ॐकारस्य दार्शनिकं स्वरूपम्
भारतीयसंस्कृतिः समन्वयात्मिकेति दार्शनिकसिद्धान्तोऽपि तात्त्विकदृष्ट्याऽभेदभूमिमेवाश्रयते । गङ्गाप्रवाहपात इव विरोधं मधुमिश्रणमिवात्मसात्कुर्वन्तीयं संस्कृतिः अनेकत्वे एकत्वरूपेणानुस्यूताक्षुण्णेवाविरुद्धा विराजते ।
नूनं प्रत्यक्षगोचरमिदं विशालं बहुधा भिन्नं बाह्यं तत्त्वं तत्रात्रत्याचार्याणां नास्ति आक्षेपः, अनेकत्वनिषेधो वा; अपि तु बाह्यस्तरावलोकेनेनैवैतेषामन्तः ज्ञानान्वेषण एवातुलनीयः प्रयासस्तत्रैव परितोषः, वस्तुतत्त्वस्वरूपोपलब्धिश्वान्यथा शुक्तौ जातं रजतज्ञानमप्यर्थक्रियाकारितां न जह्यात् । तत्त्वानुसन्धानतत्परा इमे वस्तुतत्त्वान्तस्तले प्रवेशमवाप्य सुधामाधुरीमवगाह्यान्यानपि सुधासागरे उन्मज्जयन्ति ।
भारतीयसमन्वयवादो न विरोधभूमिः; अपि तु ब्रैडलेमहोदयाविष्कृतसिद्धान्ते ``Appearence and Reality'' सत्याभासयोरित्याख्ये यथोक्तवन्तः तथैवात्रापि पूर्वत एव अवधूतरहस्यतत्त्वं । परमतत्त्वे, आपातदृष्ट्या, परस्परं विरुद्धानि तत्त्वानि निश्चितैकात्मतायां विशृङ्खलतां नाधत्ते; अपि तु सामञ्जस्यपूर्णेऽस्मिन् शरीरे विरोधं विहाय अङ्गिनोऽक्षुण्णतां विधत्ते । समन्वयात्मकत्वमेव भारतीयदर्शनस्य गतिशीलतां सम्पादयति, विना गतिं समन्वयो न भवितुमर्हति ।
भारतीयचिन्तनधारायां धर्ममहत्त्वं सम्प्रदायप्रसूतान्धविश्वासो नास्ति । मनोविज्ञानखनिजोत्पन्नस्तर्ककर्कशविचारचातुरीनिकषपरिपूतो रत्नभूतोऽयं धर्मः । धर्मः सम्पूर्णस्य विश्वस्य प्रतिष्ठेति धर्म एव सर्वं प्रतिष्ठितम्, अत एव श्रेष्ठश्च अपौरुषेयः सनातन उदारश्चायं पुरुषभ्रमप्रमादादिकलङ्कशून्य आचारशिक्षार्थमार्यैरङ्गीकृतः । अत एव ``आचारः परमो धर्मः'' इत्यसकृदुद्धोषो विद्यते शास्त्रेषु । अनासक्तिभूमावावस्थित एष धर्मः सकलप्राणिष्वात्मदर्शनं विधाय स्वार्थदृष्ट्यैव महाकरुणार्द्रः सर्वोपकारकरणमेव स्वार्थं विदधाति ।
``सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि'' (श्रीमद्भगवद्गीता - ६.२९) इति गीतोक्तिरत्रैव साफल्यमश्नुते । अत्र परार्थोऽपि स्वार्थो भवति, स्वव्यतिरिक्तस्यैवाभावात् । धर्मोऽयं मानवस्य सामाजिकजीवनमुन्नतभूमौ निधायाशुभहीनस्वाभाविकीं प्रवृत्तिं दूरीकृत्योदारोदात्तविचारमाविष्कृत्य भारतीयमानवतां सम्पाद्यात्मानुग्रहाभावेऽपि भूतानुग्रहार्थं निवृत्तिभूमिकां प्रवृत्तिं प्रसूते । आत्मनः प्रतिकूलानि परेषां कृते नाचरणीयानीत्येव भारतीयनिधिः ।
प्रवृत्तिनिवृत्तिभेदाद् ज्ञानविमलधारा द्विधा विभक्तेव प्रतीयते; किन्तु लोकोपकारकरणाय सदाऽऽर्द्रचित्तस्य मनीषिणो निवृत्तिमार्ग उदासीनमार्गो वा नैव सम्भाव्यते, यतो लोकदुःखासहिष्णुत्वमेव तपसि प्रवर्त्तयति अत्रत्यान् साधकजनान् ज्ञानज्योतिःसम्पन्नान् । कथमसौ बुद्धः सन् लोकोपकारविरतो भवेत् ? यतो मूलस्योपक्रमस्योपसंहारे उच्छेदात् । यत औदासीन्यं भजमानास्ते तपःप्रवृत्तिं प्रति मूलाधारमेव परिजह्यात्, अतो भारतीयनिवृत्तिमार्ग उदासीनमार्गो वा व्यष्टिहितमविगणय्य समष्टिहितसाधनाया एवोपसंहृतः समस्तं विश्वमेकनीडमवलोकयन्तोऽखण्डचराचरं विश्वं वासुदेवमाकलय्य तद्धितकामनयैव निवृत्तिमार्ग उदासीनमार्गो वा, अन्यथा निवृत्तिमार्गाचार्याणामुदासीनमतप्रवर्तकानाञ्चाचारः सर्वथा सिद्धान्तसामञ्जस्यं परित्यजेत् । चराचरकल्याणाय तेषामशेषजीवनयापनं सर्वथा निवृत्तिमार्गस्य तथार्थत्वाभावे कथं तज्जीवनं साफल्यं भजेत ? विशिष्टभावभूमिमाश्रित्य देशस्य समाजस्य समवायस्य च हितकामनया समष्ट्यभ्युदयायैवैतेषां बाधाशून्या जीवनयात्रा प्रवहति । सञ्चरणस्य श्रेष्ठसाधनता व्यष्ट्यनासक्तौ सन्निहितास्तिष्ठन्ति ।
आर्यभावनादिवाहनं वैदिकसाहित्यमेव । आर्यैः सह पारसीकानां निवासैक्यादेवोभयोर्भावनायां ``ज्योतिषः'' आराधनस्य देवस्तवनपरम्परायाश्च साम्यं ।
विष्णुपुराणस्य तृतीय-चतुर्थाध्याययोः सगरनृपस्य कथोपलभ्यते । तन्निर्देशेन पह्लवादिप्राचीनपारसीकानां वेदस्य यज्ञस्य च साधनायामनधिकारः समजनि । आसीच्चादेशः श्मश्रुमुण्डनं तैः कर्तुं न शक्यत इति । अतो वैदिकभावनाया अन्तःप्रकृतेः सर्वथा परिवर्तनं तत्रापि न जातम् । अस्या भावनाया इतिहासानुधावने वैदिकसाहित्यमेव ध्रुवपदरूपेण वर्तत इत्यत्र नास्ति कापि सचेतसां विप्रतिपत्तिः ।
मन्त्रेषु वर्तमानरहस्यानामाविष्कार उपनिषदादिषु विद्यते । ज्ञानकर्मणोर्मध्ये भेदोपलब्धिः परवर्तिकालवर्तिनी । अत एव गीतायां ज्ञानयज्ञस्य कर्मयज्ञापेक्षया श्रेष्ठत्वं सर्वेषां कर्मणां ज्ञाने परिसमाप्तिश्च प्रकटिता । कर्मभिः स्वर्गप्राप्तिर्ज्ञानेन च मोक्षप्राप्तिरितीमं भेदमादाय स्वर्गोऽभिलाषोपनीतवस्तुप्राप्तिस्थानम् । अपवर्गस्य स्वरूपं तु तत्तद्दार्शनिकचिन्तितं शास्त्रे सुस्पष्टमेव ।
वेदार्थस्य विश्लेषणेनैतत्सुस्पष्टमाभाति यद् आत्मचेतनाया लोकोत्तरचिन्मयभूमेरुत्तीर्णमेव क्रियाकलापानां लक्ष्यमिति । अतश्चिन्मयभूमिरेव स्वर्गः । स्वर्गापरपर्यायस्वः इत्यनेन ज्योतिर्मय भूमेरनुभव एव प्रमाणम् । तत्र गमनमेव स्वर्गः । ब्राह्मणव्याख्यया ज्ञानयज्ञलभ्यमोक्षेण सह द्रव्ययज्ञलभ्य ``स्वः'' इत्यस्य भेदः काल्पनिक एव ।
क्रियाकलापनिर्वाहकत्वेन रूपेण यजुर्वेदस्य प्रसिद्धिस्तत्रैव चान्तिमाध्याये ईशोपनिषदः सन्निवेशोऽस्ति । इयमुपनिषद् संहितायामन्तर्भुक्ता । यजुर्वेदसंहिताशेषाध्याये उपनिषदः उपस्थापनमतिशयमहत्त्वपूर्णम्, तत्रोदारोदात्तदृष्ट्या समन्वयस्यातुलनीया चेष्टा वर्तते । कर्मवेदशेषे सार्वभौमज्ञानावतारप्रदीपोऽयं प्रज्वलितः सर्वेषां कर्मणां तत्त्वज्ञाने उपसंहारः किं न कृतः ? याज्ञवल्क्यः कृष्णयजुर्वेदधारां शुक्लयजुर्वेदधारायां प्रवाहितवान् । कृष्णस्य कर्मणोऽज्ञानरूपाया अविद्यायाश्च शुक्ले कर्मणि विद्यायां वाऽवतारणमेतस्य मुख्यमुद्देश्यम् । शुक्लयजुर्वेदप्रवर्तकयाज्ञवल्क्यस्योपनिषदि प्राधान्यमावहतोऽभेदेनादिज्ञानकर्मणोरैक्यं सुनिश्चितम् ।
वैदिकसाहित्याध्यात्मभावसाधनायां श्रद्धाया महत्त्वं वर्तते । कर्मणि श्रद्धायाः, आवेगस्य चानन्यसाधारणं महत्त्वम् । श्रद्धयैव सह मानवचित्तस्यापरापि वृत्तिः मननम्, यस्य चापरपर्याय ऊहस्तर्को वा । तर्कस्य दृष्टिः प्रत्यक्वृत्ता, यत्र च जिज्ञासान्तर्निहिता । जिज्ञासैव साधनम्, अस्याः साधनाया उपसंहार आत्मवादेऽपवर्गे वा । ``आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः'' (बृ० उ० २।४।५ ।) इति बृहदारण्यकोपनिषदः सारतमोऽयमुपदेशः भारतीयदर्शनस्य सारः निर्यासो वा । भारतीयजनमनसो जीवनप्रवाहो मुनीनां सर्वा आशाः, आकाङ्क्षाश्च अस्मिन्नेव पर्यवसिताः प्रियतमां मैत्रेयीमुपदिश्य याज्ञवल्क्यः पूर्वोक्तं निवृत्तिमार्गं सञ्जग्राह । एतमेवोपदेशमादाय भारतीयदर्शनशास्त्रस्यासङ्ख्या धारा वावह्यन्ते, आत्मसाक्षात्कारस्यापवर्गस्य कारणं श्रवणं मननं निदिध्यासनञ्चेति आत्मवादधारा मुनिधारा । देवत्वमात्मत्वञ्चोभयमप्यतीन्द्रियमेव । अतो देवदर्शनमात्मदर्शनं वा भवतु, अप्राकृतत्वमुभयत्र तुल्यमेव । देवत्वं भवतु आत्मत्वं वा मूले ज्ञाने प्रसारणस्य, व्यापकत्वस्य विराजोऽनुस्यूतिरनवच्छिन्ना प्रवहति । आत्मचेतना परमे चरमे सत्ये विश्रान्ति लभते कर्मभावनया देवत्वभावनया द्रुतचित्तहृदयस्यावेगेन बोधिग्राह्यवस्तुस्वरूपतादात्म्येनात्मस्वरूपस्यैवाप्तिरस्ति ।
एतत्तु सत्यम्, एक आवेशकल्पितो विप्रोऽपरः पौरुषदृप्तो नरः । एकत्र श्रद्धा प्राधान्येनापेक्षिताऽपरत्र तर्कः, बोधिर्वा । इमे मौलिकचित्तवृत्ती आश्रित्य साधनायाः परवर्तिकाले भेदः सञ्जातः, एका ऋषिधारा, अपरा च मुनिधारा । दर्शनं मननसाध्यम्, मननाच्च मुनिः ।
एतयोः साधनयोः सुस्पष्टो निर्देशः पातञ्जलयोगदर्शने सूत्राभ्यां वर्तते, उभयोः समन्वयश्च । तथा हि - ``समाधिवशादात्मदर्शनमीश्वरप्रणिधानाद्वा(१)'' ।(१. यो० सू० १.१.२३ ।) तत्रेश्वरस्वरूपनिरूपणानन्तरमुक्तम् - ``तस्य वाचकः प्रणवः (२)''। (२. तदेव - १.१.२७ ।)
अत्र व्याख्यायां ``प्रकर्षेण नूयते स्तूयतेऽनेनेति नौति स्तौति वा प्रणव ॐकारः । तयोश्च वाच्यवाचकभावलक्षणः सम्बन्धो नित्यः सम्बन्धेन प्रकाश्यते, न तु केनचित्प्रकाश्यते (३)''। (३. तदेव - १.१.२७ मोजवृत्तिः ।)
अदृष्टविग्रहो देव भावग्राह्यो मनोमयः ।
तस्योङ्कारः स्मृतो नाम तेनाहूतः प्रसीदति (४) ॥ (४. तदेव ।)
ॐ शब्दस्य अव्ययत्वं । अस्य निर्वचनमुणादिसूत्रेण जायते । रक्षणार्थको अव्धातोः ``अवतेष्टिलोपश्च'' (उ० सू० १३९) इत्यनेन सूत्रेण मन्प्रत्ययः । मन्प्रत्यस्य टेः ``अन्'' इत्यस्य लोपोऽपि भवति । यदि प्रकृतेष्टेर्लोपः स्यात्, तदा डित्करणेनैव ``टेः (५)'' (५. अष्टा० ६.४.१८३ ।) इत्यनेनैव टिलोपसिद्धेः, टिलोपविधानं व्यर्थं स्यात् । तस्मात् प्रत्यस्यैवोद्देश्यत्वं । ``ज्वरत्वरस्तिव्यविमवामुपधायाश्च (६)'' (६. तदेव - ६.४.२० ।) इत्यनेन वकारस्य ऊठि अकारवकारस्थानिकयोरूठोर्दीर्घे कृते ॐ मिति निष्पन्नम्, तयोर्दीर्घे कृते गुणे ओमिति ।
ॐइत्यस्य ``ओ३म्'' इत्येवं रूपेणापि लेखो दृश्यते । परं व्युत्पत्त्या सिद्धस्य ``ओम्'' इत्येव लेखः समीचीनः ``ओ३म्'' इति तु उच्चारणातुरूपलेख आग्रहवशादुन्नेयः ।
अमरकोषे टीकायाञ्च - ``ओङ्कारप्रणवौ समौ (७)'' (७.अ० को ० १६.८.) इत्यस्य व्याख्याने रामाश्रमीटीकायामुक्तम्- ``अवति । अवतेष्टिलोपश्च (उ०१.१४२)इति मन्प्रत्ययस्यैव टिलोपः । ``ज्वरत्वर०'' (अष्टा० ६.४.२०) इत्यूठौ । गुणः (६.३.८४), वषट्कारः (१.२.३५) इति लिङ्गात्समुदायादपि कारप्रत्ययः'' (वा ३.३.१०८)।
``प्रणूयते स्तूयते । नु स्तुतौ । ``ऋदोरप्'' (अष्टा० ३.३.५६)``उपसर्गात्०'' (अष्टा० ८। ४।१४) इति णत्वम्'' इति द्वे ॐ कारस्य'' ।
अमरकोषस्यैव तृतीयकाण्डे ``ऊम्'' इति शब्दस्य निर्वचनप्रसङ्गे ऊय्यते इति ऊं । ``ऊयी तन्तुसन्ताने'' इति मुक्प्रत्ययः (रामा० ३.४.१८)। अयमपि शब्दोऽव्यय एव, यद्यप्यर्थभेदः ।
``उमा'' इत्यपि शब्दो वर्तते । अस्य शब्दस्य व्याख्याने उक्तं - ``ॐ शिवं माति, मिमीते वा । मा माड् माने - ``आतोऽनुप०'' (अष्टा० ३.२.३) इति कः । ऊवते ऊयते वा, ऊङ् शब्दे विभाषा तिलमाषोमा (५.२.४) इति निपातनात्मक् इति । अत्र उमाशब्द निर्वचनेऽपि अव् धातोस्तस्य निष्पत्तिः सूचिता । अत ओमित्यनेन सह धातुकृतं साम्यं वर्तते ।
केनोपनिषदि उमायाश्चर्चा विद्यते । खण्डद्वयेन निर्गुणस्य निर्विशेषस्य ब्रह्मणः स्वरूपं प्रतिपाद्यापि तद्ब्रह्मतत्त्वं मन्दबुद्धिभिर्नाकलयितुं शक्यमिति तृतीयचतुर्थखण्डयोः सगुणं ब्रह्म प्रतिपादितम् । अविज्ञातं विजानतां विज्ञातमविजानतामिति निरुपाधिब्रह्मस्वरूपश्रवणान्मूढाश्चिन्तयेयुर्यद् यतो ब्रह्मणोऽविज्ञातत्वमतो बन्ध्यापुत्रादिवदसत्त्वमलीकत्वमेव स्यात् । अतो देवात् परं पूर्वेषामपि कालानवच्छेदाद् गुरुभूतं ब्रह्माख्यायिकया प्रतिपादयामास। ब्रह्मज्ञानादेव कस्यापि देवस्य श्रेष्ठत्वं जायते । अतो ब्रह्मविद्यास्तुत्यर्थेयमाख्यायिका ।
अस्यामाख्यायिकायां देवेभ्योऽर्थाय स्वमाहात्म्यनिर्मितेनात्यद्भुतेन विस्मापनीयेन रूपेण देवानामिन्द्रियगोचरेण प्रादुर्वभूव । प्रादुर्भूतं ब्रह्म नैव विज्ञातवन्तो देवा किमिदं पूज्यं महद्भूतमिति । पूजार्थकाद् यक्षतेर्धातोर्निष्पन्नत्वाद् यक्षं पूज्यमित्यर्थः ।
यथाग्निस्तृणमपि दग्धुमसमर्थः सन्निवृत्तो बभूव, यक्षस्वरूपज्ञाने स्वस्य विफलतां च देवेभ्यो निवेदयामास, तथैव वायुरपि सर्वस्यादाने नितरामभिमानयुक्तोऽपि तृणस्याप्यादाने कृत्स्नमपि स्वशक्तिं विफलीभूतमालोक्य पराजयमङ्गीकृत्य देवेभ्यः प्राह - नैतद् यक्षं विज्ञातुं प्रभवामीति ।
यक्षस्वरूपं ज्ञातुमसमर्थावग्निवायू निवृत्तौ । देवाः सर्वे सम्भूय देवराजमिन्द्रमुपेत्योचुः - भवान् खलु देवानां श्रेष्ठो बलिष्ठश्च । तद् गम्यतां यक्षस्वरूपं च विज्ञायतामिति । जिज्ञासुरिन्द्रो यक्षमुपगतः, यक्षं च तस्मात् समीपवर्तिन इन्द्रात्तिरोभूतम् । देवश्रेष्ठत्वेन नितरामभिमानवत इन्द्रस्याभिमानो निराकर्त्तव्य इति यद् यक्षमग्निना वायुना संवादं कुर्वदपि नेन्द्रं किमपि बभाषे । एवमभिमानशातनेऽपि नासाविन्दुस्तत्स्थानं तत्याज । तस्मिन्नेवान्तरिक्षे स्थितो ध्यायन्नासीत् - किमिदं यक्षमिति ? एवमिन्द्रस्य यक्षे भक्तिं ज्ञात्वा विद्यैव स्त्रीस्वरूपमाश्रित्य प्रादुर्भूता । इन्द्रस्तत्रोमास्वरूपिणीं विद्यां बहुशोभमानामालोकितवान् । स्वयंप्रकाशस्य ब्रह्मण उज्ज्वलतमत्वात् ``तस्य भासा सर्वमिदं विभाति (१)'' (१. क० उ० ५.१५ ।)इति च श्रुतेस्तस्या उमायाः शोभनतमत्वं सुष्ठु युज्यते । इयञ्चोमा हैमवतीव हेमालङ्कारभूषिता काचन यथा नितरां शोभामादधाना दृश्यते, तथैवोमापि ।
अद्वैतवादे भक्तिर्न सिद्धान्तविरुद्धा; किन्तु भवत्या मोक्ष इति नाङ्गीकृतं । वैष्णवैर्भक्त्या मोक्ष इति सिद्धान्तोऽङ्गीक्रियते । उपासनादिना चित्तशुद्धौ सत्यां क्षपिते कल्मषे ज्ञाने च लब्धे ज्ञानादेव मोक्ष इत्युच्यते । सर्वज्ञेन रुद्रैण सह नित्यं विद्यमानत्वाद् विद्यासामर्थ्यमुपजगामेन्द्रः ।
उमया सह रुद्रस्य सर्वज्ञस्य विवाहादिकं सर्वं मायिकमेवावगन्तव्यम् । शक्तिस्वरूपाया उमायाः शक्तिमत ईश्वरस्य च पारमार्थिको भेदो नास्ति । एकस्यैव ज्योतिष्मत्तमस्य ब्रह्मणश्चितिरूपा शक्तिः । यथा ब्रह्म चैतन्यस्वरूपम्, तथा तच्छक्तिरपि चितिरूपैवात एव भास्कररायः - ``एकमेव ब्रह्मानादिसिद्धया मायया धर्मी धर्मश्चेति सृष्ट्यारम्भे प्राथमिकमीक्षणं ``तदैक्षत बहु स्यां प्रजायेय'' इति ``सोऽकामयत'', तत्तपोऽकुरुत'' इत्यादित्रिविधश्रुतिसिद्धज्ञानेच्छाक्रियासमष्ट्यात्मकं स एव ब्रह्मधर्मः । स च धर्म्यभिन्न एव, स्वाभाविकी ज्ञानबलक्रिया चेति श्रुतेः । तस्यैव धर्मत्वाच्छक्तिरिति संज्ञा । तद्गतो धर्मोऽपि न जडो न जीवः; अपि तु चितिः स्वतन्त्रा विश्वाससिद्धिहेतुरित्यादिशक्तिसूत्रोक्तरूपं ब्रह्मैवेत्युपनिषत्सिद्धान्त(२) इति ।(२. गुप्तवतीटीका - पृ० ९ ।)
शङ्करानन्देनाप्युक्तम्-अविधा हि कुरूपा पिशाची, तन्नाशकत्वाद् विद्यायाः कान्तिमत्त्वम् । संसारोच्छेदिकाया ब्रह्मविद्यायाश्चाधिककान्तियुक्तत्वं सुतरां सिद्ध्यति । न केवलं शङ्करानन्दस्य प्रतिभाप्रबुद्धमेतद्व्याख्यानम्; अपि तु शङ्कराचार्येण समर्थितमेतद्व्याख्यानम् । वाक्यभाष्ये च कुरूपस्यापि विद्यावतो शोभायुक्तत्वमुक्तम् । परां विद्यां ब्रह्मविद्यां वेत्ति या तस्या उमाया बहुशोभनत्वं भवत्येव ।
उमाया ॐ कारचितिशक्तेरखण्डानन्तानन्दचैतन्यात्मकत्वं दुर्गायाः स्पष्टमुद्घोषितं दुर्गायाम् -
त्वं वैष्णवीशक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया ।
अम्मोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥
विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत्का ते स्तुतिः स्तव्यपरा परोक्तिः ॥ (दुर्गासप्तशती - ११.५-६ ।)
अस्मिन् पद्ये वैष्णवी इत्यनेन व्यापकत्वं सूचितम् । महाभारतेऽपि -
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् ।
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती ।
सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ (महाभा० भी० प० २३.११-१२ ।)
अस्मिन् प्रसङ्गे दिव्यचेतनायाः क्रमिकोन्मेष उपलभ्यते । अग्नेः, वायोः, इन्द्रस्य, ब्रह्मशक्तेः, उमायाः, ब्रह्मणः, ओङ्कारस्याखण्डज्योतिरूपेण उपलब्धिरस्ति ।
उमाशब्दस्य तैत्तिरीयारण्यके ``खिलः उमापतये'' (तै० आ० १ ।२२ ।) प्रयोग उपलभ्यते । आधुनिका अनार्षभावनोद्भावितचेतस उमोमापती पार्वत्यदेवत इति । अत एव भूमध्यसागरतीरस्थप्राचीन - ``Mother Goddess'' इत्याख्यया उमया सादृश्यमपि प्रतिपादयन्ति । पूर्वोक्तस्य विश्लेषणप्रसङ्गे शङ्कराचार्यः कथयति - ``स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम्'' । अत्र हैमवतीवोमापि स्त्रीशब्दस्य विशेषणमेवेति स्वीकार एव साध्वन्वयः सङ्गच्छते, अर्थाद् इन्द्रोऽस्मिन् महाशून्ये चरन् एकां स्त्रीमूर्तिमुपजगाम, या बहुशोभमाना उमा हैमवती वा ।
ऋग्वेदे ``ऊम'' अव् प्रत्ययघटितो विशेषणशब्दो बहुधा प्रयुक्तः । (ऋ० सं०-४.१९.१, ५.५१.१, ७.३९.४, १०.६.७, ३१.३.३२, ५.७७.८, १२०.१.३ ।) एकत्र उमासः इत्येष शब्दः प्रयुक्तः (ऋ० सं० १ . ३ . ६)। ओमन् शब्दस्य बहुधा प्रयोगो विद्यते । आकाशवाची व्योमन् ``वि + ओमन्'' शब्दोऽपि अनवच्छिन्नवैपुल्यस्य, प्रसादस्य, परिरक्षणस्य च बोधकः । उमा शब्दोऽपि एतच्छब्दसगोत्र इति पुन्देवताया विशेषणम् । ``ॐ'' एवं स्त्रीदेवताया विशेषणं ``उमा'' इति । ह्रस्वदीर्घयोर्व्यत्ययेऽपि मात्रायाः साम्यं साधु सङ्गच्छते । तथा चोमाशब्दार्थः पालयित्री आनन्दयुक्ता वेति । अतः ``उमा'' परमव्योम्नः शक्तिरित्यत्र नास्ति विप्रतिपत्तिः । यक्षशब्दस्य रहस्ये अर्थे प्राचीनप्रसिद्धिर्वर्तते । ``न यासु चित्रं सदृशे न यक्षम्'' केनोपनिषदि प्रयुक्तो यक्षशब्दः रहस्यार्थकस्तथा ब्रह्म रहस्यमिति आख्यायिकायां लभ्योऽर्थः । एतेनाभिव्यज्यमानोऽर्थोऽत्र शक्तिमत्तया तद्रहस्यं न लभ्यम्; अपि तु प्रसादलभ्यं तत् ।
दुर्गासप्तशत्याख्यायिकानुधावनेऽपि शक्तिमत्तानां विनाशः कृपाकाङ्क्षिणामाराधनतत्पराणां तत्प्रसादलभ्यं तद्रहस्यं सुरथसमाध्योः सुलभं सञ्जातम् । ``यमेवैष वृणुते तेन लभ्यः'' इति शङ्कराचार्यकृता हैमवतीशब्दस्य द्विविधा व्याख्या समीचीनैव । हिमवतः पुत्री, हेमालङ्कारभूषिता च । यत ऐन्द्री चेतनाया आविर्भूता महाकाशे मूर्तिः हिरण्मयी, अथवा सा चेतनाया शुभ्रतुङ्गतामाविर्भूता । एषोऽर्थो न कपोलकल्पितः अपि तु ऋग्वेदसमर्थितः । वेदे विष्णुः ``गिरिष्ठाः ''(१.१५४.२)``वा गिरिक्षित् '' (१। १५४.३),``इन्द्रोऽपि एष एव ``(१०.१८०.२), ``सोमोऽपि ''(३.४८.२)।
तैत्तिरीयसंहितायां रुद्रार्थे गिरीशशब्दस्य प्रयोगः ``गिरीशन्तु'' (४.५. १. १), ``गिरीश'' (४.५.१.२), ``नमो गिरीशाय शिपिविष्टाय च ''(४.५.५.१)।
अत्रेदं ध्येयम्-ऋग्वेदे शिपिविष्टो विष्णुः (ऋ० ७.९९.७), वाजसनेयसंहितायां गिरीशय (वा० सं० १६.२९), हिमाचलस्य तुषारशृङ्गस्य महिमा रुद्रस्य शिवरूपस्यात एवासौ गिरीशः । एतन्महत्त्वं हि ऋक्संहिताया हिरण्यगर्भसूक्तेऽपि विद्यते- ``यस्येमे हिमवन्तो महित्वा'' (१०.१२१.४)। एतद्धिमवत एव हैमवती। तैत्तिरीयसंहितायां सा रुद्रस्य दुहिता अम्बिकानाम्नी । तद्यथा - ``एष ते रुद्रभागः सह स्वस्तम्बिकया तं जुषस्व'' (तै० सं० १.८.६.१) । अतः केनोपनिषदि उपलब्धा मूर्तिराचार्यशङ्करदृष्ट्या ब्रह्मविद्यारूपिणी, या ऋक्संहितायां ``वाक्'' । सा च न सुलभदर्शना ``जायेव पत्य उशती सुवासा'' (ऋ० सं० १०.७१.४)ब्रह्म वाक् च युगनद्धमिथुनभूते (ऋ० सं० १०.११४.८)। पुराणादौ चैतस्यैव रहस्यस्य परिपल्लवनम्।
एतावता प्रबन्धे ``उँम्'' इत्यनेन व्योम्न ब्रह्मण आधिदैविकोऽभेदः सम्पन्नः, इदानीं व्योम्नो विश्लेषणेनोम् इत्यस्याभिप्रायोऽभिव्यक्ततमो भविता ।
बृहदारण्यकोपनिषदि अष्टमब्राह्मणे गार्ग्यः प्रश्नौ विद्येते याज्ञवल्क्यं प्रति । तौ च प्रश्नावावेशसम्पन्नौ । तयोक्तं यद् यदि अनयोः प्रश्नयोरुत्तरं विधास्यते, तदा ब्रह्मविचारे त्वं विजयीत्यत्र नास्ति काचिद्विप्रतिपत्तिरिति । ``यदुपरि दिवः = अण्डकपालात्, यच्चाधोऽण्डकपालात्, यच्चाण्डकपालयोः द्यावापृथिव्योर्मध्य यद्भूत वर्तमानं भविष्यच्च, यत्सर्वमेतदाचक्षते, तत्सर्वं द्वैतजात कस्मिन्नेको भवति ।''
याज्ञवल्क्येनैतस्य समाधानप्रसङ्गे उक्तम् - यदेतद्व्याकृत सूत्रात्मकं जगद् अव्याकृते आकाशे उत्पन्नं स्थितं लीनं च । अनन्तरं सोवाचाकाशः कस्मिन्नोतश्च प्रोतश्च । आकाशमेव परमव्योम कालत्रयातीतत्वाद् दुर्वाच्यम् । याज्ञवल्क्येनोक्तमक्षरं यन्न क्षीयते न क्षरतीति वा । अस्याक्षरस्य स्वरूपमभिदधत् कथयति - ``अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन (१)'' । (१. छा० उ० १.८.८ ।) एतावतैकमेवाद्वितीयं तदक्षरमीमिति । यतः ``ओमित्येकाक्षरं ब्रह्मोपासीत (२)'' इति श्रुतेः ।(२ छा० उ० १.१.१ ।)
अस्यामेवोपनिषदि पञ्चमाध्याये -
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ( बृ० उ० ५.१.१ ।)
इत्यनेन वाक्येन खिलकाण्डमारभ्यते । सारतः सङ्क्षिप्तं पूर्वत्रानुक्तं परिशिष्टं खिलं भवति । ऋग्वेदे श्रीसूक्तं खिलान्तर्गतम् । यजुर्वेदे शिवसङ्कल्पः खिलान्तर्गतः । अत्राप्युपसंहाररूपेणानुक्तः सारांशः संगृहीतः ।
एतस्य व्याख्याने शङ्कराचार्योऽभिधत्ते - ``सर्वोपासनशेषत्वेनोङ्कारो दमं दानं दयामित्येतानि च विधित्सितानि । पूर्णं न कुतश्चिद्व्यावृत्तमर्थाद् व्योम एव ``ॐ'' सर्वव्यापित्वेन सिद्ध्यति। आकाशवद्व्यापि निरुपाधिकमेव ``ॐ'' । इदं पूर्णमिति ब्रह्म वा इदमग्र आसीदित्यस्यार्थः । उपसंहार आचार्येणोक्तं ``यः सर्वोपनिषदर्थो ब्रह्म, स एषोऽनेन मन्त्रेणानूद्यते .॥ ओङ्कारदमदानदयाख्यानि .॥ सर्वोपासनाङ्गभूतानि ''इति ।
भर्तृप्रपञ्चसम्मतस्य वस्तुतो द्वैताद्वैतरूपत्वात्मस्वरूपस्य आत्मनः प्रतिपादनमपि अनयैव श्रुत्योपलभ्यते । किञ्च द्वैताद्वैतात्मककार्यकारणात्मकप्रतिपादनमपि अनयैव ॐ कारप्रतिपादिकया श्रुत्योपलभ्यते । तथा हि-एकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते । एवञ्च द्वैताद्वैतात्मकमेव ब्रह्म यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव, यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेनतरङ्गबुद्बुदादयः समुद्रात्मभूता एव आविर्भावतिरोभावधर्मिणः परमार्थसत्या एव, एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादि-स्थानीयम्, समुद्रस्थानीयं परं ब्रह्म । एतस्य च खण्डनमाचार्येण सम्यगेव कृतम् ।
शाङ्करभाष्ये अङ्गारस्वरूपं प्रतिपादयता उक्तं यद् ब्रह्मोपासनसाधनत्वार्थमोंशब्दः प्रयुक्तः । ओमिति शंसत्योमित्युद्गायति इत्येवमादौ स्वाध्यायारम्भापवर्गयोश्च ओङ्कारप्रयोगो विनियोगादवगम्यते, न च तदर्थान्तरमिहागम्यते । तस्माद् ध्यानसाधनत्वेनैवेहोङ्कारशब्दस्योपदेशः । यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकाः; श्रुतिप्रामाण्याद् ब्रह्मणो नेदिष्ठमभिधानमोङ्कारः । प्रतीकत्वेनाभिधानत्वेन च ब्रह्मप्रतिपत्ताविदं परं साधनम् । विष्ण्वादिप्रतिमाऽभेदेन प्रतीकत्वेन ऊङ्कारो ब्रह्मेति प्रतिपत्तव्यः, ``सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः'' (प्र० उ० ५.२ ।) इत्यादि वाक्येन प्रतीकत्वेन ब्रह्म प्रतीयते ।
वाचकत्वेनापि प्रतीयते ॐङ्कारो यथा- - वेदोऽयमोङ्कारो वेद विजानात्यनेन यद्वेदितव्यम् । तस्माद्वेद ऊङ्कारो वाचकोऽभिधानम् । तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमभिधीयमानं वेद, साधको विजानात्युपलभ्यते, तस्माद् ब्राह्मणानामभिधानत्वेन सःधनत्वमभिप्रेतमोङ्कारस्य ।
ऋग्यजुः सामादिभेदभिन्न एष ऊङ्कारः । तद्यथा - शङ्कुना सर्वाणि पर्णानि इतश्चायं वेद ऊङ्कारो यद्वेदितव्यं तत्सर्वं वेदितव्यमोङ्कारेणैव वेदैनेन, अतोऽयमोङ्कारो वेदः । प्रयुज्यमाने हि ओङ्कारे सर्वो वेदः प्रयुक्तो भवति ।
अस्य वामीयसूक्तस्याष्टाविंशत्तमे मन्त्रे देहात्मनो जीवात्मनः स्वरूपनिरूपणप्रसङ्गे उभयोर्मध्ये जीवात्मनो यत्पारमार्थिकं रूपम्, तदेवास्मिन् मन्त्रे प्रकाशितम् --
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधिविश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ (ऋ० सं० १.१६४.३९ ।)
अस्मिन् मन्त्रे ऋक्शब्देन ऋक्प्रधानसाङ्गापरविद्यात्मकचतुर्वेदानां निर्देशो विद्यते । ``द्वे विद्ये वेदितव्ये परा चैवापरा च (२)'' (२. मु० उ० १ . ४।) मुण्डके एतदुपक्रमं कृत्वा अनन्तरमुक्तम् - ``तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदः (३)'' (३. तदेव - १ .५ ।) ऋचोऽक्षरे इत्यस्य पदस्यार्थवेदसम्बन्धी अक्षरः । अक्षरशब्दस्यार्थः क्षरणरहितः, अनश्वरः, नित्यः, सर्वव्यापि ब्रह्म । अक्षरशब्दश्च ब्रह्मवाचकः, तथोक्तं - ``एतद्वै तदक्षरं गार्गि, ब्राह्मणा अभिवदन्ति (४)'' (४. बृ० उ० ३.८.८ ।) इत्यपि उपनिषदि प्रसिद्धं ऋचोऽक्षरस्य च प्रतिपाद्यप्रतिपादकभावसम्बन्धः । ऋक्प्रतिपादकभूताक्षरञ्च प्रतिपाद्यभूतम् । एतदेवोम्, तच्च समस्तवेदप्रतिपाद्यम् ।
वेदभागेन यज्ञादेः प्रतिपादनेऽपि तदनुष्ठानेन चित्तशुद्धिसम्पादनक्रमेण वेदप्रतिपादितयागादेरपि ब्रह्मवेदनसाधनता विद्यते । वेदस्य इतरभागोऽपि ब्रह्मविषयक एव । अत एव बृहदारण्यकोपनिषदि ``तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेत्यनेन प्रतिपादितम् । यथाऽस्माभिः पूर्वं निगदितं यद् व्योमन् एव ओमिति, तस्यैवाक्षरोद्गीथस्य परममिति विशेषणं परमे व्योमन् (५)''। (५. तदेव ।) उत्कृष्टार्थकपरमेति विशेषणेनाकाशसदृशस्य निर्लेपत्वनीरूपत्व - व्याप्तित्वादिसादृश्यप्रयुक्तं ब्रह्म व्योमन्शब्देनोच्यते लौकिकाकाशस्यापरव्योम्ना निर्देशः परस्य ब्रह्मणः परमव्योमनाम्ना निर्दिश्यते । लौकिकाकाशनाम्ना ब्रह्मवैलक्षण्यदर्शनार्थं परमशब्दस्य व्योमशब्दविशेषणरूपेण निर्देशः । अथ वा व्योमशब्दार्थो विशेषरूपेण सकलरक्षकः । रक्षणार्थङ्काव्धातुना व्योमशब्दस्य ॐ शब्दस्य निष्पत्तिर्भवति । यथा ब्रह्म सर्वाधिष्ठानम्, तथैवाधिष्ठानरूपेण ब्रह्म सर्वस्य रक्षकम् । अस्मिन्नेवोङ्कारात्मके तत्त्वे समस्तदृश्यप्रपञ्चमध्यस्तम् ।
अत्रान्यदपि विशेषितम् - यस्मिन्नोङ्कारात्मके ब्रह्मणि देवा अधिविश्वे निषेदुः । अत्रैव सर्वे देवा आश्रिताः । अक्षरात्मकोङ्कारज्ञानं विना वेदस्य निष्प्रयोजनत्वं को नाम निवारयिष्यति ? अक्षरात्मकब्रह्मज्ञानं विना किमपि न भवितुमर्हति, ब्रह्मविदेव स्वरूपेऽवस्थानं प्राप्नोति सर्वतादात्म्यस्त्ररूपोङ्कारोपासनयैवाक्षरभावता प्राप्यते । शब्दब्रह्मवादस्यैतदेव तात्पर्यम् - ``ऋचो अक्षरे परमे व्योमन्'' । अतो व्योमात्मकोङ्कारत्वं सर्वथा शास्त्रप्रसिद्धं । नादात्मिका परात्मिका मूलाधारस्था वागेवोङ्काररूपा । अत एव गीतायामुक्तम्- - `` ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः (१) '' इति । (१. श्रीमद्भगवद्गीता - १७.२३ ।) एतेन स्वतःसिद्धं परं ब्रह्मैव तच्छब्देनोच्यते ।
प्रदर्शितेयमृग् व्याकरणदर्शनसिद्धान्तसिद्धस्य शब्दब्रह्मण आधारभूतेति समासेनोच्यते। निरुक्तेऽस्य मन्त्रस्य व्याख्याने त्रिविधोऽर्थ उक्तः, तथा हि-प्रथमं सायणसम्मतार्थं विलिख्योङ्कारस्वरूपं प्रदर्श्यानन्तरं यास्कव्याख्यानत्रयं विलिखामि ।
सायणाचार्येणोक्तमस्मिन् मन्त्रे जीवात्मनः पारमार्थिकं स्वरूपमुल्लिखितम् । यतो मुण्डकोपनिषदि शिक्षाकल्पादिसहितस्य वेदचतुष्टयस्यापरविद्याया निर्देशो विद्यते (२) । (२. मु० उ० १.४-५ ।) चतुर्वेदसम्बद्धात्मकाक्षरात्मके परमे व्योमनि द्योतनात्मका देवाः प्रतिष्ठिताः क्षरणरहितोऽविनश्वरं तत्त्वमक्षरम् । एतदर्थं नित्यं सर्वव्यापि एवाक्षरशब्दार्थः । अक्षरशब्दस्य ब्रह्मवाचकत्वम् । ``एतद् वै तदक्षरं गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (३)'' (३. बृ० उ० ३.७.८-९ ।) इत्यादिबृहदारण्यके प्रसिद्धिं लभते । एवमेव ``अथ परा यया तदक्षरमधिगम्यते (४)'' । (४.मु० उ० १.५ ।) एतन्मुण्डकवाक्येऽपि अक्षरशब्दस्य ब्रह्मवाचकत्वं सिद्धमेव । अग्रे ``येनाक्षरं पुरुषं वेदसत्यम् (५)'' । (५. तदेव - १.२.१३ ।) अतोऽत्र अक्षरशब्दो ब्रह्मवाचकः, तच्च ब्रह्म सर्ववेदप्रतिपाद्यम् । एतस्यैव ब्रह्मण ऋचोऽक्षरे इति मन्त्रभागेन प्रतिपादनम् अक्षरपदाभिधेयं ब्रह्म ``परमं व्योम'' व्योमशब्दस्य भूताकाशोऽर्थः, ``परमव्योम'' शब्दस्य परमाकाशो ब्रह्म वाऽर्थः । आकाशस्य यथा निर्लेपत्वम्, रूपरहितत्वं सर्वव्यापित्वं वाऽर्थः, ब्रह्मणोऽपि तथैव निर्लेपत्वं नीरूपत्वं सर्वव्यापित्वञ्च । अतः ``परमव्योम'' इत्यस्य शब्दस्य ब्रह्मणो निर्देशे न काप्यापत्तिः, तदेव ``ओम्'' । ``आकाशस्तु तल्लिङ्गात् (६)'' (६. वे० सू० १.१.२२ ।) एतत्सूत्रभाष्येऽपि शङ्कराचार्येण
एतस्या एव ऋचो घटकस्य मन्त्रस्य उद्धारः कृतः । एवम् आकाशः परमव्योम, ``ख'' इत्यादयः शब्दा ब्रह्मणो वाचकाः, ब्रह्मणात्मकः परमे व्योमनि सर्वे द्योतनरूपा देवा आश्रिता अवतिष्ठन्ते ।
``ऋचो अधि निषेदुः'' अत्र ``ऋक्'' इति शब्देन समस्तवेदस्यैवावगतिरिति । सर्वे च वेदा ब्रह्मणि पर्यवसिता इति ``सर्वे वेदा यत् पदमामनन्ति (७)'' (७. क० उ० २.१५ ।) अनेन वाक्यैनैतदेव सिद्धम्, येन सर्वे देवाः स्वरूपं लभन्ते, सर्वे वेदा यस्य प्रतिपादनं कुर्वन्ति, तद् यदि मानवा न जानन्ति तदा ऋङ्मन्त्रेण तस्य को लाभः ? अर्थाद् ऋगादिशब्दजालं तस्य कृते व्यर्थमेव । ब्रह्मवेदसाधनं वेदो वेदवेद्यं च ब्रह्म । सर्ववेदवेद्यस्य ब्रह्मणो ज्ञानं विना वेदविहितयागादिकर्मणोऽनुष्ठानं वृथैव, एवमेव ऋङ्मन्त्रसमूहस्य तादृशस्य पुरुषस्य कृते व्यर्थमेव ।
``ये इत्'', ``ये एव'' ये एतदक्षरपदवाच्यं ब्रह्म जानन्ति त एव ``समासते'' सम्यक् तिष्ठन्ति, अर्थात् स्वरूपे तिष्ठन्ति । एतादृशस्य पुरुषस्य संसारे पुनरावृत्तिर्न भवति । अथ वा ``ये विदुरित्'' ये ब्रह्मस्वरूपं जानन्ति, ब्रह्म ज्ञात्वा तत्रैव ``समासते'' समस्तसत्रस्य ``सं=युगपत्'' अनुष्ठानं कुर्वन्ति, अर्थाद् ब्रह्मवित् कर्मणोऽनुष्ठानं विनैव सकलकर्मानुष्ठानफलं प्राप्नुवन्ति । ब्रह्मज्ञानेनैव समस्तफलं प्राप्य कृतकृत्यः पूर्णतृप्तो भवति । कर्मफललाभार्थं ब्रह्मज्ञपुरुषस्य कृते कर्मणोऽनुष्ठानस्यावश्यकता न भवति ।
यास्केन च मन्त्रस्य त्रिविधा व्याख्या कृता । प्रथमा व्याख्या शाकपूणिसम्मता, द्वितीया व्याख्या शाकपूणिपुत्रस्य तृतीया व्याख्या चात्मवादिसम्मता । तत्र शाकपूणिमते मन्त्रप्रतिपाद्य ऊङ्कारः, तत्पुत्रमते आदित्यमण्डलान्तर्वर्त्ती हिरण्मयः पुरुषः परमेश्वरः । तृतीयमते च आत्मतत्त्वमेव प्रतिपाद्यम् ।
शाकपूणिमते मन्त्रान्तर्गतस्याक्षरशब्दस्यार्थः ऊङ्कारः । ऊङ्कारं विना ऋङ्मन्त्रार्थो व्यर्थः, कस्यापि कर्मणः साधनं तेन न भवति । ऊङ्कार एव परमं व्योम । ऊङ्कारे विविधशब्दसमूहाः पर्यवसिता इति परमं व्योम । भूताकाशश्रेष्ठत्वादोङ्कारः परमं व्योम । ऊङ्कारस्य अकारोकारमकारात्मकस्य व्यक्तमात्रात्रयस्योपशान्तत्वे सर्वशब्दानुस्यूतशब्दसामान्यं विद्यते, तदेव परमं व्योम, तदेव च क्षरणवर्जितत्वाद् अक्षरम् । विशेषावस्थायां क्षरत्वेऽपि सर्वविशेषानुस्यूतशब्दसामान्यमक्षरम् । ऋगादि सर्वे शब्दा एव शब्दसामान्ये व्यवस्थिता । विशेषमात्रमेवानुगतसामान्येऽवस्थितम् । समस्तमृद्विशेषो विशेषानुगतमृत्सामान्ये व्यवस्थितः, दीप्त्यात्मकदेवप्रकाशकः ऋगादिमन्त्रः । शब्दविशेषत्वाच्च मन्त्रस्य क्षरत्वम् । समस्तं क्षरमेवाक्षरे व्यवस्थितम् । अत एव मन्त्रप्रकाश्या देवा मन्त्रेण परमे व्योम्नि अक्षरे अधिनिषण्णास्तिष्ठन्ति । अनेनैवाभिप्रायेण ``यस्मिन् देवा अघि निषेदुः'' इत्युक्तं । सर्वोऽप्यर्थस्तदर्थवाचकशब्दस्य परिणामो विवर्तो वा ? तथा चार्थमात्रं वाचके शब्दे व्यवस्थितम् । अर्थेष्वेव शब्दः सर्वत्रानुस्यूतो विद्यते । शब्दविशेषोऽपि शब्दसामान्ये व्यवस्थित इति शब्दसामान्यं परममक्षरं व्योम इति सर्वः शब्दविशेष ऊङ्कारात्मके शब्दे व्यवस्थितः । अकारादित्रयस्योपशान्तावोङ्कारो शब्दसामान्ये प्रतिष्ठित इति । अत एव नु ``ऊङ्कार'' ``एवेदं सर्वम्'' इति श्रुतावुक्तम् । विभूतिसहितस्य अक्षरात्मकस्य व्योम्नो ज्ञानाभावे ऋगादिमन्त्रेणाभीष्टसिद्धिर्न कदापि सम्भाव्यते । यतः समस्तोऽप्ययं शब्दविशेषश्वैतस्यैवाक्षरस्य विभूतिः । अक्षरविभूतिषु दीप्त्यात्मकस्य देवस्य प्रधानत्वात् तस्यैव मन्त्रे निर्देशः ।
मीमांसादर्शने मन्त्रात्मको देवः प्रधानभूतोऽर्थवर्गः शब्दविशेषश्चेति ऊँकारे शब्दसामान्ये स व्यवस्थितः ।
अर्थसमूहोऽर्थानुगतवाचकशब्दविशेषे वाचकः शब्द ॐ कारे, ॐ कारश्च शब्दसामान्ये व्यवस्थित इति परमव्योमाक्षरः सर्वाधार इति ।
साङ्ख्ये अव्यक्तसिद्ध्यर्थमेष एव हेतुः ``भेदानां परिणामात् समन्वयात्'' इत्यनेनोक्त इति समन्वयहेतुनैवात्र परमव्योम्नोऽक्षरस्य सिद्धिः मन्त्रे प्रदर्शिता । एष एव ब्रह्मवादो व्याकरणसिद्धान्तस्याधारभूतः । तद्यथा --
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थ भावेन प्रक्रिया जगतो यतः ॥ (वा० प० १.१ ।)
इति वाक्यपदीयोपक्रमे व्याकरणराद्धान्तप्रदर्शने उक्तम् । एषैव ऋक् शब्दब्रह्मवादाख्यदार्शनिकसिद्धान्तमूलभूता ।
देवप्रधानार्थराशिः शब्दराशिश्च परमव्योमाक्षररूपेण यदि न ज्ञायेते, तदा मन्त्रभागस्य व्यर्थतां को नाम निवारयितुमीष्टे ? अर्थराशेः शब्दसमूहस्य चाक्षररूपेण दर्शनदशायां द्रष्टॄणामप्यर्थतादात्म्यं जायते । अक्षरताद्भाव्यप्राप्तौ द्रष्टा प्रणवविग्रहात्मनि अनुप्रविष्टः समीकृतो भवति । सर्वानुस्यूतशब्दसामान्यरूपस्य द्रष्टा अपि शब्दानुस्यूतः सन् समीकृतो भवति । विशेषलेशवर्जितः सन् निर्वाणमाप्नोति । निविशेषशब्दसामान्यमेव निर्विशेषचित्स्वरूपं सर्वप्रकाशस्वरूपम् ।
चित्प्रकाश एव शब्दान्तर्वर्ती सन् भासत इति शब्दोऽप्यर्थप्रकाशको जायते । नात्र सन्देहो यच्छब्दब्रह्मवादी वैयाकरणोऽपि चित्स्वरूपवादी एव । शब्दब्रह्मवादस्य व्याकरणमतस्य शाकपूणिरेव प्रवर्तकः । इदानीमोङ्कारस्वरूपप्रदर्शनोपक्रमे शब्दब्रह्मसिद्धान्तस्य विश्लेषणाद् विरम्यते विस्तरभयात् ।
शाकपूणिपुत्रस्य व्याख्या --
शाकपूणिपुत्रोऽनया ऋचा संविदात्मकस्य तेजसः प्रकाशं स्वीकृत्य दीप्तिप्रतीकभूतस्यादित्यस्य (अखण्डादितेः पुत्रस्य) यन्मण्डलम्, तन्मध्यवर्तिनो हिरण्मयपुरुषस्य बोधकत्वमङ्गीकरोति; स्तुत्यर्थकाद् ऋच् धातोर्निष्पन्न एष ऋक् शब्दः । अत एव ``यदेनमर्चन्ति'' इत्युक्तम् । आदित्यमण्डलस्य सवित्रात्मकस्य सर्व एव तेजसः प्राप्त्यर्थमर्चन्तीति आदित्यमण्डलस्यात्र ऋक्शब्दप्रतिपाद्यत्वम् । आदित्यमण्डलाभिन्न आदित्यमण्डलमध्यवर्ती हिरण्मय परमेश्वर एवाक्षरः, स एव च परमव्योम । तस्मादेव सर्वमोतम् । उक्तं छान्दोग्योपनिषदि - ``य एष अन्तरादित्ये हिरण्मयः पुरुषो दृश्यते (१) '' (१. छा० उ० १.६.६ ।) इति । अस्यां श्रुतावपि आदित्यमध्यवर्ती पुरुष एव परमेश्वर उच्यते । ``अन्तस्तद्धर्मापदेशात् (२) '' (२. वे० सू० १.१.२० ।) सूत्रे आदित्यमण्डलमध्यवर्ती पुरुष एव परमेश्वरत्वेन व्यवस्थितः । मन्त्रस्थदेवशब्देनादित्यरश्मिसमूह एव वर्ण्यते । रश्मिसमूहस्य द्योतमानत्वाद् देवशब्दाभिधेयत्वम् । एष रश्मिसमूहो द्योतमाने अधिनिषण्णो वर्तते । एतदक्षरापरिज्ञानं विना आदित्यमण्डलात्मचर्चा किं भविष्यति ? तन्मध्यवर्तिनः पुरुषस्य यथार्थज्ञानं विना आदित्यज्ञानं न भवितुमर्हति । तज्ज्ञातैव समासते=सम्यग्भावेन स्थितो भवति, अर्थात् स्वस्वरूपे स्थितिं लभते । तेजोमयत्वान्न स पुनरावर्तते ।
तृतीयव्याख्या --
आत्मवादिनां ``ऋक्'' शब्दस्यार्थो शरीरम् । शरीरस्थानीन्द्रियाणि देवशब्दाभिधेयानि विषयाणां द्योतनाद् देवत्वमुच्यते । द्युत् धातोर्देवशब्दो जायते । शरीरस्थितेन्द्रियग्रामाद् विभिन्नविषयज्ञानात् तद् विषयविषयकविशेषविज्ञानसमूहेऽनुस्यूतो निर्विशेषप्रकाश एवाक्षरपदाभिधेयः । अत एव चिन्मात्रस्वरूपात्मनोऽज्ञाने शरीरेण न किमपि भवितुमर्हति ? ज़िवनसाफल्याय निर्विशेषचिन्मात्राक्षरज्ञानमावश्यकम् । तज्ज्ञानेन च द्रष्टुः स्वरूपमात्रेवस्थितिर्भवति ।
अत ओङ्कार एव सर्वं सामान्यं ज्योतिषां ज्योतिरिति तदुपासना करणीयेति ।
मनुस्मृतावप्युक्तम् - ``एकाक्षरं परं ब्रह्म (३)'' (३. मनु० २.८३ ।) टीकायाञ्च एकाक्षरमोङ्कारः परं ब्रह्म, परब्रह्मावाप्तिहेतुत्वात् । अग्रे च--अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः । अक्षरं प्रणवरूपमक्षयं ब्रह्मप्राप्तिहेतुत्वात् ।
जैनदर्शनेऽपि ``अर्हत्'' इत्यस्य सिद्धस्य अशरीरस्य वा प्रथमाक्षरम् ``अ'' इति आचार्यस्य, प्रथमाक्षरम् ``आ'' इति उपाध्यायस्य, प्रथमाक्षरम् ``उ'' इति मुनेः प्रथमाक्षरं म इति पञ्चभिरक्षरैः ``ॐ'' त्रिलोकाकारः । तस्मादोङ्कारस्य सर्वैरेव दीप्तिरूपत्वमङ्गीकृतमिति ।
लेखकः - डाॅ० महाप्रभुलाल गोस्वामी,
आचार्योऽध्यक्षश्च,
तुलनात्मकधर्मदर्शनविभागस्य
सम्पूर्णानन्दसंस्कृतविश्वविद्यालये
Proofread by Meera Iyer