प्राणेश्वरश्रीकृष्णमन्त्रः
॥ विनियोगः ॥
ॐ अस्य श्रीप्राणेश्वरश्रीकृष्णमन्त्रस्य भगवान् श्रीवेदव्यास ऋषिः ।
गायत्री छन्दः । श्रीकृष्णपरमात्मा देवता । क्लीं बीजम् । श्रीं शक्तिः ।
ऐं कीलकम् । ॐ व्यापकः । मम समस्तक्लेशपरिहारार्थं
चतुर्वर्गप्राप्तये सौभाग्यवृद्ध्यर्थं च जपे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
श्रीवेदव्यासऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीकृष्णपरमात्मदेवतायै नमः हृदि ।
क्लीं बीजाय नमः गुह्ये ।
श्रीं शक्तये नमः नाभौ ।
ऐं कीलकाय नमः पादयोः ।
ॐ व्यापकाय नमः सर्वाङ्गे ।
मम समस्तक्लेशपरिहारार्थं चतुर्वर्गप्राप्तये
सौभाग्यवृद्ध्यर्थं च जपे विनियोगाय नमः अञ्जलौ ॥
॥ करन्यासः ॥
ॐ ऐं श्रीं क्लीं अङ्गुष्ठाभ्यां नमः ।
प्राणवल्लभाय तर्जनीभ्यां स्वाहा ।
सौः मध्यमाभ्यां वषट् ।
सौभाग्यदाय अनामिकाभ्यां हुं ।
श्रीकृष्णाय कनिष्ठिकाभ्यां वौषट् ।
स्वाहा करतलकरपृष्ठाभ्यां फट् ॥
॥ अङ्गन्यासः ॥
ॐ ऐं श्रीं क्लीं हृदयाय नमः ।
प्राणवल्लभाय शिरसे स्वाहा ।
सौः शिखायै वषट् ।
सौभाग्यदाय कवचाय हुं ।
श्रीकृष्णाय नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् ॥
॥ ध्यानम् ॥
कृष्णं जगन्मोहनरूपवर्णं
विलोक्य लज्जाकुलितां स्मराढ्याम् ।
मधूकमालायुतकृष्णदेहं
विलोक्य चाश्लिष्य हरिं स्मरन्तीम् ॥
नवाम्बुदश्यामतनुं मनोज्ञं
पीताम्बरं कुण्डलदीप्तगण्डम् ।
राधाङ्कसंलग्नमनन्तलीलं
वन्दे मुकुन्दं प्राणवल्लभं तम् ॥
॥ मन्त्रः ॥
ॐ ऐं श्रीं क्लीं प्राणवल्लभाय सौः सौभाग्यदाय श्रीकृष्णाय स्वाहा ॥
इति श्रीप्राणेश्वरश्रीकृष्णमन्त्रः सम्पूर्णः ।
The above mantra given above may be chanted without initiation.
Encoded and proofread by Durga Sharma