बृहद्विष्णुपुराणीय मिथिलामाहात्म्यम्

बृहद्विष्णुपुराणीय मिथिलामाहात्म्यम्

१३

मैत्रेय उवाच - श्रुतन्त्वत्तो मयासर्वं, रहस्यं जानकीपतेः । अयोध्यायाश्च माहात्म्यं, तत्रावासफलन्तथा ॥ १॥ इदानीं श्रोत्रुमिच्छामि, रामन्तत्त्व विवेकिनम् । जानक्यास्तत्व सर्व्वस्वं, यथावेदेषुवर्णितम् ॥ २॥ पराशर उवाच - सीतारामात्मकं सर्वं सर्वकारण कारणम् । अनयोरेकतातत्त्वं गुणतोरूपतोपि च ॥ ३॥ तत्पदं रामइत्युक्तं जानकी भावरूपिणी । तयोरैक्यं भवेत्तत्वमिति वेदविदो विदुः ॥ ४॥ तत्वतो मन्त्रतो वापि रूपतो गुणतोऽपि वा । न पृथग् भावना यस्य स ज्ञेयो भावुकोत्तमः ॥ ५॥ एवमेव मया पृष्ठो वशिष्ठो मांसमादिशत् । यथा तम्पृच्छतः प्राह तत्समासेन मे श‍ृणु ॥ ६॥ रामान्न मैथिली भिन्ना मैथिल्यानरघूत्तमः । द्वयोरैक्यं विजानीयात्तद्वतो नैवरूपतः ॥ ७॥ द्वयोर्न्नित्यं द्विधारूपं तत्त्वतो नित्यमेकता । राममन्त्रे स्थिता सीता सीता मन्त्रे रघूत्तमः ॥ ८॥ यतो वर्णात्मको रामः सीता मात्रात्मिका स्थिता (भवेत)। यद्वा शब्दात्मकोरामः सीता शब्दार्थरूपिणी ॥ ९॥ यद्वा वर्णोभवेत्सीता रामः शब्दार्थ रूपवान् । एवमेव विधानेन यथा सूर्ये प्रभास्थिता ॥ १०॥ रत्ने मौल्यं नृपेकीर्त्तिस्तथारामेस्थितातु सा । जानक्यां राघवोप्येव मद्वैधेन सदास्थितः ॥ ११॥ राममैक्यं द्वयोरेव वेदज्ञैः परिनिष्ठितम् । यथायोध्यापुरी नित्या मिथिलापि तथास्मृता ॥ १२॥ सर्व्वैश्वर्य्य गुणैर्व्वापि नायोध्यातः पृथग्मता । अयोध्यका यथा नित्या सर्व्वमङ्गलरूपिणी ॥ १३॥ तथैव मैथिलाः सर्व्वे सर्व्वमङ्गल विग्रहाः । नित्यभूताः सदाशुद्धाः पुनरावृत्ति वर्जिताः ॥ १४॥ नित्यानन्द रसास्वाद रूपिणो रामपार्षदाः । श्रीरामाराधकानाञ्च निरासार्थम्विशेषतः ॥ १५॥ मिथिला सर्वथा शक्त्या यथायोध्या तथाहिसा । निष्कामानां सकामानां ज्ञानानां ज्ञान शालिनाम् ॥ १६॥ कथञ्चित्तत्र चेद्वास उद्धाराय भवेदलम् । तत्र यात्रा महापुण्या सर्व्वकाम समृद्धिनी ॥ १७॥ एवं रहस्यं तत्वस्य वर्णयन्ति मनीषिणः । द्वयोर्न्नाम द्वयोर्द्धाम द्वयोस्तत्वं द्वयोर्व्रतम् ॥ १८॥ द्वयोराराधनानाञ्च द्वयोः प्रीतिकरंसमम् । इतियेषान्नचेद्भावस्ते नराः पापभागिनः ॥ १९॥ संसारेषु निमज्जन्ते स्वकर्म्म परिवञ्चिताः । वशिष्ठेन समाख्याता त्वत्प्रीत्या वर्णितम्मया ॥ २०॥ सिद्धान्त वीजमपरं श‍ृणुष्वैकमना मुने । सर्व्वाधारं जगन्मूलं सर्व्वकारण कारणम् ॥ २१॥ वेद वेदान्त सिद्धान्तं यत्तत्प्रणव रूपकम् । अनादिमध्य निधनं व्ययदेश्य गुणैः परम् ॥ २२॥ वहिरन्तश्च निःस्यूत मवाङ्मनसगोचरम् । अनादिमध्य निधनं व्ययदेश्यगुणैः परम् ॥ २३॥ निष्कलं निष्प्रतिद्वन्द्वं निर्व्विकारं निरञ्जनम् । सत्तामात्रं परम्ब्रह्म सदसत्परमेव यत् ॥ २४॥ विद्यावन्तो महात्मानः स्वस्वतर्क्कानुसारतः । निरूपयन्ति यत्किञ्चित् स्वस्व ग्रन्थेषु तान्त्रिकम् ॥ २५॥ तद्व्यापकस्यरूपस्य निर्गुणस्यपरात्मनः । प्रभावात्कारणंराम इतिनारद सम्मते ॥ २६॥ तच्छक्तिर्ज्जानकीरूपा तेनाभिन्ना महामुने । सूक्ष्ममज्ञान सर्व्वस्व मितिज्ञात्वाविमुच्यते ॥ २७॥ ज्ञानस्यैएषापराकाष्ठा सर्व्वभावज्ञ सम्मतिः । समाप्तिरत्रग्रन्थानां वाच्यवाचक सम्पदाम् ॥ २८॥ एतावद्वेद सर्व्वस्वमेषावै ब्रह्म सम्मतिः । यदनेन प्रकारेण सीतारामौहृदिन्यसेत् ॥ २९॥ सीतारामौ स्वयं धर्मी सीतारामौ स्वयम्प्रभुः । सीतारामौ जगद्वीजं सीतारामौ स्वयञ्जगत् ॥ ३०॥ सर्वेषां साधकानाञ्च यदर्थम्वै परिश्रमः । लक्षणैर्वहुमिर्लक्ष्यौ सीतारामौगतिः सताम् ॥ ३१॥ ज्ञानस्यैषा पराकाष्ठा विज्ञानस्याश्रयः परः । विज्ञायैता प्रयत्नेन कृतकृत्यो भवेन्नरः ॥ ३२॥ -इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये त्रयोदशोऽध्यायः ।

१४

मैत्रेय उवाच - एतद्रहस्यमतुलं विज्ञानं जानकीपतेः । पुनर्विंस्तरतः किञ्चिच्छ्रोतुमिच्छामितत्वतः ॥ ३३॥ स्वरुपन्नामच व्यक्तं चरित्रञ्चापि विश्रुतम् । केषाञ्चिदपि लोकेस्मिन् केषुशङ्कानविद्यते ॥ ३४॥ परन्त्वयोध्ययातुल्या मिथिलावर्णितात्वया । तस्या विस्तार व्यायाम स्वरूपाणि वदस्वमे ॥ ३५॥ तस्यां यात्रां कथङ्काले कार्य्या सर्वैर्मुमुक्षुभिः । केदेवास्तत्र वैसन्ति, तेषां नामानिमेवद ॥ ३६॥ पराशर उवाच - गङ्गा हिमवतोर्मध्ये नदीपञ्चदशान्तरे । तैरभुक्तिरितिख्यातो देशः परमपावनः ॥ ३७॥ कौशिकी कमलाचैव तथाविण्ववतीमता । यमुनाचेति विख्याता भूयसी गैरिकातथा ॥ ३८॥ जलाधिकाद्वागमती तथाव्याघ्रमतीमता । विरजा गण्डलाचैव तथैवेक्ष्वावतीति च ॥ ३९॥ लक्ष्मणा वाग्मती ख्याता गण्डकीति ततःपरा । इतिपूर्व्वक्रमात्प्रोक्तं नदीनामानि दर्शयन् ॥ ४०॥ अकुक्षिर्वर्त्तिनीचैव जङ्घा जीवापिकातथा । इत्याद्या बहवस्सन्ति नद्योहिमवदुद्भवाः ॥ ४१॥ कौशिकीन्तु समारभ्य गण्डकीमधिगम्यवै । योजनानि चतुर्विंश व्यायामः परिकीर्त्तितः ॥ ४२॥ गङ्गा प्रवाहमारभ्य यावद्धैमवतम्वनम् । विस्तारः षोड़शप्रोक्तो देशस्य कुलनन्दन ॥ ४३॥ मिथिला नामनगरी, तत्रास्तेलोक विश्रुता । पञ्चभिः कारणैः पुण्या, याविख्याता जगत्रये ॥ ४४॥ निमिर्न्नाम महाराज, इक्ष्वाको मुनयोनृपः । तेनतप्तं तपोघोरं येनख्यातन्तपोवनम् ॥ ४५॥ सुवर्णमणिरूपत्वात्पूर्व्वस्मिन्हि तपोवने । सुवर्णकाननन्नाम, तेनख्याति पथङ्गतम् ॥ ४६॥ पुनस्तथैवनगरी निर्म्मिता मिथिलामुने । तत्रजातो मिथिर्न्नाम तेनसा मिथिलाभवेत् ॥ ४७॥ देवरात तपोभूमिः शिवतुष्टिकरीमता । यत्र प्राप्तं धनूरत्नं तेन या साम्मवीवभौ ॥ ४८॥ पुनः सीरध्वजो राजा स्वर्णलाङ्गल पद्धतौ । प्राप्तवां स्तनयायत्र तेनसार्थकरिश्रुता ॥ ४९॥ धनुर्य्यज्ञं कृतम्पूर्व्वं पुत्रार्थ यत्स्वयम्वरे । वित्रोष्टितं धनुर्य्यत्र रामेणाद्भुतकर्म्मणा ॥ ५०॥ एतदर्थम्विशेषेण ब्रह्मरुद्रादि देवताः । समर्चयन्ति यत्नेन, निवसन्ति तरन्ति च ॥ ५१॥ मिथिला तैरभुक्तिश्च वैदेही निमिकाननम् । ज्ञानक्षेत्रं कृपापीठं स्वर्णलाङ्गल पद्धतिः ॥ ५२॥ जानकीजन्मभूमिश्च, निरपेक्षा विकल्मषाः । रामानन्दकरीविश्व, भाविनी नित्यमङ्गला ॥ ५३॥ इतिद्वादश नामानि यः पठेच्छ्रुणुयादपि । सप्राप्नुयाद्राघवश्रेष्ठम्भुक्तिम्मुक्तिञ्च विन्दति ॥ ५४॥ प्रयागादीनि तीर्थानि सन्ति लोकेषु पुण्यदा । परन्तु रामप्राप्त्यर्थं तेषांशक्तिर्न विद्यते ॥ ५५॥ इयं सर्व्व प्रकारेण रामतुष्टिकरी ध्रुवम् । यथा साकेत नगरी जगतः कारण स्फुटम् ॥ ५६॥ तथैवानन्द सर्व्वस्व कारणन्नगरीत्वियम् । महर्षयो महाभागास्त्यक्त्वा सर्व्व परिग्रहम् ॥ ५७॥ निवसन्ति प्रयत्नेन रामाराधन हेतवे । विश्वामित्रस्तु पूर्व्वस्यान्दिशिवासं प्रकल्पयेत् ॥ ५८॥ विभातुके महायोगी दक्षिणे निवसत्यसौ । गौतमस्याश्रमं पुण्यं याम्य पश्चिमकोणके ॥ ५९॥ निवसन्त्युष्टजं कृत्वा वाल्मीकिस्तत्र पश्चिमे । उत्तरे याज्ञवल्क्यस्तु निवासे मितरस्सदा ॥ ६०॥ एवमेव प्रकारेण वसन्त्यन्य महर्षयः । सनदी मातृकोदेशः दुर्भिक्षाभिर्विवर्जितः ॥ ६१॥ धनधान्य समायुक्तो वनागम समन्वितः । प्रसस्त नरनारीक आधिव्याधि विवर्जितः ॥ ६२॥ सदाम्रवन सम्पन्ना नदीतीरेषु संस्थिताः । तीरेषु भुक्ति योगेन तैरभुक्तिरितिस्मृता ॥ ६३॥ हिमालयस्यवासार्थ मुनिभिः परिरञ्जितः । राजानश्च महाभागा ज्ञानविज्ञान दर्शनाः ॥ ६४॥ जीवन्मुक्ता विदेहाश्च, देहवन्तो विकल्मषाः । अनुष्ठितारो यज्ञानां ब्राह्मणा परिपूजकाः ॥ ६५॥ निमिवंश्या ऋषिप्राज्ञा एवन्तत्र महामुने । अन्यत्किंयत्र सावित्री गौरीश्रीदेवशक्तयः ॥ ६६॥ निवसन्ति प्रयत्नेन सर्वसिद्धि प्रदायिकाः । यत्र साक्षात्स्वयं भूमौ सीतासर्व्वेश्वरेश्वरी ॥ ६७॥ आविभूर्ता विशेषेण श्रेष्ठा राघववल्लभा । सर्व्वे देवा महाभागा ऋषयो ब्राह्म्य लौकिकाः ॥ ६८॥ आराधयन्ति यां यत्नात् स्वेष्टायाश्च प्रकाम्यया । यस्याप्रसादतोन्यत्र कल्पकोटिशतैरपि ॥ ६९॥ नप्रीणाति रघुश्रेष्ठस्तपोयोग समाधिभिः । अतस्तीर्थेषु सर्वेषु मिथिला पूज्यतेसदा ॥ ७०॥ मिथिर्येन नमस्यन्ति देशान्तर गताअपि । तेषां भुक्तिश्चमुक्तिश्च जायतेनात्र संशयः ॥ ७१॥ तस्मात्सर्व प्रयत्नेन रामस्याराधनन्नरः । मिथिलायां वसेत्तत्र त्यक्त्वा सर्व परिग्रहम् ॥ ७२॥ -इति श्रीवृहद्विष्णुपुराणे मिथिलामाहात्म्ये चतुर्दशोऽध्यायः ।

१५

मैत्रेय उवाच - यानि लिङ्गानि पुण्यानि, यानि वेदोदितानि च । तत्र सन्ति महाभाग तेषान्नामानि मे वद ॥ ७३॥ पराशर उवाच - शिलानाथाभिधंलिङ्गं तथा वै कपिलेश्वरम् । सर्व्वसिद्धिप्रदं नृणां पूर्वद्वारे प्रतिष्ठितम् ॥ ७४॥ कूपेश्वरं तथाग्नेये लिङ्गं सर्व्वाघ नाशनम् । याम्यां सिद्धिप्रदंलिङ्गं कल्याणेश्वर नामकम् ॥ ७५॥ पूर्वसिद्धिप्रदंलिङ्गं वारुण्याञ्च जलेश्वरम् । सौम्ये जलाधिनाथाख्यं तत्रक्षीरेश्वरम्मतम् ॥ ७६॥ ऐशान्यां त्रिजगत्ख्यातमन्योवै मिथिलेश्वरम् । भैरवाख्यो महादेवो नैऋत्यां ग्रामरक्षकः ॥ ७७॥ एवमादीनि लिङ्गानि नैकशः संस्थितानि च । योगनिद्रा महामाया तथानगरदेवता ॥ ७८॥ गिरिजाद्या महाभागा ख्याताः परमशक्तयः । वहूनि पुण्य ख्यातानि तासां नामानि मे श‍ृणु ॥ ७९॥ पुरन्दरसरः पुण्य ततोदासरथः सरः । भार्गवं मण्डलञ्चाक्षं विड़ालं रुक्मिणीसरः ॥ ८०॥ जनकस्यसरः पुण्यं सुनेत्रायाः सरस्तथा । बलदेव सरस्तद्वत् गोपालश्च सरोवरम् ॥ ८१॥ धनुःक्षेत्रमिति ख्यातं पादप्रच्छालनंसरः । विचित्राऽधूतपापा च तथाचुञ्चुमती तथा ॥ ८२॥ पयस्विनी कुण्डमती विख्याता तिलदीर्घिका । लक्ष्मणाख्या गुणवती तथा विल्ववतीमता ॥ ८३॥ दीर्घिका महतीपुण्या इष्टदा विघ्नहारिणी । मत्स्योदरी व्याघ्रहरी स्थितिदाच्छहारिणी ॥ ८४॥ गोव्रजा चित्रधाराख्या ख्याता पूर्व्ववतातथा । दुर्गया चित्रधारीच तथाखण्डहरी शुभा ॥ ८५॥ पुण्या पाकवती ख्याता तथा नगरदेविका । सनकादिसरः पुण्यो तरणम्मन्मथः सरः ॥ ८६॥ मन्थानं कौशलं चक्रं लोमशं रामसागरम् । सप्तवेधाभिधं तीर्थं ध्रुवं गाड़ुरमेव च ॥ ८७॥ केदार वह्निकुण्डञ्च मध्यमं जानकीसरः । कुम्मादिकं वारुणञ्च तथासारस्वतंसरः ॥ ८८॥ चतुर्द्दीर्घिकमाख्याता तथाकष्टहरंसरः । धात्री सरो विषहरः विख्यातं मुरलीसरः ॥ ८९॥ गङ्गासरसमित्युक्तं अङ्गरागाभिधं सरः । गौतमस्य सरः पुण्यं वशिष्ठस्यसरस्तथा ॥ ९०॥ इत्युक्तंसरसान्नाम कूपनामानिमेश्रुणु । पुण्यं सैरध्वजङ्कूपं शतानन्दस्य कूपकम् ॥ ९१॥ अक्रूरकूपमित्युक्तं कूपसैमनकन्तथा । विद्याकूपं ज्ञानकूपं इतिलोकेषु विश्रुतम् ॥ ९२॥ महाभागवत श्रेष्ठ वर्णिता ये जलाश्रयाः । तेषां स्नानपानेन महापुण्यं फलम्भवेत् ॥ ९३॥ पुण्यातिरेकतोलभ्या मिथिलाजायतेसताम् । तेषां यात्रामहाभाग तत्रकोणेषु सूरिभिः ॥ ९४॥ क्रियते परयाभक्त्या पुराणेषु विनिश्चितम् । मण्डलानां परासश्च मिथिलायां प्रशस्यते ॥ ९५॥ येनकेन प्रकारेण गमनं सर्व्व सिद्धिदम । एकाहम्बात्र्यहम्वासो मासिकं वार्षिकन्तथा ॥ ९६॥ जन्मावधिफलं पुण्यं संसारेऽर्ज्जित पुण्यकम् । अष्टनंसर्व्वतीर्थेषु तत्तदुद्देश्य दैवतम् ॥ ९७॥ स्नानं दानं तपोहोमस्तर्पणं श्राद्धमेव च । द्विजानां भोजनञ्चैव तीर्थसम्पत्ति हेतवे ॥ ९८॥ परिक्रमापि त्रिविधा वृहतीमध्यमालघु । मार्गशीर्षेऽथवामाघे फाल्गुने माधवेपि च ॥ ९९॥ परिक्रमा प्रकर्त्तव्या नदीमारभ्य कौशिकीम् । ब्रह्मचर्य विधानेन हविष्याशी जितेन्द्रियः ॥ १००॥ शुद्ध्यन्ति रामकोभूत्वा भक्तवृन्दैः समन्वितः । सिंहेश्वरं शिवन्नत्वा ध्यात्वादेव रघूत्तमम् ॥ १०१॥ सङ्कल्पमादितः कृत्वा परितः परिप्रक्रमेत् । कौशिकीसङ्गमेस्नात्वा सङ्गमेजाह्नवीतटे ॥ १०२॥ शालग्रामींलभेय्यावत्तावद्वै पश्चिमाम्मुखः । पुनर्हैमवतम्प्राप्तः पुनस्तत्कौशिकीतटे ॥ १०३॥ नत्वाकामेश्वरंलिङ्गं पुनः सिंहेश्वरम्व्रजेत् । समाप्य नियमन्तत्र पुनरायात्स्वमालयम् ॥ १०४॥ मनोवाक्कायजं नित्यं पातकञ्चोपपातकम् । सर्व्वं नश्यत्ययत्नेन सर्वान्कामानवाप्नुयात् ॥ १०५॥ प्रीयन्ते पितरस्तस्य प्रीयन्तेतस्यदेवताः । प्रीयते राघवोरामः स्वशक्त्या सीतयासह ॥ १०६॥ एवंहि वृहतीयात्रा वर्णिता ब्रह्मवादिभिः । तत्राशक्योजनःकश्चित् पुरीमात्रं परिभ्रमेत् ॥ १०७॥ कल्याणेश्वरमारभ्य निविशेद्गिरिजालये । पुनर्जलेश्वरङ्गत्वा पुनःक्षीरेश्वरं व्रजेत् ॥ १०८॥ विश्रम्य च धनुस्थाने पुनः कल्याण पीठके । अपरञ्चक्लृकी प्रोक्ता मिथिलायाः परिक्रमा ॥ १०९॥ प्रलापम्वा विलापम्वा मिथ्याभाषणमेव वा । असद्वार्त्तादिकं सर्व्वं वर्जयेत्साधकोत्तमः ॥ ११०॥ पूर्वोक्त विधिनासम्यक् ब्रह्मचर्य्यव्रतेस्थिताः । रामेनिष्ठा मनोद्गारं मलमूत्राणिचोत्सृजेत् ॥ १११॥ अन्यथाचाचरन् मौर्ख्यान्नरः प्राप्नोति किल्विषम् । प्रयातिवाघमांल्लोकान् रामद्वेषी भवेत्तुसः ॥ ११२॥ तस्माच्छुद्ध तनुश्शान्तो भजन् राममनन्यधीः । परिक्रान्तेल्लभेद्भक्तिं लोकमुक्तिन्तथापरे ॥ ११३॥ मध्यमासा भवेद्यात्रा सर्वाघौघ निवारिणी । तत्राप्यशक्तश्चेत्कश्चित् परिक्रान्तोऽन्तरगृहम् ॥ ११४॥ गङ्गासागरमारभ्य स्नानयात्रां समारभेत् । धनुःक्षेत्रं पुनःस्नात्वा पुरन्दरसरम्व्रजेत् ॥ ११५॥ कौशलेयसरोगत्वा स्नात्वावै जानकीहृदे । वह्निकुण्डं समागत्य मध्यमं कुण्डमाव्रजेत् ॥ ११६॥ रत्नसागरमागत्य कौण्डिल्यस्यसरोव्रजेत् । अङ्गरागाभिधं तीर्थं गत्वावैसाधकोत्तमः ॥ ११७॥ पुनर्लक्ष्मणकुण्डेतु गत्वा सागरसङ्गमे । स्नानादिकं विधायेत्थं लोकपूज्योभवेन्नरः ॥ ११८॥ सर्वसिद्धिमवाप्नोति जनः प्रक्षीण कल्मषः । तन्त्रस्नानं महाभागे प्रायश्चित्तमितः परम् ॥ ११९॥ तत्राप्यंशक्तः कश्चिच्चेद् गत्वा धर्मञ्च तद्वनम् । सहायम्वा यथाशक्तिः कुर्याद्वामार्गशोधनं परिक्रमावताम्पुण्यं सोऽप्यवाप्नोत्य संशयः ॥ १२०॥ -इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये पञ्चदशोऽध्यायः ॥

१६

पराशर उवाच - कौशलेन्द्रःसरः स्नायान्मार्गमासे विशेषतः । मार्गेवै मण्डनं तीर्थं पादप्रच्छालनंसरः ॥ १२१॥ रामलक्ष्मणसीतानां सरांसि फलदानिवै । पौषेऋक्षसरः स्नायात्पूर्णिमायां विशेषतः ॥ १२२॥ पुरन्दर सरोमाघे पञ्चम्यां शोभने शुभः । फाल्गुने पूर्णिमायाञ्च वह्निकुण्डं महाफलम् ॥ १२३॥ ज्येष्ठ शुक्ल दशम्यान्तु गङ्गातीर्थं विशिष्यते । आषाढस्यान्तिमे स्नायाद्दीर्घिकायाम्विशेषतः ॥ १२४॥ श्रावणे बलरामस्य तीर्थे पुण्यमथान्तिमे । भाद्र महर्षिपञ्चम्यां स्नातव्यं भार्गवं सरः ॥ १२५॥ आश्विने मृतकुण्डस्य स्नानं सर्व्वाघ नाशनम् । कार्त्तिकेतु चतुर्द्दश्यां स्नातव्यावै पयश्विनीम् ॥ १२६॥ एवं साम्वत्सरी यात्रा कालेकाले महाफलम् । विशेषेण महाभाग नवम्यां रामजन्मनि ॥ १२७॥ जानकीजन्मवारेवा विवाहे च तथापि वा । सर्वेषां स्नानदानानि महापुण्यप्रदम्फलम् ॥ १२८॥ कौशिकीं माधवे स्नायान्माघेवै कमलान्तथा । दुग्धां विल्ववतीम्मार्गे कार्त्तिके यमुनान्तथा ॥ १२९॥ भूयसीं गैरिकाञ्चैवमाश्विने फलदामता । भाद्र जलाधिकापुण्या ज्येष्ठे व्याघ्रवतीतथा ॥ १३०॥ विरजा श्रावणे पुण्या मण्डला फाल्गुनेतथा । इष्टावती तथापौषे चैत्रेवै लक्ष्मणाशुभा ॥ १३१॥ वाग्मती फाल्गुनेशस्ता गण्डिकी चापि कार्त्तिकी । मलमासे विशेषेण गैरिका फलदायिनी ॥ १३२॥ चन्द्रसूर्य्योपरागेषु सर्वानद्यः शुभावहा । निष्कामानां विशेषेण नियमोनात्रविद्यते ॥ १३३॥ सरांसि पुष्करिण्यश्च मार्गशीर्षे विशेषतः । चैत्रेवा स्नानतः पुण्या नवम्यां माधवेतथा ॥ १३४॥ विशेषेण महाभाग स्नातव्यः पञ्चपर्व्वसु । पुण्यं सर्व्वेषु योगेषु नात्रकार्य्याविचारणा ॥ १३५॥ नवरात्रद्वयोर्मध्ये पूजनीयाः प्रयत्नतः । सर्व्वेगिराधिरासाम्यं फाल्गुने शाम्भवेतिथौ ॥ १३६॥ एवं यात्रा क्रमः प्रोक्तो मिथिलावासिनां मुने । न कालनियमस्तेषां ये प्राप्ता दूरदेशतः ॥ १३७॥ मिथिलावास मासाद्यजीवन्मुक्तो भवेन्नरः । देहान्ते राघवं प्राप्य तद्भक्तैः सहमोदते ॥ १३८॥ स्नानन्दानञ्जपोहोमः देवतार्च्चन वन्दनम् । इष्टगर्त्तादिकंसर्व्वं मिथिलायां महत्फलम् ॥ १३९॥ विशेषेण प्रतिष्ठायाः फलंवक्तुं न शक्यते । निर्माय शौधशिखरं येनसंस्थाप्यतेहरिः ॥ १४०॥ समुक्तः सञ्चितैः पापैः प्रारब्धैश्च विशेषतः । जीवन्मुक्ततमो भूत्वा हरेस्सायुज्यमाप्नुयात् ॥ १४१॥ योयो यांयां तनूभक्तं तदुद्दिश्य च दैवतम् । संस्थाप्य प्रतिमां पुण्यां देवलोकं स गच्छति ॥ १४२॥ सर्व्वसाधनजातेभ्य प्रतिष्ठातु महाफला । मिथिलायां विशेषेण सारन्तु नियतंस्मृतम् ॥ १४३॥ -इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये षोडषोऽध्यायः ।

१७

मैत्रेय उवाच - यएष मिथिलामध्ये पिनाकः परिदृश्यते । तस्यागमः प्रभावोवा यद्यज्जानासि संशमे ॥ १४४॥ पराशर उवाच - सम्यक् पृष्टन्त्वयाब्रह्मन् यदेतच्छाम्भवन्तनुः । तस्यप्रभावो धर्म्मज्ञैः विज्ञात ब्रह्मलौकिकैः ॥ १४५॥ पुराऽसुराणां क्षेमार्थं त्रिपुरञ्च विनिर्म्मितम् । यत्रतैर्द्दानवैर्द्देवा देवलोके पराजिताः ॥ १४६॥ तदा ब्रह्माज्ञया देवैर्विश्वकर्मा प्रचोदितः । विनिर्म्माय धनूरत्नं शङ्कराय निवेदितम् ॥ १४७॥ तेनैव धनुषारुद्रो ददाह त्रिपुरंरुषा । पुनः प्रसन्नोभगवान् देवरातस्य भक्तितः ॥ १४८॥ न्यासभूतमिदन्तत्र स्थापितं ह्यपरन्धनुः । तदा प्रभृतितद्वंशैः पूजितं तद्वरं धनुम् ॥ १४९॥ परम्पराक्रमप्राप्तं जनकस्यमहात्मनः । तेन सम्पूजितं ब्रह्मन् धनुः सर्वाघनाशनम् ॥ १५०॥ तस्यात्मजा समुत्पन्ना जानकी लोकविश्रुता । तस्याः स्वयम्वरे शुक्लं धनुरेतद्विनिश्चितम् ॥ १५१॥ कैश्चिन्न चालितन्तच्च स्थानाद्गुरुतरं धनुम् । महादेव प्रभावाद्य स्वशक्त्या गौरवेण च ॥ १५२॥ कौशिकेन सहायातो रामो दशरथात्मजः । दिदृक्षुश्च पिनाकस्य यज्ञराष्टमुपागमत् ॥ १५३॥ तेन चोत्थापितंसज्जं विकृष्टं गुरुसारवत् । मध्येभग्नं धनुर्भीमं इतिलोकेषुविश्रुतम् ॥ १५४॥ तदेतच्छाम्भवन्दिव्यं विश्वकर्म्मा विनिर्म्मितम् । यथारामेश्वरंलिङ्गं धनुषो दर्शनन्तथा ॥ १५५॥ अतिपातक जातानां साधनं द्वितयम्मतम् । कलौयेन महाभाग कृतायात्रा स्वयम्मुने ॥ १५६॥ अथवातं नमस्यन्ति जीवन्मुक्त तमोहिसः । परलोक भयाद्भीतास्तं नमस्यन्ति येनराः ॥ १५७॥ तेपिपापैर्विमुच्यन्ते प्रयान्ति शुभगाङ्गतिम् । मनुष्य देहमासाद्यये न रामेश्वरङ्गताः ॥ १५८॥ तेपापिष्ठास्तु लोकेऽस्मिन् देवता क्रोशमाजनाः । आलश्य दूरदेशस्था येन यान्ति महामुने ॥ १५९॥ द्रष्ट्रंवैवालुकालिङ्गं सेतुबन्धशिवस्थितम् । प्रायश्चित्तं भवेत्तेषां घोर पापविशोधनम् ॥ १६०॥ मिथिलायां समागम्य येदृष्ट्व शाम्भवन्धनुः । पापापनोदनन्तेषां जायते तस्यदर्शनात् ॥ १६१॥ तस्मात्सर्व्व प्रयत्नेन धनुर्यात्रां समाचरेत् । येनदृष्टं धनुःखण्डं सर्व्व पापापनोदनम् ॥ १६२॥ श्रीरामकरजस्पृष्टं साक्षाद्भुवनपावनम् । प्रत्यक्षं ज्ञापकं श्रेष्ठ धनुर्व्वीर्य्य प्रकाशनम् ॥ १६३॥ आसृष्टि निश्चलन्दिव्यं स्थास्यत्यवनिमण्डले । महावैष्णवसंस्कारैर्महायज्ञ व्रतादिभिः ॥ १६४॥ महापुण्यातिरेकैश्च धनुषोदर्शनम्भवेत् । एतद्रहस्यं सर्व्वस्वं सर्व्व ब्रह्मर्षि सङ्गतम् ॥ १६५॥ पुराणज्ञैश्च निर्णीतं यद्रामाभिमुखो भवेत् ॥ १६६॥ -इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये सप्तदशोऽध्यायः ।

१८

मैत्रेय उवाच - मिथिला निमिवंश्यानां राजधानीतिमेश्रुतम् । साकथम्पुण्यतीर्थेषु गम्यते तद्वदाधुना ॥ १६७॥ पराशर उवाच - हरेराराधनं लोके यत्र यत्र जलेकृतम् । तदेवतीर्थं विज्ञेयं दर्शनात्पुण्यदं नृणाम् ॥ १६८॥ इयन्तु मिथिलापुण्या स्वयं रामस्वरूपिणी । न सापेक्षान्य संस्कारैर्न्नसापेक्षा सुरालयैः ॥ १६९॥ परन्तु मुनिभिः पूर्व्वैः काञ्चनारण्य वासिभिः । हरेराराधनं पुण्यं बहुधातत्रवैकृतम् ॥ १७०॥ वैवस्वत मनोर्व्वंश इक्ष्वाकोस्तनयोनिभिः । गौतमयाजकञ्चात्र यज्ञमत्रैव चाकरोत् ॥ १७१॥ वशिष्ठे नरुषाशप्तो वशिष्ठञ्चापि सोऽशपत् ॥ १७२॥ विदेहत्वन्द्वयोरासीत् पुराणेषुकथास्फुटा । पुनर्न्निमि शरीरस्य मत्थनं मुनिभिः कृतम् ॥ १७३॥ मिथिस्तत्रसमुत्पन्नो मिथिलातेन साभवत् । तदाप्रभृति तद्वंश्यै राजधानी निरूपिता ॥ १७४॥ राजानः स्वमहाभागा दर्शने गृहमेधिनः । परन्तु मुनिभिस्तुल्या तपोयोग समाधिषु ॥ १७५॥ निर्ल्लेपामायिकैर्भोगै पद्मपत्रमिवाम्भसा । ज्ञानविज्ञानसारज्ञा परमानन्दलक्षणा ॥ १७६॥ विशेषतो राजरत्नं जनकोनामनामतः । जानकी यत्रचोत्पन्ना निमिवंश प्रकाशिनी ॥ १७७॥ यस्य भक्तिप्रभावेण रामोदाशरथिः प्रभुः । जामातृत्वं समुत्पन्नो कौतुके फलदप्रदः ॥ १७८॥ तस्येय नगरी पुण्या तेनजाता महाफला । विख्याता जानकीनाम्ना विशेषेणाभवन्मुने ॥ १७९॥ मैत्रेय उवाच - कथं सीता समुत्पन्ना तस्यलाङ्गल पद्धतौ । कस्य पुण्यातिरेकेण तदीया तनया भवत् ॥ १८०॥ पराशर उवाच - जनकानां कुले ब्रह्मन् महर्षि समतेजसाम् । मर्य्यादया समापन्नं सर्व्वलोकेषु विश्रुतम् ॥ १८१॥ ज्ञानविज्ञान सम्पन्नं आधिव्याधिविवर्ज्जितम् । हर्षरोमा विशेषेण लोकेविख्यात पौरुषः ॥ १८२॥ तस्य पुत्रद्वयं चासीज्ज्येष्ठ सीरध्वजोमतः । तद्गुणैः समतांय्यातो द्वितीयस्तु कुशध्वजः ॥ १८३॥ सर्व्वे तद्वंशजाः भूपाः ख्याता जनक नामतः । तेनासौ सर्व्वलोकेषु विख्यातो जनकाभिधः ॥ १८४॥ पितुर्य्युपरते राज्ये स्थापितो जनकाभिधः । ज्येष्ठः सीरध्वजोराजा ग्रन्थानामा करोमहान् ॥ १८५॥ धर्मेण पालयन् राज्यमधर्मात्परिवर्ज्जयन् । सशशाम मिथिर्य्योवै राज्यन्निहतकण्टकम् ॥ १८६॥ स्वयम्प्रादुरभूद्धर्म्माद्रत्नं स्वर्णं खनिङ्गिरौ । धनधान्यवती स्फीता भूमिः कामदुधावभौ ॥ १८७॥ ईज्यते बहुविधैर्य्यज्ञैः देवता तुष्टिकारकैः । ब्राह्मणान्तोषयामास दानसम्मान भक्तिभिः ॥ १८८॥ तस्य शासित धर्म्मेण राज्येनिहतकण्टके । अनावृष्टिः समापन्ना यथासम्पीडिताप्रजाः ॥ १८९॥ महर्षिभिः समादिष्ट मार्गेण मिथिलाधिपः । माधवे धवलेपक्षे नवम्यां यज्ञमारभेत् ॥ १९०॥ स्वर्णलाङ्गलमादाय विचकर्ष महीतलम् । तत्रपुत्रीसमुत्पन्ना तान्तदागृहमानयत् ॥ १९१॥ जानकीतेनवैनाम्नो विख्याता भुवनत्रये ॥ १९२॥ कदाचिन्नारदो योगी तत्रागत्य महामुनिः । सीतेतिनाम्नाचाभाष्य रहस्यं तदुपादिशत् ॥ १९३॥ नारद उवाच - इयम्पुत्रीमहाभागा कुलोद्योतकरीति च । सीतेतिनाम्ना विख्याता भविष्यति जगत्रये ॥ १९४॥ अस्याभर्त्ता प्रभुस्साक्षात्परमात्मा भविष्यति ॥ १९५॥ एतदर्थंहिभवता कर्त्तव्यं यत्नमुत्तमम् । स्वयम्वरे प्रकर्त्तव्यं धनुरुत्थापनम्पणम् ॥ १९६॥ नान्यश्चालयिताचापं प्रभोश्चपुरुषादृते । तस्यसम्बन्धतोराजन् ! सर्व्वान् कामानवाप्स्यसि ॥ १९७॥ इयन्तु तुलयाराजन् चतुर्वर्ग प्रदायिनी । आपन्नानां प्रयत्नानां सर्व्वापद्विनिवारिणी ॥ १९८॥ धन्योसि कृतकृत्योसि लोकवन्द्योसि भूपते । यत्त्वया तनयालब्धा ह्री, श्री, कीर्त्यादिवन्दिता ॥ १९९॥ इत्युपादिश्य राजेन्द्र ब्रह्मलोकं जगामसः । त्वत्प्रीत्या वर्णितं सर्व्वं रहस्यं मिथिलोद्भवम् ॥ २००॥ एतच्चभावयेन्नित्यं श्रुत्वावै हृदिधारयेत् । तस्य तुष्टा भवेत्सीता साक्षाद्राघववल्लभा ॥ २०२॥ -इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये अष्टादशाध्यायः ।

१९

मैत्रेय उवाच- विचित्रमिहमाख्यातं वर्णितं भवतामुने! । वैशाखे जानकीजाता व्रतं तत्र कथं भवेत् ॥ २०२॥ निर्णयस्तस्य कालस्य विधिश्चापिमुनीश्वरैः । यथाविनिर्णितः शास्त्रे सिद्धान्तं तस्यशंसमे ॥ २०३॥ पराशर उवाच- वैशाखस्य सितेपक्षे नवमी मघसंयुता । सैवमध्याह्नयोगेन शस्यते व्रतकर्म्मणि ॥ २०४॥ विविधापि तिथिर्ग्राह्या नवमीशब्दसङ्ग्रहात् । तिथिक्षये तिथेर्वृद्धौ तिथेर्विद्धेथवामुने ॥ २०५॥ मध्याह्नव्यापिनीग्राह्या कर्मकालस्तुशस्यते । परवशस्यतेतद्वै मध्याह्नेचेद्दिनद्वये ॥ २०६॥ दिनद्वयेपितद्व्याप्तौ तदासा गृह्यतेपरा । दशम्यां पारणंशस्तं दशमीं नैवलङ्घयेत् ॥ २०७॥ उपवास क्रमोराम नवम्यांहि यदाचरेत् । पुण्यश्रीसु गृहस्थश्च श्रद्धावांश्च द्विजालये ॥ २०८॥ निर्म्माय मण्डपश्रेष्ठं तत्र पूजनमाचरेत् । सौवर्णीं राजतीञ्चापि प्रतिमां कारयेन्नवीम् ॥ २०९॥ पलैः षोडशभिः कार्य्या दशपञ्चभिरेववा । तावद्भिः कर्षपैर्व्वापि तावन्माषैरथापिवा ॥ २१०॥ वित्तसाठ्यन्नकुर्व्वीत सर्व्वधर्म्म क्रियादिषु । ज्ञानमुद्राधरं ज्ञानं वीरासन समाश्रितम् ॥ २११॥ दिव्यसिंहासनासीनं न्यसेदष्ट दलाश्रये । श्रीराम वामभागस्थां सीतां सर्व्वाङ्गशोभनाम् ॥ २१२॥ नीलपद्मधरान्देवीं कारयेत्साधकोत्तमः । लक्ष्मणं पश्चिमे भागे धृतच्छत्रं सचामरम् ॥ २१३॥ पार्श्वे भरत शत्रुघ्नौ तालवृन्त करावुभौ । आञ्जनेयं तथाचाग्रे एषवै प्रतिमाक्रमः ॥ २१४॥ पूजास्याद्वैष्णवे पीठे वेदिकोपरि संस्थिते । प्राणप्रतिष्ठा मन्त्रैश्चन्यसेत्प्राणान् प्रयत्नतः ॥ २१५॥ संस्कारान् विधिवत्कृत्वा देवमावाह्य पूजयेत् । आसनं स्वागतं पाद्यं अर्घ्यमाचमनीयकम् ॥ २१६॥ गन्धपुष्पन्तथादीपैः धूपनैवेद्यमेव च । ताम्बूलञ्चेतिरामस्य सीतायाश्चापिपूजनम् ॥ २१७॥ यज्ञसूत्रोपचारेतु सीतायैभूषणन्न्यसेत् । सच्छत्रं चामरन्दत्वा लक्ष्मणम्पूजयेततः ॥ २१८॥ गन्धपुष्पं तथाधूपं दीपन्नैवेद्यमेवच । पञ्चाङ्गमेतत्सर्व्वेषां पूजायाएषवैक्रमः ॥ २१९॥ पूजा पुरुष सूक्तैश्र राघवस्यप्रशस्यते । श्रीसूक्तैर्जानकीपूजा कार्य्या सा साधकोत्तमेः ॥ २२०॥ अन्येषां नाममात्रेण चतुर्थ्यन्तेनपूजयेत् । अथवा ब्रह्मगायत्र्या सर्व्वपूजन सिद्धये ॥ २२१॥ एवं होमोऽपि कर्त्तव्यः तर्प्पणस्यैषवैक्रमः । पुनः शङ्खजलं ग्राह्यं अर्घन्दत्वा विचक्षणः ॥ २२२॥ रामभद्र महाभाग रघुवीरनृपोत्तमः । गृहाणार्घं मयादत्तं कृपया रघुनन्दन ॥ २२३॥ उतपन्नासि महाभागे स्वर्णलाङ्गलपद्धतौ । गृहाणार्घ्यं मयादत्तं कृपया मिथिलेशजे ॥ २२४॥ मिथिलाधीश्वरं पार्श्वे जनकं तत्र पूजयेत् । पञ्चाङ्ग पूजनं कृत्वा अर्घ्यन्तस्मैनिवेदयेत् ॥ २२५॥ विदेहाधिपराजेन्द्र मिथिलेश कृपानिधे । गृहाणार्घ्यं मयादत्तं सर्व्वसिद्धिं प्रयच्छ मे ॥ २२६॥ नर्त्तनं गीतवाद्यादि कृत्वा च दिवसन्नयेत् । रात्रावपिमहापूजा कृत्वाजागरणाञ्चरेत् ॥ २२७॥ पारणाहेद्विजायाथ भोजयित्वातुभक्तिभिः । शुचये देवभक्ताय प्रतिमान्तान्निवेदयेत् ॥ २२८॥ अथवा यदिचेद्भक्तिः पूजायां नैष्ठिकीभवेत् । तदातां स्वगृहेस्थाप्यं पूजयेत्प्रत्यहं सुधीः ॥ २२९॥ आचार्य्याय प्रदातव्या दक्षिणाङ्काञ्चनं भुवम् । गां सवत्सान्नवंवस्त्रं रत्नन्धान्यं गृहादिकम् ॥ २३०॥ अथवा शक्तितोदेयं यथातुष्येद्विजोत्तमः । भूयसीं दक्षिणान्दद्यात् स्वस्तिवाचनपूर्वकम् ॥ २३१॥ एवमाराधितोरामः सीतया सहभक्तितः । ददातिपरमान् कामान् सुराणामपिदुर्लभम् ॥ २३२॥ नानेन सदृशम्पुण्यं नानेन सदृशंव्रतम् । रामतोजायते धर्म्मं नानेनसदृशङ्क्वचित् ॥ २३३॥ सुरापी ब्रह्मास्तेयी गुरुपत्नी प्रघर्षकः । शुद्धतामाप्नुयुस्सर्व्वे प्रयान्ति परमाङ्गतिम् ॥ २३४॥ -इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये एकोनविंशोऽध्यायः ।

२०

मैत्रेय उवाच- मिथिलाधिपतेर्व्वेश्म दुर्गाणि परिखास्तथा । अन्तःपुराणि सर्व्वाणि यथाकाराणिवर्णय ॥ २३५॥ पराशर उवाच- दुर्गञ्जनकरायस्य परिखा त्रितयान्विता । नेकशाल समुत्सौधं दुर्ग कुट्टिमसंयुतम् ॥ २३६॥ वणिजामापणैर्युक्तं वीरावासविराजितम् । निमिवंश प्रसूतानां गृहरत्नं सुशोभितम् ॥ २३७॥ तन्मध्ये राजराजस्य स्फटिकं मन्दिरंवरम् । वामेत्वंशे ध्वजावासं गृहरत्नैः समन्वितम् ॥ २३८॥ राजराज गृहोपान्ते गजाश्व भवनानि च । गोपुरं प्राग्भवद्वारं तदन्तर्व्वर्त्तिनीसभा ॥ २३९॥ ऐशान्यां राजते ब्रह्मन् महारत्नौघसङ्कलम् । वायव्येतुगृहारामं नैॠत्येकोश सञ्चयम् ॥ २४०॥ पूर्वे रङ्गावलीम्विद्यादिति वै मन्दिरक्रमम् । मध्येराजालयंश्रेष्ठं तन्मध्ये स्वर्णमण्डपम् ॥ २४१॥ सुवर्ण मण्डपं दृष्ट्वा सर्व्वङ्कालेषु मानवः । सायुज्य फलमाप्नोति रामसान्निध्यमेव च ॥ २४२॥ महापातकिनोलोके पापिष्ठा ये नराधमाः । पशवः पक्षिणः प्रेता येवा ते पापयोनयः ॥ २४३॥ कथञ्चित्तत्र चेज्जातास्तेपियान्ति परराङ्गतिम् । किम्पुनर्य्यान्तियेभक्त्या जानन्तुतत्फलम्मुने ॥ २४४॥ एवमेवविधानेन राजते राजमन्दिरम् । राजालये वशिष्ठस्य ऐशान्यां कल्पपादपम् ॥ २४५॥ एवमादि प्रकारेण दिव्यसम्पत्तिशोभितम् । दुर्गं दुर्गतमं दिव्यं विख्यातं भुवनत्रये ॥ २४६॥ समारभ्य महाभाग पूर्व्वे हरिहरालये । तथा मैत्रेय निर्द्दिष्टं पश्चिमेवाजलेश्वरम् ॥ २४७॥ गिरिजालयमारभ्य यावद्वै धनुषस्थितम् । इतिदुर्गस्यमर्य्यादा मिथिला सा महापुरी ॥ २४८॥ तत्प्रान्त वाटिकामिश्च विविधैश्च जलाशयैः । शोभतेतीरभुक्तिश्च धनधान्य समाकुला ॥ २४९॥ उत्तरे काञ्चनारण्यं महर्षिगण शोभितम् । बहुपुष्प फलोपेतन्द्वितीयमिवनन्दनम् ॥ २५०॥ सरोज वनमाख्यातं सन्तान वनमेव च । मन्दारवनमित्येव सर्व्वतः पुष्पितद्रुमम् ॥ २५१॥ चम्पकारण्यमाख्यात केलिकौतुक काननम् । कुमुदं सुखदम्प्रोक्तं वसन्तारण्यमेव च ॥ २५२॥ स्फटिकं प्रतिमञ्चैव तथानन्दविवर्द्धनम् । श‍ृङ्गार काननञ्चैव उपमान तिरस्कृतम् ॥ २५३॥ सुगन्धिरससम्पन्नं सुगन्धिकुसुमाकरम् । कन्दरं कान्तिकल्लोलं लवङ्गवनमेव च ॥ २५४॥ केतकी वनमित्येव काञ्चनारण्य मध्यमम् । तत्प्रान्ते गिरयः पञ्च तेषां नामानिमेश‍ृणु ॥ २५५॥ कुलाद्रिः पश्चिमेख्यातः स्वर्णाद्रिस्तु तथोत्तरे । कौतुकाद्रिस्तथावामे पूर्व भागे मधुश्रवः ॥ २५६॥ सञ्जीवन गिरिर्मध्ये ख्यातोलोकत्रयेमुने । दुर्गस्य पश्चिमे भागे योजनत्रितयाभिधम् ॥ २५७॥ यज्ञस्थलं नरेन्द्रस्य यत्रलाङ्गलपद्धतौ । समुत्पन्नामहाभागा सीताराघववल्लभा ॥ २५८॥ तद्विशेषफलं लोके सर्व्वकामप्रदायिकाम् । मिथिला सर्व्वतः पुण्या सर्व्वाकारेण शोभिता ॥ २५९॥ तस्यां निवासिनां पुण्यं मयावक्तुं न शक्यते । सद्यो विनाशयेत्पापं मिथिलेतिप्रकीर्तनात् ॥ २६०॥ धन्यास्ते ये प्रयत्नेन निवसन्ति महामुने । विचरेन्मिथिलामध्ये ग्रामेग्रामे विचक्षणः ॥ २६१॥ सखण्डानां विधिरियं वीतरागवतामपि । कपिलेश्वरमारभ्य हरिणाक्षीञ्च पावनीम् ॥ २६२॥ पिप्पलीवनमागत्य पुनः पुष्पहरं व्रजेत् । रूपस्थानं पुनर्गत्वा वर्णस्थानं ततोव्रजेत् ॥ २६३॥ विलावतीं हरित्वेकीं गच्छेत्कूपेश्वरम्पुनः । मिथिलेशपुरं गत्वा वनमामद्रमालयम् ॥ २६४॥ पुनः सिंहेश्वरङ्गत्वा तारवल्लींसपिप्पलीम् । सिंहोलकामथोगत्वा पुनश्चत्रपनायनम् ॥ २६५॥ सिन्दूरेश्वरकङ्गत्वा ततो राजालयंव्रजेत् । सृखेलीं समुपागम्य गच्छेद्विषहरं ततः ॥ २६६॥ मङ्गलां मङ्गलवतीं विरजां पाप हारिणीम् । वलवर्द्धकभाविन्यां जाम्वतीं जीव पुत्रिकाम् ॥ २६७॥ एवंवैमिथिलोपान्ते वसन् ग्रामेष्वनन्यधीः । नयेत्कालं कृपापात्रं विचरन्साधकोत्तमः ॥ २६८॥ सम्पन्नानां विधिरियं मुनीनां वीतरागिणाम् । निवसेदुरजं कृत्वा वाणप्रस्थोऽथवाक्वचित् ॥ २६९॥ -इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये विंशोऽध्यायः ।

२१

पराशर उवाच- इदं समासतः प्रोक्तं तव प्रीत्या मयाधुना । माहात्म्यं मिथिलायाश्च कोपिवक्तुं न शक्यते ॥ २७०॥ रामतुष्टिकरांलोके सर्व्वकामसमृद्धिनीम् । मिथिला सर्व्वतः पुण्या सुराणामपि दुर्लभम् ॥ २७१॥ प्रयागे बहुवर्षाणि काश्यांवा बहुवार्षिकम् । नैमिषेवा कुरुक्षेत्रे जन्मावधिवसेन्नरः ॥ २७२॥ अवन्त्यां विष्णुकाञ्चीञ्च नरनारायणाश्रमे । व्यङ्कटेऽद्रौ महापीठे गङ्गासागर सङ्गमे ॥ २७३॥ मुक्तिक्षेत्रे हरिद्वारे ब्रह्मावर्त्ते गयाशिरे । आजन्म निवसेद्यस्तु परिक्रामे भुवन्तथा ॥ २७४॥ गवां लक्षप्रदाता च शतप्रामप्रदायकः । सुवर्णमेरुदाता च रत्नाकर प्रदायकः ॥ २७५॥ याजकः सर्व्वयज्ञानां स्वाध्याय निरतस्तथा । कुब्जाति कुब्जकर्त्ता च प्राजापत्येनिवर्त्तकः ॥ २७६॥ पाराकादि व्रतैर्युक्तश्चन्द्रायण विवर्त्तकः । तिलाशी च तथैवाह पञ्चगव्येन वर्त्तकः ॥ २७७॥ पत्राहारी जलाहारी निराहारस्तथैव च । दरीशायी गिरौवासी ग्रीष्मेपञ्चाग्नि सेवकः ॥ २७८॥ सएवतिलावासी शिशिरे सलिलेशयः । ऊर्द्ध वाहुर्व्वसंय्यश्च स्थाणुः कामाकुणिस्तथा ॥ २७९॥ ब्रह्मक्षत्रानुवर्त्ती च तत्वज्ञानैकचिन्तकः । यागेष्वभिरतश्चैव देवतार्च्चन तत्परः ॥ २८०॥ पुरश्चर्य्यावतश्चैव हविष्याशी जितेन्द्रियः । निखिलैः साधनैः स्वीयैर्व्वहुजन्म समर्ज्जितैः ॥ २८१॥ महापुण्यातिरेकैश्च ? च भारते । मिथिलाया निवासस्य नराः संय्यान्तियोग्यताम् ॥ २८२॥ य इदं श्रावयेन्नित्यं श्रुत्वानाहृदिधारयेत् । सीतारामौहृदिन्यस्य नत्वा सम्प्राप्नुयाद्ध्रुवम् ॥ २८३॥ प्रीयन्ते पितरस्तस्य प्रीयन्ते तस्यदेवताः । देवानां मान्यतालब्धा सर्व्वान् कामानवाप्नुयात् ॥ २८४॥ -इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये पराशर-मैत्रेयसंवादे एकविंशोऽध्याये मिथिलामाहात्म्यं सम्पूर्णम् ।
% Text title            : Mithila Mahatmyam
% File name             : mithilAmAhAmtyam.itx
% itxtitle              : mithilAmAhAmtyam (bRihadviShNupurANAntargatam)
% engtitle              : mithilAmAhAmtyam
% Category              : misc, tIrthakShetra, sItA
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : sItA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mrityunjay Pandey
% Indexextra            : (Scan, Hindi)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org