योगसुधाकरो नाम योगसूत्रवृत्तिः
श्रीसदाशिवेन्द्रसरस्वत्या विरचितायां
॥ ॐ श्रीपरमात्मने नमः ॥
यद्भावनादवापीयं प्रत्यक्चितिरनामया ।
क्लेशकर्माद्यसंस्पृष्टं तमीशं कञ्चनाभजे ॥ १ ॥
श्रीमत्पतञ्जलेस्तस्य पदद्वन्द्वमनिन्दितम् ।
वन्दे येन मनःकायवाचां शुद्धिरकार्यसौ ॥ २ ॥
विद्यारत्नं मया लब्धं यत्कृपापारवारिधेः ।
वन्दे तान्विबुधैर्वन्द्यान्वन्दकानन्ददान्गुरून् ॥ ३ ॥
श्रीमद्देशिकवक्त्राब्जान्निशम्याथ विलोड्य ताम् ।
फणीन्द्रभणितेः काचिद्वृत्तिरारभ्यते मया ॥ ४ ॥
१. समाधिपादः ।
इह खलु भगवान्पतञ्जलिः प्रेक्षावत्प्रवृत्त्यौपयिकं शास्त्रप्रतिपाद्यं दर्शयति -
१.१. अथ योगानुशासनं
१.१. अथ योग-अनुशासनम् ॥ 1.1 ॥
अत्र अथशब्दः आरम्भार्थः, अर्थान्मङ्गलार्थश्च ।
``युज समाधौ'' इति धातोर्योगः समाधिः; तस्यानुशासनं हैरण्यगर्भे शास्त्रमनुसृत्य शिष्यते व्याख्यायते ससाधनः सफलः समाधिरनेनेत्यनुशासनं शास्त्रम् । तथा च कस्मैचित्कैवल्यकामाय प्रतिपाद्ययोगप्रतिपादकं शास्त्रमारभ्यत इत्यक्षरार्थः ।
तत्र समाधिर्द्विविधः सम्प्रज्ञातोऽसम्प्रज्ञातश्चेति । स च चित्तस्य धर्मः ।
चित्तं हि त्रिगुणात्मकत्वात्पञ्चभूम्युपेतम् ।
भूमयश्च - क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति ।
तत्र - रजसा विषयेषु क्षिप्यमाणं क्षिप्तं; तमसा निद्रालस्यादिवृत्तिमन्मूढं;
ईषद्रजस्तमःसंस्पृष्टेन सत्त्वेन कादाचित्कध्यानयुक्ततया क्षिप्ताद्विशिष्टं विक्षिप्तं;
विधूतरजस्तमोमलेन शुद्धसत्त्वेनैकाग्रमेकतानं; प्रशान्तसकलवृत्तिकं संस्कारशेषं निरुद्धम् ।
एवं च आद्यभूमित्रयपरित्यागेनावशिष्टभूमिद्वयोपेतस्य चित्तस्य समाधिद्वयं धर्म इति विवेकः ॥ १.१ ॥
अधुना द्विविधस्य समाधेः साधारणं लक्षणं लक्षयति -
१.२. योगश्चित्तवृत्तिनिरोधः
१.२. योगः-चित्त-वृत्ति-निरोधः ॥ 1.2 ॥
रजस्तमोवृत्त्योर्निरोधो योग इत्यर्थः । अतः सात्त्विकवृत्तिसत्त्वेऽपि सम्प्रज्ञाते नाव्याप्तिः ॥ १.२ ॥
ननु बुद्धिवृत्तिस्वभावायाश्चितिशक्तेर्वृत्तिनिरोधे कथं स्थितिरित्याशङ्क्याह -
१.३. तदा द्रष्टुः स्वरूपेऽवस्थानं
१.३. तदा द्रष्टुः स्वरूपे-अवस्थानम् ॥ 1.3 ॥
यदा सर्वासां वृत्तीनां निरोधः, तदा द्र द्रष्टुश्चितिशक्तेः स्वाभाविके स्वरूपे स्थितिः कुसुमापगमे स्फटिकमणेरिवेत्यर्थः । चितिशक्तेश्चैतन्यमात्रं स्वभावो न वृत्तय इति भावः ॥ १.३ ॥
ननु तर्हि व्युत्थाने चितिशक्तेः स्वरूपात्प्रच्युतिः स्यादित्यत्राह -
१.४. वृत्तिसारूप्यमितरत्र
१.४. (वृत्ति-सारूप्यम्)-इतरत्र ॥ 1.4 ॥
यद्यपि निर्विकारा चितिशक्तिः सदा स्वरूप एवावतिष्ठते, तथापि निरोधादन्यत्र वृत्तिषूत्पद्यमानासु तत्र चितिच्छायायां प्रतिबिम्बितायां तदविवेकात्तत्तादात्म्यमापन्नेव चितिशक्तिर्भवति जपारक्त इव स्फटिकः ।
अतो न स्वरूपात्प्रच्युतिः । न हि लौहित्यभ्रमसमये समस्ति स्फटिकमणेरवदातस्वभावात्प्रच्युतिरिति भावः ।
एतेन सूत्रद्वयेनार्थाद्यन्निरोधे चितिशक्तिः स्वरूपप्रतिष्ठा यद्व्युत्थाने स्वरूपाप्रतिष्ठेव भवति तच्चित्तमिति द्वितीयसूत्रगतचित्तपदं व्याख्यातं भवति ॥ १.४ ॥
अधुना निरोद्धव्यानां वृत्तीनामियत्तामाह -
१.५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः
१.५. वृत्तयः पञ्चतय्यः क्लिष्टा-अक्लिष्टाः ॥ 1.5 ॥
पञ्च तयबर्था अवयवा वक्ष्यमाणाः प्रमाणादयो यासां सामान्यवृत्तीनां ताः पञ्चतय्यो वृत्तयश्चित्तस्य परिणामाः ।
बहुवचनं तु मैत्रादिपुरुषबहुत्वाभिप्रायेण । ताः कीदृश्यः ? क्लिष्टा अक्लिष्टाः; वक्ष्यमाणैः क्लेशैः संश्लिष्टाः स्वरूपाप्रतिष्ठाप्रत्ययाः क्लिष्टाः, तैरसंश्लिष्टाः स्वरूपप्रतिष्ठाप्रत्ययाः अक्लिष्टाः ।
यद्यपि पञ्चस्वेव क्लिष्टानामक्लिष्टानां चान्तर्भावः, तथापि क्लिष्टा एव निरोद्धव्या इति मन्दबुद्धिं वारयितुं ताभिः सहाक्लिष्टा अप्युदाहृताः ॥ १.५ ॥
अथ नामधेयलक्षणाभ्यां वृत्तीर्विशदयितुं सूत्रषट्कमाचष्टे -
१.६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः
१.६. प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः ॥ 1.6 ॥
अतोऽपरा वृत्तिर्न समस्तीत्युद्देशसूत्रस्य फलम् ॥ १.६ ॥
१.७. प्रत्यक्षानुमानागमाः प्रमाणानि
१.७. प्रत्यक्ष-अनुमाना-आगमाः प्रमाणानि ॥ 1.7 ॥
त्रीण्येव प्रमाणानीति भावः । वृत्तावज्ञातार्थावगाही चितिशक्तेः प्रतिबिम्बः प्रमा । तत्करणं वृत्तिः प्रमाणम् ।
तत्त्वं प्रमाणसामान्यलक्षणम् ।
तत्र चक्षुरादिद्वारा व्यक्तिविशेषनिर्धारणी चित्तवृत्तिः प्रत्यक्षप्रमाणम् । तदाकारवृत्तौ चितिशक्तेः प्रतिबिम्बः प्रत्यक्षप्रमा ।
एवं ध्यानसमाधिद्वारा चितिशक्तिविशेषावद्योतिका सम्प्रज्ञाताख्या चित्तवृत्तिः प्रत्यक्षप्रमाणम् । ज्ञाता चितिशक्तिः फलम् ।
लिङ्गज्ञानद्वारा लिङ्गिसामान्यनिर्धारणी वृत्तिरनुमानम् । तत्र प्रतिबिम्बोऽनुमितिः ।
पदार्थज्ञानद्वारा वाक्यार्थावगाहिनी वृत्तिरागमः । तत्र प्रतिबिम्बः शाब्दः ।
अनुमानागमावुभयत्र समानाविति पृथङ् नोदाहृतौ ॥ १.७ ॥
१.८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठं
१.८. विपर्ययः मिथ्या-ज्ञानम्-अतद्रूप (अ-तद्-रूप)-प्रतिष्ठम् ॥ 1.8 ॥
विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानं बाधानन्तरं व्यवहाराजनकं यत् अतद्रूपप्रतिष्ठं तस्यार्थस्य यद्रूपं पारमार्थिकं स्वरूपं तत्राप्रतिष्ठितं तदनवगाहि । तत्त्वं लक्षणम् ।
अतो न विकल्पेऽतिव्याप्तिः, तस्य बाधितत्वेऽपि केषाञ्चित्पण्डितानां व्यवहारजनकत्वात् । नापि संशये, तस्यापि लक्ष्यत्वात् ॥ १.८ ॥
१.९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः
१.९. शब्द-ज्ञान-अनुपाती वस्तु-शून्यः विकल्पः ॥ 1.9 ॥
``राहोः शिरः'' इति शब्दश्रवणानन्तरं जायमाना वस्तुशून्या वृत्तिर्विकल्पः । अतो वाक्यार्थगोचरवृत्तौ नातिव्याप्तिः, तस्या वस्तुशून्यत्वाभावात् । नापि विपर्यये, तस्य शब्दज्ञानाननुपातित्वात् ॥ १.९ ॥
१.१०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा
१.१०. अभाव-प्रत्यय-आलम्बना वृत्तिः-र्निद्रा ॥ 1.10 ॥
वस्त्वभावः प्रतीयते यस्मिन्नावारके तमसि सति, तत्तमोऽभावप्रत्ययः । तं विषयीकुर्वती वृत्तिर्निद्रा । तस्याः ``सुखमहमस्वाप्सं न किञ्चिदवेदिषम्'' इति स्मरणस्यानुभवपूर्वकत्वाद्वृत्तित्वम् ॥
१.११. अनुभूतविषयाऽसम्प्रमोषः स्मृतिः
१.११. अनुभूत-विषय-असम्प्रमोषः स्मृतिः ॥ 1.11 ॥
अनुभूतस्य पित्रादेः असम्प्रमोषः तदनुभवजन्यमनुसन्धानं स्मृतिरित्यर्थः ।
एतेन वृत्तय इत्याद्यनुभूतविषयेत्यन्तेन सूत्रसप्तकेन द्वितीयसूत्रगतवृत्तिपदं व्याख्यातं भवति ।
इतोऽवशिष्टेन पादेन निरोधपदमर्थाद्व्याख्यायत इति द्रष्टव्यम् ॥ १.११ ॥
अधुना पञ्चविधवृत्तिनिरोधोपायमाह -
१.१२. अभ्यासवैराग्याभ्यां तन्निरोधः
१.१२. अभ्यास-वैराग्याभ्यां तत्-निरोधः (तद्-निरोधः)॥ 1.12 ॥
चित्तस्य निसर्गतोनिर्गतस्रगादिगोचरवृत्तिसरित्पूरं वैराग्येण विनिवार्य समाध्यभ्यासेन प्रशान्तप्रवाहः सम्पाद्यते । अतस्तदुभयनिबन्धनो निरोध इत्यर्थः ॥ १.१२ ॥
ननु जपादावावृत्तिलक्षणोऽभ्यासो विधातुं पार्यते; को नाम निरोधेऽभ्यास इत्यत आह -
१.१३. तत्र स्थितौ यत्नोऽभ्यासः
१.१३. तत्र स्थितौ यत्न-अभ्यासः ॥ 1.13 ॥
तत्र तयोर्मध्ये । स्थितिर्नैश्चल्यं निरोधः, तत्र । ``चर्मणि द्वीपिनं हन्ति'' इतिवन्निमित्तार्थेयं सप्तमी । एवं च स्थितिनिमित्तको यत्नो मानस उत्साहः स्वत एव बहिःप्रवाहशीलं चित्तं सर्वथा निरोत्स्यामीत्येवंविध उत्साह आवर्त्यमानोऽभ्यास इत्युच्यते ॥ १.१३ ॥
नन्वद्यतनाभ्यासः स्वयमदृढः सन्ननादिसञ्चितव्युत्थानसंस्कारान्कथमभिभवेदित्याशङ्क्याह -
१.१४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः
१.१४. सः तु (दीर्घ-काल)-नैरन्तर्य-सत्कार-आसेवितो दृढ-भूमिः ॥ 1.14 ॥
यदि दिवसैर्मासैर्वा समाधिसिद्धिं वाञ्छेत्, तदा ``विद्यमानाश्चत्वार एव वेदाः; तानध्येतुं गतस्य माणवकस्य पञ्च दिवसा अतीताः; नाद्याप्यसौ समागतः'' इति मूढवचनानुसार्येवायं योगी स्यात् । अतः संवत्सरैर्जन्मभिर्वा दीर्घकालं योग आसेवितव्यः । तथा च स्मर्यते - ``अनेकजन्मसंसिद्धस्ततो याति परां गतिम्'' इति ।
यदि चिरमासेव्यमानोऽपि विच्छिद्य विच्छिद्यासेव्येत, तर्ह्युत्पद्यमाना योगसंस्काराः समनन्तरभाविविच्छेदकालीनैर्व्युत्थानसंस्कारैरभिभूयेरन् । अतो निरन्तरमासेवितव्यः ।
सत्कार आदरः । अनादरे लयविक्षेपकषायादयः प्रसज्जेरन् । तस्मादादरेणासेवितव्यः ।
दीर्घकालादित्रैविध्येनासेवितस्य समाधेर्दृढभूमित्वं नाम प्रबलतरदुःखेनापि चालयितुमशक्यत्वम् । तच्च स्मर्यते - ``यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते'' इति ॥ १.१४ ॥
अथ वैराग्यं द्विविधमपरं परं चेति । अपरं च यतमानव्यतिरेकैकेन्द्रियवशीकारभेदेन चतुर्विधम् । तत्राद्यत्रयमर्थात्सूचयन्साक्षाच्चतुर्थमाह -
१.१५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यं
१.१५. दृष्ट-अनुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् ॥ 1.15 ॥
स्रक्चन्दनादयो विषया दृष्टाः । वेदोक्तस्वर्गादय आनुश्रविकाः । तत्रोभयत्रापि सत्यामपि तृष्णायां विवेकतारतम्येन यतमानादिवैराग्यत्रयं भवति ।
यतमानत्वं नाम ``अस्मिञ्जगति किं सारं किमसारमिति गुरुशास्त्राभ्यां विज्ञास्यामि'' इत्युद्योगः ।
स्वचित्ते पूर्वं विद्यमानानां दोषाणां मध्येऽभ्यस्यमानेन विवेकेनैतावन्तः पक्वा एतावन्तोऽवशिष्टा इति विवेचनं व्यतिरेकः ।
दृष्टानुश्रविकविषयप्रवृत्तेर्दुःखात्मकत्वबोधेन तां प्रवृत्तिं परित्यज्य मनस्यौत्सुक्यमात्रेण तृष्णास्थापनमेकेन्द्रियत्वम् ।
वितृष्णत्वं वशीकारः ।
तदिदमपरं वैराग्यमष्टाङ्गयोगप्रवर्तकत्वेन सम्प्रज्ञातस्यान्तरङ्गं, असम्प्रज्ञातस्य तु बहिरङ्गम् ॥ १.१५ ॥
अथ तस्यान्तरङ्गं परवैराग्यमाह -
१.१६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यं
१.१६. तत्-परं पुरुष-ख्यातेः गुण-वैतृष्ण्यम् ॥ 1.16 ॥
सम्प्रज्ञातसमाध्याभ्यासपाटवेन गुणत्रयात्मकात्प्रधानाद्विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कारः; तस्मादशेषगुणत्रयव्यवहारे वैतृष्ण्यं यत्, तत्परं वैराग्यमित्यर्थः ॥ १.१६ ॥
इत्थमभ्यासवैराग्ये निरूप्य तत्साध्यं समाधिमाह -
१.१७. वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः
१.१७. वितर्क-विचार-आनन्द-अस्मिता-रूप-अनुगमात् सम्प्रज्ञातः ॥ 1.17 ॥
१.१७. सवितर्क-सविचार-सानन्द-सास्मिता-रूप-अनुगमात् सम्प्रज्ञातः ॥ 1.17 ॥
(स-वितर्क)(स-विचार)(स-आनन्द)(स-अस्मिता)
सम्यक्प्रज्ञायते येन भाव्यं वस्तु स सम्प्रज्ञातः समाधिर्भावनाविशेषः । स च वितर्कादिरूपैश्चतुर्भिरनुगमाच्चतुर्विधः - सवितर्कः सविचारः सानन्दः सास्मित इति ।
तत्र भावनया भाव्यभूतेन्द्रियगोचरसाक्षात्कारः सवितर्कः ।
पञ्चतन्मात्रान्तःकरणगोचरसाक्षात्कारः सविचारः ।
रजस्तमोलेशानुविद्धसत्त्वप्रधानबुद्धिगोचरसाक्षात्कारः सानन्दः ।
शुद्धसत्त्वप्रधानमहत्तत्त्वगोचरसाक्षात्कारः सास्मितः ।
तत्र वितर्कविचारद्वयं ग्राह्यम् । आनन्दो ग्रहणम् । अस्मिताख्यो ग्रहीता ।
तेषु ग्राह्यग्रहणग्रहीतृषु भावनोत्कर्षः सम्प्रज्ञातो योग इत्यर्थः ॥ १.१७ ॥
इत्थमपरवैराग्यसाध्यं सम्प्रज्ञातं निरूप्य परवैराग्यसाध्यमसम्प्रज्ञातमाह -
(इत्थम्-अपर-वैराग्य-साध्यं सम्प्रज्ञातम्-निरूप्य पर-वैराग्य-साध्यम्-असम्प्रज्ञातम्-आह्)
१.१८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः
१.१८. (विराम-प्रत्यय-अभ्यास)-पूर्वः संस्कार-शेषः अन्यः ॥ 1.18 ॥
विरामो वृत्त्युपरमः, तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः प्रयत्नः, तस्याभ्यासः पौनःपुन्येन सम्पादनं, तत्पूर्वस्तज्जन्यः सम्प्रज्ञातादन्यः संस्कारशेषः प्रशान्तसकलवृत्तिकस्य चित्तस्वरूपस्य दुर्लक्षत्वात्संस्काररूपेण योऽवशिष्यते सोऽसम्प्रज्ञात इत्यर्थः ॥ १.१८ ॥
सोऽयमसम्प्रज्ञातो द्विविधो भवप्रत्यय उपायप्रत्ययश्चेति । तत्राद्यो मोक्ष्यमाणैर्हेयः । तमाह -
१.१९. भवप्रत्ययो विदेहप्रकृतिलयानां
१.१९. (भव-प्रत्ययः)विदेह-प्रकृतिलयानां (प्रकृति-लय)॥ 1.19 ॥
भवन्त्यस्मिञ्जन्तव इति भवः संसारोऽविद्याख्यः, स प्रत्ययो हेतुर्यस्य स संसारमूलोऽसम्प्रज्ञातः ।
भवन्त्यस्मिञ्जन्तव इति भवः संसारोऽविद्याख्यः,
स च भूतेन्द्रियेष्वात्मत्वभावनया विधूतदेहानां विदेहानां अव्यक्तमहदहङ्कारपञ्चतन्मात्रेषु प्रकृतिष्वात्मत्वभावनया लीनानां प्रकृतिलयानां भवत्यन्तवत्फलः । तदीयं चित्तं विवेकख्यात्यभावात्सुप्तचित्तवल्लीनमप्युत्थाय संसारे पततीति भावः ॥ १.१९ ॥
अथ मुमुक्षुभिरुपादेयमुपायप्रत्ययमाह -
१.२०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां
१.२०. श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञापूर्वकः (प्रज्ञा-पूर्वकः)इतरेषाम् ॥ 1.20 ॥
ममायं योग एव परपुरुषार्थसाधनमिति प्रत्ययः श्रद्धा ।
सा चोत्कर्षश्रवणेनोपजायते । उत्कर्षश्च स्मर्यते -
``तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन'' इति ।
तस्यां च श्रद्धायामवसितायां वीर्यमुत्साहो भवति ``सर्वथा योगं सम्पादयिष्यामि'' इति ।
एतादृशोत्साहेन तदा तदानुष्ठेयानि योगाङ्गानि स्मर्यन्ते ।
तया च स्मृत्या सम्यगनुष्ठितसमाधेरध्यात्मप्रसादे सति, ऋतम्भरा प्रज्ञोदेति ।
तत्पूर्वकस्तत्प्रज्ञापूर्वकोऽसम्प्रज्ञातसमाधिः इतरेषां विदेहप्रकृतिलयेभ्योऽर्वाचीनानां योगिनांसिध्यतीत्यर्थः ॥ १.२० ॥
इत्थं परवैराग्यसाध्यं समाधिं विधाय तस्य तारतम्येन समाधेः शैघ्रयतारतम्यमाह -
१.२१. तीव्रसंवेगानामासन्नः
१.२१. तीव्र-संवेगानाम-आसन्नः ॥ 1.21 ॥
संवेगो वैराग्यम् । तद्भेदाद्योगिनस्त्रिविधा मृदुसंवेगा मध्यसंवेगास्तीव्रसंवेगाश्चेति । तत्र तीव्रसंवेगानामासन्नः समाधिलाभः । अल्पेनैव कालेन समाधिर्लभ्यत इत्यर्थः ॥ १.२१ ॥
तीव्रसंवेगेष्वेव तारतम्यमाह -
१.२२. मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः
१.२२. मृदु-मध्य-अधिमात्रत्वात्-ततः-अपि विशेषः ॥ 1.22 ॥
मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्रश्च । तेष्वप्युत्तरोत्तरस्य त्वरया सिद्धिर्द्रष्टव्या ।
तदेवमधिमात्रतीव्रस्य दृढभूमावसम्प्रज्ञातसमाधौ लब्धे सति, पुनर्व्युत्थातुमशक्तं सन्मनो नश्यति ।
ततः प्रत्यक्चितिः स्वे महिम्नि निर्विघ्नं निरन्तरमवतिष्ठत इत्यर्थः ॥ १.२२ ॥
अथासन्नतमसमाधिलोभ उपायान्तरमुपदर्शयति -
१.२३. ईश्वरप्रणिधानाद्वा
१.२३. ईश्वर-प्रणिधानात्-वा ॥ 1.23 ॥
ईश्वरो वक्ष्यमाणलक्षणः । तस्मिन्परमगुरौ प्रणिधानं भावनाविशेषः । तस्मादासन्नतमः समाधिलाभः ।
ईश्वरो हि समाराधनादिना साधनेन आराधितः ``इदमस्येष्टमस्तु'' इति संसाराङ्गारे तप्यमानं पुरुषमनुगृह्णातीति भावः ।
ननु पुष्करपलाशवन्निर्लेपस्य पुरुषस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽनुग्राहकतया कक्षीक्रियेतेति चेत्, उच्यते -
तापकस्य रजसः सत्त्वेमेव तप्यम् । बुद्ध्यात्मना परिणते सत्त्वे तप्यमाने तदारोहवशेन तदभेदावगाही पुरुषोऽपि तप्यत इत्युपचर्यते । तदुक्तं - ``सत्त्वं तप्यं बुद्धिभावेन वृत्तं भावा ये वा राजसास्तापकास्ते । तस्याभेदग्राहिणी तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मा'' इति ।
इत्थं तप्यमानं पुरुषं परमेश्वरः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसम्प्रदायप्रद्योतकोऽनुगृह्णातीत्यनवद्यम् ॥ १.२३ ॥
कः पुनः स ईश्वर इत्यत्राह -
१.२४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः
१.२४. क्लेश-कर्म-विपाक-आशयैः अपरामृष्टः (पुरुष-विशेष)ईश्वरः ॥ 1.24 ॥
क्लिश्नन्तीति क्लेशा वक्ष्यमाणलक्षणा अविद्यादयः । कर्म मिश्रामिश्ररूपं वक्ष्यमाणम् । विपच्यत इति विपाकः फलं जात्यायुर्भोगादिः । आशेरत इत्याशयाः संस्काराः ।
तैरपरामृष्टोऽसंश्लिष्टः । संश्लिष्टस्तु संसारी जीवः । मुक्तस्त्वसंश्लिष्टोऽपि पूर्वकाले तत्संश्लेषाद्बद्ध इव । अतः पुरुषविशेषो नित्यमुक्त ईश्वरः । तस्य सार्वज्ञ्यमैश्वर्यं च अनादिसिद्धप्राकृतशुद्धसत्त्वात्मकचित्तसम्बन्धादिति द्रष्टव्यम् ॥ १.२४ ॥
अथ तत्र प्रमाणमाह -
१.२५. तत्र निरतिशयं सर्वज्ञबीजं
१.२५. तत्र निरतिशयं सर्वज्ञ-बीजम् ॥ 1.25 ॥
तत्रेश्वरे निरतिशयं सर्वज्ञत्वस्य बीजं मूलम् । एतदुक्तं भवति - अस्मदादिज्ञानं निरतिशयेन ज्ञानेनाविनाभूतं सातिशयत्वात् ।
यत्सातिशयं तत्समानजातीयेन निरतिशयेन युक्तं, यथा विभुपरिमाणेन कुम्भपरिमाणम् ।
अतः परिशेषादनुमानसिद्धनिरतिशयज्ञानवानीश्वर इति ॥ २५ ॥
नन्वयमेक एवेश्वरः किमन्येऽपि सन्ति ? नेत्याह -
१.२६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात्
१.२६. स पूर्वेषाम्-अपि गुरुः कालेन-अनवच्छेदात् ॥ 1.26 ॥
ये सर्गादावुत्पन्नाः पूर्वे ब्रह्मादयः, ते मासर्त्वयनहायनादिरूपेण कालेन परिच्छिद्यन्ते ।
तदुक्तं - ``ये रम्या ये शुभाचाराः सुमेरुगुरवोऽपि ये । कालेन विनिगीर्णास्ते गरुडेनेव पन्नगाः'' इति ।
अतस्तेषामपि भगवानेक एव गुरुरीश्वरः; कालेनानवच्छेदात्, ``ज्ञः कालकालः'' इति श्रुतेः ।
अनेनेश्वरस्य महाप्रभावत्वमुक्तं भवति ॥ १.२६ ॥
अथ तस्य नामधेयमाह -
१.२७. तस्य वाचकः प्रणवः
१.२७. तस्य वाचकः प्रणवः ॥ 1.27 ॥
तस्य परमेश्वरस्य प्रणवः प्रकर्षेण नूयते स्तूयतेऽनेनेति प्रणव ओङ्कारः वाचकोऽभिधायक इत्यर्थः ॥ १.२७ ॥
इत्थं नामधेयमभिधाय पूर्वं ``ईश्वरप्रणिधानात्'' इत्युक्तं तत्प्रणिधानं सफलमुपदर्शयति द्वाभ्यां -
१.२८. तज्जपस्तदर्थभावनं
१.२८. तत्-जपः-तत्-अर्थ-भावनम् ॥ 1.28 ॥
१.२९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च
१.२९. ततः (प्रत्यक्-चेतना)-अधिगमः-अपि-अन्तराय-अभावः च ॥ 1.29 ॥
एतदुक्तं भवति - तस्य प्रणवस्य यो जपः, तस्मिन्दीर्घकालनैरन्तर्यसत्कारैस्तदर्थासङ्गचिद्रूपेश्वरभावनापुरःसरं प्राधान्येन दृढमासेविते सति, पश्चात्स्वत एव वाग्व्यापाररूपे तस्मिन्प्रलीने, वाचकस्य न्यग्भावात्तदर्थासङ्गचिद्रूपगोचरवृत्तिसन्तानरूपभावनायां दीर्घकालादिभिर्दृढमासेवितायां, ततस्तत्प्रसादेन चित्तं निरोधाभिमुखं प्रत्यासत्त्यभावेन ईश्वरं विश्रान्तिभूमितयालभमानं सत् तत्सादृश्यात्स्वस्वामिनमसङ्गचिद्रूपमात्मानं स्मारयित्वा अविषयतया तमप्यलभमानं निरिन्धनाग्निवत्स्वयं संस्कारावशेषं भवति । ततः प्रत्यक्चेतनाधिगमः । प्रत्यक्चासौ चेतना, तस्याः प्राप्तिरधिगमः । सर्वान्तरतया भासमाना चितिशक्तिः स्वे महिम्नि निरन्तरं निर्विघ्नमवतिष्ठते । अतः सर्वासां वृत्तीनां प्रविलयादन्तरायाभावश्च भवति । अयमेक ईश्वरप्रणिधानस्य विशेष इति ॥
के तेऽन्तराया इत्यपेक्षायामाह -
१.३०. व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः
१.३०. व्याधि-स्त्यानम्-संशयः-प्रमादः-आलस्यम्-अविरति-भ्रान्तिदर्शनम्-अलब्धभूमिकत्वम्-अनवस्थितत्वं चित्तविक्षेपाः-ते-अन्तरायाः ॥ 1.30 ॥
ये चित्तं योगाद्विक्षिपन्ति भ्रंशयन्ति ते नव विक्षेपा योगस्यान्तराया विघ्नाः ।
तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादिर्व्याधिः । चित्तस्याकर्मण्यत्वं स्त्यानम् ।
विरुद्धकोटिद्वयावगाहि ज्ञानं संशयः । अहिंसासत्यादिसाधनानामभावनं प्रमादः ।
कायवाक्चित्तगुरुत्वादप्रवृत्तिरालस्यम् । विषयाभिलाषोऽविरतिः ।
अतस्मिंस्तद्बुद्धिर्भ्रान्तिदर्शनम् ।
कुतश्चिन्निमित्तात्समाधिभूमेरलाभोऽलब्धभूमिकत्वम् । लब्धायामपि तस्यां चित्तस्याप्रतिष्ठानवस्थितत्वमित्यर्थः ॥ ३० ॥
न केवलमेते विक्षेपा योगनाशकाः, अपि तु उपद्रवकरा इत्याह -
१.३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः
१.३१. दुःख-दौर्मनस्य-अङ्गमेजयत्वम्-श्वास-प्रश्वासः विक्षेप-सहभुवः ॥ 1.31 ॥
यथोक्तव्याधिजं दुःखम् । तच्चाध्यात्मिकादिभेदात्त्रिविधम् ।
विषयाभिलाषविघातान्मनसि क्षोभो दौर्मनस्यम् ।
सर्वाङ्गचलनमङ्गमेजयत्वम् । तच्च योगाङ्गासनविरोधि ।
अपानः श्वासः । स च रेचकविरोधी । प्राणः प्रश्वासः । स तु पूरकविरोधी ।
अथ वा श्वासो बाह्यकुम्भकविरोधी, प्रश्वासः आन्तरकुम्भकविरोधी, अङ्गमेजयत्वं कुम्भकद्वयविरोधीत्यर्थः,
``नोच्छ्वसेन्नैव निश्वस्यान्नैव गात्राणि चालयेत्'' इति कुम्भके तन्निषेधश्रवणात् ।
अत एते दुःखादयो विक्षेपैः सह भवन्ति, विक्षिप्तचित्तस्य भवन्तीत्यर्थः । ३१ ॥
इत्थमन्तरायानुक्त्वा ते कस्मान्नाशनीया इत्यपेक्षायां पूर्वोक्तमीश्वरप्रणिधानमेवास्मिन्नंशे स्मारयति -
१.३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः
१.३२. तत्-(प्रतिषेध-अर्थम्)-एक-तत्त्व-अभ्यासः ॥ 1.32 ॥
तेषां सोपद्रवाणां विक्षेपाणां विनाशार्थमेकतत्त्वस्येश्वरस्याभ्यासः कर्तव्यः ॥
एतदुक्तं भवति - एकतत्त्वगोचरमनोवृत्तिप्रवाहानुकूलो यत्नोऽभ्यासः । स च दीर्घकालनैरन्तर्यसत्कारैर्दृढमासेवितव्यः ।
आसेविते च तस्मिन्व्याध्यादयो वासनाः क्षणेनैव विशरारुतां यान्ति ।
तदुक्तं - ``वासनासम्परित्यागे यदि यत्नं करोष्यलम् । तत्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात्'' इति ॥ १.३२ ॥
अधुना सम्प्रज्ञातभूमिरूपैकाग्रतोपायान् ``मैत्री-'' इत्यादि ``यथाभिमत-'' इत्यन्तेन सूत्रसप्तकेनाह -
१.३३. मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनं
१.३३. मैत्री-करुणा-मुदिता-उपेक्षाणां सुख-दुःख-पुण्य-अपुण्य-विषयाणां भावनातः चित्त-प्रसादनम् ॥ 1.33 ॥
चित्तं हि रागद्वेषपुण्यपापैः कलुषीक्रियते ।
तत्र स्वप्नादौ स्वेनानुभूयमानं सुखमनुशेते ``सर्वं सुखजातं मे भूयात्'' इति कश्चिद्धीवृत्तिविशेषो रागः ।
स च सुखजातस्य दृष्टादृष्टसामग्र्यभावेन सम्पादयितुमशक्यत्वाच्चित्तं कलुषीकरोति ।
यदा तु सुखिप्राणिषु मैत्रीं भावयेत् ``सर्वेऽप्येते सुखिनो मदीयाः'' इति, तदा तत्सुखं स्वकीयमेव सम्पन्नमिति तत्र रागो निवर्तते । न केवलं रागः, किं तु (किन्तु)परगुणासहनदोषाविष्करणरूपासूयेर्ष्यादिकमपि निवर्तते । निवृत्ते च रागासूयेर्ष्यादौ वर्षास्वतीतासु शरत्सरिदिव चित्तं प्रसीदति ।
तथा दुःखमनुशेते ``सर्वं दुःखं सर्वथा मे मा भूत्'' इति कश्चित्प्रत्ययो द्वेषः । स च वैर्यादिषु सत्सु निवारयितुमशक्यत्वात्सदा हृदयं दहति । यदा ``स्वस्येव परेषां प्रतिकूलं दुःखं मा भूत्'' इत्यनेन प्रकारेण करुणां दुःखिप्राणिषु भावयेत्, तदा वैर्यादिषु द्वेषो निवर्तते ।
न केवलं द्वेषः, किं तु (किन्तु)दुःखित्वप्रतियोगिकस्वसुखित्वप्रयुक्तो दर्पोऽपि निवर्तते । स च दर्पो भगवता दर्शितः - ``ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया'' इति । अत उभयनिवृत्तौ उभयनिवृत्त्तौ चित्तं प्रसीदति ।
तथा प्राणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति, पापं त्वनुतिष्ठन्ति । अतस्ते पुण्यपापे पश्चात्तापं जनयतः । यदि पुण्यपुरुषेषु मुदितां भावयेत्, तदा तद्वासनया स्वयमप्यप्रमत्तः पुण्ये प्रवर्तते । तथा पापिषूपेक्षां भावयन्स्वयमपि पापान्निवर्तते । अतः पश्चात्तापाभावेन चित्तं प्रसीदति ।
ननु पुण्यात्मसु मुदितां भावयतः पुण्ये प्रवृत्तिः फलत्वेनोक्ता; सा च योगिनो न युक्ता, तस्य पुनर्जन्मकरत्वात् । मैवं; काम्यस्येष्टापूर्तादेर्जन्महेतुत्वादिह तु योगाभ्यासजन्यस्य जन्मानापादकस्याशुक्लकृष्णस्य पुण्यस्य विवक्षितत्वात् । वक्ष्यति च भगवान्सूत्रकारः - ``कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषाम्'' इति । अतो मैत्र्यादिभावनया रागादिवासनानिवृत्तौ प्रसादं स्थैर्यमापन्नं सच्चित्तमेकाग्रतापदं लभत इत्यर्थः ।
तदुक्तं - ``पौरुषेण प्रयत्नेन बलात्सन्त्यज्य वासनाम् । स्थितिं बध्नासि चेत्तर्हि पदमासादयस्यलम्'' इति । १.३३ ॥
१.३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य
१.३४. प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य ॥ 1.34 ॥
प्राणस्य शरीरान्तर्गतस्य वायोः प्रच्छर्दनं द्वात्रिंशन्मात्राप्रमाणेन शनैः शनैः पिङ्गलया बहिर्विरेचनम् ।
रेचितं प्रश्चादिडया षोडशमात्राप्रमाणेनान्तरापूर्य पूरितस्य पुनश्चतुःषष्टिमात्राप्रमाणेन विधारणमान्तरकुम्भकः ।
रेचितस्य वोक्तप्रमाणेन बहिरेव विधारणं बाह्यकुम्भकः ।
अनेन रेचकपूरकबाह्याभ्यन्तरकुम्भकरूपप्राणायामत्रयं भवति ।
तेन प्राणस्पन्दे निरुद्धे सति चित्तदोषाः प्रदह्यन्ते ।
तथा च श्रुतिः - ``यथा पर्वतधातूनां दह्यन्ते धमता मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्'' इति ।
तत्रोपपत्तिर्वसिष्ठेन दर्शिता - ``यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि । प्राणस्पन्दक्षये यत्नः कर्तव्यो धीमतोच्चकैः'' इति ।
अतः प्राणमनःस्पन्दयोः सहभावित्वात्प्राणनिग्रहे मनो निगृह्यते ।
ननु सहस्पन्दो न युक्तः, सुषुप्तौ चेष्टमानेऽपि प्राणे मनसोऽचेष्टमानत्वात् । मैवं; विलीनत्वेन तदानीं मनस एवाभावात् ।
ननु ``क्षीणे प्राणे नासिकयोच्छ्वसीत'' इति श्रुतिव्याहतमिति चेत्, न; अनुल्बणत्वस्य क्षयत्वेनात्र विवक्षितत्वात् । यथा पर्वतमारोहतः श्वासवेगो यावान्भवति न तावानासीनस्य विद्यते; तथा प्राणायामपाटवोपेतस्यैतस्मादल्पः श्वासो भवति ।
एतदेवाभिप्रेत्य श्रूयते -
``भूत्वा तत्रायतः प्राणः शनैरेव समुत्सृजेत्'' इति । अतः प्राणायामपाटवेन प्राणे निरुद्धे सति निर्मृष्टनिखिलदोषं सच्चित्तमेकाग्रतापदं लभत इत्यर्थः ॥ ३४ ॥
१.३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी
१.३५. विषयवती वा प्रवृत्तिः-रुत्पन्ना मनसः स्थितिनिबन्धनी ॥ 1.35 ॥
नासाग्रजिह्वाग्रतालुजिह्वामध्यजिह्वामूलेषु प्रदेशेषु चित्तस्य संयमाद्दिव्यगन्धरसरूपस्पर्शशब्दविषयवत्यः संविदः प्रवृत्तयः शीघ्रमुत्पन्नाः सत्यो विश्वासमुत्पाद्य अतिसूक्ष्मेश्वरादौ मनसः स्थितिं बध्नन्ति । अतो मन एकाग्रतां प्राप्नोतीत्यर्थः ॥ १.३५ ॥
१.३६. विशोका वा ज्योतिष्मती
१.३६. विशोका वा ज्योतिष्मती ॥ 1.36 ॥
अष्टदलहृदम्बुजं रेचकेनोर्ध्वमुखं नीत्वा तत्कर्णिकास्थायां सुषुम्नाख्यायां नाड्यां सौरचान्द्रमसवैद्युतादिप्रभानिभस्य चित्ततत्त्वस्य ध्यानात्तज्ज्योतिर्गोचरा संविज्ज्योतिष्मती विशोका शोकशून्या प्रवृत्तिरुत्पन्ना सती मनसः स्थितिं सम्पादयति । ततस्तन्मन एकाग्रतां लभत इत्यर्थः ॥ १.३६ ॥
१.३७. वीतरागविषयं वा चित्तं
१.३७. वीतराग-विषयं वा चित्तम् ॥ 1.37 ॥
शुकादीनां यद्वीतरागं चित्तं, तस्य ध्यानाद्योगिनश्चित्तं नीरागं सदेकाग्रतां लभत इत्यर्थः ॥ १.३७ ॥
१.३८. स्वप्ननिद्राज्ञानालम्बनं वा
१.३८. स्वप्न-निद्रा-ज्ञान-आलम्बनं वा ॥ 1.38 ॥
स्वप्ने शास्त्रीयं यन्मनोहरं वस्तु दृष्टं सुषुप्तौ यत्सुखं ज्ञायते, तत्र ध्यानात्तज्ज्ञेयालम्बनं चित्तं निश्चलं सदेकाग्रतां लभत इत्यर्थः ॥ १.३८ ॥
१.३९. यथाभिमतध्यानाद्वा
१.३९. यथा-अभिमत-ध्यानात्-वा ॥ 1.39 ॥
किं बहुना ? यथेष्टं यद्यच्छास्त्रार्थं दैवं रूपं, तद्ध्यानाच्चित्तमचञ्चलं सदेकाग्रतां लभत इत्यर्थः ॥ १.३९ ॥
नन्वेतैरुपायैरेकाग्रतालाभे किं ज्ञापकमित्यत्राह -
१.४०. परमाणुपरममहत्त्वान्तोऽस्य वशीकारः
१.४०. परमाणु परम-महत्त्वान्तः-अस्य वशीकारः ॥ 1.40 ॥
अस्यैकाग्रतामापन्नस्य चित्तस्य सूक्ष्मे स्थूले वा वस्तुनि निविशमानस्य परमाण्वन्तः परममहत्त्वान्तो वशीकारोऽप्रतिघातो भवतीत्यर्थः ॥ १.४० ॥
इत्थमेकाग्रतोपायान्सावान्तरफलानुक्त्वा तत्समुत्पन्नैकाग्रताभिवृद्धिलक्षणस्य सबीजसमाधेः सविषयं स्वरूपमाह -
१.४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
१.४१. (क्षीण-वृत्तेः)-अभिजातस्य-इव मणेः-(ग्रहीतृ-ग्रहण-ग्राह्येषु)तत्-स्थ-तद्-अञ्जनता समापत्तिः ॥ 1.41 ॥
अभिजातस्यात्यवदातस्य स्फटिकमणेर्यथा जपाकुसुमोपरागात्स्वरूपाभिभवेन रक्ताकारता भवति, एवं क्षीणवृत्तेर्विधूतरजस्तमोवृत्तिकस्य चित्तस्य भूतेन्द्रियतन्मात्रान्तःकरणरजस्तमोलेशानुविद्धाहङ्कारविधूतरजस्तमोमलशुद्धसत्त्वात्मकमहत्तत्त्वेषु ग्राह्यग्रहणग्रहीतृषु तत्स्थस्य तदुपरक्तस्य तदञ्जनता स्वरूपपरित्यागेन तत्तद्रूपता तस्य सम्यगापत्तिः सम्प्रज्ञातसमापत्तिरित्यर्थः ॥ १.४१ ॥
इत्थं सामान्यतः सम्प्रज्ञातसमापत्तिमुक्त्वा अधुना वितर्कविचाररूपग्राह्यसमापत्तेः सवितर्कनिर्वितकेसविचारनिर्विचारभेदेन चातुर्विध्यमाह् त्रिभिः -
१.४२. तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः
१.४२. तत्र शब्द-अर्थ-ज्ञान-विकल्पः सङ्कीर्णा सवितर्का समापत्तिः ॥ 1.42 ॥
गौरिति शब्दः गौरित्यर्थः गौरिति ज्ञानं, तेषां परस्परतादात्म्यगोचरा ये विकल्पास्तैः सङ्कीर्णा तत्तुल्या सवितर्का समापत्तिः, तस्या विकल्पत्वाविशेषादित्यर्थः ॥ १.४२ ॥
१.४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का
१.४३. स्मृति-परिशुद्धौ स्वरूप-शून्येव-अर्थ-मात्र-निर्भासा निर्वितर्का ॥ 1.43 ॥
शब्दज्ञानाभ्यां विकल्पित एवार्थे शब्दसङ्केतो गृह्यते, तस्य स्मृत्या शाब्दबोधो विकल्प एव जायते । अतः सङ्केतस्मृतेः परिशुद्धौ प्रलये सति तत्कार्यस्य विकल्पस्य प्रलयात्समाधिभावना स्वीयभावनात्वशून्येव भूत्वा अविकल्पितार्थमात्रेणैव निर्भास्यमाना निर्वितर्का समापत्तिरित्यर्थः ॥ १.४३ ॥
उक्तन्यायमन्यत्रातिदिशति -
१.४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
१.४४. एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता ॥ 1.44 ॥
एतयैव विकल्पितस्थूलाकारया सवितर्कया अविकल्पितस्थूलाकारया निर्वितर्कया च सूक्ष्मविषया स्वशब्दज्ञानाभ्यामभेदेन विकल्पितसूक्ष्मतन्मात्रेन्द्रियगोचरा सविचारा अविकल्पितसूक्ष्म-तन्मात्रेन्द्रियगोचरा निर्विचारा च व्याख्याता भवतीत्यर्थः ॥ १.४४ ॥
किं निर्विचारसमापत्तेस्तन्मात्रेष्वेवावसानं ? नेत्याह -
१.४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानं
१.४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ 1.45 ॥
अस्याः समापत्तेः सूक्ष्मविषयत्वमलिङ्गे प्रधाने पर्यवस्यति । तथा हि - तन्मात्रेभ्योऽहङ्कारः सूक्ष्मः, तस्मादपि महान्, ततोऽपि प्रधानम् । तद्धि न लीयत इत्यलिङ्गमुच्यते । ततः परं न सूक्ष्मा प्रकृतिः समस्ति । पुरुषस्तु न प्रकृतिः सर्गे निमित्तमात्रमिति ध्येयम् ॥ १.४५ ॥
सम्प्रज्ञातसमापत्तीरुपसंहरति -
१.४६. ता एव सबीजः समाधिः
१.४६. ता एव सबीजः समाधिः ॥ 1.46 ॥
ता एव पूर्वोक्ता एव विवेकख्यात्यभावेन बन्धबीजसत्त्वात्सबीजः समाधिरित्यर्थः ॥ १.४६ ॥
इत्थं सम्प्रज्ञातमुपसंहृत्यासम्प्रज्ञातमुपायप्रत्ययमुपसंहर्तुं तस्य पूर्वरङ्गं निर्विचारातिशयमाह -
१.४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः
१.४७. निर्विचार-वैशारद्ये-(अध्यात्म-प्रसादः)॥ 1.47 ॥
निर्विचारस्य प्रधानपर्यन्तसूक्ष्मगोचरस्य यद्वैशारद्यमभ्यासपाटवेन तस्य प्रधानान्तन्यग्भावाच्चितिशक्तेरुद्वेगः, तस्मिन्सत्यध्यात्मनश्चितिशक्तेः प्रसादः ख्यातिर्जायते ॥ १.४७ ॥
ततः किं ? -
१.४८. ऋतम्भरा तत्र प्रज्ञा
१.४८. ऋतम्भरा तत्र प्रज्ञा ॥ 1.48 ॥
तत्र पुरुषख्यातौ सत्यां ऋतं सत्यमात्मानं बिभर्ति प्रकाशयतीति ऋतम्भरा प्रज्ञा धर्ममेघः समाधिर्जायत इत्यर्थः ॥ १.४८ ॥
ऋतम्भरत्वोपपत्तिमाह -
१.४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्
१.४९. श्रुत-अनुमान-प्रज्ञाभ्याम-अन्य-विषया विशेष-अर्थत्वात् ॥ 1.49 ॥
सूक्ष्मव्यवहितविप्रकृष्टवस्तुषु योगिप्रत्यक्षं निर्वर्तते । आगमानुमानाभ्यां तानि वस्तूनिज्ञायन्ते । ते च श्रुतानुमानजन्ये प्रज्ञे सामान्यमेव गोचरयतः । इदं तु योगिप्रत्यक्षं विशेषगोचरत्वादृतम्भरमित्यर्थः ॥ १.४९ ॥
तस्याः प्रज्ञाया असम्प्रज्ञातसमाधौ बहिरङ्गत्वसिद्ध्यर्थमुपकारित्वमाह -
१.५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी
१.५०. तत्-जः संस्कारः-अन्य-संस्कार-प्रतिबन्धी ॥ 1.50 ॥
तस्याः प्रज्ञाया अभ्यासजन्यो यः संस्कारः, स चान्यान्व्युत्थानसंस्कारान्प्रतिबध्नाति बाधत इति तत्प्रतिबन्धीत्यर्थः ॥ १.५० ॥
इत्थमसम्प्रज्ञातसमाधेर्बहिरङ्गसाधनमभिधाय निरोधप्रयत्नस्यान्तरङ्गसाधनतां सूचयन्निर्बीजमुपसंहरति -
१.५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः
१.५१. तस्य-अपि निरोधे सर्व-निरोधात्-निर्बीजः समाधिः ॥ 1.51 ॥
परवैराग्यसहकृतविरामप्रत्ययेन प्रज्ञासंस्कारस्यापि निरोधे सत्युत्पत्स्यमानप्रज्ञासंस्कारस्य सर्वस्यापि निरोधादशेषबन्धनिवृत्तेर्निर्बीजः समाधिर्लभ्यते । तस्मिन्समाधौ लब्धे सति पुनर्व्युत्थातुमशक्तं सच्चित्तं नश्यति । ततः कूटस्थनित्यानन्ता शुद्धा चितिशक्तिः स्वे महिम्नि निरन्तरं निर्विघ्नमवतिष्ठत इत्यतिशोभनम् ॥ १.५१ ॥
इति श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे योगसुधाकराभिधायां वृत्तौ समाधिपादः समाप्तः ॥
२. साधनपादः ।
परापश्यन्त्यादिभेदभिन्नामेकां निसर्गतः ।
चिदानन्दमयीं नित्यां वाचं काञ्चिदुपास्महे ॥
साधन-पादः ॥
२.१. तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः
२.१. तपः-स्वाध्याय-(ईश्वर-प्रणिधानानि)क्रियायोगः ॥ 2.1 ॥
हितमितमेध्याशनं तपः । परमपवित्रप्रणवादिमन्त्रजपः स्वाध्यायः । ईश्वरे लीलया स्वीकृतातिमनोहराङ्गे परमगुरौ कायवाङ्मनोभिर्निर्वर्तितो भक्तिविशेषः प्रणिधानम् । तानि क्रियारूपत्वाद्योगसाधनत्वाच्च क्रियायोग इति शुद्धसारूप्यलक्षणाश्रयणेन निरूप्यन्ते ``आयुर्घृतम्'' इतिवदित्यर्थः ॥ २.१ ॥
किमर्थ इत्यत आह -
२.२. समाधिभावनार्थः क्लेशतनूकरणार्थश्च
२.२. समाधि-भावना-अर्थः क्लेश-तनू-(करणार्थः)-च ॥ 2.2 ॥
समाधेर्भावनं निष्पादनमर्थः प्रयोजनं यस्य स तथोक्तः, क्लेशानां तनूकरणं शिथिलीकरणमर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति -दीर्घकालनैरन्तर्यसत्कारानुबन्धितपादिक्रियायोगाङ्गानुष्ठानेन क्लेशा विशरारुतामिताः सन्तः पुरुषान्यताख्यातावनुपप्लवायां जातायां समूलकाषं कषिता भवन्तीति ॥ २.२ ॥
के ते क्लेशाः कियन्त इत्यपेक्षायामाह -
२.३. अविद्यास्मितारागद्वेषाभिनिवेशाः (पञ्च)क्लेशाः
२.३. अविद्या-अस्मिता-राग-द्वेष-अभिनिवेशाः (पञ्च)क्लेशाः ॥ 2.3 ॥
पुरुषं क्लेशयन्ति दुःखाकुर्वन्तीति क्लेशाः । ते पञ्चेत्यर्थः ॥ २.३ ॥
अथास्मितादीनामविद्यानिदानत्वमाह -
२.४. अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणां
२.४. अविद्या क्षेत्रम्-उत्तरेषां प्रसुप्त-तनु-विच्छिन्न-उदाराणाम् ॥ 2.4 ॥
प्रसुप्तास्तनवो विच्छिन्ना उदाराश्चास्मितादयश्चत्वारः । तेषामुत्तरेषामविद्या भावरूपो विपर्ययः, सा क्षेत्रं प्रसवभूमिः । तत्र प्रसुप्तत्वं प्रबोधसहकारस्याभावेनानभिव्यक्तिः । तनुत्वं प्रतिपक्षभावनया शिथिलीकरणम् । विच्छिन्नत्वं बलवता क्लेशेनाभिभवः । उदारत्वं सहकारिसन्निधिवशात्कार्यकारित्वमित्यर्थः ॥ २.४ ॥
अथाविद्यास्वरूपमाह -
२.५. अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या
२.५. अनित्य-अशुचि-दुःख-अनात्मसु नित्य-शुचि-सुख-आत्म-ख्यातिः अविद्या ॥ 2.5 ॥
२.५. अनित्या शुचि-दुःख-अनात्मसु नित्य-शुचि-सुख-आत्म-ख्यातिः अविद्या
अतस्मिंस्तद्बुद्धिर्विपर्यय इत्युक्तं भवति । तद्यथा - अनित्ये स्वर्गादौ नित्यत्वाभिमानः । अशुचौ मांसासृक्पूयविण्मूत्रादिशालिनि काये शुचित्वप्रत्ययः । दुःखे स्रक्चन्दनवनितादौ सुखत्वारोपः । अनात्मनि देहादावात्मबुद्धिः इत्यविद्या चतुष्पदेत्यर्थः ॥ २.५ ॥
अविद्यामूलास्मितामाह -
२.६. दृग्दर्शनशक्त्योरेकात्मतेवास्मिता
२.६. दृग्-दर्शन-शक्त्योर-एकात्मतेव-अस्मिता ॥ 2.6 ॥
सत्त्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मितेत्यर्थः ॥ २.६ ॥
रागं निरूपयति -
२.७. सुखानुशयी रागः
२.७. सुख-अनुशयी रागः ॥ 2.7 ॥
सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकं सुखसाधनेषु तृष्णारूपो राग इत्यर्थः ॥ २.७ ॥
२.८. दुःखानुशयी द्वेषः
२.८. दुःख- अनुशयी द्वेषः ॥ 2.8 ॥
दुःखाभिज्ञस्य तदनुस्मृतिपुरःसरं तत्साधनेषु निन्दा द्वेष इत्यर्थः ॥ २.८ ॥
२.९. स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः
२.९. स्वरस-वाही विदुषः-अपि तथा-रूढः-अभिनिवेशः ॥ 2.9 ॥
स्वरसतः प्रवाहशीलो विदुषोऽपि तथा मूढवदारूढो भयत्रासोऽभिनिवेशः । पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलात्सर्वस्य प्राणभृन्मात्रस्य आ क्रिमेरा च विदुषः सञ्जायमानः शरीरविषयादेर्मम वियोगो मा भूदिति प्रत्यहं निमित्तमन्तरेण प्रवर्तमानो भयरूपोऽभिनिवेश इति ॥ २.९ ॥
पूर्वं कर्मयोगमभिधाय तेन विरलाः क्लेशास्तत्समनन्तरभाविपुरुषख्यात्या दग्धा भवन्तीत्यर्थादभिहितम् । तत्र सूक्ष्माणां दग्धानामधुना समूलोन्मूलनोपायमाह -
२.१०. ते प्रतिप्रसवहेयाः सूक्ष्माः
२.१०. ते प्रतिप्रसव-हेयाः सूक्ष्माः ॥ 2.10 ॥
चित्तस्य निवृत्ताधिकारस्य प्रकृतौ प्रलयः प्रतिप्रसवः । तेन हेयाः सूक्ष्माः क्लेशाः । स्वमूलभूतचित्तहानौ तत्संस्काररूपाः सूक्ष्माः समूलघातं हता भवन्तीत्यर्थः ॥ २.१० ॥
अथ स्थूलानां समूलं कषणोपायमाह -
२.११. ध्यानहेयास्तद्वृत्तयः
२.११. ध्यान-हेयाः-तद्-वृत्तयः ॥ 2.11 ॥
क्रियायोगेण शिथिलाः स्थूलास्ताः क्लेशवृत्तयः पुरुषध्यानेनैव हातव्याः । हीनाश्च स्वमूलचित्तोन्मूलनेनोन्मूलिता भवन्तीत्युक्तम् ॥ २.११ ॥
इत्थं क्लेशांस्तद्धानोपायं च अभिधाय अधुना कर्माशयस्य क्लेशनिदानत्वमुपदर्शयन्नाह -
२.१२. क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः
२.१२. क्लेश-मूलः कर्म-आशयः दृष्ट-अदृष्ट-जन्म-वेदनीयः ॥ 2.12 ॥
रागद्वेषादिक्लेशनिदानः कर्मणां धर्माधर्मरूपः संस्कारः कर्माशयः । स च दृष्टजन्मवेदनीय इहैवानुभाव्यः, अदृष्टजन्मवेदनीयश्चामुत्रानुभाव्यः । तत्राद्यो यथा नन्दिकेश्वरस्तीव्रतपश्चर्यादिसाधनेनेश्वरं समाराध्य सद्य एव देवत्वादिकमलभत, नहुषो महर्ष्यपराधेन सद्यः सर्पत्वमगमत् । द्वितीयस्तु स्वर्गनरकादिहेतुरित्यर्थः ॥ २.१२ ॥
न केवलं क्लेशमूलत्वं कर्माशयस्यैव, किं तु तद्विपाकस्यापीत्याह -
२.१३. सति मूले तद्विपाको जात्यायुर्भोगाः
२.१३. सति मूले तद्-विपाकः जाति-आयुः-भोगाः ॥ 2.13 ॥
क्लेशरूपे मूले सत्येव कर्मणां विपाकः फलम् । स च त्रिविधः - जातिर्जन्म देवत्वादिर्वा । आयुश्चिरकालं देहप्राणयोर्योगः । इन्द्रियैर्विषयानुभवो भोग इति । तत्र भोगो मुख्यः, जात्यायुषी तच्छेषभूते इति विभागः । सूत्रद्वयस्यायमभिसन्ध्यर्थः - सत्सु क्लेशेषु कर्मतत्फले भवतः; विवेकख्यात्यग्निदग्धेषु कर्मालब्धात्मकं सद्वितुषशाल्यादिवन्न फलं प्रसूत इति ॥ २.१३ ॥
अधुना जात्यादीनां हेयत्वार्थं फलमाह -
२.१४. ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्
२.१४. ते ह्लाद-परिताप-फलाः पुण्य-अपुण्य-हेतुत्वात् ॥ 2.14 ॥
ते जात्यायुर्भोगाः पुण्यहेतुकाः सुखफलाः, अपुण्यहेतुका दुःखफला भवन्ति विभागेनाविवेकिनामित्यर्थः ॥ २.१४ ॥
विवेकिनां तु ते सर्वे दुःखफला एवेत्याह -
२.१५. परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः
२.१५. परिणाम-ताप-संस्कार-दुःखैः-गुण-वृत्तिः-विरोधात्-च दुःखम्-एव सर्वं विवेकिनः ॥ 2.15 ॥
परिणामदुःखं तापदुःखं संस्कारदुःखं, तैरित्यर्थः । तत्र सुखे सत्यागामिनस्तादृशस्य सुखस्य कारणं पुण्यमननुष्ठाय वृथैव तदपेक्षा तामसी वृत्तिर्जायमाना चित्तं दुःखाकरोतीति परिणामदुःखम् । सुखभोगकाले रोगादिनिमित्तेन रजोगुणविकाररूपा सन्तापात्मिका प्रतिकूला वृत्तिर्जायते; सा च ``अहं पापी, धिङ्मां दुरात्मानम्'' इत्येवं चित्तं सन्तापयति; तदिदं तापदुःखम् । तथा सुखनाशे तत्संस्कारः सुखं स्मारयित्वा स्मारयित्वा हृदयं दहति; तदिदं संस्कारदुःखम् । एतैर्दुःखैर्योगात्, किं च गुणवृत्तिविरोधाच्च गुणानां सत्त्वरजस्तमसां या वृत्तयः प्रकाशप्रवृत्तिमोहात्मिकास्तासामतिचपलकल्लोलवन्निरन्तरं परिणतानां विरोधः परस्परं बाध्यबाधकत्वं तस्माच्च सर्वमेव भोगसाधनं जगद्विवेकिनो दुःखमेव, विवेकिनमक्षिपात्रमूर्णातन्तुरिवात्यन्तमुद्वेजयति । अतः सर्वं दुःखं हेयमिति भावः ॥ २.१५ ॥
अधुनानागतदुःखस्य विशिष्य हेयत्वमाह -
२.१६. हेयं दुःखमनागतं
२.१६. हेयं दुःखम्-अनागतम् ॥ 2.16 ॥
अतीतस्य गतत्वाद्वर्तमानस्य भोगेनैव क्षयादनागतमेव दुःखं हेयमित्यर्थः ॥ २.१६ ॥
अथ हेयहेतुमाह -
२.१७. द्रष्टृदृश्ययोः संयोगो हेयहेतुः
२.१७. द्रष्टृ-दृश्ययोः संयोगः हेय-हेतुः ॥ 2.17 ॥
द्रष्टा दृग्रूपः पुरुषः, दृश्यं बुद्धिसत्त्वं, तयोः संयोगः स्वस्वामिभावः; स चेन्द्रियप्रणाडिकया चित्ते विविधशब्दाद्याकारेण परिणते सति तत्र चितिच्छायायां प्रतिबिम्बितायां तदविवेकरूपाविद्याकृतः । स च हेयस्य दुःखस्य हेतुरित्यर्थः ॥ १७ ॥
दृश्यं प्रपञ्चयति -
२.१८. प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यं
२.१८. प्रकाश-क्रिया-स्थिति-शीलं भूत-इन्द्रिय-आत्मकं भोग-अपवर्ग-अर्थं दृश्यम् ॥ 2.18 ॥
प्रकाशः प्रख्यारूपः, क्रिया प्रवृत्तिरूपा, स्थितिर्नियमरूपा, ताः सत्त्वरजस्तमसां धर्माः शीलं स्वाभाविकं रूपं यस्य तत्तथोक्तं; भूतेन्द्रियात्मकं भूतानि महाभूततन्मात्रभेदभिन्नानि इन्द्रियाणि बुद्धिकर्मेन्द्रियान्तःकरणभेदभिन्नानि एतद्ग्राह्यग्रहणरूपमात्मा स्वाभिन्नः परिणामो यस्य तत्तथोक्तं; भोगापवर्गार्थं भोगमोक्षप्रयोजकं तद्दृश्यमित्यर्थः ॥ २.१८ ॥
एतस्य गुणत्रयात्मकस्य दृश्यस्य परिणामं विभज्य दर्शयति -
२.१९. विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि
२.१९. विशेष-अविशेष-लिङ्गमात्र-अलिङ्गानि गुण-पर्वाणि ॥ 2.19 ॥
विशेषा महाभूतेन्द्रियमनोरूपाः षोडश विकाराः, अविशेषास्तन्मात्राहङ्काराः षट् प्रकृतिविकृतयः, लयं गच्छतीति लिङ्गमात्रं प्रकृतिविकाररूपं महत्तत्त्वं, अलिङ्गं गुणानां साम्यावस्थारूपं प्रधानं; एतानि चत्वारि गुणानां पर्वाणि अवस्थाविशेषा इत्यर्थः ॥ १९ ॥
इत्थं हेयं दृश्यं प्रथमं निरूप्य उपादेयं द्रष्टारं निरूपयितुमाह -
२.२०. द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः
२.२०. द्रष्टा दृशिमात्रः शुद्धः-अपि प्रत्यय-अनुपश्यः ॥ 2.20 ॥
द्रष्टा पुरुषो दृशिमात्रश्चिन्मात्रो न ज्ञानादिधर्मकः, तद्धर्मकत्वे तस्य वृत्तिरूपतया विनाशशीलत्वात् ``उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्'' इति न्यायेनात्मनः कौटस्थ्यं हीयते । अतः शुद्धः अपरिणाम्यपि प्रत्ययं बौद्धमनुपश्यति । तमनुपश्यन्नतदात्मापि तदात्मभूत इव प्रतिभासत इत्यर्थः ॥ २० ॥
इत्थं दृश्यद्रष्टारावभिधाय तयोः शेषशेषित्वमभिधातुमाह -
२.२१. तदर्थ एव दृश्यस्यात्मा
२.२१. तद्-अर्थ एव दृश्यस्य-आत्मा ॥ 2.21 ॥
दृश्यस्य भोग्यस्यात्मा स्वरूपं द्रष्ट्रर्थमेव न स्वार्थं, अचेतनत्वादित्यर्थः ॥ २१ ॥
ननु द्रष्टुः प्रयोजने निष्पन्ने सति कृतकृत्यतया प्रधाने निर्व्यापारेऽधुना संसारो नोपलभ्येतेति चेत्, नेत्याह -
२.२२. कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्
२.२२. कृतार्थं (कृत-अर्थम्)प्रति नष्टम-अपि-अनष्टं तद्-अन्य-साधारणत्वात् ॥ 2.22 ॥
प्रधानमेकं पुरुषा अनन्ताः । तथा च पुरुषख्यातिपर्यन्तं भोगापवर्गौ दत्त्वा कञ्चन कृतार्थं प्रति नष्टं निर्व्यापारमपि पुरुषान्तरसाधारणत्वादनष्टमेवावतिष्ठते । तथा चैकमुक्तौ सर्वमुक्तिप्रसङ्गानवकाश इति भावः ॥ २.२२ ॥
इत्थं दृश्यद्रष्टारौ व्याख्याय तत्संयोगं व्याख्यातुमाह-
२.२३. स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः
२.२३. स्व-स्वामि-शक्त्योः स्वरूप-उपलब्धि-हेतुः संयोगः ॥ 2.23 ॥
स्वशक्तिर्दृश्यस्वभावः, स्वामिशक्तिर्दृक्स्वभावः । तयोश्चैत्तचेतनत्वेन व्यवस्थितयोः स्वरूपोपलब्धिर्भोगापवर्गरूपा । तस्या हेतुः प्रत्ययः संयोगो द्रष्टृदृश्यभावो विद्याकृत इति व्याख्यातम् । एवं च यस्याभावे दृग्दृश्ययोः स्वरूपोपलब्धिर्न भवति, यद्भावे सा भवति, स संयोगः कार्यैकोन्नेय इत्युपदिष्टं भवति ॥ २.२३ ॥
संयोगस्याप्युपायमाह -
२.२४. तस्य हेतुरविद्या
२.२४. तस्य हेतुः-अविद्या ॥ 2.24 ॥
तस्य संयोगस्य पूर्वोक्ताविद्या हेतुः कारणमित्यर्थः ॥ २.२४ ॥
इत्थं हेयं तद्धेतुं च अभिधाय अधुना हानं तद्धेतुं च निरूपयितुमाह द्वाभ्याम्-
२.२५. तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यं
२.२५. तद-अभावात् संयोग-अभावः हानं तद्दृशेः कैवल्यम् ॥ 2.25 ॥
तस्या अविद्याया अभावाद्विद्यया विनाशात्तत्कृतसंयोगविनाशो हानं यत्, तदेव दृशेर्नित्यमुक्तायाश्चितिशक्तेः कैवल्यमित्यर्थः ॥ २.२५ ॥
२.२६. विवेकख्यातिरविप्लवा हानोपायः
२.२६. विवेक-ख्यातिः-अविप्लवा हान-उपायः ॥ 2.26 ॥
अविप्लवा अविद्याविरोधिनी सत्त्वपुरुषयोरन्यताख्यातिर्हानस्य कैवल्यस्य हेतुरित्यर्थः - अयं सूत्रद्वयस्याभिसन्ध्यर्थः - आदरनैरन्तर्यदीर्घकालानुबन्धियमनियमाद्यष्टाङ्गानुष्ठानेन सत्त्वपुरुषान्यताख्यातावविप्लवायां जातायामविद्यादयः पञ्च क्लेशास्तत्कृतसंयोगश्च समूलकाषं कषिता भवन्ति । कुशलाकुशलकर्माशयास्तद्विपाकाश्च समूलघातं हता भवन्ति । ततश्च परवैराग्येणान्यताख्यातिनिवृत्तौ निरोधसमाध्यभ्यासेन चित्ते निवर्तिते सति पुरुषस्य निर्लेपस्य स्वरूपप्रतिष्ठारूपं कैवल्यं भवतीति ॥ २.२६ ॥
अथ जीवन्मुक्तस्य पुरुषस्य ज्ञानवैभवमाह -
२.२७. तस्य सप्तधा प्रान्तभूमिः प्रज्ञा
२.२७. तस्य सप्तधा प्रान्त-भूमिः प्रज्ञा ॥ 2.27 ॥
तस्य सञ्जातविवेकख्यातेः पुरुषस्य सप्तधा सप्तप्रकारा प्रान्तभूमिः प्रकर्षेणान्तो निवृत्तिः फलत्वेन यासां ता भूमयोऽवस्था यस्याः सा प्रज्ञा प्रान्तभूमिः सप्तप्रकारा । अयमर्थः - सञ्जातविवेकख्यातेः पुरुषस्य सप्त प्रज्ञाभूमयः । तत्र चतस्रः कार्यविमुक्तिसंज्ञाः, तिस्रश्चित्तविमुक्तिसंज्ञाः । तद्यथा - ज्ञातव्यमखिलं ज्ञातं मम न किञ्चिज्ज्ञातव्यमस्तीति जिज्ञासानिवृत्तिरेका । हातव्यं सर्वं बन्धजातं हीनं मम न किञ्चिद्धेयमस्तीति जिहासानिवृत्तिर्द्वितीया । कैवल्यप्राप्त्या प्राप्तव्यमखिलं प्राप्तं ततो न किञ्चित्प्राप्तव्यमस्तीति प्रेप्सानिवृत्तिस्तृतीया । विवेकख्यातिलाभेन कर्तव्यमखिलं कृतं न किञ्चिन्मम कार्यमस्तीति चिकीर्षानिवृत्तिश्चतुर्थी । कृतार्थं मे बुद्धिसत्त्वमिति शोकनिवृत्तिरेका । मम बुद्ध्यादयो गुणाः प्रलीनाः प्रयोजनाभावात्पुनर्न प्ररोहन्तीति भयनिवृत्तिर्द्वितीया । तदाहं गुणातीतस्वरूप-मात्रेणावस्थितश्चिदेकरस इति सकलविकल्पनिवृत्तिस्तृतीया । इति सप्तधा प्रान्तभूमिर्द्रष्टव्येति ॥ २.२७ ॥
पूर्वस्मिन्पादे समाहितचित्तस्यान्तरङ्गसाधने अभ्यासवैराग्ये अभिधाय आदावस्मिन्पादे व्युत्थितचित्तस्य क्रियायोगोऽभिहितः । अधुना ततोऽपि व्युत्थितचित्तस्य सम्प्रज्ञातसाधनान्यष्टाङ्गान्यभिधातुमाह -
२.२८. योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः
२.२८. योग-अङ्ग-अनुष्ठानाद्-अशुद्धि-क्षये ज्ञान-दीप्तिः-आ विवेक-ख्यातेः (विवेकख्यतेः)॥ 2.28 ॥
वक्ष्यमाणयोगाङ्गानामनुष्ठानादशुद्धेः क्लेशरूपायाः क्रमेण क्षये जायमाने, ज्ञानस्य दीप्तिर्वृद्धिराविवेकख्यातेर्भवतीत्यर्थः । योगाङ्गानुष्ठानं शुद्धिद्वारा प्रज्ञासाधनमिति भावः ॥ २.२८ ॥
कानि पुनस्तानि योगाङ्गानीत्यपेक्षायामाह -
२.२९. यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि
२.२९. यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टौ अङ्गानि ॥ 2.29 ॥
(अस्मिन् सूत्रे न भाष्यम्)
तत्र के यमा इत्यपेक्षायामाह -
२.३०. अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥
२.३०. अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहा यमाः ॥ 2.30 ॥
अहिंसादिभ्यो निषिद्धकर्मभ्यो योगिनं यमयन्ति निवर्तयन्तीति यमाः । तत्राहिंसा कायवाङ्मनोभिः सर्वदा सर्वभूतानामहिंसनम् । सत्यं सर्वदानृतानभिभाषणम् । अस्तेयं परस्वत्वानपहारः । ब्रह्मचर्यमष्टविधमैथुनत्यागः । अपरिग्रहः शरीरस्थितिमात्रव्यतिरिक्तभोगसाधनास्वीकारः । एते पञ्च यमा इत्यर्थः ॥ २.३० ॥
एतेषां योगिभिरुपादेयं विशेषमाह -
२.३१. जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतं
२.३१. जाति-देश-काल-समय-अनवच्छिन्नाः सार्वभौमा महा-व्रतं (महाव्रतम्)॥ 2.31 ॥
जातिर्ब्राह्मणत्वादिकं, तत्सदाहं न हनिष्यामीत्यहिंसा जात्या परिच्छिन्ना । देशे तीर्थादौ काले नियतचतुर्दश्यादौ वा कमपि न हनिष्यामीति देशकालाभ्यामवच्छिन्ना । देवब्राह्मणाद्यर्थातिरेकेण न हनिष्यामीति समयावच्छिन्ना । समयो नियतोऽवसर इत्यर्थः । प्राणिमात्रं क्वचिदपि कदाचिदपि कस्यापि कृतेऽहं न हनिष्यामीति जात्यादिभिश्चतुर्भिरनवच्छिन्ना भवत्यहिंसा पुष्कला । एवं सत्यादयोऽप्यनवच्छिन्ना ऊहनीयाः । इत्थमेते सर्वासु जात्यादिषु भूमिषु विदिताः सार्वभौमा महाव्रतमित्युच्यन्त इत्यर्थः ॥ २.३१ ॥
अथ नियमानाह -
२.३२. शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः
२.३२. शौच-सन्तोष-तपः-स्वाध्याय-ईश्वरप्रणिधानानि नियमाः ॥ 2.32 ॥
जन्महेतून्काम्यधर्मान्निवर्त्य मोक्षहेतौ निष्कामे धर्मे नियमयन्ति प्रेरयन्तीति नियमाः ।
शौचं मृज्जलाभ्यां बाह्यमलनिवृत्तिः, मैत्र्यादिभावनयान्तरसूयादिमलनिवृत्तिः । सन्तोषो यथालाभपरितुष्टिः ।
तपः कायशोषणं, तदुक्तं योगयाज्ञवल्क्ये - ``विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम्'' इति ।
स्वाध्यायो गायत्रीप्रभृतीनां मन्त्राणामध्ययनम् । ते च मन्त्रा द्विविधा वैदिकास्तान्त्रिकाश्च । वैदिकाः प्रगीताप्रगीतभेदेन द्विविधाः । तान्त्रिकाः स्त्रीपुन्नपुंसकभेदेन त्रिविधाः । तदलं मन्त्ररहस्योद्धोषेण ।
ईश्वरप्रणिधानं नाम अभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्वरे फलानपेक्षतया समर्पणम् । तदुक्तं - ``कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि विन्यस्य त्वत्प्रयुक्तः करोम्यहम्'' इति । फलाभिसन्धेरुपघातकत्वमभिहितं महद्भिः - ``अपि प्रयत्नसम्पन्नं कामेनोपहतं तपः । न तुष्टये महेशस्य श्वलीढमिव पायसं'' इति ।
एतानि शौचादीनि पञ्च नियमा इत्यर्थः ॥ २.३२ ॥
ननु सति परिपन्थिनि जाग्रति, कथं यमादिसिद्धिरित्यत आह -
२.३३. वितर्कबाधने प्रतिपक्षभावनं
२.३३. वितर्क-बाधने प्रतिपक्ष-भावनम् ॥ 2.33 ॥
एतेषां यमनियमादीनां वितर्कैर्हिंसादिसङ्कल्पैः ``हनिष्याम्येनम्'', ``अनृतं वदिष्यामि'' , ``परस्वमादास्ये'' इत्यादिभिर्बाधने प्राप्ते सति, यमादिपरो योगी ``संसाराङ्गारेष्वहं तप्यमानो यमादिकं शरणमुपगतो हिंसादिकमत्यजं; पुनस्तदाददानः कौलेयकेन वान्ताशिना समः'' इत्यनेन प्रकारेण वितर्कप्रतिपक्षान्भावयेदित्यर्थः ॥ २.३३ ॥
अधुना वितर्काणां स्वरूपप्रकारकारणावान्तरभेदफलानि पञ्चभिः पदैः क्रमेण कथयन् प्रतिपक्षभावनं स्फुटयति -
२.३४. वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनं
२.३४. वितर्का हिंसादयः (कृत-कारीत-अनुमोदिताः)(लोभ-क्रोध-मोह-पूर्वकाः)(मृदु-मध्य-अधिमात्राः)(दुःख-अज्ञान-अनन्त-फलाः)इति प्रतिपक्ष-भावनम् ॥ 2.34 ॥
वितर्का हिंसादय इति स्वरूपनिर्देशः ।
तत्र हिंसा त्रिप्रकारा - स्वयं कृता, कुर्विति कारिता, साधु साध्वित्यनुमोदिता चेति ।
तत्रैकैका कारणभेदात्पुनस्त्रिविधा भवति - धनादिलोभेन, अपकृतमनेनेति क्रोधेन, धर्मो भविष्यतीति मोहेन ।
एवं नवविधा जाता हिंसा । लोभक्रोधमोहाः प्रत्येकं त्रिविधा भवन्ति मृदुमध्याधिमात्रत्वेन । तत्पूर्वका हिंसादयोऽपि मृदुत्वादिना त्रिविधा भवन्ति । तथा कृता कारितानुमोदिता च प्रत्येकं नवधा भवतीति हिंसायाः सप्तविंशतिर्भेदा भवन्ति ।
मृदुमध्याधिमात्रा अपि प्रत्येकं त्रिविधा भवन्ति - मृदुमृदुर्मध्यमृदुस्तीव्रमृदुः, मृदुमध्यो मध्यमध्यस्तीव्रमध्यः, मृदुतीव्रो मध्यतीव्रस्तीव्रतीव्र इति ।
एवं लोभो नवविधस्तथा क्रोधमोहाविति तत्पूर्वा कृता हिंसा सप्तविंशतिभेदा भवति । तथा कारितानुमोदिता चेत्येकाशीतिभेदा हिंसा भवति । एवमनृतादिष्वपि योज्यम् ।
इत्थम्भूता वितर्का दुःखं नरकादिकं, अज्ञानं स्थावरादिभावं, भ्रान्तिसंशयरूपं च अनन्तं फलं प्रयच्छन्तीति प्रतिपक्षाणां वितर्कशत्रूणां भावनमित्यर्थः ।
अनेन भावनेन तद्धाने सति निर्विघ्ना यमादयः सिध्यन्ति । तत्सिद्धौ चित्तपरिकर्मद्वारा कैवल्यं सिध्यतीत्यभिसन्धिः ॥ २.३४ ॥
अधुना यमादीनां सिद्धिसूचकमवान्तरफलं क्रमेण दर्शयति -
२.३५. अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः
२.३५. अहिंसा-प्रतिष्ठायां तत्-सन्निधौ वैरत्यागः (त्याग)(वैर)॥ 2.35 ॥
सत्यहिंसास्थैर्ये, तस्याहिंसकस्य योगिधौरेयस्य सन्निधौ स्वभावविरुद्धानां गोव्याघ्रादीनामपि वैरत्यागो भवतीत्यर्थः ।
एतदेवाभिप्रेयोक्तं वासिष्ठे - ``मातरीव परं यान्ति विषमाणि मृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशालिनि'' इति ॥ २.३५ ॥
२.३६. सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वं
२.३६. सत्य-प्रतिष्ठायां क्रिया-फल-आश्रयत्वम् ॥ 2.36 ॥
क्रिया धर्माधर्मरूपा, तस्याः फलं स्वर्गादिकं; तयोराश्रयो वाङ्मात्रेण दाता, तस्य भावस्तत्त्वम् । योगिनः स्वर्गादिफलदातृत्वं वाङ्मात्रेण सिध्यतीत्यर्थः ॥ २.३६ ॥
२.३७. अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानं
२.३७. अस्तेय-प्रतिष्ठायां सर्व-रत्न-उपस्थानम् ॥ 2.37 ॥
दिव्यानि रत्नानि योगिनः पुरत उपस्थितानि भवन्तीत्यर्थः ॥ २.३७ ॥
२.३८. ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः
२.३८. ब्रह्मचर्य-प्रतिष्ठायां वीर्यलाभः ॥ 2.38 ॥
वीर्यनिरोधो हि ब्रह्मचर्यम् । तत्सिद्धौ निरतिशयं सामर्थ्यं भवति । निरतिशयसामर्थ्यशालिना योगिना कृतः शिष्येषूपदेशः सद्यः फलतीति भावः ॥ २.३८ ॥
२.३९. अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः
२.३९. अपरिग्रह-स्थैर्ये जन्म-कथन्ता-सम्बोधः ॥ 2.39 ॥
कथमित्यस्य भावः कथन्ता, जन्मनि कथन्ता तस्याः सम्बोधः साक्षात्कारः, पूर्वजन्मनि कोऽहं कीदृशोऽतिष्ठं किं कार्यमकरवमिति जिज्ञासायां सर्वमनेन योगिना सम्यग्ज्ञायत इत्यर्थः ॥ २.३९ ॥
इत्थं यमसिद्धीरभिधाय अधुना नियमसिद्धीः क्रमेणाभिदधाति -
२.४०. शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः
२.४०. शौचात् स्वाङ्ग-जुगुप्सा परैः-असंसर्गः ॥ 2.40 ॥
शौचमाचरतो योगिनः स्वाङ्गे शुद्धिमपश्यतो जुगुप्सा भवति । अशुचिस्वभावोऽयं कायः । अतस्तस्मिन्नवभिश्छिद्रैर्निरन्तरं स्रवत्सु मलेषु रोमकूपैरसङ्ख्यातैः स्विन्ने गात्रे को नामाखेदेन प्रक्षालयितुं शक्नुयात् ? तदुक्तं - ``नवच्छिद्रकृता देहाः स्रवन्ति घटिका इव । बाह्यशौचैर्न शुध्यन्ति नान्तः शौचं तु विद्यते'' इति । एवं स्वकाये जुगुप्सावतः परकाया एतादृशा इति दोषदर्शिनस्तैः संसर्गो न कदाचिदपि भवति । यदि स्वकायदुर्गन्धेन जुगुप्सा न स्यात्किं नामैतस्य निर्वेदकारणं भवेत् ? तदुक्तं - ``स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते'' इति ॥ २.४० ॥
सम्प्रत्यन्तः शौचसिद्धिमाह -
२.४१. सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च
२.४१. (सत्त्व-शुद्धि)-सौमनस्य-एकाग्र्य-(इन्द्रिय-जय)-(आत्म-दर्शन)-योग्यत्वानि च ॥ 2.41 ॥
सत्त्वस्य बुद्धेरसूयेर्ष्यादिमलनिवृत्तिः शुद्धिः, ततः सौमनस्यं सत्त्वोत्कर्षः, तत ऐकाग्र्यं नैश्चल्यं, ततो बाह्येन्द्रियजयः, तत आत्मदर्शनयोग्यत्वं पुरुषसाक्षात्कारार्हत्वं, तान्येतानि परस्परहेतुहेतुमद्भावेन शौचाद्भवन्तीत्यर्थः ॥ २.४१ ॥
२.४२. सन्तोषादनुत्तमसुखलाभः
२.४२. सन्तोषाद्-अनुत्तमः-सुख-लाभः ॥ 2.42 ॥
सन्तुष्टस्य योगिनः सत्त्वोत्कर्षादन्तर्निरतिशयं सुखमाविर्भवति । न केवलमेवं; प्रत्युत वैषयिकं सुखं विषमिव प्रतिकूलं भवतीत्यर्थः । तदुक्तं - ``सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः । भोगश्रीरतुला तेषामेषा प्रतिविषायते'' इति ॥ २.४२ ॥
२.४३. कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः
२.४३. काय-इन्द्रिय-सिद्धिः-शुद्धि-क्षयात् तपसः ॥ 2.43 ॥
स्वधर्मकृच्छ्रादिना क्लेशपापक्षयात्कायस्याणिमादिसिद्धिः, इन्द्रियाणां च सूक्ष्मव्यवहितप्रकृष्टार्थग्राहित्वसिद्धिर्भवतीत्यर्थः ॥ २.४३ ॥
२.४४. स्वाध्यायादिष्टदेवतासम्प्रयोगः
२.४४. स्वाध्यायात्-(इष्ट-देवता)-सम्प्रयोगः ॥ 2.44 ॥
अभिमतमन्त्रजपादभिमतदेवतायाः सम्भाषणादिकं सिध्यतीत्यर्थः ॥ २.४४ ॥
२.४५. समाधिसिद्धिरीश्वरप्रणिधानात्
२.४५. समाधि-सिद्धिः-(ईश्वर-प्रणिधानात्)॥ 2.45 ॥
ईश्वरे अकामनया सकलकर्मसमर्पणात्समाधिसिद्धिः । समाधिश्चित्तस्य समाधानं प्रसाद इति यावत् ॥ २.४५ ॥
इत्थं सावान्तरफलान्यमनियमान्निरूप्य क्रमप्राप्तमासनं तत्साधनं तत्फलं च तावदाह -
२.४६. स्थिरसुखमासनं
२.४६. स्थिर-सुखं आसनम् ॥ 2.46 ॥
पद्मस्वस्तिकादिना यादृशेन देहस्थापनेन यस्य पुरुषस्यावयवव्यथानुत्पत्तिलक्षणं सुखं देहचलनराहित्यलक्षणं स्थैर्यं च सम्पद्यते, तदेव मुख्यमासनम् । पद्मासनादिस्वरूपं तु याज्ञवल्क्येन निरूपितं - ``ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले शुभे । अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु । पद्मासनं भवेदेतत्सर्वेषामभिपूजितं'' इत्यादिना ॥ २.४६ ॥
२.४७. प्रयत्नशैथिल्यानन्तसमापत्तिभ्यां
२.४७. प्रयत्न-शैथिल्य-अनन्त-समापत्तिभ्याम् ॥ 2.47 ॥
तस्य च प्रयत्नशैथिल्यं लौकिक उपायः । गमनगृहकृत्यतीर्थस्नानादिविषयो यः प्रयत्नो मानस उत्साहस्तस्य शैथिल्यम् । अन्यथा उत्साहो बलाद्देहमुत्थाप्य यत्र कापि प्रेरयति । फणसहस्रेण धरणीं धारयित्वा स्थैर्येणावस्थितो योऽयमनन्तः स एवाहमस्मीति ध्यानं चित्तस्यानन्ते समापत्तिः । तया यथोक्तासनसम्पादकमदृष्टं निष्पद्यते । अतस्ताभ्यामासनं सिध्यतीत्यर्थः ॥ २.४७ ॥
२.४८. ततो द्वन्द्वानभिघातः
२.४८. ततो द्वन्द्व-अनभिघातः ॥ 2.48 ॥
सिद्धे चासने शीतोष्णसुखदुःखमानावमानादिद्वन्द्वैर्यथापूर्वं नाभिहन्यत इत्यर्थः ॥ २.४८ ॥
अथासनानन्तरभाविनं प्राणायाममाह -
२.४९. तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः
२.४९. तस्मिन्-सति श्वास-प्रश्वासयोः-गति-विच्छेदः प्राणायामः ॥ 2.49 ॥
तस्मिन्नासनस्थैर्ये सति प्राणायामः प्रतिष्ठितो भवति । स च श्वासप्रश्वासयोर्गतिविच्छेदरूपः । तत्र श्वासो नाम बाह्यस्य वायोरन्तरानयनम् । प्रश्वासः पुनः कौष्ठ्यस्य वा योर्निःसरणम् । तयोरुभयोरपि सञ्चरणाभावः प्राणायामः ।
ननु नेदं प्राणायामसामान्यलक्षणं, तद्विशेषेषु रेचकपूरककुम्भकप्रकारेषु तदनुगतेरयोगादिति चेत्, नैष दोषः;
सर्वत्रापि श्वासप्रश्वासयोर्गतिविच्छेदसम्भवात् । तथा हि - कौष्ठ्यस्य वायोर्निर्गमनं रेचकः, यः प्रश्वासरूपः । बाह्यस्य वायोरन्तर्धारणं पूरकः, यः श्वासरूपः । अन्तः स्तम्भवृत्तिः कुम्भकः, यस्मिञ्जलमिव कुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते । तत्र सर्वत्र श्वासप्रश्वासयोर्गतिविच्छेदोऽस्त्येवेति नास्ति शङ्कावकाशः ।
ननु कुम्भके गत्यभावेऽपि रेचकपूरकयोरुच्छ्वासनिश्वासगती विद्येते इति चेत्, नैष दोषः; अधिकमात्राभ्यासेन स्वभावसिद्धायाः समप्राणगतेर्विच्छेदसम्भवात् ॥ २.४९ ॥
तमेवाभ्यासमाह -
२.५०. बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः
२.५०. बाह्य-अभ्यन्तर-स्तम्भ-वृत्तिः-देश-काल-सङ्ख्याभिः परिदृष्टः दीर्घ-सूक्ष्मः ॥ 2.50 ॥
रेचको बाह्यवृत्तिः, पूरक आभ्यन्तरवृत्तिः, कुम्भकः स्तम्भवृत्तिः । तत्रैकैको देशादिभिः परीक्षणीयः । तद्यथा -
स्वभावसिद्धे रेचके हृदयान्निर्गत्य नासाग्रसम्मुखे द्वादशाङ्गुलपर्यन्तं द्वादशाङ्गुलपर्यन्तं श्वासः समाप्यते । अभ्यासेन तु क्रमेण नाभेराधाराद्वा निर्गत्य चतुर्विंशत्यङ्गुलपर्यन्ते षट्त्रिंशदङ्गुलपर्यन्ते वा समाप्यते । तत्र च रेचकप्रयत्नातिशये सति नाभ्यादिप्रदेशक्षोभेण तन्निश्चेतुं शक्यम् । बहिस्तु सूक्ष्मं तूलं धृत्वा तच्चालनेन निश्चेतव्यम् । सेयं देशपरीक्षा ।
रेचककाले प्राणस्यावृत्तयो दश विंशतिस्त्रिंशदित्यादिभिः कालपरीक्षा ।
अस्मिन्मासे प्रतिदिनं दश रेचका आगामिमासे विंशतिरुत्तरमासे त्रिंशदित्यादिभिः सङ्ख्यापरीक्षा ।
एवं पूरकेऽपि योजनीयम् । यद्यपि कुम्भके देशव्याप्तिविशेषो नावगम्यते, तथापि कालसङ्ख्याव्याप्तिरवगम्यत एव ।
यथा घनीभूतस्तूलपिण्डः प्रसार्यमाणो दीर्घो विरलतया सूक्ष्मश्च भवति, तथा प्राणोऽपि देशकालसङ्ख्याभिरभ्यस्यमानो दीर्घो दुर्लक्षतया सूक्ष्मश्च सम्पद्यत इत्यर्थः ॥ २.५० ॥
अथ रेचकादिभ्यस्त्रिभ्योऽन्यं प्रकारमाह -
२.५१. बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः
२.५१. बाह्य-अभ्यन्तर-विषय-आक्षेपी चतुर्थः ॥ 2.51 ॥
यथाशक्ति वायुं विरेच्यानन्तरं क्रियमाणो बहिःकुम्भकः । यथाशक्ति वायुमापूर्यानन्तरं क्रियमाणोऽन्तःकुम्भकः । रेचकपूरकावनादृत्य केवलकुम्भकोऽभ्यस्यमानः पूर्वत्रयापेक्षया चतुर्थो भवति ।
निद्रातन्द्रादिदोषयुक्तानां रेचकादित्रयं, तद्रहितानां चतुर्थ इति विवेकः ॥ २.५१ ॥
अथ प्राणायामफलमाह -
२.५२. ततः क्षीयते प्रकाशावरणं
२.५२. ततः क्षीयते प्रकाश-आवरणम् ॥ 2.52 ॥
प्रकाशस्य सत्त्वस्यावरणं तमो निद्रालस्यादिहेतुः, तस्य क्षयो भवतीत्यर्थः ॥ २.५२ ॥
फलान्तरमाह -
२.५३. धारणायोग्यता मनसः
२.५३. धारणा-योग्यता मनसः ॥ 2.53 ॥
फलान्तरमाह - धारणासु च योग्यता मनसः ॥ ५३ ॥ आधारनाभिचक्रहृदयभ्रूमध्यब्रह्मरन्ध्रादिदेशविशेषे चित्तस्यावस्थानं धारणा । तत्र प्राणायामेन रजोगुणकार्याच्चाञ्चल्यात् तमोगुणकार्यादालस्यादेश्च निवारितं मनो योग्यं भवतीत्यर्थः ॥ २.५३ ॥
अथ क्रमप्राप्तं प्रत्याहारमाह -
२.५४. स्वस्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः
२.५४. स्व-विषय-असम्प्रयोगे चित्तस्वरूपानुकार इव-इन्द्रियाणां प्रत्याहारः ॥ 2.54 ॥
शब्दस्पर्शरूपरसगन्धादिविषयेभ्यो निवर्तिताः श्रोत्रादयश्चित्तस्वरूपमनुकुर्वन्तीवावतिष्ठन्त इत्यर्थः ॥ २.५४ ॥
प्रत्याहारफलमाह -
२.५५. ततः परमा वश्यतेन्द्रियाणां
२.५५. ततः परमा वश्यता-इन्द्रियाणाम् ॥ 2.55 ॥
इन्द्रियाणामतिचञ्चलानां परमा वश्यता निश्चलता, विषयेष्वत्यन्तमप्रसर इति यावत् ॥ २.५५ ॥
इति श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे योगसुधाकराभिधायां वृत्तौ साधनपादः समाप्तः ॥
३. विभूतिपादः ।
यदाराधनतः सिद्धाः सिद्धीरष्टाववाप्नुवन् ।
तमपायतमोभानुमुमापतिमुपास्महे ॥
इत्थं पूर्वस्मिन्पादे समाधिपरिपन्थिक्लेशतनूकरणार्थं समाधिभावनार्थं च पृथक्क्रियायोगं क्लेशतन्मूलकर्मतद्विपाकतत्फलजात्यादीनां दुःखत्वेन हेयत्वं हेयहेतुं तद्धानं कैवल्यं तदुपायभूतां पुरुषख्यातिं तत्साधनं यमादिपञ्चकं बहिरङ्गं च अभिधाय,
अथाधुना धारणादित्रयमन्तरङ्गं संयमपदवाच्यं तदवान्तरफलविभूतिजातं च आचक्षाणः प्रथमं धारणां लक्षयति -
३.१. देशबन्धश्चित्तस्य धारणा
३.१. (देश-बन्धः)-श्चित्तस्य धारणा ॥ 3.1 ॥
आधारादिदेशा अधस्तादभिहिताः । तत्रात्मनि वा चित्तस्य बन्धः स्थापनं धारणेत्युच्यते । तदुक्तं योगयाज्ञवल्क्ये
- ``यमादिगुणयुक्तस्य मनसः स्थितिरात्मनि ।
धारणेत्युच्यते सद्भिर्योगशास्त्रविशारदैः'' इति ॥ ३.१ ॥
तत्साध्यं ध्यानं लक्षयति -
३.२. तत्र प्रत्ययैकतानता ध्यानं
३.२. तत्र प्रत्यय-एकतानता ध्यानम् ॥ 3.2 ॥
तत्र यथोक्तदेशे प्रत्ययस्यैकतानता एकविषयप्रवाहः, स च विच्छिद्य विच्छिद्य जायमानो ध्यानं भवति । तदुक्तं -
``विलाप्य विकृतिं कृत्स्नां सम्भवव्यत्ययक्रमात् । परिशिष्टं च सन्मात्रं चिदानन्दं विचिन्तयेत्'' इति ॥ ३.२ ॥
ध्यानप्रकर्षात्सन्तत एकविषयप्रवाहः समाधिः; तं लक्षयति -
३.३. तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः
३.३. तद् (तत्)-एव-अर्थ-मात्र-निर्भासं (स्वरूप-शून्यम्)-इव समाधिः ॥ 3.3 ॥
तदेव ध्यानमेव ध्येयैकगोचरतया निर्भासमानं ध्यानस्वरूपशून्यमिव स्थितं समाधिर्भवति । तदुक्तं -
``ब्रह्माकारमनोवृत्तिप्रवाहोऽहङ्कृतिं विना । सम्प्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः'' इति ।
नात्राङ्गाङ्गिनोरत्यन्ताभेदः शङ्कनीयः, ईषद्भेदस्य विद्यमानत्वात् । तथा हि - कर्तृकरणानुसन्धानपुरःसरं जायमानः प्रत्ययो ध्यानम् । तदुत्कर्षात्कर्तृकरणानुसन्धानमन्तरेणैव ध्येयमात्रगोचरतया निर्भासमानः समाधिः ।
स एव अपरवैराग्यपुरःसरमादरनैरन्तर्यदीर्घकालासेवितो निरस्तरजस्तमोलेशसुखप्रकाशमयसत्त्वोद्रेकादनवद्यवैशारद्यप्रद्योतनरूपश्चिरतरमनुवर्तमानः सम्प्रज्ञातसमाधिर्भवति ।
परवैराग्यपूर्वकनिरोधप्रयत्नेन तस्यापि निरोधे सर्ववृत्तिनिरोधान्निर्बीजः समाधिर्भवति । तदुक्तं - ``मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः । यासम्प्रज्ञातनामासौ समाधिरभिधीयते'' इत्येष विभागो द्रष्टव्यः ॥ ३.३ ॥
इत्थं पूर्वपादोद्दिष्टं धारणादित्रयं व्याख्याय तस्य व्यवहारलाघवाय संयमसंज्ञामाह -
३.४. त्रयमेकत्र संयमः ॥
३.४. त्रयम्-एकत्र संयमः ॥ 3.4 ॥
एकविषयं धारणादित्रयं संयमसंज्ञं भवतीत्यर्थः ॥ ३.४ ॥
ततः किं ? अत आह -
३.५. तज्जयात्प्रज्ञालोकः
३.५. तद् (तत्)-जयात्-प्रज्ञा-लोकः ॥ 3.5 ॥
तस्य संयमस्य जयात्स्थैर्यात्समाधिप्रज्ञाया आलोकः ऋतम्भरत्वं भवतीत्यर्थः ॥ ३.५ ॥
ननु क्व विनियुक्तः प्रज्ञालोकः फलं प्रसूत इत्यपेक्षायामाह -
३.६. तस्य भूमिषु विनियोगः
३.६. तस्य भूमिषु विनियोगः ॥ 3.6 ॥
पूर्वोक्तसवितर्कनिर्वितर्कसविचारनिर्विचारादिभूमिषु संयमस्य विनियोगः कर्तव्यः । तत्र विनियुक्तः संयमः पूर्वपूर्वभूमिजयेनोत्तरभूमेर्निर्विचाराभिधाया वैशारद्येऽनवद्याध्यात्मख्यातिमुत्पाद्य सद्भूतार्थप्रद्योतनरूपां समाधिप्रज्ञामुत्पादयतीति तात्पर्यार्थः ॥ ३.६ ॥
अत एव सम्प्रज्ञातसमाधिप्रज्ञाया धारणादित्रयमन्तरङ्गमित्याह--
३.७. त्रयमन्तरङ्गं पूर्वेभ्यः
३.७. त्रयम-अन्तरङ्गं पूर्वेभ्यः ॥ 3.7 ॥
पूर्वोक्ताः पञ्च यमादयः सम्प्रज्ञातस्य प्रतिबन्धकप्रत्यक्षगात्रप्राणादिमलप्रक्षयप्रणाडिकया बहिरङ्गाणि तेभ्यश्चित्तविषयतया सजातीयत्वाद्धारणादित्रयमन्तरङ्गमित्यर्थः ॥ ३.७ ॥
तदप्यसम्प्रज्ञातस्यावृत्तिकस्य विजातीयत्वाद्बहिरङ्गमित्याह -
३.८. तदपि बहिरङ्गं निर्बीजस्य
३.८. तद (तत्)-अपि बहिरङ्गं निर्बीजस्य ॥ 3.8 ॥
विजातीयत्वेऽपि सम्प्रज्ञातप्रज्ञोत्पादनद्वारोपकारितया बहिरङ्गत्वमविरुद्धम् । तदेवोपकारित्वमधस्तादसूत्रयत्सूत्रकारः
- ``श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्'' इति ॥ ३.८ ॥
ननु ``तदपि बहिरङ्गं निर्बीजस्य'' इत्युक्तम् । कोऽसौ निर्बीजः समाधिरित्यपेक्षायामाह -
३.९. व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधपरिणामः
३.९. व्युत्थान-निरोध-संस्कारयोः-अभिभव-प्रादुर्भावौ निरोध-लक्षण-चित्त-अन्वयः निरोध-परिणामः ॥ 3.9 ॥
व्युत्थानसंस्काराः समाधिविरोधिनः । ते च निरोधहेतुना योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं च अभिभूयन्ते, तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवन्ति । तथा सति निरोध एकैकस्मिन्क्षणे चित्तमनुगच्छति । सोऽयमीदृशश्चित्तस्य निरोधपरिणामो निर्बीजः समाधिर्भवति ॥ ३.९ ॥
ननु ``प्रतिक्षणं परिणामिनो हि भावा ऋते चितिशक्तेः'' इति न्यायेन चित्तस्य सर्वदा परिणामप्रवाहो वक्तव्यः; तत्र व्युत्थितचित्तस्य वृत्तिप्रवाहः स्फुटः, निरुद्धचित्तस्य तु कथमित्याशङ्क्योत्तरमाह -
३.१०. तस्य प्रशान्तवाहिता संस्कारात्
३.१०. तस्य (प्रशान्त-वाहिता)संस्कारात् ॥ 3.10 ॥
यथा समिदाज्याहुतिप्रक्षेपे वह्निरुत्तरोत्तरवृद्ध्या प्रज्वलति, समिदादिप्रक्षये प्रथमक्षणे किञ्चिच्छाम्यति, उत्तरोत्तरक्षणे शान्तिर्वर्धते; तथा निरुद्धचित्तस्योत्तरोत्तराधिकं प्रशमः प्रवहति । तत्र पूर्वपूर्वप्रशमजनितसंस्कार एवोत्तरोत्तरप्रशमस्य कारणमित्यतः प्रशमप्रवाहसम्भवान्न कोऽपि दोष इति भावः ॥ ३.१० ॥
इत्थं निरोधपरिणामरूपं निर्बीजसमाधिमभिधाय सम्प्रज्ञातसमाधिपरिणाममभिधातुमाह -
३.११. सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः
३.११. सर्वार्थता-एकाग्रतयोः (एकाग्रता)क्षय-उदयौ (उदय)चित्तस्य (समाधि-परिणामः)॥ 3.11 ॥
रजोगुणेन चाल्यमानं चित्तं क्रमेण सर्वान्पदार्थान्गृह्णाति । तस्य रजोगुणस्य निरोधाय क्रियमाणेन योगिनः प्रयत्नविशेषेण दिने दिने सर्वार्थता क्षीयते, एकाग्रता चोदेति । तादृशचित्तस्य परिणामः समाधिरित्युच्यते ॥ ३.११ ॥
ननु केयमेकाग्रतेत्यपेक्षायामाह -
३.१२. शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः
३.१२. (शान्त-उदितौ)तुल्य-प्रत्ययौ चित्तस्य-एकाग्रता-परिणामः ॥ 3.12 ॥
शान्तोऽतीतः, उदितो वर्तमानः, प्रत्ययश्चित्तवृत्तिः । अतीतः प्रत्ययो यं पदार्थं गृह्णाति तमेव चेदुदितोऽपि गृह्णीयात्, तदा तौ तुल्यौ भवतः । तादृशचित्तपरिणाम एकाग्रतेत्युच्यते ।
इत्थं निरोधपरिणामः समाधिपरिणाम एकाग्रतापरिणामश्चेत्ययं त्रिविधः परिणामश्चित्तस्य धर्मपरिणाम इत्युच्यते । एवं लक्षणपरिणामोऽपि ``निरोधलक्षणचित्तान्वयः'' इत्यनेन सूच्यते । स यथा - निरोधस्य धर्मस्य लक्षणमध्वत्रयम् । तत्रानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः तत्परित्यागेनातीताध्वस्वीकारः । एवं कालावच्छिन्नस्य तस्यैव निरोधस्यावस्थापरिणामोऽपि ``व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ'' इत्यनेन सङ्गीयते । एवं समाध्येकाग्रतापरिणामयोर्लक्षणावस्थापरिणामौ सूत्रद्वयेन प्रेक्षावद्भिरूहनीयौ ॥ ३.१२ ॥
(ततः पुनः) शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२ ॥
इत्थमभिहितं परिणामत्रयं संयमाद्विभूतीर्वक्तुकामः संयमलक्ष्यत्वेनान्यत्रातिदिशति -
३.१३. एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः
३.१३. एतेन भूत-इन्द्रियेषु धर्म-लक्षण-अवस्था-परिणामा व्याख्याताः ॥ 3.13 ॥
एतेन त्रिधाभिहितेन चित्तधर्मादिपरिणामेन भूतेषु पृथिव्यादिषु चक्षुरादीन्द्रियेषु च धर्मिषु धर्मलक्षणावस्थापरिणामा व्याख्याता द्रष्टव्याः । तत्र मृद्रूपस्य धर्मिणो घटाकारपरिणामो धर्मपरिणामः । तस्यैव घटस्य धर्मस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः तत्परित्यागेनातीताध्वपरिग्रहो लक्षणपरिणामः । तस्यैव घटस्य क्षणे क्षणे परिणामोऽवस्थापरिणामः । अतः प्रतिक्षणं परिणामिनो हि भावा ऋते चितिशक्तेरिति सङ्क्षेपः ॥ ३.१३ ॥
धर्मस्यायं त्रिविधः परिणामः; तद्धर्मिणं दर्शयति -
३.१४. शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी
३.१४. शान्त-उदित-अव्यपदेश्य-(धर्म-अनुपाती)धर्मी ॥ 3.14 ॥
शान्ताः कृतव्यापारा अतीताः, उदिता जलाहरणादिव्यापाराविष्टा वर्तमानाः, अव्यपदेश्याः शक्तिरूपेण मृदादिषु धर्मिषु स्थिता अनागताः । तानेतान्घटीयन्त्रवदनिशमावर्तमानान्योऽनुपतत्यन्वेति, सोऽयमनुपाती धर्मी, यथा चूर्णपिण्डाद्यन्वितमृदादिरित्यर्थः ॥ ३.१४ ॥
नन्वेकस्य धर्मिणः परिणामबहुत्वे को हेतुरित्यत आह -
३.१५. क्रमान्यत्वं परिणामान्यत्वे हेतुः
३.१५. क्रम-अन्यत्वं परिणाम-अन्यत्वे हेतुः ॥ 3.15 ॥
मृदि चूर्णपिण्डयोः पिण्डघटयोर्घटकपालयोः पौर्वापर्यरूपक्रमस्यान्यत्वं दृश्यमानमेकस्या एव मृदः परिणामानां चूर्णादीनां धर्माणामन्यत्वे हेतुर्ज्ञाकस्य एव मृदः परिणामानां चूर्णादीनां धर्माणामन्यत्वे हेतुर्ज्ञापकः ।
मृदि चूर्णपिण्डयो; पिण्डघटयोर्धटकपालयोः पौर्वापर्यरूपक्रमस्यान्यत्वं दृश्यमानमेकस्या एव मृदः परिणामानां चूर्णादीनां धर्मणामन्यत्वे हेतुर्ज्ञापकः ।
एवमनागतवर्तमानातीताध्वनां क्रमाल्लक्षणपरिणामान्यत्वं धर्माणां ज्ञेयम् ।
तथा क्षणपरम्परया घटादीनां दुर्लक्षसूक्ष्मपरिणामक्रमेणावस्थापरिणामान्यत्वं बोध्यम् ॥ ३.१५ ॥
इत्थं संयमलक्ष्यमभिधाय अधुना आ पादसमाप्तेः संयमस्य तत्तद्विषये वशीकारज्ञापनाय विभूतीरभिधातुमाह -
३.१६. परिणामत्रयसंयमादतीतानागतज्ञानं
३.१६. परिणाम-त्रय-संयमादत् अतीत-अनागत-ज्ञानम् ॥ 3.16 ॥
धर्मिण्येते धर्माः, तेष्वनागतादय एतेऽध्वानः, एता अवस्थाः, इति धर्मलक्षणावस्थारूपपरिणामत्रये संयमाद्योगिनोऽतीतानागतवस्तुसाक्षात्कारो भवति । चित्तसत्त्वं हि निसर्गतः सर्वार्थप्रद्योतनस्वभावं रजस्तमोमलप्रतिबन्धस्य संयमेन प्रक्षये सति प्रमाणमनपेक्ष्य सर्वं जानातीति भावः ॥ ३.१६ ॥
३.१७. शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्ककरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानं
३.१७. शब्द-अर्थ-प्रत्ययानाम्-इतरेतर-अध्यासात् सङ्करः-तत्-प्रविभाग-संयमात्-सर्व-भूत-रुत-ज्ञानम् ॥ 3.17 ॥
गौरिति शब्दो गौरित्यर्थो गौरिति प्रत्यय इत्याबालपण्डितं शब्दार्थप्रत्ययानामितरेतरा-भेदाध्यासात्सङ्करः प्रसिद्धः । तेषां वर्णव्यङ्ग्यं पदं पदव्यङ्ग्यं वाक्यं शक्त्यादिवृत्त्या बोधकमिति शब्दतत्त्वं; अर्थो द्रव्यादिर्वाच्यो लक्ष्यश्चेत्यर्थतत्त्वं; शब्दजन्योऽर्थविषयः प्रत्यय इति ज्ञानतत्त्वं; इति यः प्रविभागः शास्त्रयुक्तिभ्यां सिद्धस्तस्मिन्संयमात्सर्वशब्दादिवशीकारसूचकं सर्वभूतानां पक्ष्यादीनां रुतज्ञानं भवति, इममर्थमेते सङ्गिरन्त इति संयमी जानातीत्यर्थः ॥ ३.१७ ॥
३.१८. संस्कारसाक्षात्करणात्पूर्वजातिज्ञानं
३.१८. संस्कार-साक्षात्-कारणात्-(पूर्व-जाति-ज्ञानम्)॥ 3.18 ॥
अनुभवक्लेशजाः स्मृतिक्लेशहेतवः, कर्मजाः सुखदुःखहेतवः, इति द्वये संस्काराश्चित्तधर्माः पूर्वजन्मपरम्परासञ्चिताः सन्ति । तेषु श्रुतेष्वनुमितेषु च संयमेन साक्षात्कृतेषु तद्धेतुत्वेन स्वीयपरकीयपूर्वजन्मपरम्परायाः साक्षात्कारो भवति । न च संस्कारसंयमात्कथं पूर्वजन्मसाक्षात्कार इति शङ्कनीयं; सानुबन्धसंस्कारसंयमादनुबन्धत्वेन पूर्वजन्मसाक्षात्कारोत्पत्तेः सम्भवादिति समञ्जसम् ॥ ३.१८ ॥
सिद्ध्यन्तरमाह -
३.१९. प्रत्ययस्य परचित्तज्ञानं
३.१९. प्रत्ययस्य पर-चित्त-ज्ञानम् ॥ 3.19 ॥
प्रत्ययस्य परचित्तस्य संयमात्तत्साक्षात्कारो भवतीत्यर्थः ॥ ३.१९ ॥
ननु संस्कारसाक्षात्कारात्तदनुबन्धसाक्षात्कारवत्किं परचित्तसाक्षात्कारादालम्बनज्ञानं भवति ? नेत्याह -
३.२०. न च तत्सालम्बनं तस्याविषयीभूतत्वात्
३.२०. न च तत्-सालम्बनं तस्य-(अविषयी-भूतत्वात्)॥ 3.20 ॥
परचित्तमात्रं साक्षात्क्रियते; सालम्बनं सविषयं तु न साक्षात्क्रियते, तस्यालम्बनस्याज्ञातत्वात् । न हि लिङ्गादिनाज्ञाते संयमप्रवृत्तिः समस्ति । यदि परचित्तं ज्ञात्वा संयमेन साक्षात्कृत्यास्येदानीं किमालम्बनमिति स्वचित्तं प्रणिधत्ते, तदा तत्कालीनमालम्बनं जानाति । रागादिवृत्तयस्तु चित्ताभेदात्सदा साक्षात्क्रियन्त इति विशेषः ॥ ३.२० ॥
सिद्ध्यन्तरमाह -
३.२१. कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानं
३.२१. काय-रूप-संयमात्-तद्-ग्राह्य-शक्ति-स्तम्भे चक्षुः-प्रकाश-असम्प्रयोगे-अन्तर्धानम् ॥ 3.21 ॥
कायस्य चाक्षुषताप्रयोजकं यद्रूपमस्ति तस्मिन्संयमात्तस्य रूपस्य परचक्षुर्ग्राह्यतानुकूलायाः शक्तेः स्तम्भे प्रतिबन्धे सति परचाक्षुषज्ञानाविषयत्वे जाते, अन्तर्धानं योगिदेहस्याचाक्षुषत्वं यथाकामं सिध्यतीत्यर्थः ॥ ३.२१ ॥
उक्तमन्यत्रातिदिशति -
३.२२. एतेन शब्दाद्यन्तर्धानमुक्तं
३.२२. एतेन शब्द-आदि-अन्तर्धानम्-उक्तम् ॥ 3.22 ॥
एतेन स्वीयशब्दस्पर्शरूपरसगन्धानां संयमाच्छ्रोत्राद्यग्राह्यत्वसिद्धिरुक्ता भवतीति वेदितव्यम् ॥ ३.२२ ॥
३.२३. सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानं
३.२३. सोपक्रमं निरुपक्रमं च कर्म तत्-संयमात्-अपरान्त-ज्ञानम् ॥ 3.23 ॥
सोपक्रमं शीघ्रविपाकं कर्म, निरुपक्रमं च चिरविपाकं कर्म यत्, तत्रोभयत्र संयमेन साक्षात्कारात्तद्विपाकस्यायुषोऽपरान्तोऽवसानं, तस्य ज्ञानममुष्मिन्देशेऽमुककाले मम कायवियोग इति साक्षात्कारो भवति ॥ ३.२३ ॥
प्रसङ्गात्साधारणं मरणसूचकमाह -
३.२४. अरिष्टेभ्यो वा
३.२४ अरिष्टेभ्यः वा ॥ 3.24 ॥
अरिवत्त्रासयन्तीत्यरिष्टानि त्रिविधान्याध्यात्मिकादीनि मरणलिङ्गानि, तेभ्यो वा मरणज्ञानं भवत्ययोगिनोऽपीत्यर्थः ॥ ३.२४ ॥
३.२५. मैत्र्यादिषु बलानि
३.२५. मैत्री-आदिषु बलानि ॥ 3.25 ॥
मैत्र्यादिषु संयमेन तेषां बलानि वीर्याणि भवन्ति, यैर्योगी प्राणिमात्रस्य सुखकरः सुहृद्भवति, दुःखादुद्धर्ता भवति । उपेक्षा त्वौदासीन्यमात्रम् । न तस्य बलं किञ्चित्समस्ति, संयमाभावादित्यर्थः ॥ ३.२५ ॥
३.२६. बलेषु हस्तिबलादीनि
३.२६. बलेषु हस्ति-बलादीनि ॥ 3.26 ॥
हस्तिहनुमदादीनां बलेषु तद्भावेन संयमात्तानि बलानि योगिनः प्रादुर्भवन्ति, चित्तस्य स्वतः सर्वसामर्थ्यादित्यर्थः ॥ ३.२६ ॥
३.२७. प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानं
३.२७. प्रवृत्ति-आलोक-न्यासात्-सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम् ॥ 3.27 ॥
ज्योतिष्मती प्रवृत्तिरधस्तादभिहिता । तस्या योऽयमालोको ज्योतिरालम्बनं निर्मलबुद्धिसत्त्वं तस्य सूक्ष्मे परमाण्वादौ भूमिव्यवहिते निध्यादौ विप्रकृष्टे मेर्वन्तर्वर्तिरसायनादौ च न्यासात्प्रक्षेपात्तेषां ज्ञानं साक्षात्कारो भवति; सौरालोकसम्प्रयोगात्कूटादिसाक्षात्कारवदित्यर्थः ॥ ३.२७ ॥
३.२८. भुवनज्ञानं सूर्ये संयमात्
३.२८. भुवन-ज्ञानं सूर्ये संयमात् ॥ 3.28 ॥
सुषुम्नादिसहस्रमयूखमालिनि दिवि द्योतमाने मार्तण्डमण्डले संयमाद्दृश्याभिन्नं चित्तं चतुर्दश भूवनानि साक्षात्करोतीत्यर्थः । अयमेव सकलभुवनसाक्षात्कारोऽस्मिञ्शास्त्रे मधुमती सिद्धिरित्युच्यते ॥ ३.२८ ॥
३.२९. चन्द्रे तारकाव्यूहज्ञानं
३.२९. चन्द्रे तारका-व्यूह-ज्ञानम् ॥ 3.29 ॥
३.२९. चन्द्रे तारा-व्यूह-ज्ञानम् ॥ 3.29 ॥
नक्षत्रपतौ तुषारकरबिम्बे संयमान्नक्षत्राणां सन्निवेशविशेषं साक्षात्करोति । सूर्यस्य नक्षत्राभिभावकत्वात्तरसंयमात्तत्साक्षात्कारो न भवतीति भावः ॥ ३.२९ ॥
३.३०. ध्रुवे तद्गतिज्ञानं
३.३०. ध्रुवे तद् (तत्)-गति-ज्ञानम् ॥ 3.30 ॥
ध्रुवे संयमात्तासां तारकाणां गतिं जानाति - असौ तारकामुना ग्रहेण साकमनया सृत्यैतावन्तमनेहसं गच्छतीति ॥ ३.३० ॥
इत्थं बाह्यसिद्धीरभिधाय अधुनाध्यात्मिकसिद्धीरभिधातुमाह -
३.३१. नाभिचक्रे कायव्यूहज्ञानं
३.३१. (नाभि-चक्रे)काय-व्यूह-ज्ञानम् ॥ 3.31 ॥
कायस्य मध्यभागे यन्नाभिचक्रं मणिपूरकाख्यं दशदलं, तस्मिन्संयमाद्देहस्य वातपित्तादिसन्निवेशविशेषं जानातीत्यर्थः ॥ ३.३१ ॥
३.३२. कण्ठकूपे क्षुत्पिपासानिवृत्तिः
३.३२. कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः ॥ 3.32 ॥
जिह्वातन्तोरधस्तात्कण्ठस्य कूपाकारः प्रदेशोऽस्ति, यत्र प्राणादेः सङ्घर्षणात्क्षुत्पिपासे भवतः । तत्र संयमात्तन्निवृत्तिर्भवतीत्यर्थः ॥ ३.३२ ॥
३.३३. कूर्मनाड्यां स्थैर्यं
३.३३. (कूर्म-नाड्याम्)स्थैर्यम् ॥ 3.33 ॥
कण्ठकूपादधस्ताद्वक्षसि कूर्माकारा काचिन्नाड्यस्ति । तत्र संयमात्तत्प्रविष्टस्य चित्तस्य स्थैर्यं सिध्यतीत्यर्थः ॥ ३.३३ ॥
३.३४. मूर्धज्योतिषि सिद्धदर्शनं
३.३४. (मूर्ध-ज्योतिषि)(सिद्ध-दर्शनम्)॥ 3.34 ॥
शिरःकपालयोश्छिद्रं ब्रह्मरन्ध्राख्यं सुषुम्नायोगाद्भास्वरं मूर्धज्योतिः । तत्र संयमात्तेन निःसृता देहस्था चित्तमणिप्रभा सिद्धानदृश्यानपि पश्यतीत्यर्थः ॥ ३.३४ ॥
३.३५. प्रातिभाद्वा सर्वं
३.३५. प्रातिभात्-वा सर्वम् ॥ 3.35 ॥
विवेकख्यातिर्हि प्रसङ्ख्यानं संसारतारकम् । तदर्थं संयमे क्रियमाणे प्रसङ्ख्यानोदयसूचकं प्रतिभया ऊहमात्रेण जातं प्रातिभं ज्ञानं भवति । तस्माद्वा योगी सर्वं जानाति । यथा सूर्योदयसूचकारुणप्रभया सर्वं लोकः पश्यति, तद्वदियत्यर्थः ॥ ३.३५ ॥
३.३६. हृदये चित्तसंवित्
३.३६. हृदये (चित्त-संवित्)॥ 3.36 ॥
अधोमुखे हृत्पद्मे चित्तस्थाने संयमात्सवासनचित्तस्य संविद्भवतीत्यर्थः ॥ ३.३६ ॥
३.३७. सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानं
३.३७. सत्त्व-पुरुषयोः-अत्यन्त-असङ्कीर्णयोः प्रत्यय-अविशेषः भोगः परार्थत्वात्-स्वार्थ-संयमात्-(पुरुष-ज्ञानम्)॥ 3.37 ॥
बुद्ध्यात्मनोर्भोग्यभोक्तृत्वेनात्यन्तभिन्नयोर्यः प्रत्ययाविशेषो बुद्धिपरिणामैः सुखदुःखमोहप्रत्ययैः पुरुषस्य प्रतिबिम्बग्राहिभिरविशेषः सारूप्यं प्रतिबिम्बद्वारा यः सुखाद्यारोपः, स भोगो बुद्धिस्थो दृश्यत्वात्परार्थः पुरुषस्य भोक्तुः शेषभूतः । तस्मात्परार्थाद्भोगाज्जडादन्यश्चित्स्वभावः स्वार्थोऽनन्यशेषः पुरुषः । तत्र संयमात्पुरुषस्य साक्षात्कारो भवति । तं साक्षात्कारमपि पुरुषो जानाति । न पुनर्ज्ञाता ज्ञेयः, ज्ञातृज्ञेयत्वयोरत्यन्तविरोधादिति भावः ॥ ३.३७ ॥
अधुनास्यैव संयमस्य पुरुषसाक्षात्कारात्प्राग्भवाः सिद्धीरुपदर्शयति -
३.३८. ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते
३.३८. ततः प्रातिभ-श्रावण-वेदना-आदर्श-आस्वाद-वार्ता जायन्ते ॥ 3.38 ॥
३.३८. ततः प्रातिभः-श्रावण-वेदना-आदर्श-आस्वाद-वार्ता जायन्ते ॥ 3.38 ॥
दिव्यशब्दग्राहकं श्रोत्रं यदास्य योगिनो भवति तदा तस्य श्रोत्रस्य श्रावणमिति तान्त्रिकी संज्ञा भवति । एवं घ्राणस्य वार्त्तेति संज्ञेत्याद्यूह्यम् ॥ ३.३८ ॥
तर्ह्ययं योगी कृतकृत्यः; किं तस्य कार्यमस्तीत्याशङ्कमानं प्रत्याह -
३.३९. ते समाधावुपसर्गा व्युत्थाने सिद्धयः
३.३९. ते समाधौ-उपसर्गाः व्युत्थाने सिद्धयः ॥ 3.39 ॥
ते प्रातिभादयः समाधावपवर्गफले उपसर्गा विघ्ना भवन्ति । अतो मोक्षमाकाङ्क्षता ते तावदुपेक्षणीयाः । यदि तत्रापेक्षा स्यात्तदा मोक्षाद्भ्रष्टः कथं कृतकृत्यतामियात् ? न ह्यात्मप्रत्ययमन्तरेण कृतकृत्यता समस्ति । न चैते स्वात्मज्ञानं उपकृर्वन्ति । अपि तु व्युत्थाने सिद्धयो भवन्ति । एतदेवाभिप्रेत्योक्तं - ``द्रव्यमन्त्रक्रियाकालशक्तयः साधु सिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ सर्वेच्छालाभसंशान्तावात्मलाभोदयो हि यः । स कथं सिद्धिवाञ्छायां मग्नचित्तेन लभ्यते'' इति ॥ ३.३९ ॥
तदेवं संयमस्य साक्षात्काररूपात्मदर्शनान्तां विभूतिमभिधाय अथ क्रियारूपमाह -
३.४०. बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः
३.४०. बन्ध-कारण-शैथिल्यात्-प्रचार-संवेदनात्-च चित्तस्य (पर-शरीर-आवेशः)॥ 3.40 ॥
सर्वत्रव्याप्तिशीलस्य चित्तस्य स्वशरीरमात्रे सङ्कोचेन स्थितिर्बन्धः । तस्य कारणं धर्माधर्मौ । तयोः संयमेन यच्छैथिल्यं भवति; प्रचरत्यनेन चित्तमिति प्रचारो नाडिसङ्घः, तस्यापि संयमेन यद्वेदनं साक्षात्कारो भवति; ताभ्यां चित्तस्य परकाये मृते जीवति वा प्रवेशो भवति । चित्तमन्विन्द्रियाण्यपि विशन्ति मक्षिका मधुकरराजमिवेत्यर्थः ॥ ३.४० ॥
३.४१. उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च
३.४१. उदान-जयात्-जल-पङ्क-कण्टक-आदिषु-असङ्ग उत्क्रान्तिः च ॥ 3.41 ॥
समस्तेन्द्रियाणां युगपत्तूलज्वालावदुत्पन्ना या वृत्तिर्जीवशब्दवाच्या, सा क्रियाभेदेन प्राणापानादिसंज्ञाभिर्व्यपदिश्यते । तत्रोदानस्य आ नासाग्रादा शिरोवृत्तेः संयमेन जयाज्जलादिष्वसक्तो योगी लघुत्वादुपरि गच्छति, स्वेच्छया मरणं च लभत इत्यर्थः ॥ ३.४१ ॥
३.४२. समानजयाज्ज्वलनं
३.४२. समान-जयात्- ज्वलनम् ॥ 3.42 ॥
आ हृदयादानाभि स्थितः समानः । तस्य वशीकारान्नाभिनिकटस्थाग्नेर्ज्वलनं भवति । येनासौ योगी ज्वलन्निव दृश्यत इत्यर्थः ॥ ३.४२ ॥
३.४३. श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रं
३.४३. श्रोत्र-आकाशयोः सम्बन्ध-संयमात्-दिव्यं श्रोत्रम् ॥ 3.43 ॥
आहङ्कारिकस्यापि श्रोत्रस्याकाशेनाधाराधेयभावः सम्बन्धोऽस्ति । तत्र संयमाद्दिव्यं श्रोत्रेन्द्रियं भवति । तेन दिव्यशब्दान्युगपज्जानातीत्यर्थः ॥ ३.४३ ॥
३.४४. कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनं
३.४४. काय-आकाशयोः सम्बन्ध-संयमात्-लघु-तूल-समापत्तेः-च-आकाश-गमनम् ॥ 3.44 ॥
तयोः संयोगं जित्वा लघुतूलादौ वा तद्भावेन समाधिना लघुकायो भूत्वा आकाशे विहरति, तत ऊर्णातन्तुषु, पश्चान्मार्तण्डमयूखेषु, ततो यथेच्छं गगने गच्छतीत्यर्थः ॥ ३.४४ ॥
३.४५. बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः
३.४५. बहिः-अकल्पिता वृत्तिः-(महा-विदेहा)ततः प्रकाश-आवरण-क्षयः ॥ 3.45 ॥
शरीरेऽहम्भावे सति मनसो या बहिर्वृत्तिः सा कल्पिता विदेहाख्या । यदा देहेऽहम्भावपरित्यागे सति स्वत एव या मनसो बहिर्वृत्तिः सेयमकल्पिता महाविदेहाख्या । तत्र संयमात्प्रकाशशीलस्य चित्तस्य क्लेशादिमलाः सर्वे क्षीयन्त इत्यर्थः ॥ ३.४५ ॥
३.४६. स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः
३.४६. स्थूल-स्वरूप-सूक्ष्म-अन्वय-अर्थवत्त्व-संयमाद् (भूत-जयः)॥ 3.46 ॥
स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं च पञ्चैतानि पञ्चभूतानां रूपाणि ।
तत्र क्रमेणैकैकन्यूनैः शब्दादिगुणैर्युक्तं परिदृश्यमानं स्थूलम् ।
क्रमेण काठिन्यस्नेहौष्ण्यप्रेरणासर्वगतत्वलक्षण स्वरूपम् ।
पञ्च तन्मात्राणि सूक्ष्मम् । स्वकार्यं कारणत्वेनान्वेतीत्यन्वयो गुणत्रयम् ।
भोगापवर्गज्ञानसामर्थ्यं गुणनिष्ठमर्थवत्त्वम् ।
तेषु पञ्चरूपेषु स्थूलादिक्रमेण संयमाद्भूतानि योगिसङ्कल्पानुसारीणि भवन्ति धेनवो वत्सानुसारिण्य इवेत्यर्थः ॥ ३.४६ ॥
नन्वस्तु भूतजयः; किं तत इत्यत्राह -
३.४७. ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च
३.४७. ततः-(अणिमा-आदि)-प्रादुर्भावः (काय-सम्पत्)-तद्-धर्म-अनभिघातः-च ॥ 3.47 ॥
ततो भूतजयाद्योगिनोऽणिमाद्यष्टमहासिद्धयः प्रादुर्भवन्ति । परमाणुतुल्यत्वमणिमा । विभुत्वं महिमा । तूलपिण्डवल्लघुत्वं लघिमा । मेरुवद्गुरुत्वं गरिमा । अङ्गुल्या चन्द्रस्पर्शनं प्राप्तिः । सत्यसङ्कल्पत्वं प्राकाम्यम् । भूतनियन्तृत्वं वशित्वम् । भूतस्रष्टृत्वमीशितृत्वम् । इत्यष्टैश्वर्याणि । अत्र प्राप्त्यन्तानि स्थूलसंयमात्सिध्यन्ति । स्वरूपसंयमात्प्राकाम्यम् । अवशिष्टमवशिष्टत्रयसंयमादिति विभागः । कायसम्पद्वक्ष्यमाणलक्षणा, तद्धर्मैस्तस्य काठिन्यादिभूतधर्मैरनभिघातश्च योगिनो भूतजयात्सिध्यतीत्यर्थः ॥ ३.४७ ॥
कायसम्पदं व्याख्यातुमाह -
३.४८. रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्
३.४८. रूप-लावण्य-बल-वज्र-संहननत्वानि (काय-सम्पत्)॥ 3.48 ॥
चक्षुःप्रियं रूपम् । सर्वाङ्गसौन्दर्यं लावण्यम् । वीर्यं बलम् । वज्रस्येव संहननमवयवव्यूहो यस्य तद्भावो वज्रसंहननत्वं; तच्च हनुमति प्रसिद्धम् ॥ ३.४८ ॥
इत्थं ससाधनफलं भूतजयमभिधाय सोपायफलमिन्द्रियजयमभिधातुमाह -
३.४९. ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः
३.४९. ग्रहण-स्वरूप-अस्मिता-अन्वय-अर्थवत्त्व-संयमाद्-(इन्द्रिय-जयः)॥ 3.49 ॥
ग्रहणं स्वस्वरूपमस्मितान्वयोऽर्थवत्त्वं च पञ्चैतानि श्रोत्रादिपञ्चेन्द्रियाणां रूपाणि । तत्र शब्दादिगोचरा वृत्तयो ग्रहणम् । स्वरूपं प्रकाशकत्वम् । अस्मिता सात्त्विकाहङ्कारः । अन्वयार्थवत्त्वे व्याख्याते । तेषु पञ्चस्विन्द्रियरूपेषु संयमादिन्द्रियजयो भवतीत्यर्थः ॥ ३.४९ ॥
ततः किं ? अत आह -
३.५०. ततो मनोजवित्वं विकरणभावः प्रधानजयश्च
३.५०. ततः मनोजवित्वं (विकरण-भावः)प्रधान-जयः-च ॥ 3.50 ॥
मनोजवित्वं कायस्य मनोवदनुत्तमो गतिलाभः । विकरणभावः कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविशेषापेक्षो वृत्तिलाभः । प्रधानजयः प्रकृतिविकारेषु वशित्वम् । एताः सिद्धयः करणपञ्चकस्वरूपजयाद्योगिनः प्रादुर्भवन्तीत्यर्थः । एता अणिमाद्याः प्रधानजयान्ताः सिद्धयोऽस्मिञ्शास्त्रे मधुप्रतीकाः सङ्गीयन्ते । यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः, मधुतुल्या इत्यर्थः ॥ ५० ॥
संयमादि
इत्थं संयमाच्छ्रद्धाद्वारा विवेकख्यात्यर्था ज्ञानक्रियासिद्धीरभिधाय अधुना विवेकख्यातेरवान्तरसिद्धीरभिधातुमाह -
३.५१. सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च
३.५१. सत्त्व-पुरुष-अन्यता-(ख्याति-मात्रस्य)(सर्व-भाव-अधिष्ठातृत्वम्)(सर्व-ज्ञातृत्वम्)च ॥ 3.51 ॥
पूर्वोदीरितस्वार्थसंयमेन निरस्तरजस्तमोमलस्य चित्तस्य जये वशीकारसंज्ञारूपा परवैराग्ये स्थितस्य सत्त्वपुरुषयोर्विवेकख्यातिः समुत्पद्यते । तन्मात्रस्य तन्निष्ठस्य योगिनः सर्वभावाधिष्ठातृत्वं सर्वेषां व्यवसायव्यवसेयात्मकानां गुणपरिणामरूपाणां स्वामिवदाक्रमणम् । सर्वज्ञातृत्वं तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं च सिध्यति । एषा विशोका नाम सिद्धिः ॥ ३.५१ ॥
अधुना विवेकख्यातेर्मुख्यां सिद्धिमभिधातुमाह -
३.५२. तद्वैराग्यादपि दोषबीजक्षये कैवल्यं
३.५२. तद्-वैराग्यात्-अपि (दोष-बीज)-क्षये कैवल्यम् ॥ 3.52 ॥
तस्यां विशोकायां सिद्धौ वैराग्यात्तद्धेतुभूतविवेकख्यातावपि परं वैराग्यं भवति । ततः सर्वप्रतिपत्त्यस्तमये परं वैराग्यमाश्रितस्य पुरुषधौरेयस्य क्लेशबीजानि दग्धशालिकल्पानि मनसा सार्धं प्रत्यस्तं गच्छन्ति । प्रक्षीणेषु तेषु दृढभूमावसम्प्रज्ञातपदवेदनीये संस्कारशेषताव्यपदेश्ये निर्बीजसमाधौ लब्दे, शुद्धायाश्चितिशक्तेः स्वरूपप्रतिष्ठारूपं कैवल्यं सिध्यतीत्यर्थः । इयं संस्कारशेषाख्या सिद्धिः ॥ ३.५२ ॥
अधुनात्रान्तरायोत्पत्तौ तन्निराकरणकारणमाह -
३.५३. स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्
३.५३. स्थानि-उपमन्त्रणे सङ्ग-स्मय-अकरणं पुनः-अनिष्ट-प्रसङ्गात् ॥ 3.53 ॥
३.५३. स्थानि-उपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ 3.53 ॥
चत्वारः खल्वमी योगिनः प्रथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राद्यः संयमे प्रवृत्तिमात्रो न किञ्चिज्जानाति । संयमेन भूतेन्द्रियाणि साक्षात्कृत्य तज्जिगीषुर्द्वितीयः । भूतेन्द्रियजयी पुरुषमाचिख्यासुस्तृतीयः । सम्प्राप्तपुरुषख्यातौ परवैराग्यसम्पन्नश्चतुर्थः । सोऽसौ भगवान्महानुभावो जीवन्मुक्तो विघ्नशङ्काकलङ्कशून्यः । तृतीयो जितभूतेन्द्रियत्वान्महेन्द्रादिभिरक्षोभ्यः । आद्यस्तु देवनिमन्त्रणायोग्यः । अतः परिशेषाद्द्वितीयः स्थानिभिः शक्रादिभिः शक्यते प्रार्थयितुं - ``भो योगिन्, इहास्यताम् । स्वर्गादिस्थाने रम्यताम् । कमनीयेयं कन्या । दिव्योऽयं भोगः । रसायनमिदं जरामृत्युनिवारणम् । इदं कामगं यानम्'' इति । एवं प्रार्थने सङ्ग आसक्तिः, ``अहो मम योगप्रभावः'' इति स्मयश्च न कर्तव्यः; किं त्वित्थं तत्र दोषं भावयेत् - ``घोरेषु संसाराङ्गारेष्वहं पापच्यमानः कथञ्चित्क्लेशादिध्वान्तध्वंसकं योगप्रदीपमलभे । तस्यैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमेतैर्वञ्चितः पुनः पुनः प्रदीप्तस्य संसारहुतभुजः स्वात्मानमिन्धनीकुर्यां ? अतः स्वस्ति वः स्वप्नसमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्यः'' इति । एवं निश्चितमतिः पुरुषधौरेयः समाधिं भावयेत् । यदि तत्र सङ्गस्मयौ भवेतां, तदास्य योगभ्रष्टस्य पुनरनिष्टं प्रसज्जेत । तस्मात्सङ्गस्मययोरकरणं कैवल्यान्तरायनिवारणकारणमित्यर्थः ॥ ३.५३ ॥
अधस्तात्स्वार्थसंयमात्पुरुषज्ञानं भवतीत्यभिहितम् । अधुना तदेवान्यसंयमात्तावद्भवतीत्याह -
३.५४. क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानं
३.५४. (क्षण-तत्क्रमयोः)संयमात्-विवेकजं ज्ञानम् ॥ 3.54 ॥
अभेद्यः कालविभागः सत्यः क्षणः । अन्ये तु मुहूर्तादयः कालविभागाः क्षणसमूहरूपा असत्याः । न हि क्षणानां समूहो वस्तुसन् । तत्रायमस्मात्पूर्वः क्षणः अयमुत्तरः क्षण इति क्षणानां तेषां क्रमस्य पौर्वापर्यस्य च संयमादतिसूक्ष्माणां भेदसाक्षात्कारो विवेको भवति । तेन युगपद्वियदादिपुरुषान्तसाक्षात्कारो जायत इत्यर्थः ॥ ३.५४ ॥
अधुनास्य साक्षात्कारस्य सूक्ष्मं विषयविशेषमभिधातुमाह -
३.५५. जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः
३.५५. (जाति-लक्षण-देशै)-(अन्यता-अनवच्छेदात्)तुल्ययोः-ततः प्रतिपत्तिः ॥ 3.55 ॥
लोके हि भावानां त्रयो भेदनिश्चयहेतवः । तत्र देशेन लक्षणेन च तुल्ययोर्गोगवययोर्जात्या भेदधीः । देशजातिभ्यां तुल्ययोर्गवोः कृष्णश्वेतादिलक्षणेन भेदधीः । जातिलक्षणाभ्यां तुल्ययोरामलकयोः पूर्वोत्तरादिदेशभेदाद्भेदनिश्चयः । यदा पुनर्योगिनो ज्ञानपरीक्षार्थं केनचित्पूर्वदेशस्थमामलकमुत्तरामलकदेशे विन्यस्योत्तरामलकमन्यव्यासक्ते योगिन्यपहृतं, तयोरामलकयोरामलकत्वजात्या रूपपरिमाणादिलक्षणेन देशेन च तुल्ययोर्जात्यादिभिरन्यताया अनवच्छेदादनिश्चयात्ततस्तस्मात्क्षणसंयमजविवेकज्ञानादेवान्यत्वप्रतीतिर्योगिनो भवतीत्यर्थः ॥ ३.५५ ॥
इत्थं विवेकज्ञानस्य विषयविशेषमभिधाय अधुना तस्य सप्रकारं विषयसामान्यमभिधातुमाह -
३.५६. तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानं
३.५६. तारकं (सर्व-विषयम्)(सर्वथा-विषयम्)-अक्रमं च-इति विवेकजं ज्ञानम् ॥ 3.56 ॥
क्षणसंयमजं ज्ञानं सर्ववस्तुस्वरूपविषयं सर्वथा सर्वप्रकारविषयं पुरुषतत्त्वावगाहित्वात्संसारसागरं तारयतीति तारकसंज्ञं अक्रमं युगपदेव करतलामलकवत्सर्वसमूहालम्बनमित्यर्थः ॥ ३.५६ ॥
अधुना तस्य विवेकज्ञानस्य फलं दर्शयितुमाह -
३.५७. सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यं
३.५७. सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यं (इति) ॥ 3.57 ॥
निरस्तसमस्तरजस्तमोमलस्य बुद्धिसत्त्वस्य विवेकख्यात्या संस्कारशेषस्य सर्ववृत्तिशून्यत्वं शुद्धिः । पुरुषस्यापि नित्यशुद्धस्य तदा कल्पितभोगशून्यत्वं शुद्धिः । एवं च तयोः शुद्धिसाम्ये सति कैवल्यं पुरुषख्यात्युत्पन्नपरवैराग्येण सकलवृत्तिनिवृत्तौ तत्कृतभोगनिवृत्तेः कूटस्थनित्यशुद्धानन्तायाश्चितिशक्तेः स्वरूपप्रतिष्ठालक्षणं कैवल्यं सिध्यतीत्यर्थः । येन केन प्रकारेणोत्पन्नया पुरुषख्यात्या परवैराग्यद्वारा परमपदं कैवल्यं लभ्यत इति परमतात्पर्यम् ॥ ३.५७ ॥
इति श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे योगसुधाकराभिधायां वृत्तौ विभूतिपादः समाप्तः ॥
४. कैवल्यपादः ।
वीरासने समासीनं संविन्मुद्रालसत्करम् ।
कैवल्यानन्ददं कञ्चिज्ज्योतिर्धातुमुपास्महे ॥
इत्थं पूर्वस्मिन्पादे समाधेरन्तरङ्गं संयमसंज्ञं धारणादित्रयं संयमस्य लक्ष्यभूतान्परिणामभेदाञ्श्रद्धाद्वारा कैवल्यफलकपुरुषख्यात्यर्था ज्ञानक्रियारूपाः सिद्धीश्चाभिधाय,
अधुना कैवल्यस्वरूपं प्राधान्येन प्रतिपादयितुकामः प्रथमं तावत्सिद्धिपञ्चकं प्रपञ्चयति -
४.१. जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः
४.१. जन्म-औषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥ 4.1 ॥
जन्मना पक्ष्यादीनामाकाशगमनादिसिद्धिः । ओषधीरसायनादिः; तत्सेवया माण्डव्यादीनां कायादिसिद्धिः । मन्त्रस्त्रैपुरादिः; तज्जपेन केषाञ्चिदणिमादिसिद्धिः । शरीरशोषणादिकं तपः; तेन विश्वामित्रादीनां सिद्धिः । समाधिजास्त्वधस्तादभिहिताः ॥ १ ॥
ननु परमेश्वरसमाराधनादितपःप्रभावेणैव नन्दीश्वरो मनुष्यदेहेन देवत्वमगमदित्युपाख्यायते; तत्कथं, मनुष्यदेहस्य देवशरीराकारेण परिणामायोगादित्याशङ्क्याह -
४.२. जात्यन्तरपरिणामः प्रकृत्यापूरात्
४.२. जाति-अन्तर-परिणामः प्रकृति-आपूरात् ॥ 4.2 ॥
प्रधानादयः पृथिव्यन्ताः प्रकृतयः । तासां सर्वत्र विद्यमानतया नरादिदेहावयवेष्वापूराद्धर्मादिनिमित्तानुरोधेनावयवानुप्रवेशाज्जात्यन्तरपरिणामो युज्यत इत्यर्थः ॥ २ ॥
ननु प्रकृत्यापूरो धर्मादिनिमित्तमपेक्षते चेत्तस्यैवास्तु प्रवर्तकत्वं; किं तेन ? न चेष्टापत्तिः, अपसिद्धान्तापातादित्याशङ्क्याह -
४.३. निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्
४.३. निमित्तम्-अप्रयोजकं प्रकृतीनां वरण-भेदः-तु ततः क्षेत्रिकवत् ॥ 4.3 ॥
निरीश्वरसाङ्ख्येऽपि पुरुषार्थ एवानागतः प्रकृतीनां प्रवर्तकः । सेश्वराणां नस्तु तदुद्देशेनेश्वरः प्रवर्तक इत्युद्देश्यतया पुरुषार्थः प्रवर्तक इति राद्धान्तः । अतः प्रकृतीनां धर्मादिकं निमित्तं न प्रवर्तकं, तत्कार्यत्वात् । अपि तु ततो निमित्ताद्वरणस्य प्रतिबन्धस्य भेदो नाशो भवति । धर्मेणाधर्मनिरासे प्रकृतयः स्वयमेव देवादिपरिणामे प्रवर्तन्ते । यथा क्षेत्रिकः कृषीवलो जलस्योन्नतदेशादिवरणभेदमात्रं करोति, ततः पाथः स्वत एव केदारात्केदारान्तरे प्रवर्तते, तद्वदित्यर्थः ॥ ४.३ ॥
यदा योगी युगपद्भोगार्थं बहून्कायान्निर्मिमीते तदा तेषु कस्माच्चित्तानि भवन्तीत्यत आह -
४.४. निर्माणचित्तान्यस्मितामात्रात्
४.४. निर्माण-चित्तानि-(अस्मिता-मात्रात्)॥ 4.4 ॥
योगप्रभावान्निर्मीयन्त इति निर्माणानि चित्तानि योगिसङ्कल्पाधीनप्रकृत्यापूरात्कायवदहङ्कारात्स्वप्रकृतेर्जायन्त इत्यर्थः ॥ ४.४ ॥
तर्हि चित्तानां भिन्नाभिप्रायत्वाद्योगिनो भोगासिद्धिरित्यत आह -
४.५. प्रवृत्तिभेदप्रयोजकं चित्तमेकमनेकेषां
४.५. (प्रवृत्ति-भेदे)-प्रयोजकं चित्तम्-एकम-अनेकेषाम् ॥ 4.5 ॥
निर्मितचित्तानां नायकं चित्तमेकं योगी स्वभोगानुकूलप्रवृत्तिविशेषनियामकं निर्मिमीते; तेन भोगस्तदनुसन्धानं च युज्यते इत्यर्थः ॥ ४.५ ॥
इत्थं जन्मादिभिः सिद्धिपञ्चकप्रपञ्चनपुरःसरं सिद्धान्तानां पञ्चविधानि चित्तान्यभिहितानि । अधुना तेष्वपवर्गभागीयं चित्तं निर्धारयितुमाह -
४.६. तत्र ध्यानजमनाशयं
४.६. तत्र ध्यानजम्-अनाशयम् ॥ 4.6 ॥
तत्र तेषु जन्मादिसिद्धचित्तेषु यत्समाधिसिद्धचित्तं, तदनाशयं क्लेशकर्मविपाकाशयशून्यमपवर्गयोग्यं भवतीत्यर्थः ॥ ४.६ ॥
इत्थमस्तु योगिनश्चित्तं, तत्कर्म कीदृशमित्यपेक्षायामाह -
४.७. कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषां
४.७. (कर्म-अशुक्ल-अकृष्णम्)योगिनः-त्रिविधम्-इतरेषाम् ॥ 4.7 ॥
काम्यकर्म विहितत्वाच्छुक्लम् । निषिद्धं कृष्णम् । मिश्रं शुक्लकृष्णम् । तदेतत्त्रयमितरेषामयोगिनां सम्पद्यते । तच्च त्रिविधं जन्म प्रयच्छति । तदुक्तं - ``शुभैराप्नोति देवत्वं निषिद्धैर्नारकीं गतिम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः'' इति । अथ योगस्यानिषिद्धत्वादकृष्णत्वेऽपि विहितत्वाच्छुक्लत्वमेवेति चेत्, मैवं; अकाम्यत्वाभिप्रायेणाशुक्लकृष्णत्वाभिधानात् । अतश्चित्तशुद्धिविवेकख्यातिद्वारा मोक्षैकफलकमशुक्लकृष्णं योगिनः कर्मेत्यर्थः ॥ ७ ॥
अधुना प्रसङ्गाद्विपाकाशयाभिव्यक्तेः कर्माभिव्यक्तिनिदानत्वमभिधातुमाह--
४.८. ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानां
४.८. ततः-तद्-(विपाक-अनुगुणानाम्)-एव-अभिव्यक्तिः-वासनानाम् ॥ 4.8 ॥
ततो यथोदीरितत्रिविधात्मककर्मणोरनन्तरं विपाकदानायाभिव्यक्तौ सत्यां तद्विपाकानुगुणानामेव वासनानामभिव्यक्तिर्भवति, न विरुद्धानामित्यर्थः । देवत्वप्राप्तौ च चित्ते प्रसुप्ता एव नरभोगवासना भवन्ति, तासामभिव्यक्तौ दिव्यभोगायोगादिति भावः ॥ ८ ॥
नन्वेता नरभोगवासना देवत्वादिजन्मसहस्रव्यवधानानन्तरं कथं तर्हि पुनर्नरजन्मन्यभिव्यज्यन्त इत्याशङ्क्याह -
४.९. जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्
४.९. जाति-देश-काल-व्यवहितानाम्-अपि-आनन्तर्यम्- स्मृति-संस्कारयोः-एकरूपत्वात् ॥ 4.9 ॥
अनादौ संसारे येन कर्मणा यस्मिञ्जन्मनि भोगैः सञ्चिता या वासनास्तासां जन्मकोट्या स्वर्गादिदेशेन कल्पशतेन च व्यवहितानामपि तज्जातीयेन कर्मणा तस्मिञ्जन्मनि पुनः प्राप्ते सति तेनैव कर्मणा जन्मनामभिव्यक्तानामानन्तर्यं स्मृतिद्वारा भोगादिहेतुत्वं भवति । कुतः ? स्मृतिसंस्कारयोरेकरूपत्वात् । क्रिया ज्ञानमन्यद्वा रागादिकं यच्छक्त्यात्मना स्थितं स संस्कारः । तत्र क्रियासंस्कारः क्रियात्मना परिणतः, ज्ञानसंस्कारः स्मृत्यात्मना, अन्यसंस्कारोऽन्यात्मना परिणत इत्येवं स्मृतिसंस्कारयोरभेदेनैकविषयत्वेन चैकरूपत्वादानन्तर्यशब्दितः कार्यकारणभावः सजातीययोः सम्भवति, न विजातीययोः । न हि व्यवधानं संस्कारस्य विरूपकार्यकारित्वमापादयति; तथात्वे घटानुभवजसंस्कारादनन्तरमननुभूतस्मृत्यापत्तेरित्यर्थः ॥ ४.९ ॥
इत्याशङ्क्याह -
ननु जन्मान्तरितवासना न सन्तीति वदन्तं चार्वाकं प्रत्याह -
४.१०. तासामनादित्वं चाशिषो नित्यत्वात्
४.१०. तासाम्-अनादित्वं च-आशिषो नित्यत्वात् ॥ 4.10 ॥
न केवलं तासां वासनानामानन्तर्यं, किं त्वनादित्वमपीति चार्थः । ``सदाहं भूयासम्'' इत्याशिषो मरणत्रासस्य नित्यत्वात्सर्वजनेष्वव्यभिचारादित्यर्थः ॥ १० ॥
ननु वासनानामनादितया कथं तदुच्छेदः ? तत्राह -
४.११. हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः
४.११. हेतु-फल-आश्रय-आलम्बनैः सङ्गृहीतत्वात्-एषाम्-अभावे तदभावः (तद्-अभावः)॥ 4.11 ॥
नैताः पुरुषवदनादयः, किं तु कार्या एव प्रवाहानादयः । अतः कारणोच्छेदादुच्छेदः सम्भवति । तथा हि -
पूर्वपूर्वसंस्कारलक्षणाविद्या ह्यस्मिताहेतुः । सा च मनुष्योऽहं ममेदमिष्टमनिष्टमिति भ्रमहेतुः । सोऽपि रागद्वेषयोः । तौ च परनिग्रहानुग्रहादिद्वारा धर्माधर्मयोः । तौ च भोगे । सोऽपि वासनासु । ताः पुनर्भ्रमादिषु । इत्यनादि संसारचक्रमनिशमावर्तते । तत्र वासनानां क्लेशकर्माणि हेतवः, जात्यायुर्भोगाः फलं, चित्तमाश्रयः, शब्दादिकमालम्बनं; तैः सङ्गृहीतत्वात् आदरनैरन्तर्यसत्कारानुबन्ध्यष्टाङ्गयोगजाविप्लवविवेकख्यात्या उच्छेदे सति कारणानामभावादुच्छेदो भवतीत्यर्थः ॥ ४.११ ॥
नन्वास्तां तावदासां वासनानामुच्छेदः; किमुत्पत्तिरसतीनां सतीनां वा ? न तावदाद्यः, असम्भवात्; न ह्यसतः शशविषाणस्य सास्ति; नापि द्वितीयः, असम्भवादेव; न हि सद्रूपायाश्चितिशक्तेरुत्पत्तिः सम्भवति येन तथा स्यादित्याशङ्क्य शक्तिरूपेण स्वप्रकृतौ विद्यमानानामेवाभिव्यक्तिरुत्पत्तिरित्याशयेनाह -
४.१२. अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणां
४.१२. अतीत-अनागतं स्वरूपतः अस्ति-अध्व-भेदात्-धर्माणाम् ॥ 4.12 ॥
अतीतानागतं धर्मजातं धर्मिणि शक्तिरूपेणास्त्येव । अतस्तस्याभिव्यक्तिपदवेदनीयोत्पत्तिरुपपद्यते । ननु तर्हि वासनादिबन्धस्य विद्यमानत्वात्तत्त्वज्ञानवैयर्थ्यमिति चेत्, न; धर्माणामनागताद्यध्वनां भेदात् । वर्तमानाध्वनि दुःखादिवासनाचित्रं साधिकारमसङ्ख्येयपरिणामशीलं चित्तं भोग्यतामापन्नं बन्ध इत्युच्यते । तत्त्वज्ञाने सति निरधिकारमतीताध्वनि प्रवेशितं प्रवृत्त्यात्मना सदपि पुनर्व्युत्थानबीजस्य कर्तव्यपुरुषार्थस्य कृतत्वान्न पुनरावर्तत इत्यर्थः ॥ ४.१२ ॥
ननु स्वरूपतोऽस्तीत्युक्तं; किं तत्स्वरूपमित्यत्राह -
४.१३. ते व्यक्तसूक्ष्मा गुणात्मानः
४.१३. ते व्यक्त-सूक्ष्माः गुणात्मानः (गुण-आत्मानः)॥ 4.13 ॥
व्यक्ता वर्तमानाध्वानः, सूक्ष्मा अतीतानागताध्वानः; ते महदादयो घटादिविशेषान्ता गुणात्मानः सत्त्वरजस्तमःस्वरूपास्तत्प्रकृतिकत्वादित्यर्थः ॥ ४.१३ ॥
ननु महदादीनां गुणत्रयपरिणामत्वेन प्रत्येकमेकत्वं न स्यादित्याशङ्क्याह -
४.१४. परिणामैकत्वाद्वस्तुतत्त्वं
४.१४. परिणाम-एकत्वाद्-वस्तु-तत्त्वम् ॥ 4.14 ॥
दृश्यते हि बहूनामेकः परिणामः, यथा तैलवर्त्तिवह्नीनामेकः प्रदीपपरिणामः । न च तर्हि मृत्सुवर्णक्षीराणामेकः परिणामः स्यादिति वाच्यं; तेषामङ्गाङ्गिभावाभावात् । गुणानां त्वङ्गाङ्गिभावेन तत्परिणामस्यैकत्वाद्वस्तुनो महदादेस्तत्त्वमेकत्वं युज्यत इत्यर्थः ॥ ४.१४ ॥
ननु क्षणिकविज्ञानात्मकचित्तातिरिक्तं वस्तु नास्त्येवेति वदन्तं बौद्धं प्रत्याह -
४.१५. वस्तुसाम्येऽपि चित्तभेदात्तयोर्विभक्तः पन्थाः
४.१५. वस्तु-साम्ये-अपि चित्त-भेदात्-तयोः-विभक्तः पन्थाः ॥ 4.15 ॥
तयोर्विज्ञानात्मकचित्तवस्तुनोर्विभक्तः पन्था भिन्नो मार्गः । कुतः ? वस्तुतः स्त्रीपिण्डादेः साम्येऽपि चित्तानां भेदात् । यथैकस्यां नार्यां पत्युः सुखविज्ञानं सपत्न्या दुःखविज्ञानं कामुकस्य तदलाभान्मोहे विषादविज्ञानं निष्कामस्योपेक्षाविज्ञानं; सर्वेषां ``या त्वया दृष्टा सा मयापि दृष्टा'' इत्यबाधितविषयप्रत्यभिज्ञानादेकं वस्त्वनेकं विज्ञानमिति तयोर्भेदः । अतो न विज्ञानात्मकं सर्वं वस्तु; किं तु तस्माद्भिन्नं गुणत्रयपरिणाम इति दिक् ॥ १५ ॥
नन्वस्तु विज्ञानादन्यद्वस्तु; तच्चैकविज्ञानाधीनामिति वदन्तं प्रत्याह -
४.१६. न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ?
४.१६. न च (एक-चित्त)-तन्त्रं वस्तु तद्-अप्रमाणकं तदा किं स्यात् ॥ 4.16 ॥
यद्येकचित्तस्य ग्राह्यं घटवस्तु, तदा तस्मिंश्चित्ते पटादिषु व्यग्रे तद्वस्तु अप्रमाणकं किं स्यात् ? न स्यादित्यर्थः । न चेष्टापत्तिः, पुनस्तद्दर्शने सोऽयमित्यबाधितप्रत्यभिज्ञानात् एकस्य व्यग्रत्वेऽप्यन्येन दृश्यमानत्वाच्च । तस्मान्नैकचित्ततन्त्रं वस्तु, किं तु चित्तातिरिक्तं स्वतन्त्रमिति सिद्धम् ॥
ननु चित्तस्याहङ्कारिकत्वेन सर्वगतत्वात्सर्वदा सर्वं ज्ञायेतेत्यत आह -
४.१७. तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातं
४.१७. तद्-उपराग-अपेक्षित्वात्-चित्तस्य वस्तु ज्ञात-अज्ञातम् ॥ 4.17 ॥
सर्वगतत्वेऽपि चित्तं यत्र शरीरे वृत्तिमत्तेन शरीरेण सह सम्बन्धो यस्य वस्तुनस्तत्रैव ज्ञानं नेतरत्र । एवं चेन्द्रियप्रणाडिकया चित्तं येन वस्तुनोपरक्तं तद्वस्तु ज्ञातं, यदुपरक्तं न भवति तदज्ञातमित्यर्थः । अनेन चित्तं परिणामि ज्ञाताज्ञातविषयत्वाच्छ्रोत्रादिवदिति चित्तस्य परिणामित्वेऽनुमानमुक्तं भवतीत्यभिसन्धिः ॥ १७ ॥
नन्वित्थमात्मनोऽपि परिणामित्वं किं न स्यादित्यत आह -
४.१८. सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामात्
४.१८. सदा ज्ञाताः-चित्त-वृत्तयः-(तत्-प्रभोः)पुरुषस्य-अपरिणामात् ॥ 4.18 ॥
पुरुषोऽपरिणामी सदा ज्ञातृत्वात् न यदेवं न तदेवं यथा चित्तम् । तथा यद्यसौ पुरुषः परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्तासां चित्तवृत्तीनां सदा ज्ञातत्वं न स्यात् । अतः सदा ज्ञातृत्वादपरिणामी पुरुष इत्यर्थः ॥ ४.१८ ॥
ननु क्षणिकं चित्तमेव स्वपरावभासकमस्तु, किं पुरुषेणेत्यत आह -
४.१९. न तत्स्वाभासं दृश्यत्वात्
४.१९. न तत्-स्वाभासं (स्व-आभासम्)दृश्यत्वात् ॥ 4.19 ॥
``घटोऽयं रूपवान्'' इतिवत् ``सुख्यहम्'' ``क्रुद्धोऽहम्'' ``शान्तं मे मनः'' इति दृश्यत्वाच्चित्तं स्वभासं स्वप्रकाशं न भवति; किं तु स्वातिरिक्तद्रष्टृकं न क्षणिकं, ``सोऽहम्'' इति प्रत्यभिज्ञानादित्युक्तम् ॥ १९ ॥
किं च -
४.२०. एकसमये चोभयानवधारणं
४.२०. एक-समये च-उभय-अनवधारणम् ॥ 4.20 ॥
यदि चित्तं स्वपरावभासकं स्यात्तदा तयोश्चित्तार्थयोर्जन्यजनकभावेन चित्तक्षणेऽर्थस्य अर्थक्षणे चित्तस्य चासत्त्वादेकस्मिन्नेव क्षणे तयोरुभयोरवधारणमनुभवो न स्यात् । तस्मात्पुरुष एव चित्तार्थयोरवभासको न चित्तमित्यर्थः ॥ ४.२० ॥
ननु मा नाम भूच्चित्तं स्वप्रकाशं; चित्तान्तरेण प्रकाश्यतां; किं पुरुषेणेत्याशङ्क्याह -
४.२१. चित्तान्तरदृश्यत्वे बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च
४.२१. चित्तान्तर-दृश्यत्वे बुद्धि-बुद्धेः-(अति-प्रसङ्गः)स्मृति-सङ्करः-च ॥ 4.21 ॥
यदि नीलादिगोचरं चित्तं चित्तान्तरेण दृश्येत, तदा तदपि बुद्ध्यात्मकं चित्तमन्यया बुद्ध्या, साप्यन्ययेत्यतिप्रसङ्गः स्यात् । किं चानन्तचित्तानामनुभवे सत्यनन्तचित्तस्मृतीनां सङ्करः प्राप्नोति । अतश्चितिशक्तिभास्यं चित्तमिति सिद्धम् ॥ ४.२१ ॥
ननु कूटस्थनित्यायाश्चितिशक्तेश्चित्तेन क्रियापूर्वकसम्प्रयोगासम्भवात्कथं तत्तया भास्यमित्यत आह -
४.२२. चितेरप्रतिसङ्क्रमायास्तदाकारतापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥
४.२२. चितेः-अप्रतिसङ्क्रमायाः-तद्-(आकारता-आपत्तौ)(स्व-बुद्धि)-संवेदनम् ॥ 4.22 ॥
४.२२. चितेः-अप्रतिसङ्क्रमायाः-तद्-(आकार-आपत्तौ)(स्व-बुद्धि)-संवेदनम् ॥ 4.22 ॥
यथा परिणामित्वाद्बुद्धितत्त्वस्य क्रियया घटादौ सम्प्रयोगः समस्ति, न तथा चितिशक्तेर्बुद्धितत्त्वे प्रतिसङ्क्रमः सम्प्रयोगः अपरिणामित्वात् । अपि तु सवितुः सलिले प्रतिबिम्बवच्चितिशक्तेर्बुद्धौ प्रतिबिम्बे सति तस्या बुद्धेश्चिदाकारतापत्तौ सत्यां स्वभोग्यबुद्धिसंवेदनं भवति । चिच्छायाग्राहित्वसम्बन्धेन चिदुपरक्तं चित्तं चिद्भास्यमित्यनवद्यम् ॥ ४.२२ ॥
ननु तर्हि केषाञ्चिच्चित्तमेव चिदात्मेति भ्रमः कथमित्याशङ्क्य तेषां भ्रमबीजमाह -
४.२३. द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थं
४.२३. द्रष्टृ-दृश्य-उपरक्तं चित्तं (सर्व-अर्थम्)॥ 4.23 ॥
सर्वो द्रष्टृदृश्यरूपोऽर्थो विषयो यस्य तत्सर्वार्थम् । तत्र चित्सान्निध्याच्चिद्रूपतामिव प्राप्तं द्रष्ट्रुपरक्तं द्रष्टृविषयं भवति । इन्द्रियादिद्वारा दृश्योपरक्तं तदाकारं भवति । तथा च भोग्यशब्दाद्याकारं सुखदुःखादिपरिणामलक्षणभोगात्मकं चित्तं दृश्यमपि चित्प्रतिबिम्बाभेदादात्मेति सौगतानां भ्रमः । तत्रविवेकिना चित्तस्य भोग्यतया तस्मादन्यो भोक्ता स्वीकर्तव्य इति भावः ॥ ४.२३ ॥
अतश्चान्यो भोक्ता चित्तादस्तीत्याह -
४.२४. तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्
४.२४. तद्-असङ्ख्येय-वासनाभिः-चित्रम्-अपि परार्थं (पर-अर्थम्)(संहत्य-कारित्वात्)॥ 4.24 ॥
यद्यपि क्लेशकर्मविपाकवासनाभिरनन्ताभिश्चित्रं सुखाद्याश्रयतया भोक्तृकल्पं चित्तं, तथापि परस्य निरुपचरितचित्स्वभावस्यार्थौ भोगापवर्गौ साधयतीति परार्थं भोग्यमेव न भोक्ता । कस्मात् ? संहत्य देहेन्द्रियादिसहकारिभिर्मिलित्वा भोगादिकार्यकारित्वात् । यन्मिलित्वा कार्यकारि तत्परार्थं यथा गृहादि देवदत्तार्थम् । तस्माच्चित्तादन्यश्चिदात्मा भोक्तास्तीति सिद्धम् ॥ ४.२४ ॥
इत्थं प्रासङ्गिकं परिसमाप्य अधुना कैवल्यं निरूपयितुं तद्योग्यमधिकारिणं दर्शयति -
४.२५. विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः
४.२५. (विशेष-दर्शिन)(आत्म-भाव)-भावना-विनिवृत्तिः ॥ 4.25 ॥
पूर्वोक्तविवेकेन बुद्धेरन्यश्चिन्मात्रः पुरुषोऽहमिति विशेषदर्शिन आत्मभावे तत्त्वे भावना जिज्ञासा विनिवर्तते, ज्ञाते जिज्ञासायोगात् । यस्य पूर्वजन्मसुकृतपरिपाकेण तत्त्वजिज्ञासा जायते, सोऽधिकारीति भावः ॥ ४.२५ ॥
ननु तत्त्वजिज्ञासोर्विशेषदर्शनानन्तरं चित्तं कीदृशं भवतीत्यपेक्षायामाह -
४.२६. तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तं
४.२६. तदा (विवेक-निम्नम्)(कैवल्य-प्राग्भारम्)चित्तम् ॥ 4.26 ॥
पूर्वं बुद्ध्यादावात्मत्वभ्रमदशायां यच्चित्तं विषयनिम्नं संसारप्राग्भारमासीत्, तदिदानीं निवृत्तभ्रमस्य योगिनश्चित्तं विवेकनिम्नं द्रष्टृदृश्ययोर्विवेको निम्नमालम्बनभूमिर्यस्य तत्; विवेकनिष्ठमिति यावत् । अत एव कैवल्यं प्राग्भारोऽवधिर्यस्य तत्कैवल्यप्राग्भारं कैवल्यफलावसानं भवतीत्यर्थः ॥ ४.२६ ॥
यद्येवं तदास्य व्युत्थानप्रत्ययाः कुतो भवन्तीत्यत आह -
४.२७. तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः
४.२७. तत्-छिद्रेषु (प्रत्यय-अन्तराणि)संस्कारेभ्यः ॥ 4.27 ॥
विवेकख्यातिपरस्यानुक्षणं क्षीयमाणेभ्यो व्युत्थानसंस्कारेभ्यो विवेकख्यातिच्छिद्रेष्वभिव्यक्तेभ्यः प्रत्ययान्तराणि भवन्तीत्यर्थः ॥ ४.२७ ॥
ननु कोऽयमेतेषां संस्काराणां हानोपाय इत्यत्राह -
४.२८. हानमेषां क्लेशवदुक्तं
४.२८. हानम्-एषां (क्लेशवत्-उक्तम्)॥ 4.28 ॥
यथाविद्यादिक्लेशा विवेकख्यात्या दग्धाः पुनः संस्कारं न प्रसुवते, तथा व्युत्थानसंस्कारा अपि पुरुषख्यातिदग्धा अप्रसवधर्माणो भवन्तीत्यर्थः ॥ २८ ॥
अथ विवेकख्यातेरपि व्युत्थानरूपतया तन्निरोधोपायमुपदर्शयितुमाह -
४.२९. प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः
४.२९. प्रसङ्ख्याने-अपि-अकुसीदस्य सर्वथा विवेक-ख्यातेः-(धर्म-मेघः)समाधिः ॥ 4.29 ॥
विवेकख्यातिरेव विशोकरूपावान्तरफलोन्मुखी सती प्रसङ्ख्यानमित्युच्यते । तत्रापि अकुसीदस्य, कुत्सितेषु विषयेषु सीदतीति कुसीदो रागः, तद्रहितस्य विरक्तस्य, अत एव सर्वथा सर्वात्मना विवेकख्यातेः योगिनः अशुक्लकृष्णं धर्मं कैवल्यफलं मेहति सिञ्चतीति धर्ममेघाख्यः समाधिर्भवतीत्यर्थः ॥ २९ ॥
ततः किमित्यत आह -
४.३०. ततः क्लेशकर्मनिवृत्तिः
४.३०. ततः क्लेश-कर्म-निवृत्तिः ॥ 4.30 ॥
ततो धर्ममेघात्सवासनक्लेशतन्मूलकर्मणां निवृत्तिर्भवतीत्यर्थः ॥ ४.३० ॥
तदा किं भवतीत्यत्राह -
४.३१. तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पं
४.३१. तदा (सर्व-आवरण-मल-अपेतस्य)ज्ञानस्य-आनन्त्यात्-ज्ञेयम्-अल्पम् ॥ 4.31 ॥
आवृण्वन्ति चित्तमित्यावरणा रजस्तमोमयाः क्लेशकर्मरूपा मलाः । सर्वे च ते आवरणमलाः, तैर्धर्ममेघेणापेतस्य ज्ञानस्य विशुद्धबुद्ध्यालोकस्यानन्त्याज्ज्ञेयं सर्वं गगने खद्योतवदल्पमेव भवतीत्यर्थः ॥ ४.३१ ॥
ततः किमित्यत्राह -
४.३२. ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानां
४.३२. ततः कृतार्थानां (परिणाम-क्रम)-समाप्तिः गुणानाम् ॥ 4.32 ॥
ततो धर्ममेघफलीभूतपरवैराग्यात्मकानन्तज्ञानानन्तरं विवेकख्यातौ निरुद्धायां, कृतार्थानां कृतो निष्पादितोऽर्थो भोगापवर्गरूपः पुरुषार्थो यैस्ते तथोक्तास्तेषां सत्त्वादिगुणानां महदाद्यहङ्कारक्रमेण यः परिणामक्रमः तस्य समाप्तिर्भवतीत्यर्थः ॥ ४.३२ ॥
कोऽसौ क्रम इत्यपेक्षायामाह -
४.३३. क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः
४.३३. क्षण-प्रतियोगी परिणाम-अपरान्त-निर्ग्राह्यः क्रमः ॥ 4.33 ॥
क्षणप्रतियोगी क्रम इति स्वरूपनिर्देशः । क्षणौ प्रतियोगिनौ निरूपकौ यस्य स क्षणप्रतियोगी । एवं क्षणिकपरिणामक्रमो मन्तव्यः । तत्र प्रमाणं परिणामापरान्तनिर्ग्राह्य इति । मृदि पिण्डघटकपालचूर्णकणानां प्रत्यक्षपरिणामानां पूर्वान्तः पिण्डः अपरान्तः कण इति पूर्वोत्तरावधिग्रहणेन क्रमो निष्कृष्य ग्राह्यो भवतीत्यर्थः ॥ ४.३३ ॥
गुणानां परिणामक्रमसमाप्तौ किं फलिष्यतीत्यत्राह -
४.३४. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति
४.३४. (पुरुषार्थ-शून्यानाम्)गुणानां (प्रति-प्रसवः)कैवल्यं (स्वरूप-प्रतिष्ठा)वा (चिति-शक्तिः)-इति ॥ 4.34 ॥
कृतभोगापवर्गाणां कार्यकारणात्मनां गुणानां प्रधाने प्रतिप्रसवः प्रलयः कैवल्यं, चितिशक्तिः कूटस्थनित्या शुद्धासङ्गचित्स्वभावा शक्तिः स्वरूपप्रतिष्ठा पुनर्बुद्ध्यादिसम्बन्धविधुरा वा कैवल्यं भवतीत्यतिशोभनम् । इतिशब्दः शास्त्रपरिसमाप्तिद्योतनार्थः ॥ ४.३४ ॥
यत्कृपापोतमासाद्य समुत्तीर्णो भवार्णवात् ।
नमोऽस्तु तस्मै गुरवे स्वाविद्याध्वान्तभानवे ॥ १ ॥
क्वाहं क्व योगसरणिर्गहनार्था तथाप्यहम् ।
श्रीगुरोः कृपयाकार्षं वृत्तिं योगसुधाकरम् ॥ २ ॥
फणीन्द्रसूत्रग्रथिता मद्वाङ्मौक्तिकमालिका ।
समर्प्यते मया श्रीमद्गुरोश्चरणपङ्कजे ॥ ३ ॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्रसरस्वतीपादाब्जसेवापरायणेन श्रीसदाशिवेन्द्रसरस्वत्या विरचितायां श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे साङ्ख्यप्रवचनापरनामधेये योगसुधाकराभिधायां वृत्तौ (चतुर्थः)कैवल्यपादः समाप्तः ॥
ॐ तत् सत् ब्रह्मार्पणमस्तु ।
हरिः ॐ ।
Proofread by Sujal