शतश्लोकी नृसिंहध्यानम्

शतश्लोकी नृसिंहध्यानम्

अथ शतश्लोकी ध्यानम् । महाचक्रस्य सन्नाभिमण्डले त्रिगुणात्मनि । सुखं संवीत्क्षीरजलं चिन्तयेत् क्षीरसागरम् ॥ १॥ श्वेतद्वीपं च तन्मध्ये शब्दादिविषयात्मकः । जातिब्रह्मवनोपेतंस सद्रलंसिकताञ्चितम् ॥ २॥ मणिरत्नमये तत्र प्रासादे सुमनोहरे । श्वेतसिंहासनं ध्यायेत् श्वेतपद्मोत्तरच्छदं ॥ ३॥ शेषं तत्र विजानीयात्सप्तत्यापुच्छमण्डलैः । फणासहस्रमुपरि छत्रीकृत्य व्यवस्थितम् ॥ ४॥ श्वेतहारकिरीटाभ्यां दधानं मुसलं हलम् । रक्ताक्षं श्वेतपुष्पस्त्रक् नीलवस्त्रैककुण्डलम् ॥ ५॥ तदङ्गे चिलयेद्देवं नृसिहं पीतवाससम् । सूर्येन्दुकोटिमहसमरुणोत्तरवाससम् ॥ ६॥ श्वेताद्रिकान्तिवपुषं सत्यज्ञानसुखात्मकम् ॥ आसीनं योगपट्टेन चतुर्दष्ट्रं चतुर्भुजम् ॥ ७॥ प्रादक्षिण्येन दधतमूर्ध्वदक्षिणबाहुके । चक्रं पिनाकनभयं वरं करचतुष्टये ॥ ८॥ तप्तहाटककेशान्तं चन्द्रार्धकृतशेखरम् । सुकपोलं सुविस्तीर्णललाटफलकोज्वलम् ॥ ९॥ चन्द्रसूर्याग्निसङ्काशं वृत्तोत्फुल्लत्रिलोचनम् । फुरत्कमलकिञ्जल्कसमरोमान्तकर्णकम् ॥ १०॥ किञ्चिदुन्नतमध्येषत्फुल्लनासामनोहरम् । ललज्जिकाप्रपञ्चास्यप्रकाशितरदावलि ॥ ११॥ श्मश्रुलम्बितसृक्वाणं किञ्चिदुकुञ्चितभ्रुवम् । स्तब्धधूरोपमपक्ष्माणं तिर्यगालम्बिकेसरम् ॥ १२॥ ककुदं सशिरः कण्ठप्राकुञ्चितकचोच्चयम् । नीलग्रीवं प्रकृत्यात्मा श्रीवत्साङ्कितवक्षसम् ॥ १३॥ विस्तीर्णोरस्थललुठत्पुरुषात्मककौस्तुभम् । विष्टब्धपार्श्वपृष्ठास्थिमग्ननाभ्यङ्कितोदरं ॥ १४॥ तिर्यक्संस्थिजङ्घोरू जान्वाहितकरद्वयम् । तीक्ष्णोग्रनखवज्रालिरोचिर्विद्रावितासुरम् ॥ १५॥ तिर्यक्पादतलस्पर्शकृतार्थीकृतवासुकिम् । किरीटहारकेयूरकाञ्चीकटकभूषितम् ॥ १६॥ आयुक्तजङ्घाभरणं पादान्तव्याप्तनूपुरम् । रत्नांङ्गुलीयकज्योतिरुद्भासित दिगम्बरम् ॥ १७॥ समकर्णान्तविन्यस्तचारकुण्डलभूषितम् । पञ्चभूतात्मिकां पञ्चरूपां मालां च बिभ्रतम् ॥ १८॥ वामारूगतया लक्ष्म्याश्लिष्टं दक्षिणबाहुना । दधत्या वामहस्तेन दाडिमं सुमनोहरम् ॥ १९॥ स्वर्णरत्नाभरणया पीतकौशेयवस्त्रया । हिरण्यवर्णयान्यस्तदृशा स्वामिमुखाम्बुजे ॥ २०॥ नानारूपधरैः शस्त्रैः पृष्ठपार्श्वगतैः पृथक् । स्वस्वायुधोद्यतकरैः मूर्तिमद्भिरुपासितम् ॥ २१॥ सचामरैर्विरज्यमानं लक्ष्म्याद्याभिश्च शक्तिभिः । संसाक्ताभ्यनुरक्ताभिरन्याभिः परिवारितम् ॥ २२॥ यक्ष पन्नगगन्धर्वविद्याधरवधूगणैः । नृत्यवादित्रसङ्गीतस्तुतिभिः काङ्क्षितेक्षणं ॥ २३॥ सुरासुरगणैश्चैवं प्रसादावाप्तदर्शनैः । कृताञ्जलीभिराज्ञार्थं किङ्करैर्दूरतस्थितैः ॥ २४॥ अन्तरिक्षगतैः सिद्धैः योगिभिः सनकादिभिः । संस्तूयमानमेकाद्यैरृग्यजुःसाममन्त्रगैः ॥ २५॥ ऐशानीं दिशमारभ्य महाचक्रदलस्थितैः । पद्मासनैरभिमुखैर्वीक्षमाणं सुदर्शनैः ॥ २६॥ नारायणैर्वासुदेवैः केशवाद्यैर्यथाक्रमम् । ब्रह्माद्यैर्नारिसिंहैश्च स्वस्ववर्णायुधान्वितैः ॥ २७॥ पुरस्ताद्वसुभिस्तस्य रूद्रैर्द्दक्षिणस्थितैः । चक्रस्य पश्चादादित्यैर्विश्वेदेवैर्यथाप्युदक् ॥ २८॥ उपोपविष्टः पादान्ते ब्रह्मविष्णुमहेश्वरैः । स्वस्वायुधकरैरूध्वं कृताञ्जलिपुटधरैः ॥ २९॥ तथैवोपस्थितं चन्द्रसूर्याभ्यां पार्श्वयोद्वयोः । महाविभूतिसंस्थानं सर्वदेवात्मकं प्रभुम् ॥ ३०॥ ब्रह्माज्ञेयः शिरस्तस्य पितरः सर्वषयः सटाः । रुद्रो ललाटं विद्युत्भूरश्विनौ नासिके स्मृतौ ॥ ३१॥ श्रोत्रे दिशोथ गण्डौ द्वौ नारदस्तुम्बरूस्तथा । मुखमग्नीरदाभानि दंष्ट्रास्ता कालरात्रयः ॥ ३२॥ द्यावापृथिव्या वोष्ठौ द्वौ रसना तु सरस्वती । वेदा वाचस्पतिः कण्ठः स्कन्धौ गुहविनायकौ ॥ ३३॥ स्तनौ बृहस्पतिः शुक्रः सेन्द्रादेवास्तु बाहवः । सर्पा अङ्गुलयो ज्ञेयाः शस्त्रास्त्राणि तथा नखाः ॥ ३४॥ लक्ष्मीर्वक्षस्थलं तस्य प्राणो नारायणात्मकः । धर्मात्मानौ चर्म वर्म नाभिर्गगनमुच्यते ॥ ३५॥ जगच्च जठरं साध्याः पाश्वे द्वे इति हि श्रुतिः । पृष्ठं तु मरुतो देवा लिङ्गं तस्य प्रजापतिः ॥ ३६॥ उरू द्वौ वसवः प्रोक्तौ जङ्घे स्वचरणौ तु भूः । सिद्धाः साध्या पुरारोमा नद्यो धमनयः स्मृताः ॥ ३७॥ अस्थीनि पर्वतास्तस्य हिरण्यं रेत उच्यते । क्रोधो रुद्रः समाख्यातो ज्योतिर्भैरवरूपधृक् ॥ ३८॥ शङ्खचक्र गदाशाङ् चक्रं लोहित मुच्यते । शङ्खचक्रगदाशाः शङ्खशङ्खनिभः स्मृतः ॥ ३९॥ गदा चक्राब्ज शाङ्गी गतापीता निगद्यते । सशागचक्राब्जगदं शार्डीनीलाम्बुदप्रभम् ॥ ४०॥ बाणा जपानिभानीली शङ्खचक्रधनुर्धराः । खड्गचक्रगदाशाङ्ग खड्गो धूम्रः प्रकीर्तितः ॥ ४१॥ गदाबुद्धिरहङ्कारः शङ्ख शाङ्गद्विधा स्थितम् । भूतादीन्द्रियादींश्च मनश्चक्रं विदुर्बुधाः ॥ ४२॥ शरास्तानिन्द्रियाण्याहुर्बुद्धिकर्मात्मिकानि वै । विद्यां खड्गं तथैवाहुरविद्या चर्म सूच्यते ॥ ४३॥ शूलं हलं च मुसलं धवलं त्रितयं स्मृतम् । शूलादि प्रथमं कृत्रा शङ्खचक्रगदाधराः ॥ ४४॥ चतुर्भुजास्ते चक्राद्याः सुवर्णवसनायुधाः । चक्रादि चिह्न मुकुटाः खड्गो ज्ञेयोरुणाम्बरः ॥ ४५॥ अथ षट्श्लोकैः कथ्यते । आद्या चतुर्थे चक्रे ऋतुपुरुषाख्यै रसैस्सदलैः । ईमिति पीतान्तत्रान्तर्मायया वेष्टिता नेमिः ॥ ४६॥ वेदाङ्गायत्री जगत्यनुष्टुभं दलं शेषम् । चक्रत्रितयं तत्र ह्निमिति शुक्ला बहिर्मायया ॥ ४७॥ स्फुरदट्टहासविकटोग्रदंष्ट्रदीप्ताननान् रौद्रान् । पिङ्गोर्ध्वभीमकेशान् भीमाक्षान्नवर विप्ररव्यान् ॥ ४८॥ चक्रधरं सरोजखङगाङ्कुशपाशमुसलगदाः । सह सर्वैराभरणैरमलैर्दधातः सुदर्शनान्वन्दे ॥ ४९॥ असितानसितसुपीतक्षितिलक्ष्मीभ्यां परिभक्तान् । चक्राम्बुजं शङ्खगदादधतो नारायणान्वन्दे ॥ ५०॥ प्रणतोऽस्मि वासुदेवान् चक्रधराम्बुजगदहस्तान् । निखिलविभूषणभूषित सितवपुषः सितरोजगतान् ॥ ५१॥ शङ्खचक्रगदापद्यैः केशवः कनकप्रभः । क्षीराम्भोब्जगदाचक्रधरैः नारायणः स्मृतः ॥ ५२॥ माधवः शङ्खचक्राब्ज गदाहस्तोजपानिभः । मनःशीलाभो गोविन्दो गदापद्मदरादिभिः ॥ ५३॥ सपद्मशङ्खादिगदो विष्णुश्चालक्तकप्रभः । शङ्खचक्रगदापद्यैरर्जुनो मधुसूदनः ॥ ५४॥ सगदाशङ्खचक्राब्जो नीलाब्जाभस्त्रिविक्रमः । रक्तश्चक्रगदापद्मशङ्खैर्वामन उच्यते ॥ ५५॥ चक्रीदारीगदीसाजश्रीधरः कुमुदप्रभः ॥ काश्मीराभो हृषीकेशः सचक्राब्जदरोगदी ॥ ५६॥ पद्मचक्र गदाशङ्गैः पद्मनाभो जनप्रभः । दामोदरः शङ्खगदाचक्राब्जैः क्षीरसन्निभः ॥ ५७॥ स्फटिकाभो वासुदेवः शङ्खाद्यब्जगदाधरः । सङ्कर्षणोदराब्जादिदरैः कनकसन्निभः ॥ ५८॥ शङ्खागदीसाब्जचक्री प्रद्युम्नो वज्रसन्निभः । गदीशङ्खी साब्जचक्रस्त्वनिरुद्धो सितप्रभः ॥ ५९॥ ब्रह्माद्या नारसिंहास्तु स्वस्वलक्षणलक्षिताः । नृसिंहाकारवदनाः सर्व एव त्रिलोचनाः ॥ ६०॥ दधाति स्रुवरस्रुवौ ब्रह्माविष्णुश्चक्रसशङ्खकम् । महेश्वरः शूलचापौ पुरुषः शङ्खचक्रभृत् ॥ ६१॥ दद्याति चेश्वरः शूलं डमरूं च यथाक्रमम् । लेखनी पुस्तकं चेति दधाति द्वे सरस्वती ॥ ६२॥ पद्मद्वयं दधाति श्रीगौरी नीलोत्पलद्वयम् । प्रकृतिश्व तथा -विद्या पाशाङ्कुशधरे शुभे ॥ ६३॥ अभीतिवरदाः सर्वे धवलास्ते चतुर्भुजाः । पुरुषं द्विभुजं केचित् प्रवदन्ति निरायुधम् ॥ ६४॥ एकादशोत्तरे विश्वरूपधृक् चक्रशङ्खिनः । ॐ काराङकित वक्षांस्तु पीतओङ्कार उच्यते ॥ ६५॥ ओङ्कारानन्तरं मात्राश्चतस्रस्तस्य संस्थिताः । वेदाः साङ्गाः सशाखाश्च विज्ञेयास्तदनन्तरम् ॥ ६६॥ पञ्चाग्नेयस्ततो ज्ञेयाः सप्तव्याहृतयस्तथा । लोकपालास्ततश्चाष्टौ वसवोष्टौ ततः स्मृताः ॥ ६७॥ रुद्राः परं ततो ज्ञेयाश्चादित्यास्तदनन्तरम् । अष्टौ ग्रहास्ततः पश्चान्महाभूतानि पञ्च च ॥ ६८॥ कालः पाशाङ्कुशीकालःश्चक्रं शङ्खीमनुस्मृतः । धूम्रः पाशाङ्कुशी मृत्युः श्यामौ ज्ञेयौ यमान्तकौ ॥ ६९॥ तौ पाशमुद्गरधरौ प्राणश्च क्रदरीसितः । रक्ताब्जद्वयवान् रक्तसूर्यः सोमस्तु पाण्डुरः ॥ ७०॥ दधात्यमृतसम्पूर्णं कुण्डं दण्डं च शोभनम् । स विराट् पुरुषो जीवः शुक्लश्चक्रदरायुधः ॥ ७१॥ सर्ववर्णायुधैः सर्वे चेतनाचेतनात्मकम् । ब्रह्मादिशक्तयश्चात्र सरस्वत्यादयः स्मृताः ॥ ७२॥ अर्धमात्राश्चतस्रस्ता ॐ कारस्यैव शक्तयः । सप्तव्याहृतयोग्नीनां वेदानां चैव शक्तयः ॥ ७३॥ वसवो हरिताः सर्वे ते ज्ञेया खङ्गचर्मिणः । शूलखङ्गाङ्गिनो रुद्राः शुक्ला भस्मकपर्दिनः ॥ ७४॥ आदित्या लोहिताः सर्वे रक्ता अद्वयधारिणः । विश्वेदेवाः सुविशदाः सर्वे बाणधनुर्धराः ॥ ७५॥ ब्रह्मा रक्तः सुवर्णाभो विष्णुः स्यात् श्यामसन्निभः । महेशः शुक्लवर्णश्च विज्ञेयः सिंहवक्त्रवः ॥ ७६॥ सर्वे चतुर्भुजास्तत्र केषाञ्चिद्विभुजः शशी । सकलावरणातीतं निरालम्बन-भावनम् ॥ ७७॥ नृसिहं भावयन्त्येते तन्मयास्तद्विभूतयः । मन्त्रमूर्तिधरस्यास्य साङ्गाः पादाः श्रुतीरिताः ॥ ७८॥ हृतशिरस्तु शिखा चैव कवचं च यथाक्रमम् । समग्रं च तथा मन्त्रमस्त्रन्नेत्रविवर्जितम् ॥ ७९॥ शस्त्राणि श्रीनृसिंहस्य पूर्वोक्तानि प्रचक्षते । अस्त्रं तदेव देवस्य महाचक्राख्यमीरितम् ॥ ८०॥ प्रणवस्य तु या मात्रास्ताभिस्तेषु हृदादिषु । भूर्भुवः स्वःस्त्रयो लोकाः ब्रह्मलोकस्तदाश्रयः ॥ ८१॥ अग्न्यादयस्तथा सूर्यः सोमब्रह्मादयः सुराः । चतुर्षु मन्त्रपादेषु समात्रेषु व्यवस्थिताः ॥ ८२॥ ऋग्यजुः सामाथर्वाणः साङ्गाः शाखाः समन्विताः । मन्त्रस्य पादाश्चत्वार इत्याथर्वणी श्रुतिः ॥ ८३॥ प्रणवः प्रथमः प्रोक्तो ब्रह्मरूपः सनातनः । रक्ताब्जद्वयंवान् रक्तो घृणिः सूर्यो द्वितीयके ॥ ८४॥ तृतीये तु यजुर्लक्ष्मीश्चार्वङ्गी पद्मधारिणी । तुर्ये नृसिंहगायत्री नृसिंहाकारधारिणी ॥ ८५॥ उक्तान्य'' गानि मन्त्रस्य साम्ना श्रुतिनिदर्शनात् । ज्ञातव्यं देवदेवस्य ध्यानं सर्वोत्तमोत्तमम् ॥ ८६॥ उद्धहणातीह भूतानि सर्वाण्युह्यतेऽपि च । सर्गे विसर्गैर्वासैश्च यस्तंवरं नमाम्यहम् ॥ ८७॥ विरामयति भूतानि सर्वाणि विरमत्पि । सर्गै विसर्गैर्वासैश्व यस्तं वीरं नमाम्यहम् ॥ ८८॥ स्वमहिम्ना जगत्सर्वं व्याप्नोति व्याप्यतेऽपि च । व्यतिषिक्तो महादेवो महाविष्णुं नमाम्यहं ॥ ८९॥ जलन्यस्तेजसा स्वेन ज्वालयन्नखिलं जगत् । अशेषमूर्तिर्विश्वात्मा ज्वलन्तं तं नमाम्यहम् ॥ ९०॥ सर्वतोक्षिश्रुतिघ्राणं सर्वतः पाणिपादकम् । सर्वेन्द्रियैरसम्बन्धं प्रपद्ये सर्वतोमुखम् ॥ ९१॥ जगद्धितं प्रपन्नोऽस्मि ह्यजितं वीर्यवत्तमम् । नृवच्च सिंहवच्चैव नृसिंहं परमेश्वरम् ॥ ९२॥ यस्य भीमस्य देवाद्याः सर्वे भीत्यातिभीषणम् । रूपं दृष्ट्वा पलायन्ते भीषणं तं नमाम्यहं ॥ ९३॥ भद्रं ददाति भक्तेभ्यो यः सदा भद्ररूपधृक् । भद्राचारस्य गोप्तारं भद्रं तं प्रणमाम्यहम् ॥ ९४॥ स्मृत एव हि भक्तानां यो हिंस्रान्मारयत्यजः । मृत्युं चेवापमृत्युं च मृत्युं मृत्युं नमाम्यहम् ॥ ९५॥ भक्त्या नमन्ति यं सर्वे देवाः सब्रह्म वादिनः । भुक्तिमुक्तिप्रदं सर्व नमस्कार्यं नमाम्यहम् ॥ ९६॥ यस्यात्मा सर्वमेवेदं योन्नः सर्व शरीरिणाम् । सर्वभूतेषु चात्मानं सर्वात्मानं नमामि तम् ॥ ९७॥ क्षीरोदार्णवमध्यस्थ योगिध्येयं परं पदम् । अमितद्युतिमीशानं प्रपद्ये तं पिनाकिनम् ॥ ९८॥ ऋतं सत्यं परं ब्रह्म पुरुषं चोर्ध्वरेतसम् । प्रपद्येहं विरूपाक्षं शङ्करं नीललोहितम् ॥ ९९॥ उमापतिं पशुपति तथा चैवामितद्युतिम् । ईशानं सर्वविद्यानां नरकेसरिविग्रहः ॥ १००॥ ईश्वरं सर्वभूतानां प्रपद्ये कृष्णपिङ्गलम् । तस्मात्तत्सच्चिदानन्दमयं ब्रह्मस्वरूपिणम् ॥॥ १०१॥ स्मृते सकलकल्याणं भाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ १०२॥ यन्नामकीर्तनं पुसां सद्यो दहति पातकम् । करोति चाक्षयं पुण्यं प्रपद्ये ह्यनघवृषम् ॥ १०३॥ यस्यावताररूपाणि सदार्चन्ति दिवौकसः । अजानन्तः परं रूपं तं वन्दे पुरूषोत्तमम् ॥ १०४॥ यस्य पादोदकैः स्नात्वा यस्योच्छिष्टानि भुञ्जते । नित्यं भागवता भक्त्या तं वन्दे सात्वतः प्रियम् ॥ १०५॥ अथ दशकश्लोकैः फलश्रुतिः । इदं ध्यानशतं नित्यं पठतः श्रृण्वतोऽपि वा । पुनर्भवभयं नास्ति परलोकभयं कुतः ॥ १॥ सर्वैश्वर्यं ददातीह सन्तुष्टः परमेश्वरः । देहान्ते तारकं ब्रह्म व्याचष्टे कर्णमूलके ॥ २॥ तदेव व्याप्तकामोयं कथं सन्तोष्यतां प्रभुम् । मा मन्यध्वमिति प्राज्ञा भक्तिग्राह्या हि देवता ॥ ३॥ तुलसीदलमात्रेण जलस्य चुलकेन तु । विक्रीणीते यमात्मानं भक्तोभ्यो भक्तवत्सलः ॥ ४॥ भवपाशं छिनत्येषः प्रददातात्यात्मनः पदम् । मानसार्चनमात्रेण भक्तिप्रीतो नृकेसरी ॥ ५॥ स्वधर्मपालनं सम्यगद्रोहः सर्वजन्तुषु । श्रुत्वा भक्तिः परेशस्य मूलं सन्तोषकारणम् ॥ ६॥ ज्ञानयोगसहस्राद्धि भक्तियोगो विशिष्यते । इति सञ्चिन्त्य सञ्चिन्त्य भक्तिमग्रे कृता बुधैः ॥ ७॥ संवत्सरोषिते देयमिदं ध्यानं सुधार्मिके । न चाभक्तेन चाशान्तेन चाश‍ृद्धेन न चानृतौ ॥ ८॥ अस्थाने हि विनिर्मुक्ता मन्त्राः कृत्यास्तथैव च । तत्र निर्वीर्यतां प्राप्य विनिघ्नन्ति प्रयोजनम् ॥ ९॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १०॥ इति श्रीरत्नमालाया श्रौतपद्धतौ श्रीनृसिंह ध्यानशतकं सम्पूर्णम् । Proofread by Manoj Kumar Barman
% Text title            : Shatashloki NRisimhadhyanam
% File name             : shatashlokInRRisiMhadhyAnam.itx
% itxtitle              : nRisiMhadhyAnam shatashlokI
% engtitle              : shatashlokI nRRisiMhadhyAnam
% Category              : vishhnu, dashAvatAra, viShNu, dhyAnam, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manoj Kumar Barman
% Description/comments  : nRRisiMhakosha 3 upAsanA khaNDa uttarArdha
% Indexextra            : (Scan)
% Latest update         : August 11, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org