प्रातःस्मरणाष्टकम्
(वसन्ततिलका वृत्तम्)
प्रातः स्मरामि वृषपुत्र-पदारविन्दं
पापौघ-पापिजनपातक-पुञ्जदाहम् ।
मुक्तैर्महामुनिगणैर्महनीयमाद्यं
सत्सङ्गिनां परममङ्गलमार्तिनाशम् ॥ १॥
प्रातः स्मरामि सुखशान्तिनिदानहेतुं
कल्याणकारि-गुणसागर-दिव्यरूपम् ।
स्वानेक-जन्मसुकृतै-रवलोकनीयं
श्रीधर्मपुत्र-पदमात्मनि सन्दधामि ॥ २॥
प्रातर्भजामि भजनीय-भवाब्धिसेतुं
संसारिणां सकलविघ्न-विनाशदक्षम् ।
वेदान्तवेद्य-शुभषोडश-चिन्हलक्ष्यं
ध्यायामि धर्मतनयाङ्घ्रियुगं धियाहम् ॥ ३॥
प्रातर्भजामि भवभीतिहरं वरेण्यं
ध्यानासनादि-नियमैश्च विना समाधिम् ।
पापात्मनां सुकृतिना-मपिकारयन्तं
तं नौमि धर्मतनयं शिरसा प्रणम्य ॥ ४॥
प्रातर्नमामि शिरसा निगमैक-गम्यं
ब्रह्मेन्द्रशर्व-विबुधादिभिरप्यगम्यम् ।
उत्पत्ति-संस्थितिलयादि-निदानमेकं
सञ्चिन्तयामि सततं हरिकृष्णदेवम् ॥ ५॥
प्रातर्नमाम्यमित-दुष्टनिबर्हणाय
सद्धर्ममर्म-परिपालन-कारणाय ।
ब्राह्मण्य-वेदपथ-गोसदनुग्रहाय
प्रादुर्बभूव भुवि भक्तिवृषाङ्गतोऽसौ ॥ ६॥
प्रातर्नमामि नमनीय-निजैकधाम्नो
दुर्वाससा विहितशाप-निदानमेत्य ।
घोरे कलौ विषयि पामर-जीवजातं
मुक्तैः समं समकरोदवतीर्य यस्तम् ॥ ७॥
प्रातर्नमन्ति पुलकाङ्कित-सर्वगात्राः
प्रेम्णा सदैकमनसा-चलचेतसा ये ।
ध्यात्वा स्वकीयहृदये हरिकृष्णमूर्तिं
ते यान्ति धाम विशदं क्षरभावशून्यम् ॥ ८॥
प्रातर्विहाय शयनं स्थिरचेतसा यः
श्लोकाष्टकं पठति नित्यमनन्यभक्त्या ।
स्तोत्रं स्वमङ्गलकरं गिरिजाशिवोक्तं
पुण्याहमेति निखिलं नहि तस्य विघ्नः ॥ ९॥
इति श्रीगिरिजाशङ्करशास्त्रीविरचितं प्रातःस्मरणाष्टकं सम्पूर्णम् ।