यदुशैलयोगनरसिंह सुप्रभातम्

यदुशैलयोगनरसिंह सुप्रभातम्

। शुभमस्तु । जग्गू श्री वकुलभूषणकवि विरचितं यदुशैलयोगनरसिंह सुप्रभातं श्रीमते रामानुजाय नमः । श्रीमते नरसिंहाय नमः । कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥ स्मृत्वा तातवधं स्वकारणभवं खिद्यन्नटन्भूतलं प्रह्लादः प्रतिपद्य पर्वतममुं मोमन्तमन्तर्मुखः । सालग्रामतनुं तनुं नरहरे भोस्त्वां निधाय क्वश्चित् स्नात्वैत्य त्वददर्शनात्स्तुतिपरस्त्वामाप सूषोऽस्तु ते ॥ १॥ योगीन्द्रमानससरोवरराजहंस यद्वद्रिश‍ृङ्गतटकन्दर भव्यवास । योगासनप्रकटिताश्रितकाङ्क्षितार्थ- दानात्तयोग नृहरे तव सुप्रभातम् ॥ २॥ प्रह्लादरक्षणकृते नरसिंहरूपः स्तम्भोदरान्ननु झडित्युदभूर्मुरारे । भक्तार्थमेवमविचिन्तितचित्रवेषः भासि प्रभो नरमृगेन्द्र तव प्रभातम् ॥ ३॥ चक्रायुधोऽपि नखदारितशत्रुवक्षाः चन्द्राननोऽपि धृतसिह्यमुखो मुकुन्द । कण्टार्पितायतसिरो वनमाल्यपीदं भक्तार्थमेव ननु ते नृहरे प्रभातम् ॥ ४॥ प्रह्लादभक्तिभरवश्यमना मुरारे तत्प्रार्थनानुगुणमत्र नृसिंहरूपः । अर्च्याकृतिर्विलससि प्रतिपन्नयोगः वात्सल्यमाश्रितजने बत ते प्रभातम् ॥ ५॥ उत्तुङ्गश‍ृङ्गमधिरुह्य कुतस्स्थितोऽसि वृद्धोऽपि दूरगत भक्तजनेक्षणार्थम् । किंवा सुदृष्टचर एव जरत्स्वभावः वात्सल्यकार्यमिदमच्युत ते प्रभातम् ॥ ६॥ कल्याणदिव्यसरसीप्रतिबिम्बितोऽयं यद्वद्रिश‍ृङ्गविततोच्छ्रितगोपुरोऽपि । प्रातः पवित्रसलिले ननु मज्जतीव श्रीमन्नृसिंह तदभूत्तव सुप्रभातम् ॥ ७॥ श्रीयादवाद्रिरमणीयविशालसानु- वृक्षेषु सुप्तिमपहाय पतत्रिणोऽपि । कूजन्ति कर्णमधुरं तव जागराय यद्वद्रिदीप नृहरे तव सुप्रभातम् ॥ ८॥ त्वय्याहिताखिलभरा मनुजास्सभक्ति कल्याणतीर्थमवगाह्य धृतोर्ध्वपुण्ड्राः । त्वन्मन्दिराङ्कणतटे फलपुष्पहस्ताः तिष्ठन्ति नाथ नृहरे तव सुप्रभातम् ॥ ९॥ प्रालेयशीतलतरङ्गवहाष्टतीर्थ- पूताम्बुशीकरकणोद्वहनातिमन्दः । सानुप्ररूढसुमसन्ततिगन्धवाही वाति प्रभो मरुदये तव सुप्रभातम् ॥ १०॥ तीर्थाभिषेकसमये नरसिंह सान्द्र- हारिद्रचूर्णपरिकर्मितसर्वगात्रः । साक्षाद्गुहान्तरगतो व्रत केसरीव संदृश्यसे यदुगिरौ तव सुप्रभातम्ः ॥ ११॥ भक्तार्थमेव यदुशैलतटे निषण्णः वात्सल्यसोढजनतारचितापराधः । सौलभ्यकृष्टजनचित्तविलोचनोऽसि श्रीमन्नृसिंह यदुशैलपते प्रभातम् ॥ १२॥ अष्टोत्तरोत्तमशतस्थलसारभूते विख्यातदक्षिणबदर्यभिधे मनोज्ञे । श्रीयादवाचलतटे कृतसन्निधान योगासनस्थ नृहरे तव सुप्रभातम् ॥ १३॥ धृत्वात्मपाणियुगलेन च शङ्खचक्रे हस्तद्वयेन परिदर्शितपादपद्मः । (पादयुग्मः) एतद्वयाङ्कितभुजा इदमाश्रयध्व- मित्यादिशस्ययि किमत्र हरे प्रभातम् ॥ १४॥ मर्त्यालिदुष्कृतगजव्रजपिङ्गदृष्टे पञ्चाग्र्यभागवतसेवितपादपद्म । भक्तार्पिताखिलपरिष्करणोज्वलाङ्ग यद्वद्रिनाथ नृहरे तव सुप्रभातम् ॥ १५॥ वृक्षात्मतामुपगता इह सूरयोऽपि पुन्नागचम्पकरसालमुखस्वरूपाः । शाखाभुजाग्रविधृतप्रसवाः पिकालि- नादोच्चसाममुखरास्तव सुप्रभातम् ॥ १६॥ वक्षस्स्थलेन कमलां सततं वहन्सन् योगैकसक्तहृदयोऽसि विचित्रमेतत् । भक्तेष्टदः पुरुषकारमपेक्षसे वा नूनं नृसिंह यदुशैलपते प्रभातम् ॥ १७॥ योगासनस्थमुरुलम्बितजानुबाहुं स्तोकावनम्रवदनं कुटिलभ्रुवञ्च । पृच्छन्तमागतसुखागमनन्त्विव त्वां पश्यामि नाथ नृहरे तव सुप्रभातम् ॥ १८॥ रामानुजार्यहृदयातुलमोददायिन् श्रीवैष्णवारिनृपचोलनिषूदनेन । श्रीभाष्यकारकृतमङ्गलसन्नुताद्य श्रीयादवाद्रिनृहरे तव सुप्रभातम् ॥ १९॥ शान्तिर्मुखे नयनयोरपि सन्निधत्ते पाणिद्वयं पदयुगं परिदर्शयत्ते । भक्तालिसंश्रयणयोग्यमितीव शंसत् भाति प्रभो नरमृगेन्द्र तव प्रभातम् ॥ २०॥ हत्वारिमप्यपरिहार्यरुषा तदीय- रक्तं पिबंश्च सिरयाभवमावृतोराः । इत्यात्मशान्तिमधिगन्तुमिवासि योगे श्रीयादवाचलतटे नृहरे प्रभातम् ॥ २१॥ लोके प्रतिक्षणमपि प्रतिपत्तुकामाः भोगान्नरा दुरितसन्ततिमाचरन्ति । उत्तिष्ठ वत्सलतया तदिह क्षमस्व श्रीयादवाद्रिनृहरे तव सुप्रभातम् ॥ २२॥ पूर्वं रुषा परुषरूपमियं समेत्य मां शान्तचित्तमतनोत्सकलेक्षणार्हम् । एवं विचिन्त्य किमु वक्षसि पङ्कजाक्षीं धत्से श्रियं यदुगिरीश तव प्रभातम् ॥ २३॥ दानव्रताध्वरतपःप्रभृतेः फलं यत् त्वन्नामसंस्मरणमात्रत एव भक्त्या । आप्नोति तद्दुरितनाशमवाप्य मर्त्यः श्रीमन्नृसिंह भवती भवतु प्रभातम् ॥ २४॥ रक्षार्थमेव नृहरे त्वयि जाग्रतीह पापात्मकोऽपि धुतभीतिरहं प्रहृष्टः । नैर्भर्यलब्धलघुहृच्छरणं गतोऽस्मि त्वत्पादपद्मयुगलं तव सुप्रभातम् ॥ २५॥ लोके स्वभावमपहाय न किञ्चिदस्ति सङ्कल्प एवं तव तादृश इत्यवैमि । संस्कारमग्नमतिरस्म्यत एव नाथ त्रायस्व पापिनममुं नृहरे प्रभातम् ॥ २६॥ त्वत्पादपद्मयुखले सुदृढा नृसिंह भक्तिर्न मे हृदि न च व्रतदाननिष्ठः । कैङ्कर्यबुद्धिरपि जातु न मे प्ररूढा त्रायस्व मां करुणया तव सुप्रभातम् ॥ २७॥ श्रीवैष्णवाग्र्यकुललब्धजनिस्तु सोऽयं रामानुजार्यचरणाश्रयणैकभाग्यः । इत्यादरेण सुविचिन्त्य मयि प्रसीद श्रीमन्नृसिंह तव सम्प्रति सुप्रभातम् ॥ २८॥ पूर्वानुवृत्तगुरुसन्ततिमङ्गलोक्ति- संस्तूयमान यदुशैलपते नृसिंह । तन्वन्स्वयं भुवनमङ्गलमादिमूर्ते विश्वात्मको विलससीह तव प्रभातम् ॥ २९॥ वेदान्तवेद्य निरवद्यगुणाम्बुराशे लक्ष्मीविलासनिलयायितरम्यवक्षः । पीताम्बरोरुरुचिपिङ्गलकेसरौघ श्रीयादवाचलपते नृहरे प्रभातम् ॥ ३०॥ कल्याणरूपमशरण्यशरण्यमीड्यं कारुण्यमात्रकृतसर्वजगत्प्रसूतिम् । ब्रह्मेन्दुशेखरसुरेशसमर्चिताङ्घ्रिं त्वां द्रष्टुमस्मि ननु दर्शय ते प्रभातम् ॥ ३१॥ आराधनाय तव नाथ सुवर्णपूर्ण- कुम्भप्रसूनतुलसीदलधूपदीपाः । सज्जा द्विजांश्च निगमस्वरमञ्जुकण्ठा- स्तिष्ठन्ति जागृहि हरे तव सुप्रभातम् ॥ ३२॥

मङ्गलाशासनम्

क्षपिताश्रितदुःखाय रक्षादक्षाय साक्षिणे । ॐकाररूपिणे तस्मै नरसिंहाय मङ्गलम् ॥ १॥ उद्गिरत्यखिलान्लोकान्संवर्ते ग्रसते च यः । उग्राय नरसिंहाय तस्मै स्यान्नित्यमङ्गलम् ॥ २॥ सर्वैरवध्यं दैत्येशं तीक्ष्णाग्रैर्नखरैस्तु यः । विदार्याऽहन्नुरोदेशे तस्मै वीराय मङ्गलम् ॥ ३॥ पद्भ्यामाक्रम्य पातालं शिरसा त्रिदिवं तथा । अष्टदिग्बाहुदण्डो यस्तस्मै भद्रञ्च विष्णवे ॥ ४॥ तेजसा यस्य चन्द्रार्कनक्षत्रग्रहवह्नयः । ज्वलन्ति तस्मै ज्वलते नरसिंहाय मङ्गलम् ॥ ५॥ विनेन्द्रियाणि सर्वत्र सर्वं जानाति सर्वदा । यस्सर्वतोमुखाय स्यात्तस्मै भद्रं रमाजुषे ॥ ६॥ सटातटिज्ज्वलज्जिह्वस्तीक्ष्णदंष्ट्रात्विहुज्वलः । यो भाति नरसिंहाय तस्मै स्यान्नित्यमङ्गलम् ॥ ७॥ यन्नामस्मरणाद्भीता भूतवेतालराक्षसाः । रोगा नश्यन्ति तस्मै स्याद्भीषणाय च मङ्गलम् ॥ ८॥ यं समाश्रित्य सर्वोऽपि सकलं भद्रमश्नुते । श्रिया जुष्टाय तस्मै स्याद्भद्राय च सुमङ्गलम् ॥ ९॥ साक्षाद्विपक्षं मृत्युञ्च भक्तानां यो विनाशयेत् । मृत्योश्च मृत्यवे तस्मै नरसिंहाय मङ्गलम् ॥ १०॥ यस्मै कृत्वा नमस्कारं विधायात्मनिवेदनम् । त्यक्तदुःखो नरः कामानश्नुते तं नमाम्यहम् ॥ ११॥ दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥ १२॥ आधिव्याधिमहाभीतिमहादुःखनिवारक । अपारकरुणासिन्धो दिव्यसिंह नमोऽस्तु ते ॥ १३॥ पूर्वाचार्यकृतैर्भक्त्या मङ्गलाशासनैश्चिरात् । स्तूयमानाय तस्मै स्यान्नरसिंहाय मङ्गलम् ॥ १४॥ फलश्रुतिः - सुप्रभातमिदं भक्त्या प्रातरुत्थाय यः पठेत् । आयुरारोग्यमैश्वर्यं सोश्नुते हर्यनुग्रहात् ॥ १५॥ इति श्रीजग्गूवकुलभूषणकवि विरचितं यादवाद्रियोगारूढनरसिंहसुप्रभातं सम्पूर्णम् । । शुभमस्तु । श्रीयोगारूढनरसिंहाय परब्रह्मणे नमः । Proofread by Venkata Surya Jagannadha Rao Garimella, NA
% Text title            : Yadigirisha Suprabhatam
% File name             : yoganarasiMhasuprabhAtam.itx
% itxtitle              : yoganarasiMhasuprabhAtam
% engtitle              : yoganarasiMhasuprabhAtam
% Category              : vishhnu, dashAvatAra, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Venkata Surya Jagannadha Rao Garimella, NA
% Indexextra            : (Scan 1, 2)
% Latest update         : May 31, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org