सुप्रभातस्तोत्रम्
स्तुतमपि सुरसङ्घैः सिद्धगन्धर्वयक्षैर्
दिवि भुवि सुविचित्रैः स्तोत्रवाग्भिर्यतीशैः ।
अहमपि कृतशक्तिर्नौमि सम्बुद्धमार्यं
नभसि गरुडयाते किं न यान्ति द्विरेफाः ॥ १॥
क्षपितदुरितपक्षः क्षीणनिःशेषदोषो
द्रवितकनकवर्णः फुल्लपद्मायताक्षः ।
सुरुचिरपरिवेषः सुप्रभामण्डलश्रीः
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ २॥
मदनबलविजेतुः कापथोच्छेदकर्तुस्
त्रिभुवनहितकर्तुः स्त्रीलताजालहर्तुः ।
समसुखफलदातुर्भेत्तुरज्ञानशैलं
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ ३॥
असुरसुरनराणां योऽग्रजन्माग्रदेवः
सकलभुवनधातौ लोकसृष्ट्यैकशब्दः ।
स्वपिति मनुजधाता अब्जयोनिः स्वयम्भूर्
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ ४॥
उदयगिरितटस्थो विद्रुमच्छेदताम्रस्
तिमिरनिकरहन्ता चक्षुरेकं प्रजानाम् ।
रविरपि मदलोलः सर्वथा सोऽपि सुप्तो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ ५॥
द्विरददशनपाण्डुः शीतरश्मिः शशाङ्कस्
तिलक इव रजन्याः सर्वचूडामणिर्यः ।
अविगतमदरागः सर्वथा सोऽपि सुप्तो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ ६॥
प्रबलभुजचतुष्कः षोडशार्धार्धवक्त्रो
जपनियमविधिज्ञः सामवेदप्रवक्ता ।
अमलकमलयोनिः सोऽपि ब्रह्मा प्रसुप्तो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ ७॥
हिमगिरिशिखरस्थः सर्पयज्ञोपवीती
त्रिपुरदहनदक्षो व्याघ्रचर्मोत्तरीयः ।
सह गिरिवरपुत्र्या सोऽपि सुप्तस्त्रिशूली
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ ८॥
ज्वलितकुलिशपाणिर्दुर्जयो दानवानां
सुरपतिरपि शच्या विभ्रमे मूढचेताः ।
अनिशिनिशिप्रसुप्तः कामपङ्के निमग्नो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ ९॥
कुवलयदलनीलः पुण्डरीकायताक्षः
सुररिपुबलहन्ता विश्वकृद्विश्वरूपी ।
हरिरपि चिरसुप्तो गर्भवासैरमुक्तो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ १०॥
कपिलजटकलापो रक्तताम्रारुणाक्षः
पशुपतिरतिकाले सङ्गभङ्गैकदक्षः ।
स्मरशरदलिताङ्गः सोऽपि सुप्तो हुताशो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ ११॥
हुमशशिकुमुदाभो मद्यपानारुणाक्षो
दृढकठिनभुजाङ्गो लाङ्गली शक्तिहस्तः ।
बल इह शयितोऽसौ रेवतीकण्ठलग्नो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ १२॥
गजमुखदशनैकः सर्वतो विघ्नहन्ता
विगलितमदवारिः षट्पदाकीर्णगण्डः ।
गणपतिरपि सुप्तो वारुणीपानमत्तो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ १३॥
अतसिकुसुमनीलो यस्य शक्तिः कराग्रे
नवकमलवपुष्मान् षण्मुखः क्रौञ्चहन्ता ।
त्रिनयनतनयोऽसौ नित्यसुप्तः कुमारो
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ १४॥
अशनवसनहीना भाव्यमाना विरूपा
अलमखिलविघातैः प्रेतवद्दग्धदेहाः ।
उभयगतिविहीनास्तेऽपि नग्नाः प्रसुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ १५॥
ऋषय इह महान्तो वत्सभृग्वङ्गिराद्याः
क्रतुपुलहवसिष्ठा व्यासवाल्मीकिगर्गाः ।
परयुवतिविलासैर्मोहितास्तेऽपि सुप्ताः
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ १६॥
यमवरुणकुबेरा यक्षदैत्योरगेन्द्राः
दिवि भुवि गगने वा लोकपालास्तथान्ये ।
युवतिमदकटाक्षैर्वीङ्क्षितास्तेऽपि सुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ १७॥
भवजलनिधिमग्ना मोहजालावृताङ्गा
मनुकपिलकणादा भ्रामिता मूढचित्ताः ।
समसुखपरिहीना वालिशास्तेऽपि सुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम् ॥ १८॥
अज्ञाननिद्ररजनीतमसि प्रसुप्ता
तृष्णाविशालशयने विषयोपधाने ।
काले शुभाशुभफलं परिकीर्यमाणे
जागर्ति यः सततमेव नमोऽस्तु तस्मै ॥ १९॥
तीर्थेषु गोकुलशतानि पिबन्ति तोयं
तृप्तिं व्रजन्ति न च तत्क्षयमभ्युपैति ।
तद्वन्मुने कविशतैरपि संस्तुतस्य
न क्षीयते गुणनिधिर्गुणसागरस्य ॥ २०॥
सुप्रभातं तवैकस्य ज्ञानोन्मीलितचक्षुषः ।
अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः ॥ २१॥
पुनः प्रभातं पुनरुत्थितो रविः
पुनः शशाङ्कः पुनरेव शर्वरी ।
मृत्युर्जरा जन्म तथैव हे मुने
गतागतं मूढजनो न बुद्ध्यते ॥ २२॥
सुप्रभातं सुनक्षत्रं श्रिया प्रत्यभिनन्दितम् ।
बुद्धं धर्मं च सङ्घं व प्रणमामि दिने दिने ॥ २३॥
स्तुत्वा लोकगुरुं महामुनिवरं सद्धर्मपुण्योद्गमं
निर्द्वन्द्वं हतरागद्वेषतिमिरं शान्तेन्द्रियं निस्पृहम् ।
यत्पुण्यं समुपार्जितं खलु मया तेनैव लोकोऽखिलं
प्रत्यूषस्तुतिहर्षितो दशबले श्रद्धां परां विन्दताम् ॥ २४॥
इति श्रीहर्षदेवभूपतिविरचितं दशबलस्य सुप्रभातस्तोत्रं सम्पूर्णम् ॥