दिनचर्याष्टकम्
॥ श्रीरामसमर्थः ॥
(स्तोत्रनक्षत्रमालान्तर्गतम् । )
शुद्धिश्चित्तस्य चोषो मनुजजनिवशाज्जाग्रती ज्ञानशक्ति-
र्ह्यात्मानात्माऽऽविवेको दिवसकृदुदयोऽरागितैव प्रकाशः ।
त्यक्त्वा सम्पत्सुतोर्विमुखविषयगणं चैव विष्ठां तदानीं
पश्चात्स्नानं च कार्यं चिदहमितिशुभज्ञानगङ्गाजलेन ॥ १॥
सच्चित्सौख्यं त्रिपुण्ड्रं ह्यविरतमननं धारणं भस्मनो वै
सन्ध्याकर्मैव साक्षाद्विरहितमनसा दर्शनं तस्य यत्तु ।
वृत्त्योर्मध्ये सुपूर्णं विमलमविचलं ब्रह्म कल्याणरूपं
स्वानन्दं स्वेनमात्रं सकलहृदिगतं वाङ्मनोतीतमेकम् ॥ २॥
आत्मारामस्य पूजां स्वहृदयकमले प्राज्ञ ! निर्वर्तनीया
पाद्यार्ध्यस्नानमुख्या विविधविधिकला मास्तु सङ्कल्प एव ।
नैवास्ति ब्रह्मणोऽन्यत्त्रिभुवनजठरे सत्पदार्थों द्वितीयो
ह्येतद्वृत्तिप्रवाहो निरवधिरचलः स्वात्मलिङ्गस्य पूजा ॥ ३॥
कर्तव्यो ब्रह्मयज्ञो ह्यविरतमनसा ब्रह्मयाथात्मरूप-
स्तद्वच्छुद्धात्मना वै त्रिविधमिदमहो ! दैवमार्षं च पैत्र्यम् ।
विज्ञानात्माम्बुजालैस्तिलयवसहितैस्तर्पणं चिन्तनं त-
त्यक्त्वा भानं द्वितीयं भवभयरहितं ब्रह्मणः स्वात्मनो वै ॥ ४॥
कृत्वाऽऽदौ वैश्वदेवं नियमितमनसा ज्ञानवह्नौ सुमाया-
भानं ह्यन्नं च हुत्वा तदुपरि विविधं वृत्तिरूपं सुपाकम् ।
आत्मारामं समर्प्य ह्यनुदिवसनिशं भोजनं कार्यमेक्
चातुर्यं भोजनादौ यदि न विलसते तर्हि रोगश्च भूयात् ॥ ५॥
पेयं ज्ञानामृतं सत्सततमविचलं भोज्यमत्यन्तशुद्धं
लेह्यं ब्रह्मैव वस्तु ह्यघटितघटनाद्वैतमायाविशेषम् ।
चोष्यं विश्वात्मकं यत्त्वाविरतमननं भोजनान्ते च तक्रं
सुज्ञो यो वै पिबेत्तद्भवभयरहितो मुक्तिभागेव स स्यात् ॥ ६॥
भुक्त्वा ज्ञानान्नमादौ विमलनरवरैर्ब्रह्मचर्चा सुकार्या
ह्यन्योन्यं स्वानुभूतं निरतिशयसुखं बोधयद्भिर्विशुद्धम् ।
कर्तव्यं स्वेन नित्यं विगलितविषमं स्वात्मनो ध्यानमुच्चै-
``र्ध्याता ध्येयं न किञ्चित्सकलविरहितं ब्रह्म पूर्णं स्वमात्रम्'' ॥ ७॥
शय्या ब्रह्मैव साक्षान्मृदुतमविमला पूर्णसौख्यैकदात्री
कान्ता मुक्तिर्यया वा अविरतरमणात्काम एवातिशान्तः ।
निद्रा ब्रह्मैक्यरूपा ह्यविचलपरमाऽऽनन्दपूर्णा समाधिः
कल्याणं सेवकस्योरुतरभयहरं स्वात्मसाम्राज्यपूर्णम् ॥ ८॥
वाचा चित्तेन केनाप्यखिलमतिकलाशक्तियुक्तेन नो वै
शक्येत ब्रह्म लब्धुं निरतिशयसुखं वृत्तिशून्यं सूपुर्णम् ।
स्वात्मारामं स्वमात्रं सततसुविमलं स्वेन सौख्यानुभाव्यं
स्वस्मिन्सच्चित्सुखाब्धिं विगलितविषमं केवलं वस्तुतन्त्रम् ॥ ९॥
इत्थं यस्यास्ति चर्या प्रतिदिवसमपि ध्यानमुच्चैश्च कुर्व-
न्नात्मानात्माऽऽविवेकी शमदमसुमुखैः साधनैश्चाप्युपेतः ।
शुद्धात्मा ब्रह्म सूक्ष्मं भवभयरहितं ज्ञानिहृत्पद्मसंस्थं
ज्ञात्वा त्वत्रैव पूर्णं निरतिशयसुखी मुक्तिभाङ्ना स भूयात् ॥ १०॥
इति श्रीसमर्थरामदास-कल्याणपदान्वितकल्याणसेवकविरचितं
दिनचर्याष्टकं सम्पूर्णम् ।
Proofread by Brahatha Mohan