पातञ्जलयोगसूत्राणि
॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥
॥ प्रथमोऽध्यायः ॥ ॥ समाधि-पादः ॥
अथ योगानुशासनम् ॥ १.१॥
योगश्चित्तवृत्तिनिरोधः ॥ १.२॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १.३॥
वृत्तिसारूप्यमितरत्र ॥ १.४॥
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ १.५॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १.७॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ १.८॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ १.९॥
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १.१०॥
अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ १.११॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १.१२॥
तत्र स्थितौ यत्नोऽभ्यासः ॥ १.१३॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १.१४॥
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १.१५॥
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १.१६॥
वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ १.१७॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्)
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १.१८॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १.१९॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ १.२०॥
तीव्रसंवेगानामासन्नः ॥ १.२१॥
मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ १.२२॥
ईश्वरप्रणिधानाद्वा ॥ १.२३॥
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ १.२४॥
तत्र निरतिशयं सर्वज्ञबीजम् ॥ १.२५॥ (सर्वज्ञत्वबीजम्)
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १.२६॥
तस्य वाचकः प्रणवः ॥ १.२७॥
तज्जपस्तदर्थभावनम् ॥ १.२८॥
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ १.२९॥
व्याधिस्त्यानसंशयप्रमादालस्याविरति-
भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि
चित्तविक्षेपास्तेऽन्तरायाः ॥ १.३०॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ १.३१॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ १.३२॥
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां
भावनातश्चित्तप्रसादनम् ॥ १.३३॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १.३४॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ १.३५॥
विशोका वा ज्योतिष्मती ॥ १.३६॥
वीतरागविषयं वा चित्तम् ॥ १.३७॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ १.३८॥
यथाभिमतध्यानाद्वा ॥ १.३९॥
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ १.४०॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु
तत्स्थतदञ्जनता समापत्तिः ॥ १.४१॥
तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ १.४२॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ १.४३॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ १.४४॥
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १.४५॥
ता एव सबीजः समाधिः ॥ १.४६॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ १.४७॥
ऋतम्भरा तत्र प्रज्ञा ॥ १.४८॥
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ १.४९॥
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ १.५०॥
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ १.५१॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः ॥
॥ द्वितीयोऽध्यायः ॥ ॥ साधन-पादः ॥
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ २.१॥
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २.२॥
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ २.३॥
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ २.४॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ २.५॥
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ २.६॥
सुखानुशयी रागः ॥ २.७॥
दुःखानुशयी द्वेषः ॥ २.८॥
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ २.९॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २.१०॥
ध्यानहेयास्तद्वृत्तयः ॥ २.११॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ २.१२॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २.१३॥
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ २.१४॥
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च
दुःखमेव सर्वं विवेकिनः ॥ २.१५॥
हेयं दुःखमनागतम् ॥ २.१६॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ २.१७॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं
भोगापवर्गार्थं दृश्यम् ॥ २.१८॥
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ २.१९॥
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २.२०॥
तदर्थ एव दृश्यस्यात्मा ॥ २.२१॥
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २.२२॥
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २.२३॥
तस्य हेतुरविद्या ॥ २.२४॥
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २.२५॥
विवेकख्यातिरविप्लवा हानोपायः ॥ २.२६॥
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २.२७॥
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २.२८॥
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २.२९॥
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ २.३०॥
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ २.३१॥
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ २.३२॥
वितर्कबाधने प्रतिपक्षभावनम् ॥ २.३३॥
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका
मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २.३४॥
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ २.३५॥
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २.३६॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ २.३७॥
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ २.३८॥
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ २.३९॥
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ २.४०॥
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ २.४१॥
सन्तोषादनुत्तमसुखलाभः ॥ २.४२॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ २.४३॥
स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ २.४४॥
समाधिसिद्धिरीश्वरप्रणिधानात् ॥ २.४५॥
स्थिरसुखम् आसनम् ॥ २.४६॥
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २.४७॥
ततो द्वन्द्वानभिघातः ॥ २.४८॥
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ २.४९॥
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः
परिदृष्टो दीर्घसूक्ष्मः ॥ २.५०॥
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ २.५१॥
ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥
धारणासु च योग्यता मनसः ॥ २.५३॥
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ २.५४॥
ततः परमा वश्यतेन्द्रियाणाम् ॥ २.५५॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः ॥
॥ तृतीयोऽध्यायः ॥ ॥ विभूति-पादः ॥
देशबन्धश्चित्तस्य धारणा ॥ ३.१॥
तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३.३॥
त्रयमेकत्र संयमः ॥ ३.४॥
तज्जयात्प्रज्ञालोकः ॥ ३.५॥
तस्य भूमिषु विनियोगः ॥ ३.६॥
त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ३.७॥
तदपि बहिरङ्गं निर्बीजस्य ॥ ३.८॥
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३.१३॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ ३.१४॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३.१५॥
परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३.१६॥
शब्दार्थप्रत्ययानामितरेतराध्यासात्
सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ ३.१७॥
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ ३.१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥ ३.१९॥
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ ३.२०॥
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे
चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ ३.२१॥
सोपक्रमं निरुपक्रमं च कर्म
तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ ३.२२॥
मैत्र्यादिषु बलानि ॥ ३.२३॥
बलेषु हस्तिबलादीनि ॥ ३.२४॥
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ ३.२५॥
भुवनज्ञानं सूर्ये संयमात् ॥ ३.२६॥
चन्द्रे ताराव्यूहज्ञानम् ॥ ३.२७॥
ध्रुवे तद्गतिज्ञानम् ॥ ३.२८॥
नाभिचक्रे कायव्यूहज्ञानम् ॥ ३.२९॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३.३०॥
कूर्मनाड्यां स्थैर्यम् ॥ ३.३१॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३.३२॥
प्रातिभाद्वा सर्वम् ॥ ३.३३॥
हृदये चित्तसंवित् ॥ ३.३४॥
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः
परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३.३५॥
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३.३६॥
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३.३७॥
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च
चित्तस्य परशरीरावेशः ॥ ३.३८॥
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३.३९॥
समानजयाज्ज्वलनम् ॥ ३.४०॥ (समानजयात्प्रज्वलनम्)
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ३.४१॥
कायाकाशयोः सम्बन्धसंयमाल्लघुतूल-
समापत्तेश्चाकाशगमनम् ॥ ३.४२॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ३.४३॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ३.४४॥
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ३.४५॥
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ३.४६॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ३.४७॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ३.४८॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं
सर्वज्ञातृत्वं च ॥ ३.४९॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ३.५०॥
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ३.५१॥
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ३.५२॥
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ३.५३॥
तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् ॥ ३.५४॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ३.५५॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः ॥
॥ चतुर्थोऽध्यायः ॥ ॥ कैवल्य-पादः ॥
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ ४.१॥
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ ४.२॥
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु
ततः क्षेत्रिकवत् ॥ ४.३॥
निर्माणचित्तान्यस्मितामात्रात् ॥ ४.४॥
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ४.५॥
तत्र ध्यानजमनाशयम् ॥ ४.६॥
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ४.७॥
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ४.८॥
जातिदेशकालव्यवहितानामप्यानन्तर्यं
स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ४.९॥
तासामनादित्वं चाशिषो नित्यत्वात् ॥ ४.१०॥
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ ४.११॥
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ ४.१२॥
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ ४.१३॥
परिणामैकत्वाद्वस्तुतत्त्वम् ॥ ४.१४॥
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ ४.१५॥
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ ४.१६॥
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ ४.१७॥
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ ४.१८॥
न तत्स्वाभासं दृश्यत्वात् ॥ ४.१९॥
एकसमये चोभयानवधारणम् ॥ ४.२०॥
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ ४.२१॥
चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ ४.२२॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ ४.२३॥
तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ ४.२४॥
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ ४.२५॥
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ ४.२६॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ ४.२७॥
हानमेषां क्लेशवदुक्तम् ॥ ४.२८॥
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा
विवेकख्यातेर्धर्ममेघः समाधिः ॥ ४.२९॥
ततः क्लेशकर्मनिवृत्तिः ॥ ४.३०॥
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ४.३१॥
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ४.३२॥
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ४.३३॥
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं
स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ४.३४॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः ॥
॥ इति श्री पातञ्जल-योग-सूत्राणि ॥