श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् २
श्रीनारायणः ऋषिः - अनुष्टुप् छन्दः -
गोलोकनाथः कृष्णपरमात्मा देवता ।
ॐ गोलोकनाथो (१) गोविन्दो (२) गोपिकाजनवल्लभः (३) ।
राधिकारमणो (४) रम्यो (५) राजीवदळलोचनः (६) ॥ १७॥
करुणासागरः (७) कृष्णः (८) कामकोटिमनोहरः (९) ।
सर्वकर्ता (१०) सर्वहर्ता (११) सच्चिदानन्दविग्रहः (१२) ॥ १८॥
वेदवेद्यो (१३) विराड्रूपो (१४) विरिञ्चिहरवन्दितः (१५) ।
वैकुण्ठनिलयो (१६) विष्णुर्(१७)वासुदेवो (१८) विराट्ध्वजः (१९) ॥ १९॥
पयःपयोधिमद्ध्यस्थः (२०) पन्नगाधिपतल्पगः (२१) ।
सर्वभूतगुहावासः (२२) सूर्येन्दुनयनः (२३) स्वराट् (२४) ॥ २०॥
शार्ङ्गधन्वा (२५) शङ्खचक्रगदाम्बुजलसद्भुजः (२६) ।
श्रिताभीष्टदमन्दारः (२७) शरण्यः (२८) श्रीधराधवः (२९) ॥ २१॥
नवनीलघनच्छायो (३०) नरनारायणात्मकः (३१) ।
मुमुक्षुसेव्यो (३२) मायेशो (३३) मुकुन्दो (३४) मधुसूदनः (३५) ॥ २२॥
मत्स्यरूपधरो (३६) मायी (३७) मनुरूपो (३८) मनुस्तुतः (३९) ।
कठोरपृष्ठविधृतमन्दरः (४०) कमठाकृतिः (४१) ॥ २३॥
हेलाधृतक्रोडतनु (४२) र्हिरण्याक्षनिहा (४३) हरिः (४४) ।
अद्ध्वरात्मा (४५) चलोद्धर्ता (४६)ऽच्युतो (४७)ऽनुपमवैभवः (४८) ॥ २४॥
नरसिंहाकृति (४९) र्नादनिराकृतमहासुरः ॥ ५०॥
भक्तप्रह्लादवरदो (५१) भवसागरतारकः (५२) ॥ २५॥
वलभित्सहजो (५३) वन्द्यो (५४) वामनो (५५) बलिदर्पहा (५६) ।
त्रिक्रमाक्रान्तभुवन (५७) स्त्रिदिवेड्य (५८) स्त्रिविक्रमः (५९) ॥ २६॥
भगवान् (६०) भार्गवो रामो (६१) भीमकर्मा (६२) भवप्रियः (६३) ।
दशास्यहन्ता (६४) दुर्द्धर्षो (६५) रामो दशरथात्मजः (६६) ॥ २७॥
भव्यो (६७) भरतशत्रुघ्नलक्ष्मणाग्रिमसोदरः (६८) ।
वसिष्ठविश्वामित्रादिगुर्वाज्ञापरिपालकः (६९) ॥ २८॥
जानकीमानसोल्लासी (७०) जटायुस्वर्गदायकः (७१) ।
वैवस्वतसखो (७२) बालिहन्ता (७३) वायुसुतप्रियः (७४) ॥ २९॥
शबरीसल्कृतिप्रीतः (७५) शाखामृगसहायवान् (७६) ।
रोहिणीनन्दनो रामो (७७) रेवतीप्राणवल्लभः (७८) ॥ ३०॥
सूरजाभेदनः (७९) सीरमुसलाद्युद्यदायुधः ॥ ८०॥
देवकीनन्दनो (८१) दामोदरो (८२) दरविनाशनः (८३) ॥ ३१॥
वृन्दावनचरो (८४) वत्सबकाघाद्यसुरान्तकः (८५) ।
योगेशो (८६) यादवाधीशो (८७) यशोदानन्दनन्दनः (८८) ॥ ३२॥
गोप्ता (८९) गोवर्द्धनोद्धर्ता (९०) गुर्वभीष्टप्रदायकः (९१) ।
काळियाहीन्द्रदर्पघ्नः (९२) कलेशः (९३) कालनेमिहा (९४) ॥ ३३॥
विदुरोद्धवभीष्मादिवन्द्यो (९५) बाणमदापहः (९६) ।
पाकारिनन्दनसखः (९७) पाकशासनशासकः (९८) ॥ ३४॥
सुदामसब्रह्मचारी (९९) सीरपाणिसहोदरः (१००) ।
भैष्म्याद्यष्टाधिकद्व्यष्टसहस्रस्त्रीवरेश्वरः (१०१) ॥ ३५॥
सद्गीयमानसत्कीर्तिः (१०२) सत्यकामः (१०३) सताङ्गतिः (१०४) ।
पुराणपुरुषः (१०५) पूर्णः (१०६) पावनः (१०७) परमेश्वरः (१०८) ॥ ३६॥
फलश्रुतिः-
एवं गोलोकनाथस्य श्रीकृष्णस्य महाप्रभोः ।
अष्टोत्तरशतं नाम्नां दिव्यं सर्वार्थसिद्धिदम् ॥ ३७॥
गुह्याद्गुह्यमिदं स्तोत्रं प्रयतो यः पठेन्नरः ।
शृणुयाद्वा शुचिर्नित्यं स कृष्णपदवीमियात् ॥ ३८॥
इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये श्रीकृष्णाष्टोत्तरशतकथनं सम्पूर्णम् ।
Encoded and proofread by Mohan Chettoor