नृसिंहसामानुष्ठान
अथ सामानुष्ठान प्रारम्भः ॥
श्रीमल्लक्ष्मीनृसिंहाय नमः ॥ श्रीराम ॥ इदमाराधनं त्रैकालमावश्यकम् ॥ अद्येत्यादि तिथौ मम समस्तपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुनः संसारोच्छेदनपूर्वकं झटिति ब्रह्म साक्षात्कारपर्यन्तं श्रीमल्लक्ष्मीनृसिंहचरणप्रसादसिध्यर्थं श्रीसामराजानुष्टुप् मन्त्रराजश्रौतविद्यता अन्तर्यागबहिर्यागाभ्यां श्रीमल्लक्ष्मीनृसिंहं आराधयिष्ये ॥ शुच्यादिपूर्वकाजपाद्यङ्गमन्त्राराधनमहं करिष्ये ॥ इति सङ्कल्प्य ॥ एवं विधाय ॥ अङ्ग. मन्त्रान्ते ॥ ॐ श्रीं क्ष्रौं ॐ इति मूलव्यूहमुच्चार्य ॥ श्रीनृसिंहाराधनारम्भे शान्तिं पठेत् ॥ ॐ भद्रं कर्णेभिः ऋक् ॥ स्वस्ति न इन्द्रो वृद्धश्रवा ऋक् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ तत्रादौ तत्त्वचतुष्ट्यशोधनम् ॥ ॐ ईं हं उग्रं विष्णुं हं ईं ॐ ऐं आत्मत्त्त्वं॥। ॐ ईं हं मृत्युं. मृत्युं हं हं ईं ॐ ऐं क्लीं सौः सर्वत ! ॥ ॐ ब्रह्मानन्दं प. ॥ द्वन्द्वातीतम् ॥ एकं नित्यं. ॥ भावातीतं त्रिगु ॥ अखण्डमण्डला. ॥ तत्पदं दर्शितं. ॥ हेतवे जग. ॥ प्रभवे सर्व विद्यानां शं. ॥ गुरुर्ब्रह्मा. ॥ इति ध्यात्वा करशुचिं कुर्यात् ॥ अं अं गु. । आं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । अं अनामिकाभ्यां नमः । आं कनिष्ठिकाभ्यां नमः । सौः करतलकराअपृष्ठाभ्यां नमः ॥ मूलेन प्रणायमत्रयं कृत्वा कृताञ्जलिर्भूत्वा ॥ प्रकृतिप्राकृताशेषविशेषाय द्विभूतयः प्रविशन्तु ममान्तस्थितविष्णोश्चरणरेणवः ॥ स्ववामभागे गुं गुरुभ्यो नमः पं परमगु. ॥ पं परमेष्ठी पं परात्परगु. स्वदक्षिणे परमेश्वराय । शेषाय नमः ॥
गं गणपतये. दुं दुर्गायै. सं सरस्वत्यै. क्षं क्षेत्रपालाय । स्वपुरतः तप्तहाटक केशान्त ज्वलत्पावकलोचन ॥ वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते इति नृसिंहं प्रणम्य ॥ सत्यज्ञानेति ध्यानम् ॥ लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरम् ॥ सव्यं चक्रधरं च निर्भयकरं वामेन चापं वरम् ॥ सर्पाधीशकृतातपत्रममलं त्र्यक्षं भुभुक्षोरुहम् । वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥ एवं ध्यानोक्तं ध्यात्वा श्रीनृहरिरहमिति भावयेत् ॥ कृताञ्जलिः पुनर्भूत्वा ॥ ॐ अस्य श्रीसामराजानुष्टुपमन्त्रराज श्रौतविद्यामन्त्रस्य विधिः प्रजापतिर्ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ॥ श्रीभगवान्मङ्गलेश्वरः श्रीमल्लक्ष्मीनृसिंहो महाविष्णुः परमात्मा देवता ॥ नृ इति दुष्टं कीलकम् ॥ सु इत्यदुष्टं कीलकम् ॥ आद्याजगन्मूल! प्रकृतिः शक्तिः । तदधिष्ठितः पुरुषः परमात्मा बीजम् ॥ बुद्धिर्द्वितीया शक्तिः ॥ प्रत्यगात्मा द्वितीयं बीजम् ॥ अमृतपूरणी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्नानाडी तृतीया शक्तिः । तत्सहचरण उदानवायुस्तृतीयं बीजम् । ईं चतुर्थशक्तिः ॥ हं चतुर्थं बीजम् ॥ परं ब्रह्मतत्त्वम् ॥ परमात्मा क्षेत्रम् ॥ श्रु क्लीवर्णः ॥ उदात्तरः ॥ श्रीलक्ष्मीनृसिंहप्रीत्यर्थं जपे. ॥ विधये प्रजापतये ब्रह्मण्णऋषये नमः शिरसि ॥ अनुष्टुप् छन्दसे नमः मुखे ॥ श्रीमल्लक्ष्मीनृसिंहो महाविष्णुः परमात्मा देवतायै नमः हृदये ॥ नृ इति दुष्टं कीलकाय । दक्षिणकुक्षौ ॥ सु इत्यदुष्टं कीलकाय । वामकुक्षौ ॥ आद्याजगन्मूल प्रकृतिः शक्तये. वामांसे ॥ तदधिष्ठितः पुरुषः परमात्मा बीजाय । दक्षांसे ॥ बुद्धिर्द्वितीया शक्तये. वामांसे ॥ प्रत्यगात्मा द्वितीय बीजाय । दक्षांसे ॥ अमृतपूरिणी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्नानाडी तृतीयाशक्तये. वामांसे ॥ तत्सहचरण उदानवायुस्तृतीयं बीजम् । दक्षांसे ॥ ई. चतुर्थशक्तये. वामस्तने ॥ हं चतुर्थं बीजाय । मुखे ॥ पुनः कृताञ्जलिः ॥ परब्रह्मतत्त्वं परमात्मा क्षेत्रम् ॥ शुक्लो वर्णः ॥ उदात्तः स्वरः ॥ श्रीमल्लक्ष्मीनृसिंहचरण प्र. ॥ ॐ ईं हं उग्रं विष्णुं दक्षिणकर्परादङ्गुल्यग्रपर्यन्तं बहिर्वामहस्तेन विन्यस्य । ज्वलन्तं. खम् ॥ वामकर्परादारभ्य अगुल्यग्रपर्यन्तं बहिर्दक्षिण हस्तेन विन्यस्य ॥ नृसिंहं. भद्रं दक्षिण कर्परान्तसन्न्धरारभ्याङ्गुल्यग्रपर्यन्तं वामहस्तेन विन्यस्य । मृत्युमृत्युं. म्यहं हं ईं ॐ तथैव वामकरुपरान्तं सन्धेरारभ्याङ्गुल्याग्रपर्यन्तं दक्षहस्तेन विन्यस्य ॥ हं इति दक्षिणकरतलं स्फालयेत् ॥ हं ईं इति वामकरतलं स्फालयेत् ॥ ॐ इति करौ सम्पुटयेत् । ॐ ईं हं उग्रं वीरं ष्णुं. हं ईं ॐ अं शुक्लवर्णाय आनन्दात्मने अङ्गुष्ठा. ॥ ॐ ज्वलन्तं. मुखं ॐ ह्रीं श्रीं घृणिः सूर्य आदित्यः श्रीं उं कृष्णवर्णाय प्रियात्मने तर्जनी. ॥ अं नृसिंहं. भद्रं ॐ भूर्लक्ष्मीं सुवः कालकर्णं तन्नो महालक्ष्मीः प्रचोदयात् मं पिङ्गलवर्णाय ज्योतिरात्मने मध्यमा. ॥ ॐ मृत्युम्यहं हं ईं ॐ ॐ नृसिंहाय । तन्नृसिं. ॐ हेमवर्णाय मायात्मने प्रणमामि. ॥ ॐ ईं हं उग्रं. मुखम् ॥ नृसिंहं. म्यहं हं ईं ॐ ॐ सहस्रार हुं फट् सर्ववर्णाय सत्यात्मने कनिष्ठिका करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि नेत्रवर्जं पञ्चांङ्गन्यासं कुर्यात् ॥ स्मार्तन्न्यासं विधायादौ पश्चाच्छ्रौतं समाश्रयेदिति वचनात् श्रौन्तन्यासासूर्वयेव स्मार्तन्यासं कुर्यात् ॥ इति स्मार्तन्यासः ॥ अथ श्रौतन्यासः ॥ ततः प्रथमतः आत्मानं सङ्कलीकर्तुं द्विस्वरसाम्नानुष्ठुभं द्वे द्वे अक्षरे उदात्तानुत्ताभ्यां गायेत् ॥ तत्रादौ प्रणवं गायेत् । तथाहि ॥ अऊ ३४५६ उदात्तः म ॐ ३४५६ भू ॥ अनुदात्त ॥ अऊ ३४५६ उ. म ओ ३४५६ मू ॥ अ. इति प्रणवगानम् ॥ इं हा ३४५६ मू उ. ईं हा ३४५६ मू अ. ॥ ईं ह ३४५६ मू उ. ईं हा ३४५६ मू अनु. ॥ इति शक्तिबीजे प्रगाय ॥ उग्रं ३४५६ मू उ. वीरं ३४५६ मू अनुदात्त ॥ महा ३४५६ उ. विष्णु ३४५६ मू अ. ॥ ततः पूर्ववत्प्रणवं प्रगाय ॥ ज्वल २३४५ मू उ. तं सं २३४५ अ. र्वतो २३४५ उ. मुख २३४५ मू अ. ॥ ॐ ह्रीं श्रीं घृणिः सूर्यादित्यः श्रीम् ॥ इति सावित्र मन्त्रं जपेत् ॥ न तु गायेत् ॥ नृ सी २३४५ मू उ. हं भी २३४५ अ. ष ण २३४५ मू उ. । भद्र २३४५ मू अ ॥
ॐ भूलक्ष्मी भुवर्लक्ष्मीसुवः कालकर्ण तन्नो महालक्ष्मीः प्रचोदयात् ॥ इति यजुर्लक्ष्मी मन्त्रं गीतरहितं जपेत् ॥ मृत्यू २३४५ उ. मृत्यू २३४५ मू अ. ॥ न मा २३४५ उ. म्य ह २३४५ मू अ. ॥ ततः ॐ नृसिंहाय वि. ॥ तं नृसिं. त् इति उल्का गायेत् ॥ यथा ॐ नृ २३४५ उ. सिंहा २३४५ अ. । य वी २३४५ उ. द्महे २३४५ अ. । वज्र २३४५ उ । नखा २३४५ अ व य धी २३४५ उ. मही २३४५ अ. । तन्नः २३४५ उ. । सिंहः २३४५ अ. । प्रचो २३४५ उ. द या २३४५ त् अ. ॥ ततो मिश्रणसाम ॥ यथा इ म २३४५ उ. । हं उ २३४५ अ. । ईं म २३४५ उ. । हं ॐ २३४५ ं अ. । ततः सामराजात्मकोहं इति परिभाव्य ॥ आत्मानं सकलीकृतिं भावयित्वा अनेन साम्ना न्यासेन मम व्यापको न्यासः सम्पाद्यताम् ॥ इति सर्वाङ्गेषु व्यापकं कुर्यात् ॥ ततः अङ्गुष्ठाग्रेण तर्जनीमध्यपर्वस्पृशता अङ्गुष्ठाग्रेण कनिष्ठिकामूलपर्वस्पर्शेन उदात्तानुदात्ताभ्यां मुखहस्ताभ्यां गायेत् ॥ अ ऊ २३४५ उ. । म ॐ २३४५ म अ । अ ऊ २३४५ उ. । ं ॐ २३४५ म अ. ॥ इति प्रणवम् ॥ ईं हं २३४५ ं उ. । ईं ह २३४५ ं इति शक्ति बीजे ॥ उग्र २३४५ ं उ. वीर २३४५ ं अ. । महा २३४५ उ. । विष्णु २३४५ म्. अ. । पुनः प्रणवं प्रगाय अं श्वेतवर्णाय । अङ्गुष्ठा. ॥ द्वितीयपादं गायेत् ॥ ॐ ईं हं ज्वल २३४५ ं उ. । तं स २३४५ अ. । र्वतो २३४५ उ. । मुखा २३४५ ं अ. ॥ ॐ ह्रीं श्रीं घृणिः सू. श्रीं उं कृष्णवर्णाय त्रि. तर्ज. ॥ ॐ ईं हं नृसी २३४५ ं उ. । हं भी २३४५ अ. षण २३४५ ं उ. । भद्र २३४५ ं अ. ॥ ॐ भूर्लक्ष्मी भुवर्लक्ष्मी. या त् मं पिङ्गल वर्णाय ज्योति. । मध्यमा. ॥ ॐ ईं हं मृत्यू २३४५ उ. मृत्यू २३४५ ं अ. ॥ नमा २३४५ उ. । म्यह २३४५ ं अ. ॥ ॐ नृ २३४५ अ. । य धी २३४५ उ. । मही २३४५ अ. । तन्जः २३४५ उ. । सिंहः २३४५ अ. । प्रचो २३४५ उ. दया २३४५ त् अ. ॥ मिश्रणसाम ॥ इमा २३४५ उ. । हं उ २३४५ अ. । ईं मा २३४५ उ. ॥ हं ॐ २३४५ म अ. । ॐ हेमवर्णाय माया. अनामि । अ ऊ । म ॐ म् । अऊ । मॐ म् ॥ इति प्रणवम् । इं हम् । ईं हाम् । ईं ह म् । ईं हाम् ॥ इति शक्तिबीजे ॥ उग्रम् । वीरम् । महा । विष्णुम् । पुनः प्रणवं च प्रगाय ॥ ॐ ईं हं ज्वलम् । तं स । र्वतो । मुखम् ॥ ॐ ह्रीं श्रीं घृ. श्रीं ॐ विद्युद्वर्णाय ज्ञाना । कनिष्ठि॥। उभय कनिष्ठिकयोर्नखध्वनिं कुर्यादिति साम्प्रदायः ॐ ईं हं नृसीम् । हं भी । षणाम् । भद्राम् । ॐ भूर्लक्ष्मी भुव. दयात् ॥ ॐ ईं हं मृत्यूम् । मृत्युम् । नमा । म्यहम् ॥ नृसिंहगायत्रीं गीत्वा मिश्रणसामं च गीत्वा ॐ सर्ववर्णाय सत्या. करतल इति द्विस्वरानुष्टुप् सामविधिः ॥ अथ षट्स्वरगानलक्षणमाह ॥ औदात्तघद्वयमत्र कृत्वा नीचैस्तृतीयं त्वथ चतुर्थपञ्चमे ॥ स्वरेण मध्ये न पुनस्तु षष्ठसुच्चैरनुच्चैर्मुनिपर्वताक्षरैः ॥ १॥ अत्र चाङ्गुष्ठोत्तमपर्वण उच्छ्रीभावेनैकम् । वक्रीभावेनैकम् ॥ तर्जनीमध्यमोपकनिष्ठिकामध्यपर्वस्पर्शैस्त्रीन्कनिष्ठिकामध्यपर्वस्पर्शेन अपरं तन्मूलपर्वस्पर्शेन अपरमित्युच्चमारभ्य तन्त्रनीचक्रमेण सप्तस्वरानुक्वाभाष्यकारेण निम्बादित्यस्वामि भिश्चोक्तम् ॥ तच्च । आद्यं अक्षरद्वयं तत्त्वस्ताङ्गुष्ठोत्तम पर्वोच्छ्रयेण ॥ तृतीयतमक्षरं कनिष्ठिकामूलपर्वस्पर्शेन चतुर्थपञ्चमं च एकैकमक्षरं पृथक्पृथक् अङ्गुष्ठेन तर्जन्यास्पर्शेन तत्सहिताङ्गुल्या मध्यमाया उपकनिष्ठिकायाः कनिष्ठिकायाश्च क्रमेण मध्यपर्वस्पर्शेन षष्ठमङ्गुष्ठोत्तमपर्वछ्रयेण ॥ सप्तमाष्टमाक्षरे मिलिते कनिष्ठिकामूलपर्वस्पर्शेन मुखेन च प्रगाय ॥ अत्र षट्स्वरगान कालदीर्घाक्षराणि वामाङ्गुलिभिर्गृह्णीयात् इत्येवं यथाविहितस्वरैर्गायेत् ॥ इति षट्स्वरसामलक्षणम् ॥ अथ षट्स्वरेण साम्ना पञ्चाङ्गोपास्तिरुच्यते ॥ गानप्रकारश्चैवम् ॥ ॐ ऽऽऽ । ऽऽऽ । ऽऽऽ । म् ॥ अ ऊ ३४५६ उ. म ३४५६ अ. । ॐ ३४५६ मध्यम । अ ३४५६ म. । ऊ ३४५६ उ. । म ॐ ३४५६ ं अ. ॥ इति प्रणवगानम् ॥ इ ह ३४५६ म उ. । ईं ३४५६ अ. हं ३४५६ म् । म्. । ईं ३४५६ म. । ह ३४५६ म् ॥ उ. । ईं ह ३४५६ ं अ । इति शक्तिबीजे प्रगाय ॥ अथ प्रथमपाद तृतीयषष्ठाक्षरग्रहणसहितं प्रगाय यथा ॥ उग्र ३४५६ ं उ. । वी ३४५६ अ. । रं ३४५६ म. । म ३४५६ म. । ह ३४५६ उ. । विष्णु ३४५६ ं अ । इति गीत्वा ॥ अ ऊ उ. । मा अ. । ॐ म् । म. अ । म. । उ । उ. । म ॐ म अ. । इति प्रणवषट्स्वरेण गीत्वा ॥ हदि करं निधाय ॥ ओंस सागरां सपर्वतां सप्तद्वीपां वसुन्धराम् ॥ इति पृथ्वीलोकात्मकत्वं मन्त्रसाम्नोरादि पादस्य परमेश्वरं हृदयस्थं च भावयित्वा ॥ अग्निर्वैदेवा इदं सँर्वविश्वाभूतानि प्राणा वा इन्द्रियाणि पशवोन्नममृत्ँ संराट् स्वराट् विराट् ॥ इति अग्न्यात्मकत्वं परिभाव्य ॥ तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिऋविदो ब्रह्मावसवोगायत्रीगार्हपत्यः ॥ इति प्रणवमात्रा गर्हपत्यात्मकतां च परिभाव्य ॥ सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिः प्रज्ञः सत्पाङ्ग एकोनविंशतिमुखस्थूलभुग्वैश्वानरः प्रथमः पादः ॥ इति जागृदवस्था विश्वात्मकं परिभाव्य ॥
ॐ ईं हं उग्रं. विष्णुं ॐ अश्रुक्लव हृदया. ॥ ततो द्वितीयपादं षष्ठाक्षरग्रहणसहितं षट् स्वरेण गायेत् ॥ यथा । ज्वल ३४५६ ं उ । त ३४५६ ं अ । स ३४५६ म । र्व ३४५६ म. । तो ३४५६ उ. । मुख ३४५६ ं अ ॥ इति गीत्वा शिरसि पल्लवाकृतिं करं निधाय । यक्षगन्धर्वाप्सरोगणैः सेवितमन्तरिक्षम् ॥ इति अन्तरिक्षलोकात्मकत्वं स्वशिरसि परिभाव्य ॥ ऋग्यजुः सामाथर्वरूपः सूर्योत्तरादित्ये हिरण्मयः पुरुषः ॥ इति सूर्यात्मतां परिभाव्य ॥ द्वितीयान्तरिक्षसौकारः स यजुभिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुप् दक्षिणाग्निः ॥ इति तारद्वितीयमात्रां दक्षिणाग्निरूपताञ्च परिभाव्य ॥ स्वप्नस्थानान्तः प्रज्ञः सप्तांङ्गएकोन विंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ इति स्वप्नावस्थां तैजसात्मकतां च परिभाव्य ॥ ज्वलन्तं. खं ॐ ह्रीं श्रीं घृ त्यः श्रीं ऊं कृष्णवर्णा. शिरसे. ॥ स ईं पाहियऋजीषीतरुत्रः ॥ श्रियं लक्ष्मीमौपलामाल्मिकां गाम् ॥ षष्ठीं च यामिन्द्रसेनेत्युताप्याहुस्तां विद्यां ब्रह्मयोनिँसरूपां तामिहायुषे शरणमहं प्रपद्ये ॥ इति श्रियादि सप्तभिः शक्तिभिरभिषिच्यमानं ईश्वरशिरोङ्गं भावयेत् ॥ अथ द्वितीय-चतुर्थाक्षरग्रहणसहितं तृतीयपादं गायेत् ॥ नृसी ३४५६ ं उ. । ह ३४५६ ं अ । भी ३४५६ म. । ष ३४५६ म. । ण ३४५६ ं उ. । भद्र ३४५६ ं अ. ॥ इति षट्स्वरेण गीत्वा शिखायामाबध्वमुष्टिमङ्गुष्ठं नीत्वा ॥ रसुरुद्रादित्यतैः सर्वै देवैः सेवितं दिवम् ॥ इति द्युलोकात्मकतां सामानुष्टुप् तृतीयपादस्य परमेश्वरशिखां च परिभाव्य ॥ ॐ औषधीनां प्रभवति तारापतिः सोमः ॥ इति सोमात्मकतां विभाव्य ॥ तृतीया द्यौः स मकारः ससामभिः सामवेदो रुद्रादित्याजगत्या हवनीयः ॥ इति तारतृतीय मात्रामाहवनीयात्मकतां च परिभाव्य ॥ यत्र सुत्पो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तं सुषुप्तस्थानएकीभूतः प्रज्ञानघन एवानन्दमयोह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पाद् एष सर्वेश्वर एव सर्वज्ञ एषोन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौहि भूतानाम् ॥ इति सुषुप्तावस्थां प्राज्ञात्मतां च परिभाव्य ॥ नृसि. भद्रं ॐ भूर्लक्ष्मी दयात् । मं पिङ्गलवर्णाय । शिखायै वषट् ॥ ततः द्वितीय चतुर्थाक्षर-ग्रहणसहितं चतुर्थपादं नृसिंहगायत्रीमिश्रणसामं च गायेत् ॥ मृत्यू ३४५६ उ. । मृ ३४५६ अ॥ त्यु ३४५६ म् । म. । न ३४५६ म. । मा ३४५६ उ. । म्यह ३४५६ ं अ. ॥ अथ नृसिंहगायत्री ॥ ॐ नृ ३४५६ उ. । सिं ३४५६ अ. । हा ३४५६ म. । य ३४५६ वी ३४५६ उ. । द्म हे ३४५६ अ. । वज्र ३४५६ उ. । न ३४५६ अ. । खा ३४५६ म. । य ३४५६ म. । धी ३४५६ उ. । महि ३४५६ अ. । तन्नः ३४५६ उ. । सिं ३४५६ अ. । हः ३४५६ म. । प्र ३४५६ म. । चो ३४५६ उ. । दया ३४५६ त् अ. । अथ मिश्रणसाम ॥ इमा ३४५६ उ. । हं ३४५६ं अ. । उ ३४५६ म. । ईं ३४५६ ं म. । मा ३४५६ उ. । हं ॐ ३४५६ म अ. । इति गीत्वा ॥ हस्तौ स्कन्धयोर्निधाय ॥ ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकम् ॥ इति ब्रह्मस्वरूपममिति ब्रह्मलोकः ॥ सामानुष्टुप् चतुर्थपादस्थ परमेश्वरस्य च ब्रह्मलोकात्मकतां परिभाव्य ॥ स ब्रह्मा स शिवः स हरिः स इन्द्रः सोग्निः सोक्षः परमः स्वराट् ॥ इति परमात्मतां परिभाव्य ॥ यावसानेस्य चतुर्थ्यर्द्धमात्रा सा सामलोक ॐ कारः सा अथर्वणैर्मत्रैरथवंवेदः संवर्त्तकोग्निर्मरूतो विराडेकऋषिर्भास्वती स्मृता ॥ इति प्रणवार्द्धतुरीयमात्रां संवर्त्तकोग्निरूपताञ्च परिभाव्यः ॥ न बहिःप्रज्ञं नान्तः प्रज्ञम् । नोभयतः प्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमहष्टमव्यवहार्यमानाह्यमलक्षणम-चिन्त्यमव्यपदेश्यसेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं तच्चतुर्थमन्यन्ते स आत्मसविज्ञेयः ॥ इति तुर्यावस्थां मन्त्रसाम्नोश्चतुर्थपादस्य परमेश्वरकवचस्य च भावयित्वा ॥ ॐ मृत्युं मृत्युं. हं हं ईं ॐ ॐ नृसिंहा. ॥ तन्नृसिं. त् ॥ ॐ हेमवर्णा । नेकवचा. ॥ इति हस्ताभ्यां कवचन्यसेत् ॥ चत्वारो वेदाः साङ्गाः सशाखाश्चत्वारः पादाश्चत्वार्यङ्गानि भवन्ति सप्रणवं सर्वं पञ्चमं भवति ॥ अथ प्रत्यक् चैतन्यं महाचक्राख्यं पञ्चममस्त्राङ्गमुच्यते ॥ ततो मन्त्रसाम्नोश्चरणचतुष्टयरूपत्वेन परमेश्वरस्य च अस्त्ररूपतया भावयेत् ॥ अथादौ श्रीनृसिंहस्य नाक्ष्यामेव उत्तराधरभावेन स्थितं क्षीरसागरमध्योल्लासि श्वेत-द्वीपस्थं महाचक्रं ध्यायेत् ॥ षडरं वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट् पत्रं चक्रं भवति षड् वा ऋतवऽ ऋतुभिः सम्मितं भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः प्रतिष्ठिता भवन्ति मायया वा एतत्सर्वं वेष्टितं भवति नात्मानं मायया स्पृशति तस्मान्मायया बहिर्वेष्टितं भवति ॥ यदेतच्चक्रं सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यान्तारकं भवति यदक्षरं नारसिंहमेकाक्षरं तद्भवति षट् सुपत्रेषु षडक्षरं सुदर्शनं भवति अष्टपत्रेष्वष्टाक्षरं नारायणं भवति द्वादशसुपत्रेषु द्वादशाक्षरं वासुदेवं भवति षोडशपत्रेषु मातृकाद्याः सबिन्दुकाः षोडशस्वरा भवन्ति द्वात्रिंशत्सुपत्रेषु द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं भवति तद्वा एतन्महाचक्रं सार्वकामिकं मोक्षद्वारं ऋ उन्मयं यजुर्मयं साममयं ब्रह्मयममृतमयं भवति ॥ तस्य पुरस्ताद्वसव आसते रुद्रा दक्षिणन्तं आदित्याः पश्चाद्विश्वेदेवा उत्तरतो ब्रह्मविष्णुमहेश्वराभ्यां सूर्याचन्द्रमसौ पार्श्वयोतदेतदृचाभ्युक्तम् ॥ ऋचो अक्षरे ॥ यस्तं नवे. सते ॥ सिंहासनोद्यच्छेषासनासीनस्य तत्फणामस्तकस्य श्रीनृसिंहस्य पुरतः ईशानतः करसंज्ञया अष्टौ वसवो न्यस्तव्याः ॥ कन्ध्रुक्य वसवे नृसिंहाय नमः ॥ खन्धराय वसवे नृसिंहाय नमः गं सोमाय वसवे नृसिंहाय नमः ॥ घं आपाय वसवे नृसिंहाय नमः ॥ उं अनिलाय वसवे नृसिंहाय नमः ॥ चं नलाय वसवे नृसिंहाय नमः ॥ छं प्रत्युषाय वसवे नृसिंहाय नमः ॥ जं प्रभासाय वसवे नृसिंहाय नमः ॥ इति वसवो न्यस्तव्याः ॥ झं वीरभद्राय रुद्राय नृसिंहाय नमः ॥ ञं शम्भवे रुद्राय नृसिंहाय नमः ॥ टं गिरीशाय रुद्राय नृसिंहाय नमः ॥ ठं अजैकपदाय रुद्राय नृसिंहाय नमः ॥ डं अहिर्बुध्न्याय रुद्राय नृसिंहाय नमः ॥ ढं पिनाकिने रुद्राय नृसिंहाय नमः । णं अपराजिताय रुद्राय नृसिंहाय नमः ॥ तं भुवनाधीशाय रुद्राय नृसिंहाय नमः ॥ थं कपालिने रुद्राय नृसिंहाय नमः ॥ दं स्थाणवे रुद्राय नृसिंहाय नमः ॥ धं भवाय रुद्राय नृसिंहाय नमः ॥ इति दक्षिणतो एकादश रुद्रान्विन्यस्य ॥ नं धात्रे सूर्याय नृसिंहाय नमः ॥ पं अर्यम्णे सूर्याय नृसिंहाय नमः ॥ फं मित्राय सूर्याय नृसिंहाय नमः ॥ बं वरुणाय सूर्याय नृसिंहाय नमः ॥ भं अंशवे सूर्याय नृसिंहाय नमः ॥ मं खगाय सूर्याय नृसिंहाय नमः ॥ यं इन्द्राय सूर्याय नृसिंहाय नमः ॥ रं विवस्वते सूर्याय नृसिंहाय नमः ॥ लं पूष्णे सूर्याय नृसिंहाय नमः ॥ वं पर्जन्याय सूर्याय नृसिंहाय नमः ॥ शं त्वष्ट्रे सूर्याय नृसिंहाय नमः ॥ षं विष्णवे सूर्याय नृसिंहाय नमः ॥ इत्यादित्याः पश्चान्यस्तव्याः ॥ वैश्वदेवेषु ळं क्षमिति विन्यसेत् ॥ ळं क्षं ऋतुदक्षसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः । ळं क्षं धुरि लोचनसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्री नृसिंहाय नमः ॥ ळं क्षं पुरूरवार्द्रवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः ॥ ळं क्षं कामकालसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः ॥ इति विश्वेदेवा उत्तरतो न्यस्तव्याः ॥ सव्यपार्श्वहं सूर्याय नृसिंहाय नमः ॥ दक्षिणपार्श्वे संसोमाय नृसिंहाय नमः ॥ दक्षिणे नैऋत्यां गं गणपतये नृसिंहाय नमः ॥ वामे ईशान्यां ह्निं भुवनेश्वर्यै नृसिंहाय नमः ॥ नाभ्यां तारमाम्ना विन्यस्य ॥ तत्र ब्रह्माविष्णुमहेश्वरान्विन्यसेत् ॥ ॐ ब्रह्मणे नृसिंहाय नमः ॥ उं विष्णवे नृसिंहाय नमः ॥ मं महेश्वराय नृसिंहाय नमः ॥ इति विन्यस्य । एतत्सर्वं नाभ्यामेव ॥ यथा ॥ ॐ श्रीं क्ष्रौं ॐ इति विन्यस्य ॥ एतच्चक्रे ईशानादि दिग्दलक्रमेण सर्वत्र सालङ्काराः सुदर्शनादि मूर्तीर्विन्यस्य चिन्तयेयुः ॥ तथा हि ॥ सं सुदर्शनाय नृसिंहाय नमः ॥ हं सुदर्शनाय नृसिंहाय नमः । स्रां सुदर्शनाय नृसिंहाय नमः ॥ रं सुदर्शनाय नृसिंहाय नमः ॥ हुं सुदर्शनाय नृसिंहाय । फट् सुदर्शनाय नृसिंहाय । एतच्चक्रस्थं असः पत्राणि चक्रतव इति बुध्या ईमित्यन्तर्मायया वेष्टयेदिति ध्यातव्यम् ॥
अथ्वष्ट पत्रेषु ॐ नारायणाय नृसिंहाय नमः । नं नारायणाय नृसिंहाय नमः । मों नारायणाय नृसिंहाय नमः । नां नारायणाय नृसिंहाय नमः । रां नारायणाय नृसिंहाय नमः । यं नारायणाय नृसिंहाय नमः । णां नारायणाय नृसिंहाय नमः । यं नारायणाय नृसिंहाय नमः । एतच्चक्रस्य अरान्वेन्दबुध्यापत्राणि गायत्री छन्दो बुध्या प्रतिपत्रहीमिति बहिर्मायया वेष्टयेदिति ध्यातव्यम् ॥ अथ द्वादशसुपत्रेषु ॐ वासुदेवाय नृसिंहाय नमः । नं वासुदेवाय नृसिंहाय नमः । मों वासुदेवाय नृसिंहाय नमः । भं वासुदेवाय नृसिंहाय नमः । गं वासुदेवाय नृसिंहाय नमः । बं वासुदेवाय नृसिंहाय नमः । वासुदेवाय नृसिंहाय नमः । वां वासुदेवाय नृसिंहाय नमः । सुं वासुदेवाय नृसिंहाय नमः । दें वासुदेवाय नृसिंहाय नमः । वां वासुदेवाय नृसिंहाय नमः । यं वासुदेवाय नृसिंहाय नमः । एतच्चक्रस्य अरान्वेदबुध्या पत्राणि जगती छन्दो बुध्या ह्रीमिति बहिर्मायया वेष्टयेदिति ध्यातव्यम् ॥
अथ षोडशसुपत्रेषु -
अं केशवाय नृसिंहाय नमः ।
आं नारायणाय नृसिंहाय नमः ।
इं माधवाय नृसिंहाय नमः ।
ईं गोविन्दाय नृसिंहाय नमः ।
उं विष्णवे नृसिंहाय नमः ।
ऊं मधुसूदनाय नृसिंहाय नमः ।
ऋं त्रिविक्रमाय नृसिंहाय नमः ।
ॠं वामनाय नृसिंहाय नमः ।
ऌं श्रीधराय नृसिंहाय नमः ।
ॡं हृषीकेशाय नृसिंहाय नमः ।
एं पद्मनाभाय नृसिंहाय नमः ।
ऐं दामोदराय नृसिंहाय नमः ।
ओं सङ्कर्षणाय नृसिंहाय नमः ।
औं वासुदेवाय नृसिंहाय नमः ।
अं प्रद्युम्नाय नृसिंहाय नमः ।
अः अनिरुद्धाय नृसिंहाय नमः ।
एतच्चक्रस्य अराः पत्राणि च षोडशकलाबुध्या ईमित्यन्तर्मायया वेष्टयेदिति ध्यातव्यम् ॥
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतो मुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।
ॐ उ ॐ ॐ नमो भगवते ब्रह्मणे श्रीनृसिंहाय नमः ।
ॐ ग्रं ॐ ॐ नमो भगवते विष्णवे श्रीनृसिंहाय नमः ।
ॐ वीं ॐ नमो भगवते महेश्वराय श्री नृसिंहाय नमः ।
ॐ रं ॐ नमो भगवते पुरुषाय श्री नृसिंहाय नमः ।
ॐ मं ॐ ॐ नमो भगवते ईश्वराय श्रीनृसिंहाय नमः ।
ॐ हां ॐ ॐ नमो भगवते सरस्वत्यै श्रीनृसिंहाय नमः ।
ॐ वि ॐ ॐ नमो भगवते श्रीयै श्रीनृसिंहाय नमः ।
ॐ ष्णुं ॐ ॐ नमो भगवते गौर्यै श्रीनृसिंहाय नमः ।
ॐ ज्वं ॐ ॐ नमो भगवते प्रकृत्यै श्रीनृसिंहाय नमः ।
ॐ लं ॐ ॐ नमो भगवते विद्यायै श्रीनृसिंहाय नमः ।
ॐ तं ॐ ॐ नमो भगवते ॐकाराय श्रीनृसिंहाय नमः ।
ॐ सं ॐ ॐ नमो भगवते चतसृभ्योर्ध्वमात्राभ्यः श्रीनृसिंहाय नमः ।
ॐ र्वं ॐ ॐ नमो भगवते वेदेभ्यः साङ्गेभ्यः सशाखेभ्यः श्रीनृसिंहाय नमः ।
ॐ तों ॐ ॐ नमो भगवते पञ्चभ्योग्निभ्यः श्रीनृसिंहाय नमः ।
ॐ मुं ॐ ॐ नमो भगवते सप्तभ्यो व्याहृतिभ्यः श्रीनृसिंहाय नमः ।
ॐ खं ॐ ॐ नमो भगवते अष्टभ्यो लोकपालेभ्यः श्रीनृसिंहाय नमः ।
ॐ नृ ॐ ॐ नमो भगवते अष्टभ्यो वसुभ्यः श्रीनृसिंहाय नमः ।
ॐ सिं ॐ ॐ नमो भगवते रुद्रेभ्यः श्रीनृसिंहाय नमः ।
ॐ हं ॐ ॐ नमो भगवते आदित्येभ्यः श्रीनृसिंहाय नमः ।
ॐ भीं ॐ ॐ नमो भगवते अष्टभ्यो ग्रहेभ्यः श्रीनृसिंहाय नमः ।
ॐ षं ॐ ॐ नमो भगवते पञ्चभ्यो महाभूतेभ्यः श्रीनृसिंहाय नमः ।
ॐ णं ॐ ॐ नमो भगवते कालाय श्रीनृसिंहाय नमः ।
ॐ भं ॐ ॐ नमो भगवते मनवे श्रीनृसिंहाय नमः ।
ॐ द्रं ॐ ॐ नमो भगवते मृत्यवे श्रीनृसिंहाय नमः ।
ॐ मृं ॐ ॐ नमो भगवते यमाय श्रीनृसिंहाय नमः ।
ॐ त्युं ॐ ॐ नमो भगवते अन्तकाय श्रीनृसिंहाय नमः ।
ॐ मृं ॐ ॐ नमो भगवते प्राणाय श्रीनृसिंहाय नमः ।
ॐ त्युं ॐ ॐ नमो भगवते सूर्याय श्रीनृसिंहाय नमः ।
ॐ नं ॐ ॐ नमो भगवते सोमाय श्रीनृसिंहाय नमः ।
ॐ मां ॐ ॐ नमो भगवते विराट् पुरूषाय श्रीनृसिंहाय नमः ।
ॐ म्यं ॐ ॐ नमो भगवते जीवाय श्रीनृसिंहाय नमः ।
ॐ हं ॐ ॐ नमो भगवते सर्वस्मै श्रीनृसिंहाय नमः ।
इति श्रीनृसिंहाकारमूर्ती विन्यसेत् ॥
एतच्चक्रस्य नालदण्डाश्च अरा इति वेदबुध्या विज्ञेया त्रिकोणपत्राणि च अनुष्टुप् छन्दो बुध्या विज्ञेयानिह्नीमिति बहिर्मायया वेष्टयेदिति ध्यातव्यम् ॥
ततः पूर्वतः षट् स्वरं सामगायेत् ॥ अ ऊ ॥ उ. म । अ. । ॐ ं म. । अ । म. । उ । उ. ॥ म । ॐ म् । अ. ॥ इति प्रणवः ॥ इं हा ॥ उ. । ई अ । हां म । इम् । म हम् । उ । ईं हम् । अ ॥ इति शक्तिबीजे ॥ उग्रम् ॥ उ । वी । अ । र म् । म. । म । म. । हा । उ । विष्णुम् । अ. । पूर्ववत्तृतीय षष्ठाक्षरग्रहणसहितं प्रगाय ॥ पूर्ववत् प्रणवं च गीत्वा ॥ द्वितीयपादं षष्ठाक्षरग्रहणसहितं गायेत् ॥ ज्वलम् । उ. । तम् । अ. स । म. । र्व । म. । तो । उ. । मुखम् । अ. ॥ ॐ ह्रीं श्रीं घृ श्रीम् । तृतीयपाद द्वितीयचतुर्थाक्षर ग्रहणसहितं गायेत् ॥ नृ सी म् । उ. । ह म् । अ. । भी । म. । ष । म । ण म् । उ । भद्रम् । अ ॥ ॐ भूर्लक्ष्मी भुवर्लक्ष्मी. दयात् ॥ ततः द्वितीय चतुर्थाक्षरग्रहणसंहितं चतुर्थपादं गायेत् ॥
मृत्यू । उ । मृ । अ । त्यु । म । न । अ । मा । उ । म्यहम् । अ । अथ नृसिंहगायत्री ॥ ॐ नृ । उ । सिम् । अ । हा । म । य । म वि । उ । द्महे । अ । वज्र उ. । न । अ । खा । म । य । म । धी । उ । मही । अ । तन्नः । उ । सिम् । अ । हः । म । प्र । म । चो । उ । दयात् । अ ॥ अथ मिश्रणसाम ॥ इमा । उ. । हम् । अ । ऊ । म । ईम् । म । मा । उ । हं ओम् । अ ॥ ॐ हं हं उं ग्रं वीरं मुखम् ॥ नृसिंहं । म्यहम् ॥ हं ईं ॐ ॐ सहस्रार हुं फट् ॥ सर्ववेददेवात्मकमहाचक्राग्न्यात्मने विद्युद्वर्णाय सत्यात्मने अस्त्राय फट् ॥ इति तर्जन्यङ्गुष्ठयोगेन कोटिद्वयास्त्रं न्यसेत् ॥ इत्येकोनविंशति अधिकदेवतात्मकं महाचक्रं पञ्चममस्त्राङ्गपरं ब्रह्मस्वरूपं हृदि ध्यायेत् ॥ एवं नेत्रवर्जितमिदं पञ्चाङ्गं विधाय ॥ उद्धाराक्षरपदपादक्षीरोदार्णवब्रह्माधिपति सामानि प्रगेयानि ॥ तत्रादौ उद्धारसाम गायेत् ॥ पादशः प्रगेयानि ॥ यथा ॥ ॐ ईं हं उग्रञ्ज्वलं नृसिं मृत्युं ३४५६ उ. वीरं तं सहं भी मृत्यु ३४५६ ं अ । महापर्वतोषणं नमा ३४५६ उ. । विष्णुं मुखं भद्रं म्यहं ३४५६ अ ॥ अथ मिश्रणसाम ॥ इ मा ३४५६ उ । हं उ ३४५६ अ । ईं मा ३४५६ उ । हं ॐ ३४५६ ं अ ॥ इत्युत्वारसाम ॥ अथ प्रणवं प्रगायेत् ॥ अ उ । उ । म ॐ म् । अ । ऊ । उ । म ॐ ं अ । इति प्रणव ॥ इं ह म् । उ । ईं ह म् । अ । इ हं म उ । ईं ह म् । अ. ॥ इति शक्तिबीजे ॥ अत्र मूलमन्त्राक्षराणि प्रणवसम्पुटितानि प्रगेयानि ॥ सर्वत्र उदात्तानुदात्ताभ्यां गायेत् ॥
ॐ उ ॐ । ॐ ग्रं ॐ । ॐ वी ॐ । ॐ रं ॐ ॐ मं ॐ । ॐ हा ॐ । ॐ वि ओम् । ॐ ष्णु ओम् । ॐ ज्व ॐ । ॐ लं ॐ । ॐ तं ॐ । ॐ स ॐ । ॐ र्व ॐ । ॐ तो ॐ । ॐ मु ॐ । ॐ खं ॐ । ॐ नृ ॐ । ॐ सिं ॐ । ॐ हं ॐ । ॐ भी ॐ । ॐ षं ॐ । ॐ णं ॐ । ॐ भ ॐ । ॐ द्रं ॐ । ॐ मृ ॐ । ॐ त्यु ॐ । मृ ॐ । ॐ त्युं ॐ । ॐ न ॐ । ॐ मा ॐ । ॐ म्य ॐ । ॐ हं ॐ । ततः पूर्ववत् मिश्रणसाम गायेत् ॥ इत्यक्षरसाम ॥ अथ प्रणवगानम् ॥ अ उ । म ॐ म् । अ उ । म ॐ म् । इति प्रणवम् ॥ हं ह म् । ईं हं म् । इं ह म् । ईं ह म् ॥ इति शक्तिबीजे प्रगाय ॥ अक्षर पदसाम्नोः प्रणवशक्तिबीजानां गानम् ॥ अतः परं ब्रह्माधिपति सामान्तं प्रणवशक्ति बीजानामुच्चारणमात्रम् ॥ अत्र मूलमन्त्रस्यैकादशपदशो गानं उदात्तस्वरेण च ॥ नत्वनुतात्तेन ॥ तथा हि ॥ उग्र ३४५६ म् । उ । वीरम् । उ । महाविष्णुम् । ज्वलन्तम् । सर्वतोमुखम् । नृसिंह । भीषणम् । भद्रम् । मृत्यमृत्युम् । नमामि । अहम् ॥ ततो मिश्रणं गायेत् ॥
अथ पादशो गानं पादसाम ॥ उदात्तानुदात्ताभ्यां गायेत् ॥ ॐ ईं हं उग्रंवीरं ष्णुं ३४५६ ं उ । ज्वलन्तं सर्व खं ३४५६ ं अ । नृसिंहं भी । द्रं ३४५६ म् । मृत्यु मृत्युं ह ३४५६ म् ॥ ततो मिश्रणसाम ॥ इति पादसाम ॥ ततः क्षीरोदार्णवसाम उदात्तानुदात्ताभ्यां गायेत् ॥ ॐ हं हं क्षीरो । दार्ण । वशा । यिनम् । नृके । सरि । योगि । ध्येयम् । परमम् ।. पदम् । ततो मिश्रण ॥ इति क्षीरोदार्णवसाम ॥ ॐ ईं हं ब्रह्मा ॥ धिप । तिः ब्रह्मणो । धिप । तिः ततो मिश्रणसाम ॥
अथ नृसिंहप्रीतये स्तुत्यर्थं सत्यसाम सच्चिदानन्दसाम च जपेत् ॥ ॐ ऋतँ सत्यं. पुरुषं नृकेसरि विग्रहम् ॥ कृष्णपिङ्गलमूर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् ॥ उमापतिः पशुपतिः पिनाकिनंह्यमिति द्युतिमीशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणाधिपतिः ॥ इति सत्यसाम ॥ ॐ तस्मादिदं सामसच्चिदानन्दमयं परं ब्रह्म तमेवं विद्वानमृत इह भवति ॥ इति सच्चिदानन्दसाम ॥ इति तृतीयः पटलः ॥ अथ श्रीनृसिंहं ध्यायेत् ॥ सत्यज्ञानेति यथोक्तरूपं ध्यायेत् ॥ अथ त्रैकालिका ध्यानानि ॥ क्षीरोदालयविद्रुमा चलनिभेस्यान्तेनमोस्तद्विषेदोर्भिश्चक्रधनुर्वराभयभृते नागेन्द्रमौलिलिषे ॥ भास्वन्नीलगलाय चोद्भटसटायाङ्कस्थपद्माजुषें विष्वक्सृष्टिवशीकृतामृतदृशे सिंहासनायानिशम् ॥ १॥ इति प्रातः ॥ क्षीराब्धिस्थो दधानो रथचरणगयो विद्युदाभः पिनाकम् ॥ वामोर्ध्वे मोक्षमुख्याखिलवरवरदो दक्षिणाधःकरेण ॥ वामाङ्के हस्तदत्ता भयद्रुतकनकत्विट्स्वयं नीलकण्ठो । भूयाल्लक्ष्मीनृसिंहो भुजङ्गफणिवृत्तो मत्कृते साभिमानः ॥ २॥ इति मध्याह्ने ॥ नौमि क्षीराम्बुनिधिशयिनं पूर्णराकेशवर्णम् ॥ लक्ष्मीकान्तं करतललसच्चापमिष्टाभयं च ॥ शेषच्छत्रं शशिसुखमुखं नीलकण्ठं त्रिनेत्रम् ॥ शान्तेः पुष्टे विपदि तरणं कारणं श्रीनृसिंहम् ॥ ३॥ इति सायङ्काले ॥
अथ विंशति श्लोकी ध्यानम् ॥
महाचक्रस्य नाभ्यां तु चिन्तयेत् क्षीरसागरम् ।
क्षीरसागरमध्यस्थं श्वेतद्वीपं विचिन्तयेत् ॥१॥
तन्मध्ये तु महादिव्यं प्रासादं रत्ननिर्मितम् ।
प्रासादमध्ये चन्द्राभं सिंहासनमनुत्तमम् ॥२॥
तस्योपरि महाभागं शेषाख्यं फणिमण्डिलम् ।
तदासनगतं देवं तत्फणैर्व्याप्तमस्तकम् ॥३॥
पूर्णेन्दु कोटिप्रतिभं नीलकण्ठं त्रिलोचनम् ।
बालेन्दुमण्डितसटं कुण्डलाभ्यां विराजितम् ॥४॥
अनेकरत्नखचितं मुकुटेन च शोभितम् ।
काञ्च्याङ्गुलीयवलयं नुपुराङ्गदभूषणैः ॥५॥
वरदाभयहस्तं च चक्रहस्तं पिनाकिनम् ।
सर्वाङ्गसुन्दरं देवं सर्वाभरणभूषितम् ॥ ६॥
स्रष्टारं सर्वजगतां त्रातारं सर्वकामदम् ।
तारैकाक्षरमध्यस्थं नृसिंहं दिव्यरूपिणं ॥ ७॥
योगपट्टासनस्थं च महामायेश्वरं विभुम् ।
वामभागेश्रितां देवीं नीलकुञ्चितमूर्द्धजाः ॥ ८॥
हेमारविन्दप्रतिभां मौक्तिकाभरणोज्वलाम् ।
दाडिमं सव्यहस्तेन दक्षेनालिङ्ग्य सप्ततिम् ॥ ९॥
देवस्याभिमुखीं ध्यायेद्भक्ताभीष्टफलप्रदाम् ।
लक्ष्म्याद्याः शक्तयो देवं वीजयन्त्यः समन्ततः ॥ १०॥
लावण्यामृततोयेन सिंञ्चित्योऽपि च सर्वशः ॥
शक्तिभिर्मदरत्नाभिः सर्वतः परिवारितम् ॥ ११॥
सिद्धगन्धर्वनागैश्च विद्याधरवधूगणैः ॥
चामरैवीराज्यमानं च लक्ष्म्याद्याभिश्च शक्तिभिः ॥ १२॥
गायन्तीभिस्तुवन्तीभिर्निषेवितम् ।
सनकाद्यैयगिवरैर्ब्रह्मेशाद्यैः सुरोत्तमैः ॥ १३।
दक्षेतिग्मद्युतिं चैव हिमांशुं वामतः स्थितम् ।
वेदैः साङ्गैर्मन्त्रवरैस्तूयमानं मुदान्वितम् ॥ १४॥
गीयमानं सुदेवेशं सामगैर्ब्रह्मवादिभिः ।
आयुधप्रवरैश्चैव मूर्तिमद्भिरुपासितम् ॥ १५॥
षभिः सुदर्शनैरन्तर्मायया समलङ्कृतम् ।
अष्टद्वादशपत्रस्थैः सेवितं परम मुदा ॥ १६॥
नारायणैर्वासुदेवैर्वेष्टितं ब्राह्ममायया ।
मातृकाभिः षोडशभिस्तयान्तर्मायेयावृतम् ॥ १७॥
द्वात्रिंशद्भिः नृसिंहैश्च वेष्टितं बाह्ममायया ।
वसुभीर्रुद्रैरादित्यैर्विश्वेदेवैर्यथाक्रमं ॥ १८॥
सर्वापत्तारकं चक्रं कालानलसमप्रभम् ।
एवं नृसिहं चक्रस्थं सकृत्ध्यायालि यो नरः ॥ १९॥
आचष्टे तारकं ब्रह्म कृपालुः परमेश्वरः ।
सर्वापभ्दयो विमुच्यते मृत्युं जयति दुस्तरम् ॥ २०॥
ऐहिकामुष्मिकान्भोगान्प्राप्नोत्यव्यहतान्नरः ॥
य इदं परमं गुह्यं नृसिंहं ध्यानमुत्तमम् ॥
पठत्यनुदिनं भक्त्या नृसिंहत्वमवाप्नुयात् ॥ २१॥
इति शेषभगवत्कृतं ध्यानं समाप्तम् ॥
अथ शतश्लोकी ध्यानम् ।
महाचक्रस्य सन्नाभिमण्डले त्रिगुणात्मनि ।
सुखं संवीत्क्षीरजलं चिन्तयेत् क्षीरसागरम् ॥ १॥
श्वेतद्वीपं च तन्मध्ये शब्दादिविषयात्मकः ।
जातिब्रह्मवनोपेतंस सद्रलंसिकताञ्चितम् ॥ २॥
मणिरत्नमये तत्र प्रासादे सुमनोहरे ।
श्वेतसिंहासनं ध्यायेत् श्वेतपद्मोत्तरच्छदं ॥ ३॥
शेषं तत्र विजानीयात्सप्तत्यापुच्छमण्डलैः ।
फणासहस्रमुपरि छत्रीकृत्य व्यवस्थितम् ॥ ४॥
श्वेतहारकिरीटाभ्यां दधानं मुसलं हलम् ।
रक्ताक्षं श्वेतपुष्पस्त्रक् नीलवस्त्रैककुण्डलम् ॥ ५॥
तदङ्गे चिलयेद्देवं नृसिहं पीतवाससम् ।
सूर्येन्दुकोटिमहसमरुणोत्तरवाससम् ॥ ६॥
श्वेताद्रिकान्तिवपुषं सत्यज्ञानसुखात्मकम् ॥
आसीनं योगपट्टेन चतुर्दष्ट्रं चतुर्भुजम् ॥ ७॥
प्रादक्षिण्येन दधतमूर्ध्वदक्षिणबाहुके ।
चक्रं पिनाकनभयं वरं करचतुष्टये ॥ ८॥
तप्तहाटककेशान्तं चन्द्रार्धकृतशेखरम् ।
सुकपोलं सुविस्तीर्णललाटफलकोज्वलम् ॥ ९॥
चन्द्रसूर्याग्निसङ्काशं वृत्तोत्फुल्लत्रिलोचनम् ।
फुरत्कमलकिञ्जल्कसमरोमान्तकर्णकम् ॥ १०॥
किञ्चिदुन्नतमध्येषत्फुल्लनासामनोहरम् ।
ललज्जिकाप्रपञ्चास्यप्रकाशितरदावलि ॥ ११॥
श्मश्रुलम्बितसृक्वाणं किञ्चिदुकुञ्चितभ्रुवम् ।
स्तब्धधूरोपमपक्ष्माणं तिर्यगालम्बिकेसरम् ॥ १२॥
ककुदं सशिरः कण्ठप्राकुञ्चितकचोच्चयम् ।
नीलग्रीवं प्रकृत्यात्मा श्रीवत्साङ्कितवक्षसम् ॥ १३॥
विस्तीर्णोरस्थललुठत्पुरुषात्मककौस्तुभम् ।
विष्टब्धपार्श्वपृष्ठास्थिमग्ननाभ्यङ्कितोदरं ॥ १४॥
तिर्यक्संस्थिजङ्घोरू जान्वाहितकरद्वयम् ।
तीक्ष्णोग्रनखवज्रालिरोचिर्विद्रावितासुरम् ॥ १५॥
तिर्यक्पादतलस्पर्शकृतार्थीकृतवासुकिम् ।
किरीटहारकेयूरकाञ्चीकटकभूषितम् ॥ १६॥
आयुक्तजङ्घाभरणं पादान्तव्याप्तनूपुरम् ।
रत्नांङ्गुलीयकज्योतिरुद्भासित दिगम्बरम् ॥ १७॥
समकर्णान्तविन्यस्तचारकुण्डलभूषितम् ।
पञ्चभूतात्मिकां पञ्चरूपां मालां च बिभ्रतम् ॥ १८॥
वामारूगतया लक्ष्म्याश्लिष्टं दक्षिणबाहुना ।
दधत्या वामहस्तेन दाडिमं सुमनोहरम् ॥ १९॥
स्वर्णरत्नाभरणया पीतकौशेयवस्त्रया ।
हिरण्यवर्णयान्यस्तदृशा स्वामिमुखाम्बुजे ॥ २०॥
नानारूपधरैः शस्त्रैः पृष्ठपार्श्वगतैः पृथक् ।
स्वस्वायुधोद्यतकरैः मूर्तिमद्भिरुपासितम् ॥ २१॥
सचामरैर्विरज्यमानं लक्ष्म्याद्याभिश्च शक्तिभिः ।
संसाक्ताभ्यनुरक्ताभिरन्याभिः परिवारितम् ॥ २२॥
यक्ष पन्नगगन्धर्वविद्याधरवधूगणैः ।
नृत्यवादित्रसङ्गीतस्तुतिभिः काङ्क्षितेक्षणं ॥ २३॥
सुरासुरगणैश्चैवं प्रसादावाप्तदर्शनैः ।
कृताञ्जलीभिराज्ञार्थं किङ्करैर्दूरतस्थितैः ॥ २४॥
अन्तरिक्षगतैः सिद्धैः योगिभिः सनकादिभिः ।
संस्तूयमानमेकाद्यैरृग्यजुःसाममन्त्रगैः ॥ २५॥
ऐशानीं दिशमारभ्य महाचक्रदलस्थितैः ।
पद्मासनैरभिमुखैर्वीक्षमाणं सुदर्शनैः ॥ २६॥
नारायणैर्वासुदेवैः केशवाद्यैर्यथाक्रमम् ।
ब्रह्माद्यैर्नारिसिंहैश्च स्वस्ववर्णायुधान्वितैः ॥ २७॥
पुरस्ताद्वसुभिस्तस्य रूद्रैर्द्दक्षिणस्थितैः ।
चक्रस्य पश्चादादित्यैर्विश्वेदेवैर्यथाप्युदक् ॥ २८॥
उपोपविष्टः पादान्ते ब्रह्मविष्णुमहेश्वरैः ।
स्वस्वायुधकरैरूध्वं कृताञ्जलिपुटधरैः ॥ २९॥
तथैवोपस्थितं चन्द्रसूर्याभ्यां पार्श्वयोद्वयोः ।
महाविभूतिसंस्थानं सर्वदेवात्मकं प्रभुम् ॥ ३०॥
ब्रह्माज्ञेयः शिरस्तस्य पितरः सर्वषयः सटाः ।
रुद्रो ललाटं विद्युत्भूरश्विनौ नासिके स्मृतौ ॥ ३१॥
श्रोत्रे दिशोथ गण्डौ द्वौ नारदस्तुम्बरूस्तथा ।
मुखमग्नीरदाभानि दंष्ट्रास्ता कालरात्रयः ॥ ३२॥
द्यावापृथिव्या वोष्ठौ द्वौ रसना तु सरस्वती ।
वेदा वाचस्पतिः कण्ठः स्कन्धौ गुहविनायकौ ॥ ३३॥
स्तनौ बृहस्पतिः शुक्रः सेन्द्रादेवास्तु बाहवः ।
सर्पा अङ्गुलयो ज्ञेयाः शस्त्रास्त्राणि तथा नखाः ॥ ३४॥
लक्ष्मीर्वक्षस्थलं तस्य प्राणो नारायणात्मकः ।
धर्मात्मानौ चर्म वर्म नाभिर्गगनमुच्यते ॥ ३५॥
जगच्च जठरं साध्याः पाश्वे द्वे इति हि श्रुतिः ।
पृष्ठं तु मरुतो देवा लिङ्गं तस्य प्रजापतिः ॥ ३६॥
उरू द्वौ वसवः प्रोक्तौ जङ्घे स्वचरणौ तु भूः ।
सिद्धाः साध्या पुरारोमा नद्यो धमनयः स्मृताः ॥ ३७॥
अस्थीनि पर्वतास्तस्य हिरण्यं रेत उच्यते ।
क्रोधो रुद्रः समाख्यातो ज्योतिर्भैरवरूपधृक् ॥ ३८॥
शङ्खचक्र गदाशाङ् चक्रं लोहित मुच्यते ।
शङ्खचक्रगदाशाः शङ्खशङ्खनिभः स्मृतः ॥ ३९॥
गदा चक्राब्ज शाङ्गी गतापीता निगद्यते ।
सशागचक्राब्जगदं शार्डीनीलाम्बुदप्रभम् ॥ ४०॥
बाणा जपानिभानीली शङ्खचक्रधनुर्धराः ।
खड्गचक्रगदाशाङ्ग खड्गो धूम्रः प्रकीर्तितः ॥ ४१॥
गदाबुद्धिरहङ्कारः शङ्ख शाङ्गद्विधा स्थितम् ।
भूतादीन्द्रियादींश्च मनश्चक्रं विदुर्बुधाः ॥ ४२॥
शरास्तानिन्द्रियाण्याहुर्बुद्धिकर्मात्मिकानि वै ।
विद्यां खड्गं तथैवाहुरविद्या चर्म सूच्यते ॥ ४३॥
शूलं हलं च मुसलं धवलं त्रितयं स्मृतम् ।
शूलादि प्रथमं कृत्रा शङ्खचक्रगदाधराः ॥ ४४॥
चतुर्भुजास्ते चक्राद्याः सुवर्णवसनायुधाः ।
चक्रादि चिह्न मुकुटाः खड्गो ज्ञेयोरुणाम्बरः ॥ ४५॥
अथ षट्श्लोकैः कथ्यते ।
आद्या चतुर्थे चक्रे ऋतुपुरुषाख्यै रसैस्सदलैः ।
ईमिति पीतान्तत्रान्तर्मायया वेष्टिता नेमिः ॥ ४६॥
वेदाङ्गायत्री जगत्यनुष्टुभं दलं शेषम् ।
चक्रत्रितयं तत्र ह्निमिति शुक्ला बहिर्मायया ॥ ४७॥
स्फुरदट्टहासविकटोग्रदंष्ट्रदीप्ताननान् रौद्रान् ।
पिङ्गोर्ध्वभीमकेशान् भीमाक्षान्नवर विप्ररव्यान् ॥ ४८॥
चक्रधरं सरोजखङगाङ्कुशपाशमुसलगदाः ।
सह सर्वैराभरणैरमलैर्दधातः सुदर्शनान्वन्दे ॥ ४९॥
असितानसितसुपीतक्षितिलक्ष्मीभ्यां परिभक्तान् ।
चक्राम्बुजं शङ्खगदादधतो नारायणान्वन्दे ॥ ५०॥
प्रणतोऽस्मि वासुदेवान् चक्रधराम्बुजगदहस्तान् ।
निखिलविभूषणभूषित सितवपुषः सितरोजगतान् ॥ ५१॥
शङ्खचक्रगदापद्यैः केशवः कनकप्रभः ।
क्षीराम्भोब्जगदाचक्रधरैः नारायणः स्मृतः ॥ ५२॥
माधवः शङ्खचक्राब्ज गदाहस्तोजपानिभः ।
मनःशीलाभो गोविन्दो गदापद्मदरादिभिः ॥ ५३॥
सपद्मशङ्खादिगदो विष्णुश्चालक्तकप्रभः ।
शङ्खचक्रगदापद्यैरर्जुनो मधुसूदनः ॥ ५४॥
सगदाशङ्खचक्राब्जो नीलाब्जाभस्त्रिविक्रमः ।
रक्तश्चक्रगदापद्मशङ्खैर्वामन उच्यते ॥ ५५॥
चक्रीदारीगदीसाजश्रीधरः कुमुदप्रभः ॥
काश्मीराभो हृषीकेशः सचक्राब्जदरोगदी ॥ ५६॥
पद्मचक्र गदाशङ्गैः पद्मनाभो जनप्रभः ।
दामोदरः शङ्खगदाचक्राब्जैः क्षीरसन्निभः ॥ ५७॥
स्फटिकाभो वासुदेवः शङ्खाद्यब्जगदाधरः ।
सङ्कर्षणोदराब्जादिदरैः कनकसन्निभः ॥ ५८॥
शङ्खागदीसाब्जचक्री प्रद्युम्नो वज्रसन्निभः ।
गदीशङ्खी साब्जचक्रस्त्वनिरुद्धो सितप्रभः ॥ ५९॥
ब्रह्माद्या नारसिंहास्तु स्वस्वलक्षणलक्षिताः ।
नृसिंहाकारवदनाः सर्व एव त्रिलोचनाः ॥ ६०॥
दधाति स्रुवरस्रुवौ ब्रह्माविष्णुश्चक्रसशङ्खकम् ।
महेश्वरः शूलचापौ पुरुषः शङ्खचक्रभृत् ॥ ६१॥
दद्याति चेश्वरः शूलं डमरूं च यथाक्रमम् ।
लेखनी पुस्तकं चेति दधाति द्वे सरस्वती ॥ ६२॥
पद्मद्वयं दधाति श्रीगौरी नीलोत्पलद्वयम् ।
प्रकृतिश्व तथा -विद्या पाशाङ्कुशधरे शुभे ॥ ६३॥
अभीतिवरदाः सर्वे धवलास्ते चतुर्भुजाः ।
पुरुषं द्विभुजं केचित् प्रवदन्ति निरायुधम् ॥ ६४॥
एकादशोत्तरे विश्वरूपधृक् चक्रशङ्खिनः ।
ॐ काराङकित वक्षांस्तु पीतओङ्कार उच्यते ॥ ६५॥
ओङ्कारानन्तरं मात्राश्चतस्रस्तस्य संस्थिताः ।
वेदाः साङ्गाः सशाखाश्च विज्ञेयास्तदनन्तरम् ॥ ६६॥
पञ्चाग्नेयस्ततो ज्ञेयाः सप्तव्याहृतयस्तथा ।
लोकपालास्ततश्चाष्टौ वसवोष्टौ ततः स्मृताः ॥ ६७॥
रुद्राः परं ततो ज्ञेयाश्चादित्यास्तदनन्तरम् ।
अष्टौ ग्रहास्ततः पश्चान्महाभूतानि पञ्च च ॥ ६८॥
कालः पाशाङ्कुशीकालःश्चक्रं शङ्खीमनुस्मृतः ।
धूम्रः पाशाङ्कुशी मृत्युः श्यामौ ज्ञेयौ यमान्तकौ ॥ ६९॥
तौ पाशमुद्गरधरौ प्राणश्च क्रदरीसितः ।
रक्ताब्जद्वयवान् रक्तसूर्यः सोमस्तु पाण्डुरः ॥ ७०॥
दधात्यमृतसम्पूर्णं कुण्डं दण्डं च शोभनम् ।
स विराट् पुरुषो जीवः शुक्लश्चक्रदरायुधः ॥ ७१॥
सर्ववर्णायुधैः सर्वे चेतनाचेतनात्मकम् ।
ब्रह्मादिशक्तयश्चात्र सरस्वत्यादयः स्मृताः ॥ ७२॥
अर्धमात्राश्चतस्रस्ता ॐ कारस्यैव शक्तयः ।
सप्तव्याहृतयोग्नीनां वेदानां चैव शक्तयः ॥ ७३॥
वसवो हरिताः सर्वे ते ज्ञेया खङ्गचर्मिणः ।
शूलखङ्गाङ्गिनो रुद्राः शुक्ला भस्मकपर्दिनः ॥ ७४॥
आदित्या लोहिताः सर्वे रक्ता अद्वयधारिणः ।
विश्वेदेवाः सुविशदाः सर्वे बाणधनुर्धराः ॥ ७५॥
ब्रह्मा रक्तः सुवर्णाभो विष्णुः स्यात् श्यामसन्निभः ।
महेशः शुक्लवर्णश्च विज्ञेयः सिंहवक्त्रवः ॥ ७६॥
सर्वे चतुर्भुजास्तत्र केषाञ्चिद्विभुजः शशी ।
सकलावरणातीतं निरालम्बन-भावनम् ॥ ७७॥
नृसिहं भावयन्त्येते तन्मयास्तद्विभूतयः ।
मन्त्रमूर्तिधरस्यास्य साङ्गाः पादाः श्रुतीरिताः ॥ ७८॥
हृतशिरस्तु शिखा चैव कवचं च यथाक्रमम् ।
समग्रं च तथा मन्त्रमस्त्रन्नेत्रविवर्जितम् ॥ ७९॥
शस्त्राणि श्रीनृसिंहस्य पूर्वोक्तानि प्रचक्षते ।
अस्त्रं तदेव देवस्य महाचक्राख्यमीरितम् ॥ ८०॥
प्रणवस्य तु या मात्रास्ताभिस्तेषु हृदादिषु ।
भूर्भुवः स्वःस्त्रयो लोकाः ब्रह्मलोकस्तदाश्रयः ॥ ८१॥
अग्न्यादयस्तथा सूर्यः सोमब्रह्मादयः सुराः ।
चतुर्षु मन्त्रपादेषु समात्रेषु व्यवस्थिताः ॥ ८२॥
ऋग्यजुः सामाथर्वाणः साङ्गाः शाखाः समन्विताः ।
मन्त्रस्य पादाश्चत्वार इत्याथर्वणी श्रुतिः ॥ ८३॥
प्रणवः प्रथमः प्रोक्तो ब्रह्मरूपः सनातनः ।
रक्ताब्जद्वयंवान् रक्तो घृणिः सूर्यो द्वितीयके ॥ ८४॥
तृतीये तु यजुर्लक्ष्मीश्चार्वङ्गी पद्मधारिणी ।
तुर्ये नृसिंहगायत्री नृसिंहाकारधारिणी ॥ ८५॥
उक्तान्य'' गानि मन्त्रस्य साम्ना श्रुतिनिदर्शनात् ।
ज्ञातव्यं देवदेवस्य ध्यानं सर्वोत्तमोत्तमम् ॥ ८६॥
उद्धहणातीह भूतानि सर्वाण्युह्यतेऽपि च ।
सर्गे विसर्गैर्वासैश्च यस्तंवरं नमाम्यहम् ॥ ८७॥
विरामयति भूतानि सर्वाणि विरमत्पि ।
सर्गै विसर्गैर्वासैश्व यस्तं वीरं नमाम्यहम् ॥ ८८॥
स्वमहिम्ना जगत्सर्वं व्याप्नोति व्याप्यतेऽपि च ।
व्यतिषिक्तो महादेवो महाविष्णुं नमाम्यहं ॥ ८९॥
जलन्यस्तेजसा स्वेन ज्वालयन्नखिलं जगत् ।
अशेषमूर्तिर्विश्वात्मा ज्वलन्तं तं नमाम्यहम् ॥ ९०॥
सर्वतोक्षिश्रुतिघ्राणं सर्वतः पाणिपादकम् ।
सर्वेन्द्रियैरसम्बन्धं प्रपद्ये सर्वतोमुखम् ॥ ९१॥
जगद्धितं प्रपन्नोऽस्मि ह्यजितं वीर्यवत्तमम् ।
नृवच्च सिंहवच्चैव नृसिंहं परमेश्वरम् ॥ ९२॥
यस्य भीमस्य देवाद्याः सर्वे भीत्यातिभीषणम् ।
रूपं दृष्ट्वा पलायन्ते भीषणं तं नमाम्यहं ॥ ९३॥
भद्रं ददाति भक्तेभ्यो यः सदा भद्ररूपधृक् ।
भद्राचारस्य गोप्तारं भद्रं तं प्रणमाम्यहम् ॥ ९४॥
स्मृत एव हि भक्तानां यो हिंस्रान्मारयत्यजः ।
मृत्युं चेवापमृत्युं च मृत्युं मृत्युं नमाम्यहम् ॥ ९५॥
भक्त्या नमन्ति यं सर्वे देवाः सब्रह्म वादिनः ।
भुक्तिमुक्तिप्रदं सर्व नमस्कार्यं नमाम्यहम् ॥ ९६॥
यस्यात्मा सर्वमेवेदं योन्नः सर्व शरीरिणाम् ।
सर्वभूतेषु चात्मानं सर्वात्मानं नमामि तम् ॥ ९७॥
क्षीरोदार्णवमध्यस्थ योगिध्येयं परं पदम् ।
अमितद्युतिमीशानं प्रपद्ये तं पिनाकिनम् ॥ ९८॥
ऋतं सत्यं परं ब्रह्म पुरुषं चोर्ध्वरेतसम् ।
प्रपद्येहं विरूपाक्षं शङ्करं नीललोहितम् ॥ ९९॥
उमापतिं पशुपति तथा चैवामितद्युतिम् ।
ईशानं सर्वविद्यानां नरकेसरिविग्रहः ॥ १००॥
ईश्वरं सर्वभूतानां प्रपद्ये कृष्णपिङ्गलम् ।
तस्मात्तत्सच्चिदानन्दमयं ब्रह्मस्वरूपिणम् ॥॥ १०१॥
स्मृते सकलकल्याणं भाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ १०२॥
यन्नामकीर्तनं पुसां सद्यो दहति पातकम् ।
करोति चाक्षयं पुण्यं प्रपद्ये ह्यनघवृषम् ॥ १०३॥
यस्यावताररूपाणि सदार्चन्ति दिवौकसः ।
अजानन्तः परं रूपं तं वन्दे पुरूषोत्तमम् ॥ १०४॥
यस्य पादोदकैः स्नात्वा यस्योच्छिष्टानि भुञ्जते ।
नित्यं भागवता भक्त्या तं वन्दे सात्वतः प्रियम् ॥ १०५॥
अथ दशकश्लोकैः फलश्रुतिः ।
इदं ध्यानशतं नित्यं पठतः श्रृण्वतोऽपि वा ।
पुनर्भवभयं नास्ति परलोकभयं कुतः ॥ १॥
सर्वैश्वर्यं ददातीह सन्तुष्टः परमेश्वरः ।
देहान्ते तारकं ब्रह्म व्याचष्टे कर्णमूलके ॥ २॥
तदेव व्याप्तकामोयं कथं सन्तोष्यतां प्रभुम् ।
मा मन्यध्वमिति प्राज्ञा भक्तिग्राह्या हि देवता ॥ ३॥
तुलसीदलमात्रेण जलस्य चुलकेन तु ।
विक्रीणीते यमात्मानं भक्तोभ्यो भक्तवत्सलः ॥ ४॥
भवपाशं छिनत्येषः प्रददातात्यात्मनः पदम् ।
मानसार्चनमात्रेण भक्तिप्रीतो नृकेसरी ॥ ५॥
स्वधर्मपालनं सम्यगद्रोहः सर्वजन्तुषु ।
श्रुत्वा भक्तिः परेशस्य मूलं सन्तोषकारणम् ॥ ६॥
ज्ञानयोगसहस्राद्धि भक्तियोगो विशिष्यते ।
इति सञ्चिन्त्य सञ्चिन्त्य भक्तिमग्रे कृता बुधैः ॥ ७॥
संवत्सरोषिते देयमिदं ध्यानं सुधार्मिके ।
न चाभक्तेन चाशान्तेन चाशृद्धेन न चानृतौ ॥ ८॥
अस्थाने हि विनिर्मुक्ता मन्त्राः कृत्यास्तथैव च ।
तत्र निर्वीर्यतां प्राप्य विनिघ्नन्ति प्रयोजनम् ॥ ९॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १०॥
इति श्रीरत्नमालाया श्रौतपद्धतौ ध्यानशतकं नाम चतुर्थः पटलः ॥ ६॥ श्रीनृसिंह ॥ ६॥
एवं साङ्गं नृसिहं ध्यात्वा ॥
तदात्मकोऽहमिति भावयेत् ॥ अथ पुरश्चरणोपास्तिरभिधीयते ॥ तत्र प्रथमस्तावत्पुष्पांञ्जलीमन्त्राः तन्मन्त्रैर्महाचक्रं वर्त्तिनो ब्रह्मादि द्वात्रिंशद्व्यूहदेवतान्मूलं व्यूहं चाष्टचत्वारिंशन्मन्त्रैः प्रत्येकं मानसकुसुमाञ्जलिनोपासीत । तथा हि ॥
ॐ उं ॐ ॐ नमो भगवते ब्रह्मणे श्रीनृसिंहाय नमः ॥ पुष्पाञ्जलिं समर्पयामि ॥ एवं सर्वत्र ।
ॐ ग्रं ॐ ॐ नमो भगवते विष्णवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ वीं ॐ ॐ नमो भगवते महेश्वराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ रं ॐ ॐ नमो भगवते पुरुषाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ मं ॐ ॐ नमो भगवते ईश्वराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ हां ॐ ॐ नमो भगवते सरस्वत्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ बिं ॐ ॐ नमो भगवते श्रीयै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ ष्णुं ॐ ॐ नमो भगवते गौर्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ ज्वं ॐ ॐ नमो भगवते प्रकृत्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ लं ॐ ॐ नमो भगवते विद्यायै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ तं ॐ ॐ नमो भगवते ॐकाराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ सं ॐ ॐ नमो भगवते चतुसृभ्योर्धमात्राभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ र्वं ॐ ॐ नमो भगवते वेदेभ्यः साङ्गेभ्यः सशाखेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ तों ॐ ॐ नमो भगवते पञ्चभ्यो अग्निभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ मुं ॐ ॐ नमो भगवते सप्तभ्यो व्याहृतिभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ खं ॐ ॐ नमो भगवते अष्टभ्यो लोकपालेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ नृ ॐ ॐ नमो भगवते अष्टभ्यो वसुभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ सिं ॐ ॐ नमो भगवते रूद्रेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ हं ॐ ॐ नमो भगवते आदित्येभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ भीं ॐ ॐ नमो भगवते अष्टभ्यो ग्रहेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ षं ॐ ॐ नमो भगवते पञ्चेभ्यो महाभूतेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ णं ॐ ॐ नमो भगवते कालाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ भं ॐ ॐ नमो भगवते मनवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ द्रं ॐ ॐ नमो भगवते मृत्यवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ मृं ॐ ॐ नमो भगवसे यमाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ त्युं ॐ ॐ नमो भगवते अन्तकाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ मृं ॐ ॐ नमो भगवते प्राणाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ त्युं ॐ ॐ नमो भगवते सूर्याय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ नं ॐ ॐ नमो भगवते सोमाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ मां ॐ ॐ नमो भगवते विराट् पुरुषाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ म्यं ॐ ॐ नमो भगवते जीवाय श्रीनृसिंहाय नमः पुष्पाञ्जलिं समर्पयामि ।
ॐ हं ॐ हं ॐ ॐ नमो भगवते सर्वस्मै श्रीनृसिंहाय नमः पुष्पाञ्जलिं समर्पयामि ।
अथ मूलव्यूहे ॥
ॐ इं हं उग्राय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ ईं हं वीराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ इं हं महाविष्णवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ इं हं ज्वलन्ते श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ इं हं सर्वतोमुखाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ इं हं भद्राय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ इं हं मृत्युमृत्यवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ इं हं नमस्कार्याय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।
ॐ हं हं आत्मने श्रीनृसिंहाय नमः पुष्पाञ्जलिं समर्पयामि ।
इति पदानि ।
अथ पादाः ॥
ॐ इं हं उग्रं-विष्णूं इं हं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ ॐ इं हं ज्वलन्तं -मुखं हं इं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ ॐ इं हं नृसिंहं -भद्रं इं हं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ ॐ इं हं मृत्युं -म्यहं हं हं ईं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ इति पदोपास्ति ॥ ॐ इं हं उग्रं -खम् ॥ नृसिंहं -म्यहं हं हं इं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ एवं व्यूहद्वये च पुष्पाञ्जलिं प्रकल्पयेत् ॥
अथ उत्तरतापिनियोक्त मन्त्रैः मूलव्यूहे मालात्रयं समर्पयेत् ॥
ॐ अं हं सात्मकाय अपामग्नेस्तेजसा दीप्यमानः स नो मृत्योस्त्रायतां नमो ब्रह्मणे विश्वनाभिः ॥ ॐ नमो भगवते नृसिंहात्मने ब्रह्मणे व्यप्ततमाकाराय सर्वसाक्षिणे परमेश्वराय सर्वगताय अद्वयाय व्याप्ततमाय मायिने ॥ तत्सवितुः ऋक् ॥ अं उग्रं अ अं वीरं अ अं महाविष्णुं अ अं ज्वलन्तं अ अं सर्वतोमुखं अ अं नृसिंहं अ अं भीषणं अ अं भद्रं अ अं मृत्युमृत्युं अ अं नमामि अ अं अहं अ ॥ ॐ तत्सन्नमो ब्रह्मणे तत्सत् ॐ नमः ॥ ॐ नमो अजराय अमराय अमृताय अभयाय अशोकाय अमोहाय अनशनाय अपिपासाय अद्वैताय ॐ ह्रीं हंसः सोहं स्वाहा अं सर्वप्रकाशकाय कृत्रिमपूर्णाहङ्काराय सर्वाय सर्वान्तराय सर्वात्मने अद्वयाय प्रकाशप्रकाशकाय ॐ नमो ब्रह्मणे अं नमः सर्वसंहर्त्रे सततमहिम्ने ॥ अं हं उग्रं वीरं -म्यहम् ॥ ॐ ॐ नम इति अनेनोङ्कारमन्त्रेण देवस्य वामबाहुमूले विचित्रमन्त्ररचितां विचित्रमाला प्रयच्छेत् ॥ १॥ ॐ उं उग्रं वीरं -म्यहम् ॥ ॐ नमो भगवते नृसिंहात्मने ब्रह्मणे विष्णवे सर्वोत्कृष्टतमोङ्काराय परमार्थसत्यस्वरूपाय स्वप्रकाशाय असङ्गाय अनन्यदर्शिने अद्वयाय उत्कृष्टाय ॥ नारायणाय विद्महे वासुदेवाय धीमहि ॥ तन्नो विष्णुः प्रचोदयात् ॥ उं उग्रं उ । उं वीरं उ । उं महाविष्णुं उ । उं ज्वलन्तं उ । उं सर्वतोमुखं उ । उं नृसिहं उ । उं भीषणं उ । उं भद्रं उ । उं मृत्युमृत्युं उ । उं नमामि उ । उं अहं उ ॥
ॐ नमो भगवते वासुदेवाय ॐ नमः ॥
उं उत्कृष्टाय उदुत्पादकाय उदुत्प्रवेष्ट्र उत्थापयित्रे उद्रष्ट्रे उत्कर्जे उत्पथवारकाय उद्वंसनाय उदुद्भ्रान्तकाय उदुत्तीर्णविकृत्तये ॥ ॐ नमो नारायणाय उं सर्वनिर्णायकाय अकृत्रिमपूर्णोन्मेषोकाराय ॥ ॐ नमो विष्णवे उं नमः सर्व विचिकित्सानिरासकपूर्णोन्येषमहिम्ने हरिः ॥ उग्रं वीरं -हम् ॥ उं ॐ नम इति अनेनोङ्कारमन्त्रेण भगवतः कण्ठे आपादलम्बिनीं मालां दद्यात् ॥ २॥ ॐ त्र्यम्बकं ऋक् ॥ ॐ नमो भगवते नृसिंहात्मने परब्रह्मणे देवाय रुद्राय महाविभूतिमर्कराय महात्मने अभिन्नरूपाय स्वप्रकाशाय प्रत्यक्ब्रह्मणे व्याप्ततमाय उत्कृष्टतमाय सर्वप्रत्यक्रमाय सर्वज्ञाय महामायाविभूतये ॥ तत्पुरुषाय विद्महे ऋक् ॥ मं उग्रं मः ॥
मं वीरं मः ।
मं महाविष्णुं मः । मं ज्वलन्तं मः । मं सर्वतोमुखं मः । मं नृसिंहं मः । मं भीषणं मः । मं भद्रं मः । मं मृत्युमृत्युं मः । मं नमामि मः । मं अहं मः ॥ ॐ ह्रीं ह्रौं नमः शिवाय हंसः सोहं ॐ नमो भगवते महसेमानाय मुक्ताय महादेवाय महेश्वराय महासते महाचित्ते महानन्दाय महाप्रभवे ॐ ह्रीं ह्रौं नमः शिवाय मं सर्वमहते ब्रह्ममलङ्काराय सर्वजगन्मयाय सच्चिदानन्दरूपाय वाङ्मनोगोचरातीताय आनन्दानुभवस्वरूपाय अन्त्यप्रकाशाय ॥ ॐ नमः शिवाय मं नमः सर्वमनोद्रष्ट्रे सर्वनिर्वाहकाय सर्वप्रत्यूहकाय सर्वसम्पीडकाय सर्व सञ्ज्वालकाय सर्वभक्षकाय स्वात्मरूपदात्रेत्युग्रायातिवीरायातिमहाविष्णवेतिज्वलतेति सर्वतोमुखायाति नृसिंहायाति भीषणायाति भद्रायाति मृत्युमृत्यवेति नमामि नेत्यहङ्काराय स्वमहिमस्थाय हरः । उग्रं-हम् ॥ मं ॐ नम इति अनेन मकारमन्त्रेण भगवतो दक्षिणबाहुमूले मालां प्रयच्छेत् ॥ ३॥ इति मूलव्यूहे मालात्रयं समर्प्य द्वात्रिंशन्नमस्कारमन्त्राः ॥ तथा हि ॥ ॐ इं हं उग्रं श्रीनृसिंह नमाम्यहम् ॥ ॐ इं हं वीरं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं महाविष्णुं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं ज्वलन्तं श्रीरनृसिंहं नमाम्यहम् ॥ ॐ इं हं सर्वतोमुखं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं नृसिंहं नमाम्यहम् ॥ ॐ इं हं भीषणं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं भद्रं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं मृत्यमृत्युं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं नमामि श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं अहं श्रीनृसिंहं नमाम्यहम् ॥
अथ पाद ॥
ॐ इं हं उग्रं -ष्णुं -श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं ज्वलन्तं -खं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं नृसिंहं -द्रं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं मृत्यु -अहं श्रीनृसिंहं नमाम्यहम् ॥ अथ समग्रम् ॥ ॐ इं हं उग्रं -म्यहं इं हं ॐ श्रीनृसिंहं नमाम्यहम् ॥ इति षोडश ॥ एवं ब्रह्मादि द्वात्रिंश-द्व्यूहात्मकं षोडश नमस्काराः ॥ यथा ॥ ॐ इं हं उग्रं ॐ ब्रह्मादि द्वत्रिशन्द्व्यूहात्मकं श्रीनृसिंहाय नमः ॥ एवं सर्वत्र ॥ ॐ इं हं वीरं ॐ ब्रह्मादि द्वात्रिंशद्व्यूहात्मकं श्रीनृसिंहाय नमः ॥ ॐ इं हं महाविरष्णुं ॐ ब्रह्मादि द्रात्रिश ॥ ॐ इं हं ज्वलन्तं ॐ ब्रह्मादि. ॥ ॐ इं हं सर्वतोमुखं ॐ ब्रह्मादि. ॥ ॐ इं हं नृसिंहं ॐ ब्रह्मादि द्वा. ॥ ॐ भीषणं ॐ ब्रह्मान्दि ॥ ॐ इं हं भद्रं ॐ ब्रह्मादि द्वा॥। ॐ इं मृत्युमृत्युं ॐ ब्रह्मादि ॥ ॐ इं हं नमामि ॐ ब्रह्मादि द्वा. ॥ ॐ इं हं अहं ॐ ब्रह्मादि द्वात्रिंशव्यूहात्मकं श्रीनृसिंहाय नमामि ॥ इति पादोस्ति ॥ ॐ इं हं उग्रं ष्णुं ॐ ब्रह्मादि ॥ ॐ इं हं ज्वलं -खं ॐ ब्रह्मादि ॥ ॐ इं हं नृसिं -द्रं ॐ ब्रह्मादि ॥ ॐ इं हं मृत्यु -हं ॐ ब्रह्मादि ॥ इति पोदोपास्ति ॥ ॐ इं हं उग्रं -हं इं ॐ ॐ ब्रह्मादि द्वात्रिंशद्व्यूहात्मकं श्रीनृसिंहं नमाम्यहम् ॥ इति द्वात्रिंशन्नमस्कारमन्त्राः ॥
अथ पञ्चव्यूह अविलम्बेन श्रीनृसिंहसाक्षात्कारिणी श्रौतस्तुती विदधीत ॥
ईशानादि दिग्दलक्रमेण ॥ तथा हि ॥ यो वैत्यादि द्वात्रिंशन्मन्त्राणां ब्रह्मा ऋषिः ॥ नाना छन्दासि ॥ श्रीनृसिंहो देवता ॥ श्रीनृसिंहप्रीत्यै स्तवने विनियोगः ॥ ॐ उं ॐ ॐ यो वै नृसिंहोदेवो भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः ॥ ॐ ग्रं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च विष्णुस्तमै वै नमोनमः ॥ ॐ विं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च महेश्वरस्तमै वै नमोनमः ॥ ॐ रं ॐ ॐ यो वै नृसिंहो देवो भगवान् यश्च पुरुषस्तस्मै वै नमोनमः ॥ ॐ मं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च विश्वेश्वरस्तस्मै वै नमोनमः ॥ ॐ हां ॐ ॐ यो वै भगवान्या सरस्वती तस्मै वै नमोनमः ॥ ॐ विं ॐ ॐ यो वै नृ. न्या श्रीस्तस्मै. -॥ ॐ ष्णुं ॐ ॐ यो वै नृ. न्या गौरी तस्मै ॥ ॐ ज्वं ॐ ॐ यो वै -न या प्रकृतिस्तस्मै ॥ ॐ लं ॐ ॐ यो वै नृ.-न् या विद्यास्तस्मै वै ॥ ॐ तं ॐ ॐ यो वै नृ -न् यश्च ओङ्कारस्तस्मै वै नमोनमः ॥ ॐ सं ॐ ॐ यो वै नृ । -न् याः चतुस्रौर्धमात्रास्तस्मै वै. ॥ ॐ र्वं ॐ ॐ यो वै नृ. -न् ये वेदाः साङ्गाः सशाखाः तस्मै वै -॥ ॐ तों ॐ ॐ यो वै नृ. -न् ये च पञ्चाग्नयस्तस्मै ॥ ॐ मुं ॐ ॐ यो वै नृ -न् याः सप्तव्याह्रतयस्तस्मै ॥ ॐ खं ॐ ॐ यो वै नृन् ये चाष्टौ लोकपालाः तस्मै -॥ ॐ नृ ॐ ॐ यो वै नृ-न् ये चाष्टौ वसवस्तस्मै -॥ ॐ सिं ॐ ॐ यो वै नृ-न् ये च रूद्रास्तस्मै वै नमोनमः ॥ ॐ हं ॐ ॐ यो वै नृ-न् ये चादित्यास्तस्मै ॥ ॐ भीं ॐ ॐ यो वै नृ-न् ये चाष्टौ ग्रहास्तस्मै ॥ ॐ षं ॐ ॐ यो वै नृ -न् यानि पञ्चमहाभूतानितस्मै -॥ ॐ णं यो वै नृ-न् यश्च कालस्तस्मै ॥ ॐ भं ॐ ॐ यो वै नृ-न् यश्च मनुस्तस्मै ॥ ॐ द्रं ॐ ॐ यो वै नृ -न् यश्च मृत्युस्तस्मै - ॥ ॐ मृं ॐ ॐ यो वै नृ-नं यश्च यमस्तस्मै । ॐ त्युं ॐ ॐ यो वै नृ-न् यश्च आन्तकस्तस्मै ॥ ॐ मृं ॐ ॐ यो वै नृ-न् यश्च प्राणस्तस्मै । त्र्ॐ त्युं यो वै नृ -न् यश्च सूर्यस्तस्मै ॥ ॐ नं ॐ ॐ यो वै नृ -न् यश्च सोमस्तस्मै ॥ ॐ मां ॐ ॐ यो वै नृ -न् यश्च विराट् पुरुषस्तस्मै ॥ ॐ म्यं ॐ ॐ यो वै नृ-न् यश्च जीवस्तस्मै ॥ ॐ हं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च सर्वं तस्मै वै नमोनमः ॥
अस्यास्तुतेर्माहात्म्यं भगवान् श्रीनृसिंहैकवेद्यम् ॥
सुकृत्पुरश्चरणो महाविष्णुर्भवति महाविष्णु र्भवतीति द्विरावृत्यां श्रुतिः ॥ अथाभेदस्य प्रतिपत्तये सच्चिदानन्दानन्तात्मपदपूर्वा स्तुतिमन्त्रा ॥ तच्चेत्थम् ॥ ॐ उग्रं सच्चिदानन्दपूर्ण प्रत्यक् सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ ॐ वीरं सच्चिदानन्दपूर्णं प्रत्यक्सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ ॐ महाविष्णुं सच्चिदानन्दपूर्णं प्रत्यक्सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ ॐ ज्वलन्तं सच्चिदानन्द प्रत्यानचिन्दा - ॥ ॐ सर्वतोमुखं सच्चिदानन्द -ॐ नृसिंहं सच्चिदानन्द -॥ ॐ भीषणं सच्चिदानन्द- ॥ ॐ भद्रं सच्चिदनन्द ॥ ॐ मृत्युमृत्युं सच्चिदानन्दपूर्णं प्रत्यक्सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इति सन्मत्रनवकम् ॥ अर्थाचन्नवकं ॐ उग्रं सच्चिदानन्द प्रत्यक् चिदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ ॐ वीरं सच्चिदानन्द -प्रत्यक् चिदात्मानं. -॥ ॐ महाविष्णुं सच्चिदानन्द-प्रत्यक् चिदात्मानं -॥ ॐ ज्वलन्तं सच्चिदानन्द-प्रत्यक् चिदात्मानं. ॥ ॐ सर्वतोमुखं सच्चिदानन्द -॥ ॐ नृसिंहं सच्चिदानन्द -॥ ॐ भीषणं सच्चिदानन्द -॥ ॐ भद्रं सच्चिदानन्द -॥ ॐ मृत्युमृत्युं सच्चिदानन्दपूर्णं प्रत्यक् चिदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इति चिन्मन्त्रनवकम् ॥ अथानन्दमन्त्रनवकम् ॥ ॐ उग्रं सच्चिदानन्दपूर्णं प्रत्यकानन्दात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामीति प्रतिपदं पठेत् ॥ वीरं २ महाविष्णुं ३ ज्वलन्तं ४ सर्वतोमुखं ५ नृसिंहं ६ भीषणं ७ भद्रं ८ मृत्युमृत्युं ९ इत्यानन्दभन्त्रनवकम् ॥
अथानन्तमन्त्रनवकम् ॥ ॐ उग्रं सच्चिदानन्दपूर्णं प्रत्यगानन्त्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इति प्रतिपदं पठेत् ॥ एवं सर्वत्र ॥ वीरं २ महाविष्णुं ३ ज्वलन्तं ४ सर्वतोमुखं ५ नृसिंहं ६ भीषणं ७ भद्रं ८ मृत्युमृत्युं ९ इत्यानन्तमन्त्रनवकम् ॥ अथात्ममन्त्रनवकम् ॥ ॐ उग्रं सच्चिदानन्दपूर्णं प्रत्यगात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इति प्रतिपदं पठेत् ॥ वीरं २ महाविष्णुं ३ ज्वलन्तं ४ सर्वतोमुखं ५ नृसिंहं ६ भीषणं ७ भद्रं ८ मृत्युमृत्युं ९॥ इत्यात्ममन्त्रनवकम् ॥ इति पञ्चचत्वारिंशत् स्तुतिमन्त्राः ॥ एवं श्रीनृसिंहमहरहस्तुवीत । अथाशक्तपक्षे ॥ ॐ ई हं उग्रं हं हं ई ॐ सच्चिदानन्दपूर्णं प्रत्यक्सच्चिदानन्दानन्तात्मानं श्रीनृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इत्येवमग्रेण च एवं सच्चिदानन्दानन्तात्मपदैर्मूलमन्त्रस्य एकादशभिः पदैः चतुर्भिः पादैः समग्रेण च एवं षोडशस्तुतिमन्त्राः ॥ एवं देवमहरहस्तुवीत ॥ इति पुरश्चरणोपासना ॥ अनया पुरश्चरणोपासनया श्रीनृसिंहं सन्तुष्टमभिमुखीकृत्य ॥ अथ प्रधानोपासनामारभेत् ॥ पूर्ववत् ॐ इं हं उग्रं श्रीनृसिंहं नमाम्यहम् ॥ एवं प्रणवशक्तिबीजपूर्वकं वीरादि दशपदैश्चतुर्भिः पादैः समग्रेण च षोडश नमस्कारान्विधाय ॥ आपादतलमून्ध्यन्तं श्रीनृसिंहं मानस्तोषं ध्यात्वा ॥ पूजापरः सरमासनाद्युपच्चारान्मनसा व्युहद्वयाय प्रकल्पयेत् ॥
ब्रह्मकन्दसमुद्भूतं ज्ञानानलसमान्वितं ऐश्वर्याष्टदलोपेतं परं वैराग्यकर्णिकम् ॥ १॥ तस्मिन्पीठे चिदात्मानं श्रीनृसिंहं स्वरूपिणम् । पञ्चवर्णात्मकाशक्ति विद्वांसः समुदाहृता ॥ २॥ नादरूप शिवे षष्ठे संहृत्यात्मानुचिन्तनम् । उभयोरैक्यञ्चिता च तद्भवान्तकमान्तरम् ॥ ३॥ मानसार्चितैर्द्रव्यैश्चन्दमाद्यैर्मनोहरैः । अर्चयेद्देवदेवेशमान्तरं तद्वितीयकम् ॥ ४॥ आन्तरं द्विविधं प्रोक्तं न्यासानामिह योगिनाम् ॥ अन्येषां तु समाख्यातं बाह्यमाभ्यन्तरं खलु ॥ ५॥ मानसैः कुसुमैरर्चा सात्विकी सा शुभा मता । अनिर्माल्या पराशुत्वात् मोक्षदा सिद्धिदा शुभा ॥ ६॥ तस्मात्सर्वप्रयत्नेन मानसं यजनं ध्रुवम् । आदावेव प्रकर्तव्यं पश्जाद्द्रव्यैः सुविस्तरः ॥ ७॥ तच्चेत्थम् ॥
परमेश्वराय पञ्चोपचारान्कुर्यात् ॥ लं पृथिव्यात्मने गन्धतन्मात्राय प्रकृत्यानन्दात्मने घ्राणें -द्रियात्मने श्रीनृसिंहाय गन्धं कल्पयामि ॥ हं आकाशात्मने शब्दतन्मात्राय प्रकृत्यानन्दात्मने श्रोत्रेन्द्रियात्मने श्रीनृसिंहाय पुष्पं कल्पयामि ॥ यं वायव्यात्मने स्पर्शतन्मात्राय प्रकृत्यानन्दात्मने त्वगिन्द्रियात्मने श्रीनृसिंहाय धूपं कल्पयामि ॥ रं अग्न्यात्मने रूपतन्मात्राय प्रकृत्यानन्दात्मने चक्षुरिन्द्रयात्मने श्रीनृसिंहाय दीपं कल्पयामि ॥ वं जलात्मने रसतन्मात्राय प्रकृत्यानन्दात्मने रसनेन्द्रियात्मने श्रीनृसिंहाय षड्रसोपेतं नैवेद्यं कल्पयामि ॥ अनया पूजया श्रीनृसिंहः प्रीयताम् ॥ एवं पञ्चोपचारान्विधाय होमं कुर्यात् ॥ आधारकुण्डे चिदग्नौ प्रणवदीप्ते एकवारोच्चारणेन स्वाहान्तेन प्रणवेन सहप्रपञ्चेन जुहुयात् ॥ ॐ प्रपञ्चाय स्वाहा ॥ इत्यान्तरं होमं विधाय ॥ मनसैव प्रदक्षिणीकृत्य दण्डवन्नमस्कृत्वा प्रार्थयेत् ॥ साधु वासाधु वा कर्म यद्याचरितं मया ॥ तत्सत्वेन गृहाणात्र कृपया जगदीश्वर ॥ १॥ पूजाहोमादिकं देव यत्कृतं त्वदनुग्रहात् । तेन सत्कर्मणा देव प्रीतो भव जगत्पते ॥ २॥ श्रीनृसिंहाय शान्ताय सगणायादिहेतवे ॥ निवेदयामि त्वात्मानं त्वं गतिः परमेश्वर ॥ ३॥ इत्यात्मानं तेजोमयं श्वासमार्गेणागतं चुलुकोदकेन साक्षस- पुष्पेण देवस्य दक्षिणहस्ते निवेदयेत् ॥ सर्वमात्मीयमात्मानं च देवाय समर्प्य ॥ स्वयं सर्वकारणमहाविष्णुरूपेण पूर्णसच्चिदानन्दब्रह्मरूपेण वा कियन्तं कालमवतिष्ठेत् ॥ अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहं हरिः ॥ आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥ १॥ नित्योहं निर्विकल्पोहं निराकारोऽहमद्वयः ॥ सच्चिदानन्दपूर्णाहं नित्यमुक्तः स्वभाववान् ॥ २॥ अक्षरोऽहमचिन्त्योऽहमक्ष्योऽहमदोषभाक् । ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् ॥ ३॥ इत्यात्मानं परिभाव्य ॥ सिंहमुखमुद्रामभिमुखीकृत्य द्वात्रिंशन्न्मुद्राः प्रदर्शयेत् ॥ अञ्जलि १ र्वदनं २ मुष्टिः ३ प्रधानं च ४ चपेटिका ५ तर्जन्यास्फोटनं तद्वत् ६ शङ्ख ७ चक्र ८ गदा ९ अक १० पाशां ११ कुशौ च १२ मुसलं १३ खङ्ग १४ चर्म १५ सुशाङ्क १६ इषु १७ श्चात्रं च १८ वक्त्रं च १९ दंष्ट्रा २० श्रीवत्स २१ कौस्तुभं २२ लक्ष्मी २३ र्योनि २४ स्तथ्रा धेनु २५ र्वरदा २६ भयहस्तकौ २७ कर्णौ च २८ केसरं चैव २९ वनमाला ३० खगेश्वरः ३१ उपसंहार मुद्रां च ३२ द्वात्रिंशत्परिकीर्तिताः ॥ इति मुद्राः प्रदर्श्य ॥
अथ सिंहमुद्रालक्षणम् ॥ जानुमध्यगतौ कृत्वा चुबुकोष्ठौ समावृतौ ॥ हस्तौ तु भूमिसंलग्नौ कम्पमानः पुनः मुनः । मुखं विवृत्तकं कुर्याल्ललजिह्वा सुलेलिहा ॥ एषा मुद्रा नारसिंही प्रधाने परिकीर्तिता ॥ ततः पूर्ववत् द्विस्वरमानुष्टुभं साङ्गं साम गीत्वा सपरिकर भूर्लोकाधात्मकोऽहमिति भावयित्वा ॥ मन्त्रार्थं स्मरन्मन्त्रदेवतात्मनैक्यं सम्भाव्य चातुस्वरं गायेत् ॥ तद्यथा ॥ प्रथमं प्रणवसाम ॥ तत्र मात्राद्वयं मिलितं अङ्गुष्ठेन तर्जनीमध्यपर्वस्पर्श कृत्वा ततो मध्यमा ततो अनामिकात्ततः कनिष्ठिकामध्यपर्वस्पर्शं कृत्वा ॥ अनुदात्तप्रकर्षेण चतुर्भिः स्वरैश्चतुर्मात्रायुक्तैर्गायेत् ॥ तथैव पुनस्तृतीयमात्राप्रणवश्च द्वयं मिलितं गायेत् ॥ इति चतुरावृत्त्याष्टाक्षरतासम्पादनेन प्रणवसाम ॥ तथैव शक्तिबीजे चतुरावृत्या गायेत् ॥ सर्वत्राप्येवमेव क्रमः ॥ ततः प्रथमपादाङ्गं प्रणवं च गायेत् ॥ द्वितीयपादाङ्गं घृणि च गायेत् ॥ ततस्तृतीयपादाङ्गं यजुर्लक्ष्मीं च गायेत् ॥ अत्र चातुःस्वरेण घृणिर्यजुर्लक्ष्म्योरपि गानमित्याचार्यः ॥ एवं चातुस्वरं गीत्वा ॥ त्वं मालेति मालां प्रार्थ्य ॥ मूलमन्त्रस्य यथाशक्ति जपं कृत्वा तद्विगुणं प्रणवं च मौनेन गणयेत् ॥ मौनं च गुरुव्यतिरिक्तेन तेनापि च देवभाषयापृष्टप्रतिवचनादिरूपं वक्तव्यम् ॥ एवं जपं विदधीत पुनः ॐ मालेति मालां प्रार्थ्य ॥ ततः पूर्ववत् द्विस्वरमानुष्टुभं साङ्गं गीत्वा स्मार्तरीत्या पञ्चाङ्गेन विसर्जनं न्यासं कृत्वा यथोक्तं लक्ष्मीनृसिंहं ध्यात्वा ॥ पूर्ववत्प्राणानायम्य ॥ गुह्यातिगुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देव त्वत्प्रसादान्नृकेसरीति निवेद्य ॥ यस्य स्मृत्या च नामोक्त्या ॥ न्यूनं सम्पूर्णतां याति । अनेन स्मार्तश्रौतो पासनान्तर्यागेन श्रीलक्ष्मीनृसिंहः प्रीयतां न ममेति देवस्य दक्षिणे हस्ते चुलुकधारया भगवति समर्पयेदिति त्यजेत् ॥ इतः पूर्वं वाक्प्राणदेहबुद्धिधर्माधिकारतः जागृत्स्वप्न- सुबुप्त्यावस्थासु मनसा कर्मणा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यदुक्तं यत्कृतं यत्स्मृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा ॥ मां मदीयं च सर्वं अस्मत्स्वामिने सम्यगर्पयेत् इति ब्रह्मार्पणं कृत्वा ॥ भद्रं कर्णेभिर् ऋक् ॥ स्वस्ति न इन्द्रो ऋक् ॥ इति शान्ति पठित्वा नृसिंहपरो भवेत् ॥ इति श्रीमल्लक्ष्मीनृसिंहानुष्ठाननित्यविधिः समाप्तः ॥ इति श्रीमल्लक्ष्मी- नृसिंहार्पणमस्तु ॥ अथ पुरश्चरणाधिकारसिद्ध्यर्थं द्वात्रिंशत्सहस्रं जपेत् ॥ ततः पुश्चरणसिद्ध्यर्थं द्वात्रिंशदयुतं जपेत ॥ सघृतपायसेन दशांशहोमः ॥ परमेश्वर साक्षात्कारसिद्ध्यर्थं द्वात्रिंशलक्षं जपेत् ॥ निग्रहानुग्रहसमर्थो भवति ॥ अथ सदाशिवात्मकं श्रीनृसिंहध्यानमुच्यते ॥ ॐ पञ्चवक्त्रं महाभीमं कालानलसमप्रभम् । रुण्डमालाधरं रौद्रं कण्ठहारेण शोभितम् ॥ ११॥ नागयज्ञोपवीतं च सर्वालङ्कारभूषितम् । चन्द्रमौलिनीलकण्ठं प्रतिवक्त्रं त्रिनेत्रकं ॥ २॥ भुजैः परिघसङ्काशैर्दशभिश्चोपसेवितम् । अक्षसूत्रगदापद्मं शङ्खं गोक्षीरसन्निभम् ॥ ३॥ धनुश्च मुसलं चैव तथा चक्रेण मण्डितम् । खड्गं शूलं च बाणं च नृसिंहं रुद्ररूपिणम् ॥ ४॥ इन्द्रं गोपकनीलाभं चन्द्राभं स्वर्णसन्निभम् । पूर्वादि चोत्तरान्तास्यं स्वोर्ध्वास्यं सर्ववर्णकम् ॥ ५॥ एवं रूपं हरिं ध्यायेत्सर्वसङ्कष्टगतेऽपि च । इदं मृत्युहरं ध्यानं स्मरणात् सर्वसिद्धिदं ॥ ६॥ इदं सदाशिवात्मकनृसिंहध्यानम् ॥ ६॥
अथ महाकर्मणि नृसिहं ध्यानमुच्यते ॥ ध्येयो यदा महाकर्म तद्वा षोडशहस्तवान् । नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ॥ १॥ द्वौ विदारणकर्माणौ द्वौ चान्त्रोद्धरणौ धृतौ । चक्रशङ्खधरौ तुद्वौ च बाणधनुर्धरौ ॥ २॥ खड्ङ्घखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ । पाशाङ्कुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ ॥ ३॥ इति षोडशदोदण्डमण्डितं नृहरिं विभुम् । ध्यायेन्नीरदनीलाभं उग्रकर्मण्यनन्यधीः ॥ ४॥ ध्येयो महत्तमे कार्ये षोडशद्वय- हस्तवान् । नृहरिः सर्वभूताद्यः सर्वसिद्धिकरः प्रभुः ॥ ५॥ दक्षिणे चक्रपद्मे च परशुं पाशमेव च । हस्तं च मुसलं चैवमभयं चाङ्कुशं तथा ॥ ६॥ पट्टिशं भिण्डिपालं च खेटमुद्गरतो मदान् । वामभागै करैः शङ्खखड्गपाशं च शूलकम् ॥ ७॥ अग्नि च वरदं शूलं शक्तिं कां च ततःपरम् । कार्मुकं तर्जनीमुद्रां गदां डमरुसर्पकौ ॥ ८॥ द्वाभ्यां कराभ्यां च रिपोर्जानुमस्तकपीडनम् । ततोर्ध्वकृतहस्ताभ्यां आन्त्रमालाधरं हरिम् ॥ ९॥ अधस्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम् । प्रियं करं च भक्तानां दैत्यानां च भयङ्करम् ॥ १०॥ नृसिंहं संस्मरेदित्थं महामृत्युभयापहम् ॥ ६॥
अथ रोगविषमृत्युशत्रुभयहरहरिध्यानमुच्यते ॥ सुवर्णाद्याभेसुपर्णे स्थितमतिसुमुखं कोटिपूर्णेदुवक्त्रं विद्युन्माला सटासिन्त्रिशिखमयदृशं पीतवस्त्रोरुभूषम् । हस्तोद्यच्चक्रशङ्खाभयधरमालिक्ष्वेडरोगादिमृत्युऊतैर्ध्या- नैःर्ध्वसयन्तं सुखृतमनिशं श्रीयुतं श्रीनृसिंहम् ॥ १॥ इति ध्यानं समाप्तम् ॥ श्रीनृसिंह जयजय श्रीनृसिंह ॥ इति श्रीमल्लक्ष्मीनृसिंहार्पणमस्तु ॥ ६॥ श्रीसामराजलक्ष्मीनृसिंहार्पणमस्तु ॥ नरहरि ॥ ॐ तत् सत् ।
इति नृसिंहसामानुष्ठान ।
A note of caution or disclaimer:
The text here is given for
academic purpose, for information, only as it
appears in a book. Considered as a tantric text,
esoteric in nature, readers are advised caution
about its indiscriminate usage or application of
the same. It is very clear that a guru's
guidance is always essential for mantra
practices and practicing without the same
leads to no merit or can in fact backfire.
Proofread by Manoj Kumar Barman