शतश्लोकी नृसिंहध्यानम्
अथ शतश्लोकी ध्यानम् ।
महाचक्रस्य सन्नाभिमण्डले त्रिगुणात्मनि ।
सुखं संवीत्क्षीरजलं चिन्तयेत् क्षीरसागरम् ॥ १॥
श्वेतद्वीपं च तन्मध्ये शब्दादिविषयात्मकः ।
जातिब्रह्मवनोपेतंस सद्रलंसिकताञ्चितम् ॥ २॥
मणिरत्नमये तत्र प्रासादे सुमनोहरे ।
श्वेतसिंहासनं ध्यायेत् श्वेतपद्मोत्तरच्छदं ॥ ३॥
शेषं तत्र विजानीयात्सप्तत्यापुच्छमण्डलैः ।
फणासहस्रमुपरि छत्रीकृत्य व्यवस्थितम् ॥ ४॥
श्वेतहारकिरीटाभ्यां दधानं मुसलं हलम् ।
रक्ताक्षं श्वेतपुष्पस्त्रक् नीलवस्त्रैककुण्डलम् ॥ ५॥
तदङ्गे चिलयेद्देवं नृसिहं पीतवाससम् ।
सूर्येन्दुकोटिमहसमरुणोत्तरवाससम् ॥ ६॥
श्वेताद्रिकान्तिवपुषं सत्यज्ञानसुखात्मकम् ॥
आसीनं योगपट्टेन चतुर्दष्ट्रं चतुर्भुजम् ॥ ७॥
प्रादक्षिण्येन दधतमूर्ध्वदक्षिणबाहुके ।
चक्रं पिनाकनभयं वरं करचतुष्टये ॥ ८॥
तप्तहाटककेशान्तं चन्द्रार्धकृतशेखरम् ।
सुकपोलं सुविस्तीर्णललाटफलकोज्वलम् ॥ ९॥
चन्द्रसूर्याग्निसङ्काशं वृत्तोत्फुल्लत्रिलोचनम् ।
फुरत्कमलकिञ्जल्कसमरोमान्तकर्णकम् ॥ १०॥
किञ्चिदुन्नतमध्येषत्फुल्लनासामनोहरम् ।
ललज्जिकाप्रपञ्चास्यप्रकाशितरदावलि ॥ ११॥
श्मश्रुलम्बितसृक्वाणं किञ्चिदुकुञ्चितभ्रुवम् ।
स्तब्धधूरोपमपक्ष्माणं तिर्यगालम्बिकेसरम् ॥ १२॥
ककुदं सशिरः कण्ठप्राकुञ्चितकचोच्चयम् ।
नीलग्रीवं प्रकृत्यात्मा श्रीवत्साङ्कितवक्षसम् ॥ १३॥
विस्तीर्णोरस्थललुठत्पुरुषात्मककौस्तुभम् ।
विष्टब्धपार्श्वपृष्ठास्थिमग्ननाभ्यङ्कितोदरं ॥ १४॥
तिर्यक्संस्थिजङ्घोरू जान्वाहितकरद्वयम् ।
तीक्ष्णोग्रनखवज्रालिरोचिर्विद्रावितासुरम् ॥ १५॥
तिर्यक्पादतलस्पर्शकृतार्थीकृतवासुकिम् ।
किरीटहारकेयूरकाञ्चीकटकभूषितम् ॥ १६॥
आयुक्तजङ्घाभरणं पादान्तव्याप्तनूपुरम् ।
रत्नांङ्गुलीयकज्योतिरुद्भासित दिगम्बरम् ॥ १७॥
समकर्णान्तविन्यस्तचारकुण्डलभूषितम् ।
पञ्चभूतात्मिकां पञ्चरूपां मालां च बिभ्रतम् ॥ १८॥
वामारूगतया लक्ष्म्याश्लिष्टं दक्षिणबाहुना ।
दधत्या वामहस्तेन दाडिमं सुमनोहरम् ॥ १९॥
स्वर्णरत्नाभरणया पीतकौशेयवस्त्रया ।
हिरण्यवर्णयान्यस्तदृशा स्वामिमुखाम्बुजे ॥ २०॥
नानारूपधरैः शस्त्रैः पृष्ठपार्श्वगतैः पृथक् ।
स्वस्वायुधोद्यतकरैः मूर्तिमद्भिरुपासितम् ॥ २१॥
सचामरैर्विरज्यमानं लक्ष्म्याद्याभिश्च शक्तिभिः ।
संसाक्ताभ्यनुरक्ताभिरन्याभिः परिवारितम् ॥ २२॥
यक्ष पन्नगगन्धर्वविद्याधरवधूगणैः ।
नृत्यवादित्रसङ्गीतस्तुतिभिः काङ्क्षितेक्षणं ॥ २३॥
सुरासुरगणैश्चैवं प्रसादावाप्तदर्शनैः ।
कृताञ्जलीभिराज्ञार्थं किङ्करैर्दूरतस्थितैः ॥ २४॥
अन्तरिक्षगतैः सिद्धैः योगिभिः सनकादिभिः ।
संस्तूयमानमेकाद्यैरृग्यजुःसाममन्त्रगैः ॥ २५॥
ऐशानीं दिशमारभ्य महाचक्रदलस्थितैः ।
पद्मासनैरभिमुखैर्वीक्षमाणं सुदर्शनैः ॥ २६॥
नारायणैर्वासुदेवैः केशवाद्यैर्यथाक्रमम् ।
ब्रह्माद्यैर्नारिसिंहैश्च स्वस्ववर्णायुधान्वितैः ॥ २७॥
पुरस्ताद्वसुभिस्तस्य रूद्रैर्द्दक्षिणस्थितैः ।
चक्रस्य पश्चादादित्यैर्विश्वेदेवैर्यथाप्युदक् ॥ २८॥
उपोपविष्टः पादान्ते ब्रह्मविष्णुमहेश्वरैः ।
स्वस्वायुधकरैरूध्वं कृताञ्जलिपुटधरैः ॥ २९॥
तथैवोपस्थितं चन्द्रसूर्याभ्यां पार्श्वयोद्वयोः ।
महाविभूतिसंस्थानं सर्वदेवात्मकं प्रभुम् ॥ ३०॥
ब्रह्माज्ञेयः शिरस्तस्य पितरः सर्वषयः सटाः ।
रुद्रो ललाटं विद्युत्भूरश्विनौ नासिके स्मृतौ ॥ ३१॥
श्रोत्रे दिशोथ गण्डौ द्वौ नारदस्तुम्बरूस्तथा ।
मुखमग्नीरदाभानि दंष्ट्रास्ता कालरात्रयः ॥ ३२॥
द्यावापृथिव्या वोष्ठौ द्वौ रसना तु सरस्वती ।
वेदा वाचस्पतिः कण्ठः स्कन्धौ गुहविनायकौ ॥ ३३॥
स्तनौ बृहस्पतिः शुक्रः सेन्द्रादेवास्तु बाहवः ।
सर्पा अङ्गुलयो ज्ञेयाः शस्त्रास्त्राणि तथा नखाः ॥ ३४॥
लक्ष्मीर्वक्षस्थलं तस्य प्राणो नारायणात्मकः ।
धर्मात्मानौ चर्म वर्म नाभिर्गगनमुच्यते ॥ ३५॥
जगच्च जठरं साध्याः पाश्वे द्वे इति हि श्रुतिः ।
पृष्ठं तु मरुतो देवा लिङ्गं तस्य प्रजापतिः ॥ ३६॥
उरू द्वौ वसवः प्रोक्तौ जङ्घे स्वचरणौ तु भूः ।
सिद्धाः साध्या पुरारोमा नद्यो धमनयः स्मृताः ॥ ३७॥
अस्थीनि पर्वतास्तस्य हिरण्यं रेत उच्यते ।
क्रोधो रुद्रः समाख्यातो ज्योतिर्भैरवरूपधृक् ॥ ३८॥
शङ्खचक्र गदाशाङ् चक्रं लोहित मुच्यते ।
शङ्खचक्रगदाशाः शङ्खशङ्खनिभः स्मृतः ॥ ३९॥
गदा चक्राब्ज शाङ्गी गतापीता निगद्यते ।
सशागचक्राब्जगदं शार्डीनीलाम्बुदप्रभम् ॥ ४०॥
बाणा जपानिभानीली शङ्खचक्रधनुर्धराः ।
खड्गचक्रगदाशाङ्ग खड्गो धूम्रः प्रकीर्तितः ॥ ४१॥
गदाबुद्धिरहङ्कारः शङ्ख शाङ्गद्विधा स्थितम् ।
भूतादीन्द्रियादींश्च मनश्चक्रं विदुर्बुधाः ॥ ४२॥
शरास्तानिन्द्रियाण्याहुर्बुद्धिकर्मात्मिकानि वै ।
विद्यां खड्गं तथैवाहुरविद्या चर्म सूच्यते ॥ ४३॥
शूलं हलं च मुसलं धवलं त्रितयं स्मृतम् ।
शूलादि प्रथमं कृत्रा शङ्खचक्रगदाधराः ॥ ४४॥
चतुर्भुजास्ते चक्राद्याः सुवर्णवसनायुधाः ।
चक्रादि चिह्न मुकुटाः खड्गो ज्ञेयोरुणाम्बरः ॥ ४५॥
अथ षट्श्लोकैः कथ्यते ।
आद्या चतुर्थे चक्रे ऋतुपुरुषाख्यै रसैस्सदलैः ।
ईमिति पीतान्तत्रान्तर्मायया वेष्टिता नेमिः ॥ ४६॥
वेदाङ्गायत्री जगत्यनुष्टुभं दलं शेषम् ।
चक्रत्रितयं तत्र ह्निमिति शुक्ला बहिर्मायया ॥ ४७॥
स्फुरदट्टहासविकटोग्रदंष्ट्रदीप्ताननान् रौद्रान् ।
पिङ्गोर्ध्वभीमकेशान् भीमाक्षान्नवर विप्ररव्यान् ॥ ४८॥
चक्रधरं सरोजखङगाङ्कुशपाशमुसलगदाः ।
सह सर्वैराभरणैरमलैर्दधातः सुदर्शनान्वन्दे ॥ ४९॥
असितानसितसुपीतक्षितिलक्ष्मीभ्यां परिभक्तान् ।
चक्राम्बुजं शङ्खगदादधतो नारायणान्वन्दे ॥ ५०॥
प्रणतोऽस्मि वासुदेवान् चक्रधराम्बुजगदहस्तान् ।
निखिलविभूषणभूषित सितवपुषः सितरोजगतान् ॥ ५१॥
शङ्खचक्रगदापद्यैः केशवः कनकप्रभः ।
क्षीराम्भोब्जगदाचक्रधरैः नारायणः स्मृतः ॥ ५२॥
माधवः शङ्खचक्राब्ज गदाहस्तोजपानिभः ।
मनःशीलाभो गोविन्दो गदापद्मदरादिभिः ॥ ५३॥
सपद्मशङ्खादिगदो विष्णुश्चालक्तकप्रभः ।
शङ्खचक्रगदापद्यैरर्जुनो मधुसूदनः ॥ ५४॥
सगदाशङ्खचक्राब्जो नीलाब्जाभस्त्रिविक्रमः ।
रक्तश्चक्रगदापद्मशङ्खैर्वामन उच्यते ॥ ५५॥
चक्रीदारीगदीसाजश्रीधरः कुमुदप्रभः ॥
काश्मीराभो हृषीकेशः सचक्राब्जदरोगदी ॥ ५६॥
पद्मचक्र गदाशङ्गैः पद्मनाभो जनप्रभः ।
दामोदरः शङ्खगदाचक्राब्जैः क्षीरसन्निभः ॥ ५७॥
स्फटिकाभो वासुदेवः शङ्खाद्यब्जगदाधरः ।
सङ्कर्षणोदराब्जादिदरैः कनकसन्निभः ॥ ५८॥
शङ्खागदीसाब्जचक्री प्रद्युम्नो वज्रसन्निभः ।
गदीशङ्खी साब्जचक्रस्त्वनिरुद्धो सितप्रभः ॥ ५९॥
ब्रह्माद्या नारसिंहास्तु स्वस्वलक्षणलक्षिताः ।
नृसिंहाकारवदनाः सर्व एव त्रिलोचनाः ॥ ६०॥
दधाति स्रुवरस्रुवौ ब्रह्माविष्णुश्चक्रसशङ्खकम् ।
महेश्वरः शूलचापौ पुरुषः शङ्खचक्रभृत् ॥ ६१॥
दद्याति चेश्वरः शूलं डमरूं च यथाक्रमम् ।
लेखनी पुस्तकं चेति दधाति द्वे सरस्वती ॥ ६२॥
पद्मद्वयं दधाति श्रीगौरी नीलोत्पलद्वयम् ।
प्रकृतिश्व तथा -विद्या पाशाङ्कुशधरे शुभे ॥ ६३॥
अभीतिवरदाः सर्वे धवलास्ते चतुर्भुजाः ।
पुरुषं द्विभुजं केचित् प्रवदन्ति निरायुधम् ॥ ६४॥
एकादशोत्तरे विश्वरूपधृक् चक्रशङ्खिनः ।
ॐ काराङकित वक्षांस्तु पीतओङ्कार उच्यते ॥ ६५॥
ओङ्कारानन्तरं मात्राश्चतस्रस्तस्य संस्थिताः ।
वेदाः साङ्गाः सशाखाश्च विज्ञेयास्तदनन्तरम् ॥ ६६॥
पञ्चाग्नेयस्ततो ज्ञेयाः सप्तव्याहृतयस्तथा ।
लोकपालास्ततश्चाष्टौ वसवोष्टौ ततः स्मृताः ॥ ६७॥
रुद्राः परं ततो ज्ञेयाश्चादित्यास्तदनन्तरम् ।
अष्टौ ग्रहास्ततः पश्चान्महाभूतानि पञ्च च ॥ ६८॥
कालः पाशाङ्कुशीकालःश्चक्रं शङ्खीमनुस्मृतः ।
धूम्रः पाशाङ्कुशी मृत्युः श्यामौ ज्ञेयौ यमान्तकौ ॥ ६९॥
तौ पाशमुद्गरधरौ प्राणश्च क्रदरीसितः ।
रक्ताब्जद्वयवान् रक्तसूर्यः सोमस्तु पाण्डुरः ॥ ७०॥
दधात्यमृतसम्पूर्णं कुण्डं दण्डं च शोभनम् ।
स विराट् पुरुषो जीवः शुक्लश्चक्रदरायुधः ॥ ७१॥
सर्ववर्णायुधैः सर्वे चेतनाचेतनात्मकम् ।
ब्रह्मादिशक्तयश्चात्र सरस्वत्यादयः स्मृताः ॥ ७२॥
अर्धमात्राश्चतस्रस्ता ॐ कारस्यैव शक्तयः ।
सप्तव्याहृतयोग्नीनां वेदानां चैव शक्तयः ॥ ७३॥
वसवो हरिताः सर्वे ते ज्ञेया खङ्गचर्मिणः ।
शूलखङ्गाङ्गिनो रुद्राः शुक्ला भस्मकपर्दिनः ॥ ७४॥
आदित्या लोहिताः सर्वे रक्ता अद्वयधारिणः ।
विश्वेदेवाः सुविशदाः सर्वे बाणधनुर्धराः ॥ ७५॥
ब्रह्मा रक्तः सुवर्णाभो विष्णुः स्यात् श्यामसन्निभः ।
महेशः शुक्लवर्णश्च विज्ञेयः सिंहवक्त्रवः ॥ ७६॥
सर्वे चतुर्भुजास्तत्र केषाञ्चिद्विभुजः शशी ।
सकलावरणातीतं निरालम्बन-भावनम् ॥ ७७॥
नृसिहं भावयन्त्येते तन्मयास्तद्विभूतयः ।
मन्त्रमूर्तिधरस्यास्य साङ्गाः पादाः श्रुतीरिताः ॥ ७८॥
हृतशिरस्तु शिखा चैव कवचं च यथाक्रमम् ।
समग्रं च तथा मन्त्रमस्त्रन्नेत्रविवर्जितम् ॥ ७९॥
शस्त्राणि श्रीनृसिंहस्य पूर्वोक्तानि प्रचक्षते ।
अस्त्रं तदेव देवस्य महाचक्राख्यमीरितम् ॥ ८०॥
प्रणवस्य तु या मात्रास्ताभिस्तेषु हृदादिषु ।
भूर्भुवः स्वःस्त्रयो लोकाः ब्रह्मलोकस्तदाश्रयः ॥ ८१॥
अग्न्यादयस्तथा सूर्यः सोमब्रह्मादयः सुराः ।
चतुर्षु मन्त्रपादेषु समात्रेषु व्यवस्थिताः ॥ ८२॥
ऋग्यजुः सामाथर्वाणः साङ्गाः शाखाः समन्विताः ।
मन्त्रस्य पादाश्चत्वार इत्याथर्वणी श्रुतिः ॥ ८३॥
प्रणवः प्रथमः प्रोक्तो ब्रह्मरूपः सनातनः ।
रक्ताब्जद्वयंवान् रक्तो घृणिः सूर्यो द्वितीयके ॥ ८४॥
तृतीये तु यजुर्लक्ष्मीश्चार्वङ्गी पद्मधारिणी ।
तुर्ये नृसिंहगायत्री नृसिंहाकारधारिणी ॥ ८५॥
उक्तान्य'' गानि मन्त्रस्य साम्ना श्रुतिनिदर्शनात् ।
ज्ञातव्यं देवदेवस्य ध्यानं सर्वोत्तमोत्तमम् ॥ ८६॥
उद्धहणातीह भूतानि सर्वाण्युह्यतेऽपि च ।
सर्गे विसर्गैर्वासैश्च यस्तंवरं नमाम्यहम् ॥ ८७॥
विरामयति भूतानि सर्वाणि विरमत्पि ।
सर्गै विसर्गैर्वासैश्व यस्तं वीरं नमाम्यहम् ॥ ८८॥
स्वमहिम्ना जगत्सर्वं व्याप्नोति व्याप्यतेऽपि च ।
व्यतिषिक्तो महादेवो महाविष्णुं नमाम्यहं ॥ ८९॥
जलन्यस्तेजसा स्वेन ज्वालयन्नखिलं जगत् ।
अशेषमूर्तिर्विश्वात्मा ज्वलन्तं तं नमाम्यहम् ॥ ९०॥
सर्वतोक्षिश्रुतिघ्राणं सर्वतः पाणिपादकम् ।
सर्वेन्द्रियैरसम्बन्धं प्रपद्ये सर्वतोमुखम् ॥ ९१॥
जगद्धितं प्रपन्नोऽस्मि ह्यजितं वीर्यवत्तमम् ।
नृवच्च सिंहवच्चैव नृसिंहं परमेश्वरम् ॥ ९२॥
यस्य भीमस्य देवाद्याः सर्वे भीत्यातिभीषणम् ।
रूपं दृष्ट्वा पलायन्ते भीषणं तं नमाम्यहं ॥ ९३॥
भद्रं ददाति भक्तेभ्यो यः सदा भद्ररूपधृक् ।
भद्राचारस्य गोप्तारं भद्रं तं प्रणमाम्यहम् ॥ ९४॥
स्मृत एव हि भक्तानां यो हिंस्रान्मारयत्यजः ।
मृत्युं चेवापमृत्युं च मृत्युं मृत्युं नमाम्यहम् ॥ ९५॥
भक्त्या नमन्ति यं सर्वे देवाः सब्रह्म वादिनः ।
भुक्तिमुक्तिप्रदं सर्व नमस्कार्यं नमाम्यहम् ॥ ९६॥
यस्यात्मा सर्वमेवेदं योन्नः सर्व शरीरिणाम् ।
सर्वभूतेषु चात्मानं सर्वात्मानं नमामि तम् ॥ ९७॥
क्षीरोदार्णवमध्यस्थ योगिध्येयं परं पदम् ।
अमितद्युतिमीशानं प्रपद्ये तं पिनाकिनम् ॥ ९८॥
ऋतं सत्यं परं ब्रह्म पुरुषं चोर्ध्वरेतसम् ।
प्रपद्येहं विरूपाक्षं शङ्करं नीललोहितम् ॥ ९९॥
उमापतिं पशुपति तथा चैवामितद्युतिम् ।
ईशानं सर्वविद्यानां नरकेसरिविग्रहः ॥ १००॥
ईश्वरं सर्वभूतानां प्रपद्ये कृष्णपिङ्गलम् ।
तस्मात्तत्सच्चिदानन्दमयं ब्रह्मस्वरूपिणम् ॥॥ १०१॥
स्मृते सकलकल्याणं भाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ १०२॥
यन्नामकीर्तनं पुसां सद्यो दहति पातकम् ।
करोति चाक्षयं पुण्यं प्रपद्ये ह्यनघवृषम् ॥ १०३॥
यस्यावताररूपाणि सदार्चन्ति दिवौकसः ।
अजानन्तः परं रूपं तं वन्दे पुरूषोत्तमम् ॥ १०४॥
यस्य पादोदकैः स्नात्वा यस्योच्छिष्टानि भुञ्जते ।
नित्यं भागवता भक्त्या तं वन्दे सात्वतः प्रियम् ॥ १०५॥
अथ दशकश्लोकैः फलश्रुतिः ।
इदं ध्यानशतं नित्यं पठतः श्रृण्वतोऽपि वा ।
पुनर्भवभयं नास्ति परलोकभयं कुतः ॥ १॥
सर्वैश्वर्यं ददातीह सन्तुष्टः परमेश्वरः ।
देहान्ते तारकं ब्रह्म व्याचष्टे कर्णमूलके ॥ २॥
तदेव व्याप्तकामोयं कथं सन्तोष्यतां प्रभुम् ।
मा मन्यध्वमिति प्राज्ञा भक्तिग्राह्या हि देवता ॥ ३॥
तुलसीदलमात्रेण जलस्य चुलकेन तु ।
विक्रीणीते यमात्मानं भक्तोभ्यो भक्तवत्सलः ॥ ४॥
भवपाशं छिनत्येषः प्रददातात्यात्मनः पदम् ।
मानसार्चनमात्रेण भक्तिप्रीतो नृकेसरी ॥ ५॥
स्वधर्मपालनं सम्यगद्रोहः सर्वजन्तुषु ।
श्रुत्वा भक्तिः परेशस्य मूलं सन्तोषकारणम् ॥ ६॥
ज्ञानयोगसहस्राद्धि भक्तियोगो विशिष्यते ।
इति सञ्चिन्त्य सञ्चिन्त्य भक्तिमग्रे कृता बुधैः ॥ ७॥
संवत्सरोषिते देयमिदं ध्यानं सुधार्मिके ।
न चाभक्तेन चाशान्तेन चाशृद्धेन न चानृतौ ॥ ८॥
अस्थाने हि विनिर्मुक्ता मन्त्राः कृत्यास्तथैव च ।
तत्र निर्वीर्यतां प्राप्य विनिघ्नन्ति प्रयोजनम् ॥ ९॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १०॥
इति श्रीरत्नमालाया श्रौतपद्धतौ श्रीनृसिंह ध्यानशतकं सम्पूर्णम् ।
Proofread by Manoj Kumar Barman