प्रियकरः
श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात (श्रुत्वा नामापि यस्य)
दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
(भवति पुनरिदं, चन्द्रकान्तोऽनुकारि, कान्तानुसारि)
तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे
भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कथञ्चित् ॥ (भवति मयि)
(अमरुशतकम् ५८. संस्कृतकवि अमरु)
प्रियकरः प्रियकरौ प्रियकराः प्रथमा ।
प्रियकरं प्रियकरौ प्रियकरां अद्वितीया ॥
तव न जाने न जाने हृदयं मम
पुनः कामो दिवापि रात्रिमपि ।
निर्घृण तपति बलीयस्त्वयि
वृत्तमनोरथाया अङगानि ॥
(शकुन्तला प्रोक्तम्)
(महाकवि कलिदासस्य अभिज्ञानशाकुन्तलम् अंक ३)
प्रियकरः प्रियकरौ प्रियकराः प्रथमा ।
प्रियकरं प्रियकरौ प्रियकरां अद्वितीया ॥
इदमनन्यपरायणमन्यथा, हृदयसन्निहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥
(राजा दुष्यन्तप्रोक्तम्)
(महाकवि कलिदासस्य अभिज्ञानशाकुन्तलं अङ्क ३)
हे प्रिया हे प्रिये हे प्रियाः सुन्दरि ।
श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात
तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे
भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कथञ्चित् ॥
प्रेयसी प्रेयसौ प्रेयस्यः प्रथमा ।
प्रेयसीं प्रेयसौ प्रेयसीः अद्वितीया ॥
प्रियकरः प्रियकरौ प्रियकराः प्रथमा ।
प्रियकरं प्रियकरौ प्रियकरां अद्वितीया ॥
Lyricist: Amaru (Amarushataka) and Kalidas (Shakuntal)
Amarushatakam -
When I hear the name of my dearest one, the hair bristle thickly all over my body; when I see his moon-like face, this my body behaves like the oozing moon-stone ; and when he comes and steps close enough to hold me in a passionate embrace, the thought of sulkiness vanishes from my adamant heart. ( 58 )
https://archive.org/details/amarushataka/page/n107/mode/1up
संस्कृतम् -
यस्य प्रियस्य नाम नामधेयं श्रुत्वा निशम्यापि वपुः यद्यस्मात्कारणात् समन्तात् सर्वतः स्फुटघनपुलकं व्यक्तसान्द्ररोमाञ्चं जायते भबति । किं च यस्याननेन्दुं मुखचन्द्रं दृष्ट्वावलोक्य इदं वपुरेतच्छरीरं चन्द्रकान्तानुकारि चन्द्रकान्तमनुकरोतीति चन्द्रकान्तानुकारि तद्वत् स्विन्नं भवतीत्यर्थः । तस्मात् तस्मिन् प्राणनाथे प्राणेश्वरे आगत्य कण्ठग्रहनिकटपदस्यायिनि सति कण्ठस्य गलस्य ग्रहो ग्रहणमालिङ्गनमित्यर्थः । तस्य निकटपदं समीपस्थानं तत्र तिष्ठतीति स्थायि तस्मिन् कथंचित् केनापि प्रकारेण वज्रमय्या कुलिशसदृश्याः आरोपितकाठिन्यायाः इत्यर्थः । मम पुनर्मानस्य कोपस्य चिन्ता स्मृतिर्भमा विहता भवति कथं मानः क्रियते । पुनः शब्दो वाक्यालंकारे । अल अपराधिनि प्रिये तस्मिन् अवश्यं मानः कर्तव्य इति प्रोत्साहिसा सती आत्मनः असामर्थ्य नायिका कथयतीत्यभिप्रायः । अत्र नायिका स्वीया मध्य च । नायकः शठः । आत्मोपक्षेपरूपं शृङ्गारि नर्म । जातिरलंकारः ।
Shakuntalam -
अन्वय, सरल शब्दार्थ, हिन्दी अनुवाद सम्स्कृतटीका, विवृति
Shakuntala page 201
https://archive.org/details/fqha\_abhigyana-shakuntalam-edited-by-krishna-kant-shastri-1975-kanpur-bharatiya-prakashan/page/२०१/mode/1up
Dushyanta page 207
https://archive.org/details/fqha\_abhigyana-shakuntalam-edited-by-krishna-kant-shastri-1975-kanpur-bharatiya-prakashan/page/२०७/mode/1up