श्रीकृष्णाष्टोत्तरशतनामावलिः २

श्रीकृष्णाष्टोत्तरशतनामावलिः २

श्रीनारायणः ऋषिः - अनुष्टुप् छन्दः - गोलोकनाथः कृष्णपरमात्मा देवता । ॐ गोलोकनाथाय नमः । ॐ गोविन्दाय नमः । ॐ गोपिकाजनवल्लभाय नमः । ॐ राधिकारमणाय नमः । ॐ रम्याय नमः । ॐ राजीवदळलोचनाय नमः । ॐ करुणासागराय नमः । ॐ कृष्णाय नमः । ॐ कामकोटिमनोहराय नमः । ॐ सर्वकर्त्रे नमः । १० ॐ सर्वहर्त्रे नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ वेदवेद्याय नमः । ॐ विराड्रूपाय नमः । ॐ विरिञ्चिहरवन्दिताय नमः । ॐ वैकुण्ठनिलयाय नमः । ॐ विष्णवे नमः । ॐ वासुदेवाय नमः । ॐ विराट्ध्वजाय नमः । ॐ पयःपयोधिमद्ध्यस्थाय नमः । २० ॐ पन्नगाधिपतल्पगाय नमः । ॐ सर्वभूतगुहावासाय नमः । ॐ सूर्येन्दुनयनाय नमः । ॐ स्वराजे नमः । ॐ शार्ङ्गधन्वने नमः । ॐ शङ्खचक्रगदाम्बुजलसद्भुजाय नमः । ॐ श्रिताभीष्टदमन्दाराय नमः । ॐ शरण्याय नमः । ॐ श्रीधराधवाय नमः । ॐ नवनीलघनच्छायाय नमः । ३० ॐ नरनारायणात्मकाय नमः । ॐ मुमुक्षुसेव्याय नमः । ॐ मायेशाय नमः । ॐ मुकुन्दाय नमः । ॐ मधुसूदनाय नमः । ॐ मत्स्यरूपधराय नमः । ॐ मायिने नमः । ॐ मनुरूपाय नमः । ॐ मनुस्तुताय नमः । ॐ कठोरपृष्ठविधृतमन्दराय नमः । ४० ॐ कमठाकृतये नमः । ॐ हेलाधृतक्रोडतनवे नमः । ॐ हिरण्याक्षनिहाय नमः । ॐ हरये नमः । ॐ अद्ध्वरात्मने नमः । ॐ चलोद्धर्त्रे नमः । ॐ अच्युताय नमः । ॐ अनुपमवैभवाय नमः । ॐ नरसिंहाकृतये नमः । ॐ नादनिराकृतमहासुराय नमः । ५० ॐ भक्तप्रह्लादवरदाय नमः । ॐ भवसागरतारकाय नमः । ॐ वलभित्सहजसे नमः । ॐ वन्द्याय नमः । ॐ वामनाय नमः । ॐ बलिदर्पघ्ने नमः । ॐ त्रिक्रमाक्रान्तभुवनाय नमः । ॐ त्रिदिवेड्याय नमः । ॐ त्रिविक्रमाय नमः । ॐ भगवते नमः । ६० ॐ भार्गवरामाय नमः । ॐ भीमकर्मणे नमः । ॐ भवप्रियाय नमः । ॐ दशास्यहन्त्रे नमः । ॐ दुर्द्धर्षाय नमः । ॐ दशरथात्मजरामाय नमः । ॐ भव्याय नमः । ॐ भरतशत्रुघ्नलक्ष्मणाग्रिमसोदराय नमः । ॐ वसिष्ठविश्वामित्रादिगुर्वाज्ञापरिपालकाय नमः । ॐ जानकीमानसोल्लासिने नमः । ७० ॐ जटायुस्वर्गदायकाय नमः । ॐ वैवस्वतसखाय नमः । ॐ बालिहन्त्रे नमः । ॐ वायुसुतप्रियाय नमः । ॐ शबरीसल्कृतिप्रीताय नमः । ॐ शाखामृगसहायवते नमः । ॐ रोहिणीनन्दनरामाय नमः । ॐ रेवतीप्राणवल्लभाय नमः । ॐ सूरजाभेदनाय नमः । ॐ सीरमुसलाद्युद्यदायुधाय नमः । ८० ॐ देवकीनन्दनाय नमः । ॐ दामोदराय नमः । ॐ दरविनाशनाय नमः । ॐ वृन्दावनचराय नमः । ॐ वत्सबकाघाद्यसुरान्तकाय नमः । ॐ योगेशाय नमः । ॐ यादवाधीशाय नमः । ॐ यशोदानन्दनन्दनाय नमः । ॐ गोप्त्रे नमः । ॐ गोवर्द्धनोद्धर्त्रे नमः । ९० ॐ गुर्वभीष्टप्रदायकाय नमः । ॐ काळियाहीन्द्रदर्पघ्नाय नमः । ॐ कलेशाय नमः । ॐ कालनेमिअघ्ने नमः । ॐ विदुरोद्धवभीष्मादिवन्द्याय नमः । ॐ बाणमदापहाय नमः । ॐ पाकारिनन्दनसखाय नमः । ॐ पाकशासनशासकाय नमः । ॐ सुदामसब्रह्मचारिणे नमः । ॐ सीरपाणिसहोदराय नमः । १०० ॐ भैष्म्याद्यष्टाधिकद्व्यष्टसहस्रस्त्रीवरेश्वराय नमः । ॐ सद्गीयमानसत्कीर्तये नमः । ॐ सत्यकामाय नमः । ॐ सताङ्गतये नमः । ॐ पुराणपुरुषाय नमः । ॐ पूर्णाय नमः । ॐ पावनाय नमः । ॐ परमेश्वराय नमः । १०८ एवं गोलोकनाथस्य श्रीकृष्णस्य महाप्रभोः । अष्टोत्तरशतं नाम्नां दिव्यं सर्वार्थसिद्धिदम् ॥ गुह्याद्गुह्यमिदं स्तोत्रं प्रयतो यः पठेन्नरः । श‍ृणुयाद्वा शुचिर्नित्यं स कृष्णपदवीमियात् ॥ इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये श्रीकृष्णाष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Mohan Chettoor
% Text title            : Shrikrishna Ashtottarashatanamavali 2
% File name             : shrIkRiShNAShTottarashatanAmAvaliH2.itx
% itxtitle              : shrIkRiShNAShTottarashatanAmAvaliH 2 (nArAyaNIyamAhAtmyAntargatA golokanAthAya govindAya gopikAjanavallabhAya)
% engtitle              : shrIkRiShNAShTottarashatanAmAvaliH 2
% Category              : vishhnu, aShTottarashatanAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Description/comments  : See corresponding stotram. nArAyaNIyamAhAtmya
% Indexextra            : (mAhAtmyam, stotram)
% Latest update         : February 18, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org