पुरुषोत्तमस्तवनम्
(महासौराष्ट्रीयसङ्घस्य लुण्ठकजनप्रधर्षितस्य पुरुषोत्तमस्तवनम्)
श्रीपुरुषोत्तम उवाच ।
शृणु नारायणीश्रि त्वं चमत्कारमयीं कथाम् ।
महासौराष्ट्रदेशीया भक्ताः सङ्घगताः शतम् ॥ १॥
कुङ्कुमवापिकाक्षेत्रं सोमनाथं च रैवतम् ।
स्वर्णवतीं कृष्णभूमिं गोपनार्थं च सुन्दरम् ॥ २॥
एवमादीनि तीर्थानि कर्तुं सौराष्ट्रमाययुः ।
मार्गे महीं तथा वापीं तीर्त्वा नावा ततः परम् ॥ ३॥
साभ्रमतीं समुत्तीर्य गोपनाथं समाययुः ।
ततो गुप्तप्रयागं च कृत्वा सिंहवनं महत् ॥ ४॥
प्रविश्य यावदायान्ति सोमनाथं प्रति द्रुतम् ।
सिंहारण्ये तदा प्राप्ता लुण्ठकाः शस्त्रधारिणः ॥ ५॥
लुण्ठकाधिपतिस्तेषु नाम्ना सामान्तविक्रमः ।
अश्ववारैश्च सहितः शस्त्रादियुग्भटान्वितः ॥ ६॥
यन्त्रनादानकरोद्वै सन्निधौ नाऽतिदूरगः ।
आक्रोशान् भयदाँश्चापि चक्रुस्तस्यानुगामिनः ॥ ७॥
लुण्ठनार्थं द्रुतं सङ्घस्याऽभितो बन्धनं व्यधुः ।
मध्ये चक्रुर्भयदानैः सङ्घस्य शतमानवान् ॥ ८॥
स्त्रीणां भूषा नराणां च भूषाद्रव्याणि यानि च ।
उत्तारयित्वा त्वेकत्र कारयामासुरुल्बणाः ॥ ९॥
शुभाम्बराणि सर्वाणि जगृहुः सङ्घवर्तिनाम् ।
सङ्घाग्रगण्यवणिजो बबन्धू रज्जुभिस्तदा ॥ १०॥
पद्मचन्द्रं शङ्खचन्द्रं शृङ्खलाचन्द्रमित्यपि ।
वनचन्द्रं वालिचन्द्रं बबन्धुस्ते हि लुण्ठकाः ॥ ११॥
अन्यान् दण्डैस्ताडनादि प्रचक्रुर्भयहेतवे ।
भीतास्ते वणिजः सर्वे मौना बभूवुरर्दिताः ॥ १२॥
ददुः सर्वस्वमेतेभ्यो लुण्ठकेभ्योऽतिताडिताः ।
अथैतेषु मम भक्तो वैष्णवो वनचन्द्रकः ॥ १३॥
तस्य पत्नी सुखादेवी मम भक्ताऽभवद् रमे ।
आबाल्यात्तौ मम भक्तौ भजतो मां निरन्तरम् ॥ १४॥
साधोर्मे सायनायननाम्नो योगेन वैष्णवौ ।
वर्तेते तौ भक्तियुक्तौ कृष्णनारायणाश्रितौ ॥ १५॥
आपत्काले तु तौ भक्तौ सस्मरतुस्तदा हि माम् ।
अन्येऽपि बालगोपाला रुरुदुः सस्मरुः प्रभुम् ॥ १६॥
लुण्ठकेभ्यो हरे कृष्ण प्ररक्षय हि तीर्थिनः ।
अनाथानां वने कृष्णनाथनारायणो भवान् ॥ १७॥
त्राता मोचयिता दुःखाद्रक्षयिता पिता भवान् ।
माता गुरुर्हरिकृष्णो बालकृष्णः प्ररक्षतु ॥ १८॥
यतो वयं कृतपापा लुण्ठ्यन्तेऽतो वनान्तरे ।
तथापि निजभक्तानां रक्षां विधेहि माधव ॥ १९॥
तव भक्तिं करिष्यामो दानं दास्याम एव ते ।
सर्वस्वं भगवन् विष्णो रक्ष कृष्णनरायण ॥ २०॥
कुङ्कुमवापिकातीर्थेऽर्पयिष्यामो धनादिकम् ।
यदि लुण्ठकदुष्टेभ्यो रक्षां नस्त्वं विधास्यसि ॥ २१॥
विभूषणानि सर्वाणि श्रेष्ठाम्बराणि यानि च ।
रूप्यकाः स्वर्णमुद्राश्च दास्यामोऽश्वसरोवरे ॥ २२॥
व्रतं कार्तिकमासाद्य करिष्यामो फलादिभिः ।
नित्यं शतं मालिकाश्चाऽऽवर्तयिष्याम एव च ॥ २३॥
सतां मठेषु वै मासं मासं स्थित्वा तु माघके ।
मासे सेवां करिष्यामः सतामाज्ञानुसारिणीम् ॥ २४॥
इत्येवं वनचन्द्राद्या आर्त्ता लुण्ठकधर्षिताः ।
मानता विविधाश्चक्रुर्लुण्ठकेभ्यो विमुक्तये ॥ २५॥
वनचन्द्रस्य भार्याऽपि सुखादेवी तथा स्त्रियः ।
या याः सङ्घगताश्चासन् प्रार्थयामासुरेव माम् ॥ २६॥
हे हरे हे वनवासिन् वृन्दावनविहारकृत् ।
गोपीसङ्घान्तरगुप्त कृष्ण रक्ष स्वदासिकाः ॥ २७॥
अबलानां सबलोऽसि भक्तानां भगवानसि ।
दासीनां मोदकर्ताऽसि कृष्ण रक्षय दासिकाः ॥ २८॥
वने गोपीविहारोऽसि राधासखोऽसि निर्जने ।
शयने कमलानन्द कृष्ण रक्षय दासिकाः ॥ २९॥
प्रलये मुक्तसेव्योऽसि सृष्टौ भक्तिमतीपतिः ।
रासे सर्वानुरक्तोऽसि कृष्ण रक्षय दासिकाः ॥ ३०॥
विपत्तौ चार्त्तदीनेश शरणागतरक्षक ।
अरातिकष्टहर्तस्त्वं कृष्ण रक्षय दासिकाः ॥ ३१॥
गर्भे भ्रूणस्य पोष्टा त्वं बाल्ये निर्मलहृत्स्थितः ।
यौवने प्रेमपात्रं त्वं कृष्ण रक्षय दासिकाः ॥ ३२॥
वार्धक्ये शिष्टवर्य त्वं युद्धे जयप्रदः पुमान् ।
निराश्रये त्वं चाधारः कृष्ण रक्षय दासिकाः ॥ ३३॥
रोहिणाण्डासुरः पूर्वमनादिद्युनरायणः ।
भूत्वा निषूदितः कृष्ण त्वया नः स प्ररक्षतु ॥ ३४॥
अनादिश्रीमेरुनारायणस्त्वं चाऽभवं पुरा ।
निम्नं तु पतमानस्य मेरोः रक्षा त्वया कृता ॥ ३५॥
सूर्याग्निना दह्यमानब्रह्माण्डस्य त्वया पुरा ।
रक्षा शान्तिः कृताऽनादिविष्णुनारायणात्मना ॥ ३६॥
धूम्रासुरविनाशश्च चन्द्ररक्षा त्वया पुरा ।
विहिता श्रीहरेऽनादिदेवनारायणात्मना ॥ ३७॥
त्वयाऽनादियज्ञनारायण यज्ञाः प्रवर्तिताः ।
रुद्रशास्ताऽनादिब्रह्मनारायणो ह्यभूः पुरा ॥ ३८॥
देवधिष्ण्यनियमायाऽनाद्याऽऽदित्यनरायणः ।
भवान् पुराऽऽभवत् कृष्ण कृष्ण रक्षय दासिकाः ॥ ३९॥
नागशास्ताऽनादिगरुत्मन्नारायणरूपवान् ।
ध्रुवस्थित्यै भवाननाद्यार्षनारायणोऽभवत् ॥ ४०॥
षुरानन्दादिदैत्यानां पराभूत्यर्थमेव ह ।
त्वमनादिप्राज्ञनारायणोऽभवः परेश्वर ॥ ४१॥
त्वमनादिवीरनारायणोऽभवो वृषावनः ।
त्वमनादिभद्रनारायणो दग्धप्रमुक्तये ॥ ४२॥
तुङ्गभद्रासनापुत्रीपतिर्हरिनरायणः ।
अभवस्त्वं पुरा कृष्ण कृष्ण रक्षय दासिकाः ॥ ४३॥
नाशार्थं कोशस्तेनाख्यरक्षसस्त्वं पुराऽभवः ।
अनादिश्रीबीजनारायणो बीजस्य रक्षकः ॥ ४४॥
धर्मव्रतस्य पुत्राणां मोक्षार्थं त्वं पुराऽभवः ।
अनादिश्रीवरनारायणो ना कृष्ण रक्षतु ॥ ४५॥
सुदर्शनीमहासाध्वीशापेन स्त्रीमयं जगत् ।
रक्षार्थं त्वमनादिस्त्रीपुन्नारायणतामगाः ॥ ४६॥
अनादिश्रीजलनारायणस्त्वं माकरासुरम् ।
हत्वा लोकानरक्षः श्रीकृष्ण रक्षय दासिकाः ॥ ४७॥
अनादिश्रीशीलनारायणस्त्वमभवः पुरा ।
साधुधर्मप्ररक्षार्थं कृष्ण रक्षय दासिकाः ॥ ४८॥
अनादिश्रीवार्धिनारायणस्त्वमभवः पुरा ।
व्याघ्रानलादिनाशार्थं कृष्ण रक्षय दासिकाः ॥ ४९॥
त्वमनादिचतुर्मुखनारायणोऽभवः पुरा ।
राधनिकापुण्यरातविप्रयोरिष्टदो भवान् ॥ ५०॥
अभवच्छ्रीछ्रीपुरुषोत्तमनारायणः पुरा ।
तीर्थपूत्यर्थमनादितीर्थनारायणोऽभवः ॥ ५१॥
भक्त्यर्थं त्वमनादिश्रीजीवनारायणोऽभवः ।
यज्ञे त्वं श्रीमदर्धश्रीश्वरनारायणोऽभव ॥ ५२॥
पित्रुद्धर्ताऽनाद्यर्धश्रीपितृनारायणोऽभवः ।
भक्त्या मोक्षोपदेशार्थं प्लक्षनारायणोऽभवः ॥ ५३॥
नरमेधे भक्तरक्षामनादिपुन्नरायणः ।
भूत्वाऽकरोस्त्वं देवेश कृष्ण रक्षय दासिकाः ॥ ५४॥
सूर्यवर्च्चनृपद्वाराऽनादिश्यामनरायणः ।
अभवस्त्वं पुरा कृष्ण कृष्ण रक्षय दासिकाः ॥ ५५॥
अनादिश्रीराजनारायणस्त्वं चाऽभवः पुरा ।
मायूरकाऽसुरहन्ता कृष्ण रक्षय दासिकाः ॥ ५६॥
अनादिश्रीब्रह्मचारिनारायणोऽभवः पुरा ।
नैष्ठिकतारक्षणार्थं कृष्ण रक्षय दासिकाः ॥ ५७॥
हल्लकासुरनाशार्थं शिवोज्जीवार्थमित्यपि ।
अनादिश्रीशिवनारायणस्त्वं चाऽभवः पुरा ॥ ५८॥
अनादिश्रीस्वर्णनारायणस्त्वं चाऽभवः पुरा ।
कुबेरस्योज्जीवनार्थं कृष्ण रक्षय दासिकाः ॥ ५९॥
ज्वालारुणाऽचलवह्निरसदग्धप्रजाऽवनम् ।
अनादिश्रीस्वामिनारायणस्त्वं चाऽकरोः पुरा ॥ ६०॥
निर्वाणिकाऽऽराधितया लक्ष्म्या साकं भवान् पुरा ।
अनादिसाऽवननारायणोऽभवत् स रक्षतु ॥ ६१॥
अंशुक्रमथनृपतेर्भक्त्या त्वमभवः पुरा ।
अनादिश्रीसाधुनारायणः कृष्णः स रक्षतु ॥ ६२॥
शप्तस्य वर्णिशालस्य मनोरुज्जीवनाय वै ।
अनादिश्रीभक्तनारायणोऽभवः स पातु नः ॥ ६३॥
वर्मधरक्ष्मेशमोक्षार्थं त्वं पुरा स्वयं प्रभुः ।
अनादिश्रीमेधनारायणोऽभवः स पातु नः ॥ ६४॥
अनलादमहासुरविनाशार्थं भवान् पुरा ।
अनादिश्रीवह्निनारायणोऽभवत् स पातु नः ॥ ६५॥
इलोदरविनाशार्थं रसनारायणोऽभवः ।
स त्वं नारायण कृष्ण कृष्ण रक्षय दासिकाः ॥ ६६॥
अनादिश्रीचक्रनारायणस्त्वं चाऽभवः पुरा ।
दैत्यनाशकरः कृष्ण कृष्ण रक्षय दासिकाः ॥ ६७॥
कृतधर्मस्थापनायाऽनादिसत्यनरायणः ।
अद्रिस्थित्यर्थमनादिश्रीहिरण्यनरायणः ॥ ६८॥
भक्तार्थं त्वमनादिश्रीनैरञ्जनिनरायणः ।
अनादिश्रीपुण्यनारायणश्चाऽप्यभवः पुरा ॥ ६९॥
पुण्यवतीशापनिवर्तकः कृष्णः स पातु नः ।
अनादिश्रीबृहद्ब्रह्मनारायणोऽभवद्भवान् ॥ ७०॥
अप्सरसां मनःपूर्त्यै कृष्ण रक्षय दासिकाः ।
अनादिश्रीगुरुनारायणस्त्वं चाऽभवः पुरा ॥ ७१॥
ब्रह्मविद्याप्रदानार्थं कृष्ण रक्षय दासिकाः ।
बृहद्धर्मभूपयज्ञे साधुदीक्षाप्रदायकः ॥ ७२॥
अनादिश्रीमदाचार्यनारायणः स पातु नः ।
अनादिश्रीमहाविद्युन्नारायणोऽभवः पुरा ॥ ७३॥
विद्युत्स्तावदैत्यहन्ता कृष्ण रक्षय दासिकाः ।
अनादिश्रीमधुनारायणस्त्वं चाऽभवः पुरा ॥ ७४॥
मधुभक्षासुरहन्ता कृष्ण रक्षय दासिकाः ।
अनादिश्रीनाथनारायणस्त्वं चाऽभवः पुरा ॥ ७५॥
तिष्ये दैत्यविनाशार्थं कृष्ण रक्षय दासिकाः ।
अनादिश्रीविभुनारायणस्त्वं चाऽभवः पुरा ॥ ७६॥
स्वर्णोत्सवे वेधसः स कृष्ण रक्षय दासिकाः ।
अनादिश्रीमोक्षनारायणस्त्वं चाऽभवः पुरा ॥ ७७॥
अनादिश्रीकृष्णनारायणस्त्वं कान्तकेशव ।
ब्रह्मप्रियादिस्वामिन्नो लुण्ठकेभ्यः प्ररक्षय ॥ ७८॥
बालकृष्ण हरे कृष्ण वल्लभेश कृपां कुरु ।
लुण्ठकेभ्योऽवनं शीघ्रं कुरु ते शरणं गताः ॥ ७९॥
इत्युक्त्वा ताः स्त्रियश्चापि लक्ष्मि ध्यानं व्यधुर्हरेः ।
अहं हरिः स्वयं तत्राऽऽगत्याऽदृश्योऽभवं क्षणम् ॥ ८०॥
शृण्वानः स्तुतिवाक्यानि मम प्राक्चरितानि वै ।
लुण्ठकाश्च सञ्चिन्वन्ति त्वेकत्र नाणकादिकम् ॥ ८१॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१९०-अध्यायान्तर्गतं महासौराष्ट्रीयसङ्घस्य लुण्ठकजनप्रधर्षितस्य
पुरुषोत्तमस्तवनं सम्पूर्णम् । continued
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १९०/१-१८१॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 190/1-181..
Proofread by PSA Easwaran