं अनाहतपर्यन्तं तदाहि ज्वलन्तं विशुद्धपर्यन्तं सर्वतो भ्रूमध्याज्ञापर्यन्तं मुखं नृ नेत्रयोः सिंहं मूर्ध्नि भीषणं भद्रं दक्षिणहस्ते मृत्युमृत्युं वामहस्ते मां दक्षिणपादेभ्य वामपादे हं हं ईं ॐ ॐ नमः । इत्थं सवर्णमूर्धादि पादपर्यन्तं न्यसेत् । अस्य हरिन्यासस्य साक्षाद्धरिसारूप्यादि प्रापकस्य माहात्म्यं हरिरेव जानाति । मनुष्यो वक्तुं न समर्थः ॥
अथ पञ्चतत्त्वन्यासः । ॐ ईं हं उग्रं विष्णुं ऋक् पृथिव्यात्मने नमः । पादयोः ॐ ज्वलन्तं सर्वतोमुखं यजुरग्न्यात्मने नमः गुह्ये ॐ नृसिंहं सामात्मने नमः हृदये । ॐ मृत्युमृत्युं हं हं ईं ॐ अथर्वागिरसवाम्बात्मने नमः मुखे ॐ ईं हं उग्रं विष्णुं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । हं ईं ॐ समस्त इतिहासाभ्यां प्रणवाकाशात्मने नमः शिरसि । उग्रनृसिंहाय नमः । क्रों नृसिंहाय नमः । वीर नृसिंहाय नमः । विडम्बन नृसिंहाय नमः । कोप नृसिंहाय नमः । शिरोमुख हृदयेनाभिपादेषु विन्यसेत् ॥
अं आत्मतत्त्वेश्वराय पादयोः उं वितत्त्वेश्वराय गुह्ये मं शिवतत्त्वेश्वराय नाभौ ॐ सर्वतत्त्वेश्वराय नाभ्यादिपादपर्यन्तं व्यापकरूपेण विन्यसेत् । अं आत्मतत्त्वेत्यादिमन्त्रत्रयमुक्त्वा हृदयमुखशिरस्सु विन्यस्य ॐ सर्वतत्त्वेश्वराय नमः मूर्ध्निपर्यन्तं व्यापकरूपेण विन्यसेत् । अं आत्मतत्त्वेत्यादि पुनर्मन्त्रत्रयेण पादहृदयशिरस्सु विन्यस्य ॐ सर्वतत्त्वेश्वराय नम इति सर्वाङ्गव्यापकं कुर्यात् ॥
पुनः पूर्ववत् व्यापकत्रयं कुर्यात् ।
ॐ ईं हं अं उग्रं विष्णुं अं शुक्लवर्णाय आनन्दात्मने हृदयाय नमः ॐ ज्वलन्तं सर्वतोमुखं ॐ ह्रीं घृणिः सूर्यादित्यः श्रीं उं शुक्लवर्णाय क्रियात्मने शिरसे स्वाहा । मं नृसिं इं ॐ भूर्लक्ष्मीर्भुवर्लक्ष्मीः सुवः कालकर्णी तन्नो महालक्ष्मीः प्रचोदयात् । मं पिङ्गलवर्णाय ज्योतिरात्मने शिखायै वषट् ॐ मृत्युमृत्युं नमाम्यहं ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि तन्नः सिंहः प्रचोदयात् । हं ईं ॐ ॐ हेमवर्णाय मायात्मने कवचाय हुम् । ॐ ईं हं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहं हं हं ईं ॐ सर्ववेदात्मने विद्युद्वर्णाय महाचक्रात्मने अस्त्राय फट् । ॐ भूर्भुवः स्वः इति दिग्बन्धः । सत्यज्ञानेति एतत् श्लोकोक्तलक्षणः श्रीनृसिंहः स्वयं भूत्वा लं पृथिवीत्यादि पञ्चोपचारपूजां कृत्वा मूलं द्वादशवारं जपित्वा द्विस्वरसाम्ना व्यापकत्रयं कुर्यात् ॥
अत्र उदातानुदात्ताभ्यां अक्षराणां द्वन्द्वशः गानं तर्जन्यग्रेणाङ्गुष्ठमूल पर्व स्पृशन् अङ्गुष्ठान्तपर्वोञ्छ्रायेण उदात्तं गायेत् । अङ्गुष्ठाग्रेण कनिष्ठिकाग्रतन्मूलपर्वन्ननुदात्तं गायेत् । अउम ॐ इति प्रणवस्य द्विरावृत्या अष्टमात्रत्वं सम्पाद्य गायेत् । मात्राशब्देन वर्ण उच्यते । अ उ उदात्तेन म ॐ अनुदात्तेन गीतिमात्रासङ्ख्या ३४५ अ उ पुनरुदात्तेन म ॐ पुनरनुदात्तेन सर्व गाने तिस्त्रःश्च तस्त्र पञ्च वा मात्रा भवन्ति एवं शक्तिबीजयोरपि चतुर्गुणेनाष्ठमात्रत्वं सम्पाद्य गायेत् । ईं हां ईं हां इति ॥
तथैवप्रथमपादं तदङ्गप्रणवं च प्रगाय द्वितीयपादं गीत्वा सौरसावित्री सामरहितां पठित्वा तृतीयपादं च प्रगायजुर्लक्ष्मीं सामरहितां पठेत् । सौरसावित्री यजुलक्ष्मयोर्न गानमिति सम्प्रदायः । ततश्चतुर्थपादं नृसिंहगायत्री च प्रगाथमिश्रेण साम गायेत् । द्विगुणीकृतयोः शक्तिबीजयोः प्रणवस्य चैकैकां मात्रां मिश्रीकृत्य गायेत् । ईमाहमू ईमाहमू एवं द्विस्वरसाम त्रिवारं प्रगाय व्यापकत्रयं कुर्यात् । उग्रं वीरं महाविष्णुं अ उ म ॐ अ उ म ॐ इत्यादि प्रकाशे गानस्य ज्ञेयः । इदमानुष्टुभसाम अनेनानुष्टभसाम्ना श्रीलक्ष्मीनृसिंहात्मनो मम देहे व्यापकन्यासः सम्पाद्यतां लक्ष्मीनृसिंहाहं ब्रह्मास्मीति व्यापकसामान्ते पठेत् ॥
अथ षट्स्वरसाम्ना पादशोङ्गं न्यासं कुर्यात् । उदात्तमाद्यद्वयमत्र गीत्वा नीचैस्तृतीयं चतुरीयपञ्चमौ मध्यस्वरेणैव तथैवेति पादपूरणे तथैव षष्ठेरुच्चैरमुच्चैर्मनुमष्टमं च । इति षट्स्वर सामगान प्रकारः । अत्र प्रणवस्य द्विरावृत्त्या अष्टमात्रासु अ उ म् ॐ म् अमध्यमस्वरेण उ म् ॐ म् षट्स्वरगानकाले दीर्घाक्षराणि वामहस्ताङ्गुलिभिः गृह्णीयात् । तर्जनीमध्यमानामिकाकनिष्ठिकानां मध्यमपर्वाणि वक्राङ्गुष्ठाग्रतः स्पृशन्नुदात्तोपक्रमेणोत्तरोत्तरं अनुदात्तं शनैर्गायेत् । अयमेव मध्यमस्वरः कर्षणाख्यः एवं शक्तिबीजे प्रथमपादं तदन्ते अङ्गप्रणवं च गीत्वा ईं हां ईं हां ईं हां ईं हां उग्रं वीरं महा विष्णुं अ उ म ॐ अ उ म ॐ म् ससागरां सपर्वतां ससप्तद्वीपां वसुन्धरां अग्निर्वैर्देवा इदं सर्वं विश्वाभूतानि प्राणा वै इन्द्रियाणि पशवोन्नममृतं संराट् स्वराट् विराट् तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः सोयमात्मा च तुष्याज्जागरित स्थानो बहिः प्राज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः इति वाक्यचतुष्टयं पठित्वा ॐ ईं हं अं उग्रं वीरं महाविष्णुम् । अं शुक्लवर्णायानन्दात्मने हृदयाय नमः ॥
ततो द्वितीयं पादं प्रगाय ज्वलन्तं सर्वतोमुखम् । ॐ ह्रीं घृणिः सूर्य आदित्यः श्रीं श्रियलक्ष्मी औपलामम्बिकाङ्गां षष्ठीं च यामिन्द्रसेनेत्यप्याहुः । तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे शरणमहं प्रपद्ये इति वाक्यद्वयं पठित्वा श्रियादि सप्तशक्तिभिः कनकलशैरमृतमानीयाभिषिच्यमानमात्मानं नृसिंहं ध्यायेत् । स्वशिरसि लक्ष्मीमुद्रां च प्रदर्शयेत् । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं ऋग्यजुःसामाथर्वरूपः सूर्योतरादित्येहिरष्पयः पुरुषः द्वितीयान्तरिक्षं स उकारः सयजुर्भिर्यजुर्वेदो विष्णुरुद्रात्रिष्टुप् दक्षिणाग्निः स्व प्रस्थानोन्तः प्रज्ञः सप्ताङ्गएकोनविंशतिमुखः प्रविविक्तमुक्तैजसो द्वितीयः पादः । उं ज्वलन्तं सर्वतोमुखं ॐ ह्रीं घृणिः सूर्यादित्यः श्रीं उं कृष्णवर्णाय प्रियात्मने शिरसे स्वाहा ॥
ततस्तृतीयं पादं प्रगाय नृसिंहं भीषणं भद्रं ॐ भूरित्यादि यजुर्लक्ष्मीं पठित्वा वसुरादित्यैः सर्वैर्देवैः सेवितं दिवं य ओषधीनां प्रभवति तारापतिः सोमः तृतीया द्यौः समकारः स सामभिः सामवेदो रुद्रादित्याः जगत्याहवनीयः यत्र सुप्तोनकञ्चनकामं कामयते न कञ्चन स्व प्रपश्यति तत्सुषुप्तं सुषुप्तस्थानएकीभूतः प्रज्ञानघन एवानन्दमयो स्वानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः एष सर्वेश्वर एष सर्वज्ञ एषोतर्याम्येषयोनिः सर्वस्य प्रभावाप्ययौ हि भूतानाम् । मं नृसिंहं भीषणं भद्रं ॐ भूर्लक्ष्मीः भुवर्लक्ष्मीः सुवः कालकर्ण कालकर्ण । तन्नो महालक्ष्मीः प्रचोदयात् । मं पिङ्गलवर्णाय ज्योतिरात्मने शिखायै वषट् ॥
ततश्चतुर्थपादं प्रगाय । मृत्युमृत्युं नमाम्यहं नृसिंहगायत्रीं च प्रगाय । ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि तन्नः सिंहः प्रचोदयात् । मिश्रणं च प्रगाय ई मा हा भू ई मा हा भू ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं सब्रह्मा सशिवः सहरिः सेन्द्रः सोक्षरः परमस्वराट् यावसानेस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओङ्कारः सा अथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोग्निर्मरुतो विराडेकऋषिर्भास्वती स्मृता । न वहि प्रज्ञं नान्तः प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञं ना प्रज्ञं न प्रज्ञानघनं अदृष्टमव्यवहार्य मग्रात्मलक्षण मचित्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यते स आत्मा सविज्ञेयः । ॐ मृत्युमृत्युं नमाम्यहं ॐ नृसिंहाय धीमहि तन्नः सिंहः प्रचोदयात् । हं ईं ॐ ॐ हेमवर्णाय मायात्मने कवचाय हुम् । अथ पञ्चमं महाचक्राख्यम्मस्त्रमुच्यते । षट्स्वरसाम्नैव प्रणवं शक्तिबीजं च प्रगाय प्रथमपादं गीत्वा तदङ्गप्रणवं च प्रगाय द्वितीयपादं गीत्वा सौरसावित्रीं समरहितं पठेत् । ततस्तृतीयपादं गीत्वा यजुलक्ष्मीं सामरहितां पठेत् ॥
ततश्चतुर्थपादं नृसिंहगायत्री च प्रगाय मिश्रणसामं गायेत् । चत्वारो वेदाः साङ्गाः सशाखाः चत्वारः पादा भवन्ति प्रणवं सर्वं पञ्चमं भवति षडरं वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट्पत्रं चक्रं भवति षड् वा ऋतव ऋतुभिः समितम् । भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः प्रतिष्ठिताः । मा यथा वा एतत्सर्वं वेष्टितं भवति नात्मानं माया स्पृशति तस्माद्यथा बहिर्वेष्टितं भवति अथाष्टारमष्टपत्रं चक्रं भवति ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वेनिषेदुः यस्तं न वेद किमृचा करिष्यति य एतद्विदुस्त इमे समासते ॥
इति एतत्सर्वं पठित्वा स्वशरीरं ब्रह्माण्डं भावयित्वा शरीरमध्ये नाभि ध्यात्वा तस्मिन्क्षीरसागरं ध्यात्वा श्वेतद्वीपं च ध्यात्वा शेषपर्यङ्के प्रणवं विचिन्त्य नृसिंहैका क्षरं विचित्य ॐ रौं ॐ सहस्रार हुं फट् ॐ नमो नारायणाय ॐ नमो भगवते वासुदेवाय अं आं अं अ ॐ ॐ ॐ ग्रं ॐ म्यं ॐ ॐ हं ॐ एवं सर्वत्र क खं गं जः वसूनां स्थानानि । सं जं दं धं रुद्राणां स्थानानि नं घं शं षं आदित्य स्थानानि सं हं लं क्षं विश्वेदेवानां स्थानानि ॐ उं मं ब्रह्मविष्णुमहेश्वराणां स्थानानि हं सं सूर्याचन्द्रमसोः स्थाने ॐ ईं हं उग्रं -म्यहं हं ईं ॐ सर्ववेदात्मने विद्युद्वर्णाय महाचक्रात्मने अस्त्राय फट् । प्राणप्रतिष्ठा पुष्पाञ्जली च कुर्यात् । क्ष्रौं इत्यादिशतक ध्यानं एवं पञ्चाङ्गं विधाय उद्गाराक्षरपदपाद क्षीरोदार्णवब्रह्माधिपति सामानि गायेत् ॥
तत्र मूलमन्त्रपादानां आद्यैरक्षरद्वयैराद्यपादं द्वितीयैर्द्वितीयं तृतीयैस्तृतीयं चतुर्थैश्चतुर्थं इत्येवमुद्धृत्य पादशः प्रगेयानि । अथोद्गारसाम । ॐ ईं हं उग्रं ज्वलं नृसिम्मृत्युं वीरं तं सं हं भी मृत्युं महार्वतोषेण नमो विष्णुं मुखं म ईं म्य हं इत्युधृत्य पादशः प्लुतेन गीत्वा मिश्रणं च गायेत् । ईं मां हं मूं ईं मां हं मू उद्धरिसामा घं तं द्विस्वरसाम्ना पादशो गेयम् । अथ वर्णसाममूलमन्त्राक्षराणि प्रणवसम्पुटिता एकमुदात्तेन एकमनुदात्तेन क्रमेण गायेत् । यथा प्रणवं शक्तिबीजं च प्रगाय ॐ उं ॐ ॐ ग्रं ॐ एवं सर्वत्र मिश्रणं गायेत् । यद्वा एकपदस्याक्षराणि प्रत्येकमुदात्तेन एकपदस्याक्षराणि प्रत्येकमनुदात्तक्रमेण गायेत्. उग्रं वीरं एवं सर्वत्र मिश्रणं च गायेत् । अनयोर्वर्णसाम्नोः प्रणवसम्पुटितत्वेनैवाक्षराणां गानम् । सम्पुटितप्रणवयोरुच्चारणमात्रमिति सम्प्रदायः ॥
अथ पदसाम । एक पदमुदात्तेन एकमनुदात्तेन द्विस्वरेण गायेन्त् । प्रणवं शक्तिबीजं च प्रगाय उग्रं वीरम् । महाविष्णुम् । ज्वलन्तम् । सर्वतोमुखम् । नृसिंहम् । भीषणम् । भद्रम् । मृत्युमृत्युम् । नमामि । अहम् । इत्येकादशपदानि मिश्रणं च गायेत् । अथ पादसाम । प्रणवं शक्तिबीजं च प्रगाय पादचतुष्टयं गीत्वा मिश्रणं च प्रगायेत् । अथ क्षीरोदार्णव साम । ॐ ईं हं क्षीरो । दार्ण । वशा । यिनम् । नृके । सरिम् । योति । ध्येयम् । परमम् । पदम् । ततो मिश्रणम् । अत्र परममित्यक्षरत्रयोपरिगानम् ॥
अथ ब्रह्माधिपतिसाम प्रणवशक्तिबीजान्युच्चार्य ब्रह्माधिपतिसाम द्वन्द्वशो गायेत् । ब्रह्मा । धिप । तिब्र । ह्मणो । धिप । तिः । तिरित्येकाक्षरस्यैवमानम् । मिश्रणं च गायेत् । उद्गारक्षोरोद ब्रह्माधिपति सामादौ प्रणवशक्तिः । बीजानां न गानम् । अन्यत्रास्तीति सम्प्रदायः । सर्वेषु सामस्वन्ते मिश्रणमस्ति । उद्गारपदपाद क्षीरोद ब्रह्माधिपति सामानि पञ्चश्रुति प्रसिद्धानि । पुनः सम्प्रदायाद्वत्र्य क्षरसामनी चेति सप्तसामानि गीत्वा ऋतं सत्यं सच्चिदानन्दं क्षीरोदार्णवेति वाक्यत्रयं पठित्वा ॐ ईं हं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । ह ईं ॐ क्षीरोदार्णवशायिने नृसिंहाय योगिध्येयाय परमात्मने शेषपर्यङ्कोपरि उपविष्टाय चक्रपिनाकाभयवरदहस्ताय श्रीनृसिंहात्मने नमः । इति मूलनृसिंहं गृहपुष्पाञ्जलिं कृत्वा रौं नृसिंहात्मने नमः । पुष्पाञ्जलि कृत्वा संहंस्त्रांरं हुं फट् । सुदर्शनमूर्तिभ्यो नमः ॐ नं मों नां रां यं णां यं नारायणमूर्तिभ्यो नमः ॐ नं मों भङ्गवन्तें वासुदेवायं वासुदेवमूर्तिभ्यो नमः ॐ स्वराधिष्ठात्र्यै देवतायै केशवमूर्तये नमः ॥
एवं सर्वत्र आं नारायणमूर्तये नमः ईं माधवमूर्तये ईं गोविन्दमूर्तये उं विष्णुमूर्तये ॐ मधुसुदनमूर्तये ऋ त्रिविक्रममूर्तये ऋ वामनमूर्तये लूं श्रीधरमूर्तये लूं हृषीकेशवमूर्तये एं पद्मनाभमूर्तये ऐं दामोदरमूर्तये ॐ वासुदेवमूर्तये ॐ सङ्कर्षणमूर्तये अं प्रद्युम्नमूर्तये अ अनिरुद्धमूर्तये नमः ॥
अथ ब्रह्मादिद्वात्रिंव्यूहान् विचिन्त्य
ॐ उं ॐ ब्रह्मणे श्रीनृसिंहाय नमः ।
ॐ ग्रं ॐ विष्णवेश्री नमः ।
ॐ वीं ॐ महेश्वराय श्रीनृसिंहाय नमः ।
ॐ रं ॐ पुरुषाय श्रीनृसिंहाय नमः ।
ॐ मं ॐ ईश्वराय श्रीनृसिंहाय नमः ।
ॐ हां ॐ सरस्वत्यै श्रीनृसिंहाय नमः ।
ॐ व्रीं ॐ श्रीयैश्रीनृसिंहाय नमः ।
ॐ ष्णुं ॐ गौर्ये श्रीनृसिंहाय नमः ।
ॐ ज्वं ॐ प्रकृत्यैश्रीनृसिंहाय नमः ।
ॐ लं ॐ विद्यायै श्रीनृसिंहाय नमः ।
ॐ तं ॐ ओङ्कारायश्रीनृसिंहाय नमः ।
ॐ सं ॐ चतसृभ्यः अर्यमाभ्यः त्रां ॐ श्रीनृसिंहाय नमः ।
ॐ र्वं ॐ वेदेभ्यः साङ्गेभ्यः सशाखेभ्यः श्रीनृसिंहाय नमः ।
ॐ तों ॐ पञ्चाग्निभ्यः श्रीश्रीनृसिंहाय नमः ।
ॐ भुं ॐ सप्तमहाव्याहृतीभ्यः श्रीनृसिंहाय नमः ।
ॐ खं ॐ अष्टभ्योलोकपालेभ्यः श्रीनृसिंहाय नमः ।
ॐ नं ॐ अष्टभ्यो वसुभ्यः श्रीनृसिंहाय नमः ।
ॐ सिं ॐ रुद्रेभ्यः श्रीनृसिंहाय नमः ।
ॐ हं ॐ आदित्येभ्यः श्रीनृसिंहाय नमः ।
ॐ तीं ॐ अष्टभ्यो ग्रहेभ्यः श्रीनृसिंहाय नमः ।
ॐ षं ॐ पञ्चमहाभूतेभ्यः श्रीनृसिंहाय नमः ।
ॐ णं ॐ कालाय श्री ॐ मं ॐ मनवे श्री ॐ इं ॐ मृत्यवे श्रीनृसिंहाय नमः ।
ॐ मृं ॐ यमाय श्रीनृसिंहाय नमः ।
ॐ त्युं ॐ अन्तकाय श्रीनृसिंहाय नमः ।
ॐ मृं ॐ प्राणाय श्रीनृसिंहाय नमः ।
ॐ त्युं ॐ सूर्यायश्रीनृसिंहाय नमः ।
ॐ नं ॐ सोमाय श्रीनृसिंहाय नमः ।
ॐ मां ॐ विराट्पुरुषाय श्रीनृसिंहाय नमः ।
ॐ म्यं ॐ जीवाय श्रीनृसिंहाय नमः ।
ॐ हं ॐ सर्वस्मै श्रीनृसिंहाय नमः ।
ॐ श्रीनृसिंहाय नमः । श्रीनृसिंहाय नमः ।
कं खं जं अष्टभ्यो वसुभ्यो नमः ।
झं त्रं घं एकादशरुद्रेभ्यो नमः ।
नं पं यं शं षं द्वादशादित्येभ्यो नमः ।
सं हं लं क्षं सं हं लं क्षं अष्टभ्यो विश्वेभ्यो देवेभ्यो नमः ।
ॐ (अं) ब्रह्मणे नमः । उं विष्णवे नमः । मं महेश्वराय नमः । हं सूर्याय नमः । सं सोमाय नमः ।
अथ पदपाद महोपासनानि कुर्यात् । मूलमन्त्रस्यैकादश पदानि प्रणवशक्तिबीजपूर्वकाणि एकैकश अर्थानुसन्धानपूर्वकं पठेत् । ॐ ईं हं उग्रं नृसिंहं आत्मानं नमाम्यहं एवं सर्वेषु पदेषु नृसिंहमित्यत्रस्थात्मबन्धहरं नृसिंहमात्मानं नमाम्यहम् । नमामीत्यत्र सर्वं नमस्कार्य नृसिंहमात्मानं नौम्यहं अहमित्यत्र परमात्मानं नमाम्यहं इति पदस्थानेषु योजनीयं एवमेव यदोपास्ति ॐ ईं हं उग्रं वीरं महाविष्णुं नृसिंहमात्मानं नमाम्यहम् । एवं सर्वत्र सम्पुटित मूलमन्त्रमुच्चार्य स्वयम्प्रकाशं नृसिंहमितिमहोपास्तिः । एवमेव द्वात्रिंशद्व्यूहसहितपदपादमहोपासनानि कुर्यात् ॥
अथ पुरश्चरणमन्त्रान्पठेत् ।
ॐ ईं हं ॐ उं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।
ॐ ईं हं ॐ ग्रं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च विष्णुस्तस्मै वै नमो नमः ।
ॐ ईं हं ॐ वीं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च महेश्वरः तस्मै वै नमो नमः ।
ॐ ईं हं ॐ रं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्चपुरुषस्तस्मै वै नमो नमः ।
ॐ ईं हं ॐ मं ॐ ॐ यो वै श्रीनृसिंहो भगवान् श्वेश्वरस्तस्मै वै नमो नमः ।
ॐ ईं हं ॐ हां ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च सरस्वती तस्यै वै नमो नमः ।
ॐ ईं हं ॐ वीं ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च श्रीस्तस्यै वै नमो नमः ।
ॐ ईं हं ॐ ॐ ष्णुं ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च गौरी तस्यै वै नमो नमः ।
ॐ ईं हं ॐ ज्वं ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च प्रकृतिः तस्यै वै नमो नमः ।
ॐ ईं हं ॐ लं ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च विद्या तस्यै वै नमो नमः ।
ॐ ईं हं ॐ तं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यक्षोङ्कारः तस्मै वै नमो नमः ।
ॐ ईं हं ॐ सं ॐ ॐ यो वै श्रीनृसिंहो भगवान् याश्चतस्त्रोर्धमात्रा तेभ्यः वै नमो नमः ।
ॐ ईं हं ॐ र्वं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये च वेदाः साङ्गाः सशाखाः सेतिहासा तेभ्यो वै नमो नमः ।
ॐ ईं हं ॐ तों ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये च पञ्चाग्नयः तेभ्यः वै नमो नमः ।
ॐ ईं हं ॐ भुं ॐ ॐ यो वै श्रीनृसिंहो भगवान् याश्च सप्तव्याहृतयः ताभ्यः वै नमो नमः ।
ॐ ईं हं ॐ खं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये चाष्टौ लोकपालास्तेभ्यः वै नमो नमः ।
ॐ ईं हं ॐ नं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये चाष्टौ वसवस्तेभ्यः वै नमो नमः ।
ॐ ईं हं ॐ सिंओं ॐ यो वै श्रीनृसिंहो भगवान् ये चैकादशरुद्रास्तेभ्यः वै नमो नमः ।
ॐ ईं हं ॐ एं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये च द्वादशादित्यास्तेभ्यः वै नमो नमः ।
ॐ ईं हं ॐ मीं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये चाष्टौ ग्रहास्तेभ्यः वै नमो नमः ।
ॐ ईं हं ॐ षं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यानि पञ्चभूतानि तेभ्यः वै नमो नमः ।
ॐ ईं हं ॐ णं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च कालः तस्मै वै नमो नमः ।
ॐ ईं हं ॐ मं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च मनुस्तस्मै वै नमो नमः ।
ॐ ईं हं ॐ द्रं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च मृत्युस्तमै वै नमो नमः ।
ॐ ईं हं ॐ मं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च यमस्तस्मै वै नमो नमः ।
ॐ ईं हं ॐ त्युं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यान्तकस्तमै वै नमो नमः ।
ॐ ईं हं ॐ मृ ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च प्राणस्तमै वै नमो नमः ।
ॐ ईं हं ॐ त्युं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च सूर्यस्तमै वै नमो नमः ।
ॐ ईं हं ॐ नं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च सोमस्तमै वै नमो नमः ।
ॐ ईं हं ॐ मां ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च विराट् तस्मै वै नमो नमः ।
ॐ ईं हं ॐ म्यं ॐ यो वै श्रीनृसिंहो भगवान् यश्च जीवस्तमै वै नमो नमः ।
ॐ ईं हं ॐ हं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यच्च सर्वं तस्मै वै नमो नमः ।
एवमेव पुरश्चरण मन्त्रः । एवमेवपदपादमहोपासनानि द्वात्रिंशद्व्यूहसहितानि च पूर्ववत् कुर्यात् ।
अथ मानसपूजां विधाय पुनः पुष्पाञ्जलिमन्त्रान्पठित्वा मूलेन पञ्चपुष्पाञ्जलि पञ्चपूजां च कृत्वा ततो मूलमेकवारं गीत्वा द्वात्रिंशद्वारं जप्त्वा अङ्गमन्त्राणां मूलमन्त्रदशांशेन जपः कार्यः पुनः मूलमेकवारं गीत्वा ततः पूर्वं वाक्प्राणदेहबुद्धिधर्माधिकारतः जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा कर्मणा वाचा यत्स्मरन्तं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा । मामदीयं च सर्वं अस्मत्स्वामिने सम्यगर्पय इति ब्रह्मार्पणं कृत्वा प्राणायामत्रयं कृत्वा अगन्न्यास ऋषिः छन्दो देवता विन्यस्य ध्यानश्लोकं पठित्वा उपसंहारमुद्रां मूलमन्त्रे कृत्वा भद्रं कर्णेभिरितिं स्वस्ति न इति च शान्तिं पठित्वा श्रीनृसिंहपरो भवेत् ॥
तत्सद्ब्रह्मार्पणमस्तु । श्रीलक्ष्मीनृसिंहाय नमः । लिखितं प्रह्लाद दीक्षितेन् ।
इति श्रीनृसिंहमन्त्रः सम्पूर्णः ।
Proofread by M K Barman