अनुभवनिवेदनम्
अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते
दृष्ट्या निश्चलतारया बहिरसौ पश्यन्नपश्यन्नपि ।
मुद्रेयं खलु शाम्भवी भवति सा युष्मत्प्रसादाद्गुरो
शून्याशून्यविवर्जितं भवति यत् तत्त्वं पदं शाम्भवम् ॥ १॥
अर्धोद्धाटितलोचनः स्थिरमना नासाग्रदत्तेक्षण-
श्चन्द्रार्कावपि लीनतामुपगतौ त्रिस्पन्दभावान्तरे ।
ज्योतीरूपमशेषबाह्यरहितं चैकं पुमांसं परं
तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ २॥
शब्दः कश्चन यो मुखादुदयते मन्त्रः स लोकोत्तरः
संस्थानं सुखदुःखजन्मवपुषो यत्कापि मुद्रैव सा ।
प्राणस्य स्वरसेन यत्प्रवहणं योगः स एवाद्भुतः
शाक्तं धाम परं ममानुभवतः किन्नाम न भ्राजते ॥ ३॥
मन्त्रः स प्रतिभाति वर्णरचना यस्मिन्न संलक्ष्यते
मुद्रा सा समुदेति यत्र गलिता कृत्स्ना क्रिया कायिकी ।
योगः स प्रथते यतः प्रवहणं प्राणस्य संक्षीयते
त्वद्धामाधिगमोत्सवेषु सुधियां किं किं न नामाद्भुतम् ॥ ४॥
॥ इति श्रीअभिनवगुप्तपादाचार्यकृतं अनुभवनिवेदनं सम्पूर्णम् ॥
Encoded and proofread by Ruma Dewan