ॐकारस्य दार्शनिकं स्वरूपम्

ॐकारस्य दार्शनिकं स्वरूपम्

भारतीयसंस्कृतिः समन्वयात्मिकेति दार्शनिकसिद्धान्तोऽपि तात्त्विकदृष्ट्याऽभेदभूमिमेवाश्रयते । गङ्गाप्रवाहपात इव विरोधं मधुमिश्रणमिवात्मसात्कुर्वन्तीयं संस्कृतिः अनेकत्वे एकत्वरूपेणानुस्यूताक्षुण्णेवाविरुद्धा विराजते । नूनं प्रत्यक्षगोचरमिदं विशालं बहुधा भिन्नं बाह्यं तत्त्वं तत्रात्रत्याचार्याणां नास्ति आक्षेपः, अनेकत्वनिषेधो वा; अपि तु बाह्यस्तरावलोकेनेनैवैतेषामन्तः ज्ञानान्वेषण एवातुलनीयः प्रयासस्तत्रैव परितोषः, वस्तुतत्त्वस्वरूपोपलब्धिश्वान्यथा शुक्तौ जातं रजतज्ञानमप्यर्थक्रियाकारितां न जह्यात् । तत्त्वानुसन्धानतत्परा इमे वस्तुतत्त्वान्तस्तले प्रवेशमवाप्य सुधामाधुरीमवगाह्यान्यानपि सुधासागरे उन्मज्जयन्ति । भारतीयसमन्वयवादो न विरोधभूमिः; अपि तु ब्रैडलेमहोदयाविष्कृतसिद्धान्ते ``Appearence and Reality'' सत्याभासयोरित्याख्ये यथोक्तवन्तः तथैवात्रापि पूर्वत एव अवधूतरहस्यतत्त्वं । परमतत्त्वे, आपातदृष्ट्या, परस्परं विरुद्धानि तत्त्वानि निश्चितैकात्मतायां विश‍ृङ्खलतां नाधत्ते; अपि तु सामञ्जस्यपूर्णेऽस्मिन् शरीरे विरोधं विहाय अङ्गिनोऽक्षुण्णतां विधत्ते । समन्वयात्मकत्वमेव भारतीयदर्शनस्य गतिशीलतां सम्पादयति, विना गतिं समन्वयो न भवितुमर्हति । भारतीयचिन्तनधारायां धर्ममहत्त्वं सम्प्रदायप्रसूतान्धविश्वासो नास्ति । मनोविज्ञानखनिजोत्पन्नस्तर्ककर्कशविचारचातुरीनिकषपरिपूतो रत्नभूतोऽयं धर्मः । धर्मः सम्पूर्णस्य विश्वस्य प्रतिष्ठेति धर्म एव सर्वं प्रतिष्ठितम्, अत एव श्रेष्ठश्च अपौरुषेयः सनातन उदारश्चायं पुरुषभ्रमप्रमादादिकलङ्कशून्य आचारशिक्षार्थमार्यैरङ्गीकृतः । अत एव ``आचारः परमो धर्मः'' इत्यसकृदुद्धोषो विद्यते शास्त्रेषु । अनासक्तिभूमावावस्थित एष धर्मः सकलप्राणिष्वात्मदर्शनं विधाय स्वार्थदृष्ट्यैव महाकरुणार्द्रः सर्वोपकारकरणमेव स्वार्थं विदधाति । ``सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि'' (श्रीमद्भगवद्गीता - ६.२९) इति गीतोक्तिरत्रैव साफल्यमश्नुते । अत्र परार्थोऽपि स्वार्थो भवति, स्वव्यतिरिक्तस्यैवाभावात् । धर्मोऽयं मानवस्य सामाजिकजीवनमुन्नतभूमौ निधायाशुभहीनस्वाभाविकीं प्रवृत्तिं दूरीकृत्योदारोदात्तविचारमाविष्कृत्य भारतीयमानवतां सम्पाद्यात्मानुग्रहाभावेऽपि भूतानुग्रहार्थं निवृत्तिभूमिकां प्रवृत्तिं प्रसूते । आत्मनः प्रतिकूलानि परेषां कृते नाचरणीयानीत्येव भारतीयनिधिः । प्रवृत्तिनिवृत्तिभेदाद् ज्ञानविमलधारा द्विधा विभक्तेव प्रतीयते; किन्तु लोकोपकारकरणाय सदाऽऽर्द्रचित्तस्य मनीषिणो निवृत्तिमार्ग उदासीनमार्गो वा नैव सम्भाव्यते, यतो लोकदुःखासहिष्णुत्वमेव तपसि प्रवर्त्तयति अत्रत्यान् साधकजनान् ज्ञानज्योतिःसम्पन्नान् । कथमसौ बुद्धः सन् लोकोपकारविरतो भवेत् ? यतो मूलस्योपक्रमस्योपसंहारे उच्छेदात् । यत औदासीन्यं भजमानास्ते तपःप्रवृत्तिं प्रति मूलाधारमेव परिजह्यात्, अतो भारतीयनिवृत्तिमार्ग उदासीनमार्गो वा व्यष्टिहितमविगणय्य समष्टिहितसाधनाया एवोपसंहृतः समस्तं विश्वमेकनीडमवलोकयन्तोऽखण्डचराचरं विश्वं वासुदेवमाकलय्य तद्धितकामनयैव निवृत्तिमार्ग उदासीनमार्गो वा, अन्यथा निवृत्तिमार्गाचार्याणामुदासीनमतप्रवर्तकानाञ्चाचारः सर्वथा सिद्धान्तसामञ्जस्यं परित्यजेत् । चराचरकल्याणाय तेषामशेषजीवनयापनं सर्वथा निवृत्तिमार्गस्य तथार्थत्वाभावे कथं तज्जीवनं साफल्यं भजेत ? विशिष्टभावभूमिमाश्रित्य देशस्य समाजस्य समवायस्य च हितकामनया समष्ट्यभ्युदयायैवैतेषां बाधाशून्या जीवनयात्रा प्रवहति । सञ्चरणस्य श्रेष्ठसाधनता व्यष्ट्यनासक्तौ सन्निहितास्तिष्ठन्ति । आर्यभावनादिवाहनं वैदिकसाहित्यमेव । आर्यैः सह पारसीकानां निवासैक्यादेवोभयोर्भावनायां ``ज्योतिषः'' आराधनस्य देवस्तवनपरम्परायाश्च साम्यं । विष्णुपुराणस्य तृतीय-चतुर्थाध्याययोः सगरनृपस्य कथोपलभ्यते । तन्निर्देशेन पह्लवादिप्राचीनपारसीकानां वेदस्य यज्ञस्य च साधनायामनधिकारः समजनि । आसीच्चादेशः श्मश्रुमुण्डनं तैः कर्तुं न शक्यत इति । अतो वैदिकभावनाया अन्तःप्रकृतेः सर्वथा परिवर्तनं तत्रापि न जातम् । अस्या भावनाया इतिहासानुधावने वैदिकसाहित्यमेव ध्रुवपदरूपेण वर्तत इत्यत्र नास्ति कापि सचेतसां विप्रतिपत्तिः । मन्त्रेषु वर्तमानरहस्यानामाविष्कार उपनिषदादिषु विद्यते । ज्ञानकर्मणोर्मध्ये भेदोपलब्धिः परवर्तिकालवर्तिनी । अत एव गीतायां ज्ञानयज्ञस्य कर्मयज्ञापेक्षया श्रेष्ठत्वं सर्वेषां कर्मणां ज्ञाने परिसमाप्तिश्च प्रकटिता । कर्मभिः स्वर्गप्राप्तिर्ज्ञानेन च मोक्षप्राप्तिरितीमं भेदमादाय स्वर्गोऽभिलाषोपनीतवस्तुप्राप्तिस्थानम् । अपवर्गस्य स्वरूपं तु तत्तद्दार्शनिकचिन्तितं शास्त्रे सुस्पष्टमेव । वेदार्थस्य विश्लेषणेनैतत्सुस्पष्टमाभाति यद् आत्मचेतनाया लोकोत्तरचिन्मयभूमेरुत्तीर्णमेव क्रियाकलापानां लक्ष्यमिति । अतश्चिन्मयभूमिरेव स्वर्गः । स्वर्गापरपर्यायस्वः इत्यनेन ज्योतिर्मय भूमेरनुभव एव प्रमाणम् । तत्र गमनमेव स्वर्गः । ब्राह्मणव्याख्यया ज्ञानयज्ञलभ्यमोक्षेण सह द्रव्ययज्ञलभ्य ``स्वः'' इत्यस्य भेदः काल्पनिक एव । क्रियाकलापनिर्वाहकत्वेन रूपेण यजुर्वेदस्य प्रसिद्धिस्तत्रैव चान्तिमाध्याये ईशोपनिषदः सन्निवेशोऽस्ति । इयमुपनिषद् संहितायामन्तर्भुक्ता । यजुर्वेदसंहिताशेषाध्याये उपनिषदः उपस्थापनमतिशयमहत्त्वपूर्णम्, तत्रोदारोदात्तदृष्ट्या समन्वयस्यातुलनीया चेष्टा वर्तते । कर्मवेदशेषे सार्वभौमज्ञानावतारप्रदीपोऽयं प्रज्वलितः सर्वेषां कर्मणां तत्त्वज्ञाने उपसंहारः किं न कृतः ? याज्ञवल्क्यः कृष्णयजुर्वेदधारां शुक्लयजुर्वेदधारायां प्रवाहितवान् । कृष्णस्य कर्मणोऽज्ञानरूपाया अविद्यायाश्च शुक्ले कर्मणि विद्यायां वाऽवतारणमेतस्य मुख्यमुद्देश्यम् । शुक्लयजुर्वेदप्रवर्तकयाज्ञवल्क्यस्योपनिषदि प्राधान्यमावहतोऽभेदेनादिज्ञानकर्मणोरैक्यं सुनिश्चितम् । वैदिकसाहित्याध्यात्मभावसाधनायां श्रद्धाया महत्त्वं वर्तते । कर्मणि श्रद्धायाः, आवेगस्य चानन्यसाधारणं महत्त्वम् । श्रद्धयैव सह मानवचित्तस्यापरापि वृत्तिः मननम्, यस्य चापरपर्याय ऊहस्तर्को वा । तर्कस्य दृष्टिः प्रत्यक्वृत्ता, यत्र च जिज्ञासान्तर्निहिता । जिज्ञासैव साधनम्, अस्याः साधनाया उपसंहार आत्मवादेऽपवर्गे वा । ``आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः'' (बृ० उ० २।४।५ ।) इति बृहदारण्यकोपनिषदः सारतमोऽयमुपदेशः भारतीयदर्शनस्य सारः निर्यासो वा । भारतीयजनमनसो जीवनप्रवाहो मुनीनां सर्वा आशाः, आकाङ्क्षाश्च अस्मिन्नेव पर्यवसिताः प्रियतमां मैत्रेयीमुपदिश्य याज्ञवल्क्यः पूर्वोक्तं निवृत्तिमार्गं सञ्जग्राह । एतमेवोपदेशमादाय भारतीयदर्शनशास्त्रस्यासङ्ख्या धारा वावह्यन्ते, आत्मसाक्षात्कारस्यापवर्गस्य कारणं श्रवणं मननं निदिध्यासनञ्चेति आत्मवादधारा मुनिधारा । देवत्वमात्मत्वञ्चोभयमप्यतीन्द्रियमेव । अतो देवदर्शनमात्मदर्शनं वा भवतु, अप्राकृतत्वमुभयत्र तुल्यमेव । देवत्वं भवतु आत्मत्वं वा मूले ज्ञाने प्रसारणस्य, व्यापकत्वस्य विराजोऽनुस्यूतिरनवच्छिन्ना प्रवहति । आत्मचेतना परमे चरमे सत्ये विश्रान्ति लभते कर्मभावनया देवत्वभावनया द्रुतचित्तहृदयस्यावेगेन बोधिग्राह्यवस्तुस्वरूपतादात्म्येनात्मस्वरूपस्यैवाप्तिरस्ति । एतत्तु सत्यम्, एक आवेशकल्पितो विप्रोऽपरः पौरुषदृप्तो नरः । एकत्र श्रद्धा प्राधान्येनापेक्षिताऽपरत्र तर्कः, बोधिर्वा । इमे मौलिकचित्तवृत्ती आश्रित्य साधनायाः परवर्तिकाले भेदः सञ्जातः, एका ऋषिधारा, अपरा च मुनिधारा । दर्शनं मननसाध्यम्, मननाच्च मुनिः । एतयोः साधनयोः सुस्पष्टो निर्देशः पातञ्जलयोगदर्शने सूत्राभ्यां वर्तते, उभयोः समन्वयश्च । तथा हि - ``समाधिवशादात्मदर्शनमीश्वरप्रणिधानाद्वा(१)'' ।(१. यो० सू० १.१.२३ ।) तत्रेश्वरस्वरूपनिरूपणानन्तरमुक्तम् - ``तस्य वाचकः प्रणवः (२)''। (२. तदेव - १.१.२७ ।) अत्र व्याख्यायां ``प्रकर्षेण नूयते स्तूयतेऽनेनेति नौति स्तौति वा प्रणव ॐकारः । तयोश्च वाच्यवाचकभावलक्षणः सम्बन्धो नित्यः सम्बन्धेन प्रकाश्यते, न तु केनचित्प्रकाश्यते (३)''। (३. तदेव - १.१.२७ मोजवृत्तिः ।) अदृष्टविग्रहो देव भावग्राह्यो मनोमयः । तस्योङ्कारः स्मृतो नाम तेनाहूतः प्रसीदति (४) ॥ (४. तदेव ।) ॐ शब्दस्य अव्ययत्वं । अस्य निर्वचनमुणादिसूत्रेण जायते । रक्षणार्थको अव्धातोः ``अवतेष्टिलोपश्च'' (उ० सू० १३९) इत्यनेन सूत्रेण मन्प्रत्ययः । मन्प्रत्यस्य टेः ``अन्'' इत्यस्य लोपोऽपि भवति । यदि प्रकृतेष्टेर्लोपः स्यात्, तदा डित्करणेनैव ``टेः (५)'' (५. अष्टा० ६.४.१८३ ।) इत्यनेनैव टिलोपसिद्धेः, टिलोपविधानं व्यर्थं स्यात् । तस्मात् प्रत्यस्यैवोद्देश्यत्वं । ``ज्वरत्वरस्तिव्यविमवामुपधायाश्च (६)'' (६. तदेव - ६.४.२० ।) इत्यनेन वकारस्य ऊठि अकारवकारस्थानिकयोरूठोर्दीर्घे कृते ॐ मिति निष्पन्नम्, तयोर्दीर्घे कृते गुणे ओमिति । ॐइत्यस्य ``ओ३म्'' इत्येवं रूपेणापि लेखो दृश्यते । परं व्युत्पत्त्या सिद्धस्य ``ओम्'' इत्येव लेखः समीचीनः ``ओ३म्'' इति तु उच्चारणातुरूपलेख आग्रहवशादुन्नेयः । अमरकोषे टीकायाञ्च - ``ओङ्कारप्रणवौ समौ (७)'' (७.अ० को ० १६.८.) इत्यस्य व्याख्याने रामाश्रमीटीकायामुक्तम्- ``अवति । अवतेष्टिलोपश्च (उ०१.१४२)इति मन्प्रत्ययस्यैव टिलोपः । ``ज्वरत्वर०'' (अष्टा० ६.४.२०) इत्यूठौ । गुणः (६.३.८४), वषट्कारः (१.२.३५) इति लिङ्गात्समुदायादपि कारप्रत्ययः'' (वा ३.३.१०८)। ``प्रणूयते स्तूयते । नु स्तुतौ । ``ऋदोरप्'' (अष्टा० ३.३.५६)``उपसर्गात्०'' (अष्टा० ८। ४।१४) इति णत्वम्'' इति द्वे ॐ कारस्य'' । अमरकोषस्यैव तृतीयकाण्डे ``ऊम्'' इति शब्दस्य निर्वचनप्रसङ्गे ऊय्यते इति ऊं । ``ऊयी तन्तुसन्ताने'' इति मुक्प्रत्ययः (रामा० ३.४.१८)। अयमपि शब्दोऽव्यय एव, यद्यप्यर्थभेदः । ``उमा'' इत्यपि शब्दो वर्तते । अस्य शब्दस्य व्याख्याने उक्तं - ``ॐ शिवं माति, मिमीते वा । मा माड् माने - ``आतोऽनुप०'' (अष्टा० ३.२.३) इति कः । ऊवते ऊयते वा, ऊङ् शब्दे विभाषा तिलमाषोमा (५.२.४) इति निपातनात्मक् इति । अत्र उमाशब्द निर्वचनेऽपि अव् धातोस्तस्य निष्पत्तिः सूचिता । अत ओमित्यनेन सह धातुकृतं साम्यं वर्तते । केनोपनिषदि उमायाश्चर्चा विद्यते । खण्डद्वयेन निर्गुणस्य निर्विशेषस्य ब्रह्मणः स्वरूपं प्रतिपाद्यापि तद्ब्रह्मतत्त्वं मन्दबुद्धिभिर्नाकलयितुं शक्यमिति तृतीयचतुर्थखण्डयोः सगुणं ब्रह्म प्रतिपादितम् । अविज्ञातं विजानतां विज्ञातमविजानतामिति निरुपाधिब्रह्मस्वरूपश्रवणान्मूढाश्चिन्तयेयुर्यद् यतो ब्रह्मणोऽविज्ञातत्वमतो बन्ध्यापुत्रादिवदसत्त्वमलीकत्वमेव स्यात् । अतो देवात् परं पूर्वेषामपि कालानवच्छेदाद् गुरुभूतं ब्रह्माख्यायिकया प्रतिपादयामास। ब्रह्मज्ञानादेव कस्यापि देवस्य श्रेष्ठत्वं जायते । अतो ब्रह्मविद्यास्तुत्यर्थेयमाख्यायिका । अस्यामाख्यायिकायां देवेभ्योऽर्थाय स्वमाहात्म्यनिर्मितेनात्यद्भुतेन विस्मापनीयेन रूपेण देवानामिन्द्रियगोचरेण प्रादुर्वभूव । प्रादुर्भूतं ब्रह्म नैव विज्ञातवन्तो देवा किमिदं पूज्यं महद्भूतमिति । पूजार्थकाद् यक्षतेर्धातोर्निष्पन्नत्वाद् यक्षं पूज्यमित्यर्थः । यथाग्निस्तृणमपि दग्धुमसमर्थः सन्निवृत्तो बभूव, यक्षस्वरूपज्ञाने स्वस्य विफलतां च देवेभ्यो निवेदयामास, तथैव वायुरपि सर्वस्यादाने नितरामभिमानयुक्तोऽपि तृणस्याप्यादाने कृत्स्नमपि स्वशक्तिं विफलीभूतमालोक्य पराजयमङ्गीकृत्य देवेभ्यः प्राह - नैतद् यक्षं विज्ञातुं प्रभवामीति । यक्षस्वरूपं ज्ञातुमसमर्थावग्निवायू निवृत्तौ । देवाः सर्वे सम्भूय देवराजमिन्द्रमुपेत्योचुः - भवान् खलु देवानां श्रेष्ठो बलिष्ठश्च । तद् गम्यतां यक्षस्वरूपं च विज्ञायतामिति । जिज्ञासुरिन्द्रो यक्षमुपगतः, यक्षं च तस्मात् समीपवर्तिन इन्द्रात्तिरोभूतम् । देवश्रेष्ठत्वेन नितरामभिमानवत इन्द्रस्याभिमानो निराकर्त्तव्य इति यद् यक्षमग्निना वायुना संवादं कुर्वदपि नेन्द्रं किमपि बभाषे । एवमभिमानशातनेऽपि नासाविन्दुस्तत्स्थानं तत्याज । तस्मिन्नेवान्तरिक्षे स्थितो ध्यायन्नासीत् - किमिदं यक्षमिति ? एवमिन्द्रस्य यक्षे भक्तिं ज्ञात्वा विद्यैव स्त्रीस्वरूपमाश्रित्य प्रादुर्भूता । इन्द्रस्तत्रोमास्वरूपिणीं विद्यां बहुशोभमानामालोकितवान् । स्वयंप्रकाशस्य ब्रह्मण उज्ज्वलतमत्वात् ``तस्य भासा सर्वमिदं विभाति (१)'' (१. क० उ० ५.१५ ।)इति च श्रुतेस्तस्या उमायाः शोभनतमत्वं सुष्ठु युज्यते । इयञ्चोमा हैमवतीव हेमालङ्कारभूषिता काचन यथा नितरां शोभामादधाना दृश्यते, तथैवोमापि । अद्वैतवादे भक्तिर्न सिद्धान्तविरुद्धा; किन्तु भवत्या मोक्ष इति नाङ्गीकृतं । वैष्णवैर्भक्त्या मोक्ष इति सिद्धान्तोऽङ्गीक्रियते । उपासनादिना चित्तशुद्धौ सत्यां क्षपिते कल्मषे ज्ञाने च लब्धे ज्ञानादेव मोक्ष इत्युच्यते । सर्वज्ञेन रुद्रैण सह नित्यं विद्यमानत्वाद् विद्यासामर्थ्यमुपजगामेन्द्रः । उमया सह रुद्रस्य सर्वज्ञस्य विवाहादिकं सर्वं मायिकमेवावगन्तव्यम् । शक्तिस्वरूपाया उमायाः शक्तिमत ईश्वरस्य च पारमार्थिको भेदो नास्ति । एकस्यैव ज्योतिष्मत्तमस्य ब्रह्मणश्चितिरूपा शक्तिः । यथा ब्रह्म चैतन्यस्वरूपम्, तथा तच्छक्तिरपि चितिरूपैवात एव भास्कररायः - ``एकमेव ब्रह्मानादिसिद्धया मायया धर्मी धर्मश्चेति सृष्ट्यारम्भे प्राथमिकमीक्षणं ``तदैक्षत बहु स्यां प्रजायेय'' इति ``सोऽकामयत'', तत्तपोऽकुरुत'' इत्यादित्रिविधश्रुतिसिद्धज्ञानेच्छाक्रियासमष्ट्यात्मकं स एव ब्रह्मधर्मः । स च धर्म्यभिन्न एव, स्वाभाविकी ज्ञानबलक्रिया चेति श्रुतेः । तस्यैव धर्मत्वाच्छक्तिरिति संज्ञा । तद्गतो धर्मोऽपि न जडो न जीवः; अपि तु चितिः स्वतन्त्रा विश्वाससिद्धिहेतुरित्यादिशक्तिसूत्रोक्तरूपं ब्रह्मैवेत्युपनिषत्सिद्धान्त(२) इति ।(२. गुप्तवतीटीका - पृ० ९ ।) शङ्करानन्देनाप्युक्तम्-अविधा हि कुरूपा पिशाची, तन्नाशकत्वाद् विद्यायाः कान्तिमत्त्वम् । संसारोच्छेदिकाया ब्रह्मविद्यायाश्चाधिककान्तियुक्तत्वं सुतरां सिद्ध्यति । न केवलं शङ्करानन्दस्य प्रतिभाप्रबुद्धमेतद्व्याख्यानम्; अपि तु शङ्कराचार्येण समर्थितमेतद्व्याख्यानम् । वाक्यभाष्ये च कुरूपस्यापि विद्यावतो शोभायुक्तत्वमुक्तम् । परां विद्यां ब्रह्मविद्यां वेत्ति या तस्या उमाया बहुशोभनत्वं भवत्येव । उमाया ॐ कारचितिशक्तेरखण्डानन्तानन्दचैतन्यात्मकत्वं दुर्गायाः स्पष्टमुद्घोषितं दुर्गायाम् - त्वं वैष्णवीशक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया । अम्मोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु । त्वयैकया पूरितमम्बयैतत्का ते स्तुतिः स्तव्यपरा परोक्तिः ॥ (दुर्गासप्तशती - ११.५-६ ।) अस्मिन् पद्ये वैष्णवी इत्यनेन व्यापकत्वं सूचितम् । महाभारतेऽपि - त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् । स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥ स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती । सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ (महाभा० भी० प० २३.११-१२ ।) अस्मिन् प्रसङ्गे दिव्यचेतनायाः क्रमिकोन्मेष उपलभ्यते । अग्नेः, वायोः, इन्द्रस्य, ब्रह्मशक्तेः, उमायाः, ब्रह्मणः, ओङ्कारस्याखण्डज्योतिरूपेण उपलब्धिरस्ति । उमाशब्दस्य तैत्तिरीयारण्यके ``खिलः उमापतये'' (तै० आ० १ ।२२ ।) प्रयोग उपलभ्यते । आधुनिका अनार्षभावनोद्भावितचेतस उमोमापती पार्वत्यदेवत इति । अत एव भूमध्यसागरतीरस्थप्राचीन - ``Mother Goddess'' इत्याख्यया उमया सादृश्यमपि प्रतिपादयन्ति । पूर्वोक्तस्य विश्लेषणप्रसङ्गे शङ्कराचार्यः कथयति - ``स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम्'' । अत्र हैमवतीवोमापि स्त्रीशब्दस्य विशेषणमेवेति स्वीकार एव साध्वन्वयः सङ्गच्छते, अर्थाद् इन्द्रोऽस्मिन् महाशून्ये चरन् एकां स्त्रीमूर्तिमुपजगाम, या बहुशोभमाना उमा हैमवती वा । ऋग्वेदे ``ऊम'' अव् प्रत्ययघटितो विशेषणशब्दो बहुधा प्रयुक्तः । (ऋ० सं०-४.१९.१, ५.५१.१, ७.३९.४, १०.६.७, ३१.३.३२, ५.७७.८, १२०.१.३ ।) एकत्र उमासः इत्येष शब्दः प्रयुक्तः (ऋ० सं० १ . ३ . ६)। ओमन् शब्दस्य बहुधा प्रयोगो विद्यते । आकाशवाची व्योमन् ``वि + ओमन्'' शब्दोऽपि अनवच्छिन्नवैपुल्यस्य, प्रसादस्य, परिरक्षणस्य च बोधकः । उमा शब्दोऽपि एतच्छब्दसगोत्र इति पुन्देवताया विशेषणम् । ``ॐ'' एवं स्त्रीदेवताया विशेषणं ``उमा'' इति । ह्रस्वदीर्घयोर्व्यत्ययेऽपि मात्रायाः साम्यं साधु सङ्गच्छते । तथा चोमाशब्दार्थः पालयित्री आनन्दयुक्ता वेति । अतः ``उमा'' परमव्योम्नः शक्तिरित्यत्र नास्ति विप्रतिपत्तिः । यक्षशब्दस्य रहस्ये अर्थे प्राचीनप्रसिद्धिर्वर्तते । ``न यासु चित्रं सदृशे न यक्षम्'' केनोपनिषदि प्रयुक्तो यक्षशब्दः रहस्यार्थकस्तथा ब्रह्म रहस्यमिति आख्यायिकायां लभ्योऽर्थः । एतेनाभिव्यज्यमानोऽर्थोऽत्र शक्तिमत्तया तद्रहस्यं न लभ्यम्; अपि तु प्रसादलभ्यं तत् । दुर्गासप्तशत्याख्यायिकानुधावनेऽपि शक्तिमत्तानां विनाशः कृपाकाङ्क्षिणामाराधनतत्पराणां तत्प्रसादलभ्यं तद्रहस्यं सुरथसमाध्योः सुलभं सञ्जातम् । ``यमेवैष वृणुते तेन लभ्यः'' इति शङ्कराचार्यकृता हैमवतीशब्दस्य द्विविधा व्याख्या समीचीनैव । हिमवतः पुत्री, हेमालङ्कारभूषिता च । यत ऐन्द्री चेतनाया आविर्भूता महाकाशे मूर्तिः हिरण्मयी, अथवा सा चेतनाया शुभ्रतुङ्गतामाविर्भूता । एषोऽर्थो न कपोलकल्पितः अपि तु ऋग्वेदसमर्थितः । वेदे विष्णुः ``गिरिष्ठाः ''(१.१५४.२)``वा गिरिक्षित् '' (१। १५४.३),``इन्द्रोऽपि एष एव ``(१०.१८०.२), ``सोमोऽपि ''(३.४८.२)। तैत्तिरीयसंहितायां रुद्रार्थे गिरीशशब्दस्य प्रयोगः ``गिरीशन्तु'' (४.५. १. १), ``गिरीश'' (४.५.१.२), ``नमो गिरीशाय शिपिविष्टाय च ''(४.५.५.१)। अत्रेदं ध्येयम्-ऋग्वेदे शिपिविष्टो विष्णुः (ऋ० ७.९९.७), वाजसनेयसंहितायां गिरीशय (वा० सं० १६.२९), हिमाचलस्य तुषारश‍ृङ्गस्य महिमा रुद्रस्य शिवरूपस्यात एवासौ गिरीशः । एतन्महत्त्वं हि ऋक्संहिताया हिरण्यगर्भसूक्तेऽपि विद्यते- ``यस्येमे हिमवन्तो महित्वा'' (१०.१२१.४)। एतद्धिमवत एव हैमवती। तैत्तिरीयसंहितायां सा रुद्रस्य दुहिता अम्बिकानाम्नी । तद्यथा - ``एष ते रुद्रभागः सह स्वस्तम्बिकया तं जुषस्व'' (तै० सं० १.८.६.१) । अतः केनोपनिषदि उपलब्धा मूर्तिराचार्यशङ्करदृष्ट्या ब्रह्मविद्यारूपिणी, या ऋक्संहितायां ``वाक्'' । सा च न सुलभदर्शना ``जायेव पत्य उशती सुवासा'' (ऋ० सं० १०.७१.४)ब्रह्म वाक् च युगनद्धमिथुनभूते (ऋ० सं० १०.११४.८)। पुराणादौ चैतस्यैव रहस्यस्य परिपल्लवनम्। एतावता प्रबन्धे ``उँम्'' इत्यनेन व्योम्न ब्रह्मण आधिदैविकोऽभेदः सम्पन्नः, इदानीं व्योम्नो विश्लेषणेनोम् इत्यस्याभिप्रायोऽभिव्यक्ततमो भविता । बृहदारण्यकोपनिषदि अष्टमब्राह्मणे गार्ग्यः प्रश्नौ विद्येते याज्ञवल्क्यं प्रति । तौ च प्रश्नावावेशसम्पन्नौ । तयोक्तं यद् यदि अनयोः प्रश्नयोरुत्तरं विधास्यते, तदा ब्रह्मविचारे त्वं विजयीत्यत्र नास्ति काचिद्विप्रतिपत्तिरिति । ``यदुपरि दिवः = अण्डकपालात्, यच्चाधोऽण्डकपालात्, यच्चाण्डकपालयोः द्यावापृथिव्योर्मध्य यद्भूत वर्तमानं भविष्यच्च, यत्सर्वमेतदाचक्षते, तत्सर्वं द्वैतजात कस्मिन्नेको भवति ।'' याज्ञवल्क्येनैतस्य समाधानप्रसङ्गे उक्तम् - यदेतद्व्याकृत सूत्रात्मकं जगद् अव्याकृते आकाशे उत्पन्नं स्थितं लीनं च । अनन्तरं सोवाचाकाशः कस्मिन्नोतश्च प्रोतश्च । आकाशमेव परमव्योम कालत्रयातीतत्वाद् दुर्वाच्यम् । याज्ञवल्क्येनोक्तमक्षरं यन्न क्षीयते न क्षरतीति वा । अस्याक्षरस्य स्वरूपमभिदधत् कथयति - ``अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन (१)'' । (१. छा० उ० १.८.८ ।) एतावतैकमेवाद्वितीयं तदक्षरमीमिति । यतः ``ओमित्येकाक्षरं ब्रह्मोपासीत (२)'' इति श्रुतेः ।(२ छा० उ० १.१.१ ।) अस्यामेवोपनिषदि पञ्चमाध्याये - ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ( बृ० उ० ५.१.१ ।) इत्यनेन वाक्येन खिलकाण्डमारभ्यते । सारतः सङ्क्षिप्तं पूर्वत्रानुक्तं परिशिष्टं खिलं भवति । ऋग्वेदे श्रीसूक्तं खिलान्तर्गतम् । यजुर्वेदे शिवसङ्कल्पः खिलान्तर्गतः । अत्राप्युपसंहाररूपेणानुक्तः सारांशः संगृहीतः । एतस्य व्याख्याने शङ्कराचार्योऽभिधत्ते - ``सर्वोपासनशेषत्वेनोङ्कारो दमं दानं दयामित्येतानि च विधित्सितानि । पूर्णं न कुतश्चिद्व्यावृत्तमर्थाद् व्योम एव ``ॐ'' सर्वव्यापित्वेन सिद्ध्यति। आकाशवद्व्यापि निरुपाधिकमेव ``ॐ'' । इदं पूर्णमिति ब्रह्म वा इदमग्र आसीदित्यस्यार्थः । उपसंहार आचार्येणोक्तं ``यः सर्वोपनिषदर्थो ब्रह्म, स एषोऽनेन मन्त्रेणानूद्यते .॥ ओङ्कारदमदानदयाख्यानि .॥ सर्वोपासनाङ्गभूतानि ''इति । भर्तृप्रपञ्चसम्मतस्य वस्तुतो द्वैताद्वैतरूपत्वात्मस्वरूपस्य आत्मनः प्रतिपादनमपि अनयैव श्रुत्योपलभ्यते । किञ्च द्वैताद्वैतात्मककार्यकारणात्मकप्रतिपादनमपि अनयैव ॐ कारप्रतिपादिकया श्रुत्योपलभ्यते । तथा हि-एकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते । एवञ्च द्वैताद्वैतात्मकमेव ब्रह्म यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव, यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेनतरङ्गबुद्बुदादयः समुद्रात्मभूता एव आविर्भावतिरोभावधर्मिणः परमार्थसत्या एव, एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादि-स्थानीयम्, समुद्रस्थानीयं परं ब्रह्म । एतस्य च खण्डनमाचार्येण सम्यगेव कृतम् । शाङ्करभाष्ये अङ्गारस्वरूपं प्रतिपादयता उक्तं यद् ब्रह्मोपासनसाधनत्वार्थमोंशब्दः प्रयुक्तः । ओमिति शंसत्योमित्युद्गायति इत्येवमादौ स्वाध्यायारम्भापवर्गयोश्च ओङ्कारप्रयोगो विनियोगादवगम्यते, न च तदर्थान्तरमिहागम्यते । तस्माद् ध्यानसाधनत्वेनैवेहोङ्कारशब्दस्योपदेशः । यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकाः; श्रुतिप्रामाण्याद् ब्रह्मणो नेदिष्ठमभिधानमोङ्कारः । प्रतीकत्वेनाभिधानत्वेन च ब्रह्मप्रतिपत्ताविदं परं साधनम् । विष्ण्वादिप्रतिमाऽभेदेन प्रतीकत्वेन ऊङ्कारो ब्रह्मेति प्रतिपत्तव्यः, ``सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः'' (प्र० उ० ५.२ ।) इत्यादि वाक्येन प्रतीकत्वेन ब्रह्म प्रतीयते । वाचकत्वेनापि प्रतीयते ॐङ्कारो यथा- - वेदोऽयमोङ्कारो वेद विजानात्यनेन यद्वेदितव्यम् । तस्माद्वेद ऊङ्कारो वाचकोऽभिधानम् । तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमभिधीयमानं वेद, साधको विजानात्युपलभ्यते, तस्माद् ब्राह्मणानामभिधानत्वेन सःधनत्वमभिप्रेतमोङ्कारस्य । ऋग्यजुः सामादिभेदभिन्न एष ऊङ्कारः । तद्यथा - शङ्कुना सर्वाणि पर्णानि इतश्चायं वेद ऊङ्कारो यद्वेदितव्यं तत्सर्वं वेदितव्यमोङ्कारेणैव वेदैनेन, अतोऽयमोङ्कारो वेदः । प्रयुज्यमाने हि ओङ्कारे सर्वो वेदः प्रयुक्तो भवति । अस्य वामीयसूक्तस्याष्टाविंशत्तमे मन्त्रे देहात्मनो जीवात्मनः स्वरूपनिरूपणप्रसङ्गे उभयोर्मध्ये जीवात्मनो यत्पारमार्थिकं रूपम्, तदेवास्मिन् मन्त्रे प्रकाशितम् -- ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधिविश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ (ऋ० सं० १.१६४.३९ ।) अस्मिन् मन्त्रे ऋक्शब्देन ऋक्प्रधानसाङ्गापरविद्यात्मकचतुर्वेदानां निर्देशो विद्यते । ``द्वे विद्ये वेदितव्ये परा चैवापरा च (२)'' (२. मु० उ० १ . ४।) मुण्डके एतदुपक्रमं कृत्वा अनन्तरमुक्तम् - ``तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदः (३)'' (३. तदेव - १ .५ ।) ऋचोऽक्षरे इत्यस्य पदस्यार्थवेदसम्बन्धी अक्षरः । अक्षरशब्दस्यार्थः क्षरणरहितः, अनश्वरः, नित्यः, सर्वव्यापि ब्रह्म । अक्षरशब्दश्च ब्रह्मवाचकः, तथोक्तं - ``एतद्वै तदक्षरं गार्गि, ब्राह्मणा अभिवदन्ति (४)'' (४. बृ० उ० ३.८.८ ।) इत्यपि उपनिषदि प्रसिद्धं ऋचोऽक्षरस्य च प्रतिपाद्यप्रतिपादकभावसम्बन्धः । ऋक्प्रतिपादकभूताक्षरञ्च प्रतिपाद्यभूतम् । एतदेवोम्, तच्च समस्तवेदप्रतिपाद्यम् । वेदभागेन यज्ञादेः प्रतिपादनेऽपि तदनुष्ठानेन चित्तशुद्धिसम्पादनक्रमेण वेदप्रतिपादितयागादेरपि ब्रह्मवेदनसाधनता विद्यते । वेदस्य इतरभागोऽपि ब्रह्मविषयक एव । अत एव बृहदारण्यकोपनिषदि ``तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेत्यनेन प्रतिपादितम् । यथाऽस्माभिः पूर्वं निगदितं यद् व्योमन् एव ओमिति, तस्यैवाक्षरोद्गीथस्य परममिति विशेषणं परमे व्योमन् (५)''। (५. तदेव ।) उत्कृष्टार्थकपरमेति विशेषणेनाकाशसदृशस्य निर्लेपत्वनीरूपत्व - व्याप्तित्वादिसादृश्यप्रयुक्तं ब्रह्म व्योमन्शब्देनोच्यते लौकिकाकाशस्यापरव्योम्ना निर्देशः परस्य ब्रह्मणः परमव्योमनाम्ना निर्दिश्यते । लौकिकाकाशनाम्ना ब्रह्मवैलक्षण्यदर्शनार्थं परमशब्दस्य व्योमशब्दविशेषणरूपेण निर्देशः । अथ वा व्योमशब्दार्थो विशेषरूपेण सकलरक्षकः । रक्षणार्थङ्काव्धातुना व्योमशब्दस्य ॐ शब्दस्य निष्पत्तिर्भवति । यथा ब्रह्म सर्वाधिष्ठानम्, तथैवाधिष्ठानरूपेण ब्रह्म सर्वस्य रक्षकम् । अस्मिन्नेवोङ्कारात्मके तत्त्वे समस्तदृश्यप्रपञ्चमध्यस्तम् । अत्रान्यदपि विशेषितम् - यस्मिन्नोङ्कारात्मके ब्रह्मणि देवा अधिविश्वे निषेदुः । अत्रैव सर्वे देवा आश्रिताः । अक्षरात्मकोङ्कारज्ञानं विना वेदस्य निष्प्रयोजनत्वं को नाम निवारयिष्यति ? अक्षरात्मकब्रह्मज्ञानं विना किमपि न भवितुमर्हति, ब्रह्मविदेव स्वरूपेऽवस्थानं प्राप्नोति सर्वतादात्म्यस्त्ररूपोङ्कारोपासनयैवाक्षरभावता प्राप्यते । शब्दब्रह्मवादस्यैतदेव तात्पर्यम् - ``ऋचो अक्षरे परमे व्योमन्'' । अतो व्योमात्मकोङ्कारत्वं सर्वथा शास्त्रप्रसिद्धं । नादात्मिका परात्मिका मूलाधारस्था वागेवोङ्काररूपा । अत एव गीतायामुक्तम्- - `` ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः (१) '' इति । (१. श्रीमद्भगवद्गीता - १७.२३ ।) एतेन स्वतःसिद्धं परं ब्रह्मैव तच्छब्देनोच्यते । प्रदर्शितेयमृग् व्याकरणदर्शनसिद्धान्तसिद्धस्य शब्दब्रह्मण आधारभूतेति समासेनोच्यते। निरुक्तेऽस्य मन्त्रस्य व्याख्याने त्रिविधोऽर्थ उक्तः, तथा हि-प्रथमं सायणसम्मतार्थं विलिख्योङ्कारस्वरूपं प्रदर्श्यानन्तरं यास्कव्याख्यानत्रयं विलिखामि । सायणाचार्येणोक्तमस्मिन् मन्त्रे जीवात्मनः पारमार्थिकं स्वरूपमुल्लिखितम् । यतो मुण्डकोपनिषदि शिक्षाकल्पादिसहितस्य वेदचतुष्टयस्यापरविद्याया निर्देशो विद्यते (२) । (२. मु० उ० १.४-५ ।) चतुर्वेदसम्बद्धात्मकाक्षरात्मके परमे व्योमनि द्योतनात्मका देवाः प्रतिष्ठिताः क्षरणरहितोऽविनश्वरं तत्त्वमक्षरम् । एतदर्थं नित्यं सर्वव्यापि एवाक्षरशब्दार्थः । अक्षरशब्दस्य ब्रह्मवाचकत्वम् । ``एतद् वै तदक्षरं गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (३)'' (३. बृ० उ० ३.७.८-९ ।) इत्यादिबृहदारण्यके प्रसिद्धिं लभते । एवमेव ``अथ परा यया तदक्षरमधिगम्यते (४)'' । (४.मु० उ० १.५ ।) एतन्मुण्डकवाक्येऽपि अक्षरशब्दस्य ब्रह्मवाचकत्वं सिद्धमेव । अग्रे ``येनाक्षरं पुरुषं वेदसत्यम् (५)'' । (५. तदेव - १.२.१३ ।) अतोऽत्र अक्षरशब्दो ब्रह्मवाचकः, तच्च ब्रह्म सर्ववेदप्रतिपाद्यम् । एतस्यैव ब्रह्मण ऋचोऽक्षरे इति मन्त्रभागेन प्रतिपादनम् अक्षरपदाभिधेयं ब्रह्म ``परमं व्योम'' व्योमशब्दस्य भूताकाशोऽर्थः, ``परमव्योम'' शब्दस्य परमाकाशो ब्रह्म वाऽर्थः । आकाशस्य यथा निर्लेपत्वम्, रूपरहितत्वं सर्वव्यापित्वं वाऽर्थः, ब्रह्मणोऽपि तथैव निर्लेपत्वं नीरूपत्वं सर्वव्यापित्वञ्च । अतः ``परमव्योम'' इत्यस्य शब्दस्य ब्रह्मणो निर्देशे न काप्यापत्तिः, तदेव ``ओम्'' । ``आकाशस्तु तल्लिङ्गात् (६)'' (६. वे० सू० १.१.२२ ।) एतत्सूत्रभाष्येऽपि शङ्कराचार्येण एतस्या एव ऋचो घटकस्य मन्त्रस्य उद्धारः कृतः । एवम् आकाशः परमव्योम, ``ख'' इत्यादयः शब्दा ब्रह्मणो वाचकाः, ब्रह्मणात्मकः परमे व्योमनि सर्वे द्योतनरूपा देवा आश्रिता अवतिष्ठन्ते । ``ऋचो अधि निषेदुः'' अत्र ``ऋक्'' इति शब्देन समस्तवेदस्यैवावगतिरिति । सर्वे च वेदा ब्रह्मणि पर्यवसिता इति ``सर्वे वेदा यत् पदमामनन्ति (७)'' (७. क० उ० २.१५ ।) अनेन वाक्यैनैतदेव सिद्धम्, येन सर्वे देवाः स्वरूपं लभन्ते, सर्वे वेदा यस्य प्रतिपादनं कुर्वन्ति, तद् यदि मानवा न जानन्ति तदा ऋङ्मन्त्रेण तस्य को लाभः ? अर्थाद् ऋगादिशब्दजालं तस्य कृते व्यर्थमेव । ब्रह्मवेदसाधनं वेदो वेदवेद्यं च ब्रह्म । सर्ववेदवेद्यस्य ब्रह्मणो ज्ञानं विना वेदविहितयागादिकर्मणोऽनुष्ठानं वृथैव, एवमेव ऋङ्मन्त्रसमूहस्य तादृशस्य पुरुषस्य कृते व्यर्थमेव । ``ये इत्'', ``ये एव'' ये एतदक्षरपदवाच्यं ब्रह्म जानन्ति त एव ``समासते'' सम्यक् तिष्ठन्ति, अर्थात् स्वरूपे तिष्ठन्ति । एतादृशस्य पुरुषस्य संसारे पुनरावृत्तिर्न भवति । अथ वा ``ये विदुरित्'' ये ब्रह्मस्वरूपं जानन्ति, ब्रह्म ज्ञात्वा तत्रैव ``समासते'' समस्तसत्रस्य ``सं=युगपत्'' अनुष्ठानं कुर्वन्ति, अर्थाद् ब्रह्मवित् कर्मणोऽनुष्ठानं विनैव सकलकर्मानुष्ठानफलं प्राप्नुवन्ति । ब्रह्मज्ञानेनैव समस्तफलं प्राप्य कृतकृत्यः पूर्णतृप्तो भवति । कर्मफललाभार्थं ब्रह्मज्ञपुरुषस्य कृते कर्मणोऽनुष्ठानस्यावश्यकता न भवति । यास्केन च मन्त्रस्य त्रिविधा व्याख्या कृता । प्रथमा व्याख्या शाकपूणिसम्मता, द्वितीया व्याख्या शाकपूणिपुत्रस्य तृतीया व्याख्या चात्मवादिसम्मता । तत्र शाकपूणिमते मन्त्रप्रतिपाद्य ऊङ्कारः, तत्पुत्रमते आदित्यमण्डलान्तर्वर्त्ती हिरण्मयः पुरुषः परमेश्वरः । तृतीयमते च आत्मतत्त्वमेव प्रतिपाद्यम् । शाकपूणिमते मन्त्रान्तर्गतस्याक्षरशब्दस्यार्थः ऊङ्कारः । ऊङ्कारं विना ऋङ्मन्त्रार्थो व्यर्थः, कस्यापि कर्मणः साधनं तेन न भवति । ऊङ्कार एव परमं व्योम । ऊङ्कारे विविधशब्दसमूहाः पर्यवसिता इति परमं व्योम । भूताकाशश्रेष्ठत्वादोङ्कारः परमं व्योम । ऊङ्कारस्य अकारोकारमकारात्मकस्य व्यक्तमात्रात्रयस्योपशान्तत्वे सर्वशब्दानुस्यूतशब्दसामान्यं विद्यते, तदेव परमं व्योम, तदेव च क्षरणवर्जितत्वाद् अक्षरम् । विशेषावस्थायां क्षरत्वेऽपि सर्वविशेषानुस्यूतशब्दसामान्यमक्षरम् । ऋगादि सर्वे शब्दा एव शब्दसामान्ये व्यवस्थिता । विशेषमात्रमेवानुगतसामान्येऽवस्थितम् । समस्तमृद्विशेषो विशेषानुगतमृत्सामान्ये व्यवस्थितः, दीप्त्यात्मकदेवप्रकाशकः ऋगादिमन्त्रः । शब्दविशेषत्वाच्च मन्त्रस्य क्षरत्वम् । समस्तं क्षरमेवाक्षरे व्यवस्थितम् । अत एव मन्त्रप्रकाश्या देवा मन्त्रेण परमे व्योम्नि अक्षरे अधिनिषण्णास्तिष्ठन्ति । अनेनैवाभिप्रायेण ``यस्मिन् देवा अघि निषेदुः'' इत्युक्तं । सर्वोऽप्यर्थस्तदर्थवाचकशब्दस्य परिणामो विवर्तो वा ? तथा चार्थमात्रं वाचके शब्दे व्यवस्थितम् । अर्थेष्वेव शब्दः सर्वत्रानुस्यूतो विद्यते । शब्दविशेषोऽपि शब्दसामान्ये व्यवस्थित इति शब्दसामान्यं परममक्षरं व्योम इति सर्वः शब्दविशेष ऊङ्कारात्मके शब्दे व्यवस्थितः । अकारादित्रयस्योपशान्तावोङ्कारो शब्दसामान्ये प्रतिष्ठित इति । अत एव नु ``ऊङ्कार'' ``एवेदं सर्वम्'' इति श्रुतावुक्तम् । विभूतिसहितस्य अक्षरात्मकस्य व्योम्नो ज्ञानाभावे ऋगादिमन्त्रेणाभीष्टसिद्धिर्न कदापि सम्भाव्यते । यतः समस्तोऽप्ययं शब्दविशेषश्वैतस्यैवाक्षरस्य विभूतिः । अक्षरविभूतिषु दीप्त्यात्मकस्य देवस्य प्रधानत्वात् तस्यैव मन्त्रे निर्देशः । मीमांसादर्शने मन्त्रात्मको देवः प्रधानभूतोऽर्थवर्गः शब्दविशेषश्चेति ऊँकारे शब्दसामान्ये स व्यवस्थितः । अर्थसमूहोऽर्थानुगतवाचकशब्दविशेषे वाचकः शब्द ॐ कारे, ॐ कारश्च शब्दसामान्ये व्यवस्थित इति परमव्योमाक्षरः सर्वाधार इति । साङ्ख्ये अव्यक्तसिद्ध्यर्थमेष एव हेतुः ``भेदानां परिणामात् समन्वयात्'' इत्यनेनोक्त इति समन्वयहेतुनैवात्र परमव्योम्नोऽक्षरस्य सिद्धिः मन्त्रे प्रदर्शिता । एष एव ब्रह्मवादो व्याकरणसिद्धान्तस्याधारभूतः । तद्यथा -- अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थ भावेन प्रक्रिया जगतो यतः ॥ (वा० प० १.१ ।) इति वाक्यपदीयोपक्रमे व्याकरणराद्धान्तप्रदर्शने उक्तम् । एषैव ऋक् शब्दब्रह्मवादाख्यदार्शनिकसिद्धान्तमूलभूता । देवप्रधानार्थराशिः शब्दराशिश्च परमव्योमाक्षररूपेण यदि न ज्ञायेते, तदा मन्त्रभागस्य व्यर्थतां को नाम निवारयितुमीष्टे ? अर्थराशेः शब्दसमूहस्य चाक्षररूपेण दर्शनदशायां द्रष्टॄणामप्यर्थतादात्म्यं जायते । अक्षरताद्भाव्यप्राप्तौ द्रष्टा प्रणवविग्रहात्मनि अनुप्रविष्टः समीकृतो भवति । सर्वानुस्यूतशब्दसामान्यरूपस्य द्रष्टा अपि शब्दानुस्यूतः सन् समीकृतो भवति । विशेषलेशवर्जितः सन् निर्वाणमाप्नोति । निविशेषशब्दसामान्यमेव निर्विशेषचित्स्वरूपं सर्वप्रकाशस्वरूपम् । चित्प्रकाश एव शब्दान्तर्वर्ती सन् भासत इति शब्दोऽप्यर्थप्रकाशको जायते । नात्र सन्देहो यच्छब्दब्रह्मवादी वैयाकरणोऽपि चित्स्वरूपवादी एव । शब्दब्रह्मवादस्य व्याकरणमतस्य शाकपूणिरेव प्रवर्तकः । इदानीमोङ्कारस्वरूपप्रदर्शनोपक्रमे शब्दब्रह्मसिद्धान्तस्य विश्लेषणाद् विरम्यते विस्तरभयात् । शाकपूणिपुत्रस्य व्याख्या -- शाकपूणिपुत्रोऽनया ऋचा संविदात्मकस्य तेजसः प्रकाशं स्वीकृत्य दीप्तिप्रतीकभूतस्यादित्यस्य (अखण्डादितेः पुत्रस्य) यन्मण्डलम्, तन्मध्यवर्तिनो हिरण्मयपुरुषस्य बोधकत्वमङ्गीकरोति; स्तुत्यर्थकाद् ऋच् धातोर्निष्पन्न एष ऋक् शब्दः । अत एव ``यदेनमर्चन्ति'' इत्युक्तम् । आदित्यमण्डलस्य सवित्रात्मकस्य सर्व एव तेजसः प्राप्त्यर्थमर्चन्तीति आदित्यमण्डलस्यात्र ऋक्शब्दप्रतिपाद्यत्वम् । आदित्यमण्डलाभिन्न आदित्यमण्डलमध्यवर्ती हिरण्मय परमेश्वर एवाक्षरः, स एव च परमव्योम । तस्मादेव सर्वमोतम् । उक्तं छान्दोग्योपनिषदि - ``य एष अन्तरादित्ये हिरण्मयः पुरुषो दृश्यते (१) '' (१. छा० उ० १.६.६ ।) इति । अस्यां श्रुतावपि आदित्यमध्यवर्ती पुरुष एव परमेश्वर उच्यते । ``अन्तस्तद्धर्मापदेशात् (२) '' (२. वे० सू० १.१.२० ।) सूत्रे आदित्यमण्डलमध्यवर्ती पुरुष एव परमेश्वरत्वेन व्यवस्थितः । मन्त्रस्थदेवशब्देनादित्यरश्मिसमूह एव वर्ण्यते । रश्मिसमूहस्य द्योतमानत्वाद् देवशब्दाभिधेयत्वम् । एष रश्मिसमूहो द्योतमाने अधिनिषण्णो वर्तते । एतदक्षरापरिज्ञानं विना आदित्यमण्डलात्मचर्चा किं भविष्यति ? तन्मध्यवर्तिनः पुरुषस्य यथार्थज्ञानं विना आदित्यज्ञानं न भवितुमर्हति । तज्ज्ञातैव समासते=सम्यग्भावेन स्थितो भवति, अर्थात् स्वस्वरूपे स्थितिं लभते । तेजोमयत्वान्न स पुनरावर्तते । तृतीयव्याख्या -- आत्मवादिनां ``ऋक्'' शब्दस्यार्थो शरीरम् । शरीरस्थानीन्द्रियाणि देवशब्दाभिधेयानि विषयाणां द्योतनाद् देवत्वमुच्यते । द्युत् धातोर्देवशब्दो जायते । शरीरस्थितेन्द्रियग्रामाद् विभिन्नविषयज्ञानात् तद् विषयविषयकविशेषविज्ञानसमूहेऽनुस्यूतो निर्विशेषप्रकाश एवाक्षरपदाभिधेयः । अत एव चिन्मात्रस्वरूपात्मनोऽज्ञाने शरीरेण न किमपि भवितुमर्हति ? ज़िवनसाफल्याय निर्विशेषचिन्मात्राक्षरज्ञानमावश्यकम् । तज्ज्ञानेन च द्रष्टुः स्वरूपमात्रेवस्थितिर्भवति । अत ओङ्कार एव सर्वं सामान्यं ज्योतिषां ज्योतिरिति तदुपासना करणीयेति । मनुस्मृतावप्युक्तम् - ``एकाक्षरं परं ब्रह्म (३)'' (३. मनु० २.८३ ।) टीकायाञ्च एकाक्षरमोङ्कारः परं ब्रह्म, परब्रह्मावाप्तिहेतुत्वात् । अग्रे च--अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः । अक्षरं प्रणवरूपमक्षयं ब्रह्मप्राप्तिहेतुत्वात् । जैनदर्शनेऽपि ``अर्हत्'' इत्यस्य सिद्धस्य अशरीरस्य वा प्रथमाक्षरम् ``अ'' इति आचार्यस्य, प्रथमाक्षरम् ``आ'' इति उपाध्यायस्य, प्रथमाक्षरम् ``उ'' इति मुनेः प्रथमाक्षरं म इति पञ्चभिरक्षरैः ``ॐ'' त्रिलोकाकारः । तस्मादोङ्कारस्य सर्वैरेव दीप्तिरूपत्वमङ्गीकृतमिति । लेखकः - डाॅ० महाप्रभुलाल गोस्वामी, आचार्योऽध्यक्षश्च, तुलनात्मकधर्मदर्शनविभागस्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालये Proofread by Meera Iyer
% Text title            : Onkarasya Darshanikam Svarupam
% File name             : OMkArasyadArshanikaMsvarUpam.itx
% itxtitle              : OMkArasya dArshanikaM svarUpam (lekhaH)
% engtitle              : oNkArasya dArshanikaM svarUpam
% Category              : misc, article
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : mahAprabhulAla gosvAmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Meera Iyer
% Description/comments  : from Sarasvati Sushma 37, Vol. 1-4
% Indexextra            : (Scan)
% Latest update         : November 15, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org