स्वात्मपूजा रत्नपञ्चकम् ५
(रत्नपञ्चके पञ्चमं रत्नम् ।)
सर्वे जानन्ति पूजां विविधविधिकलां ध्यानमावाहनादीन्
पाद्यार्ध्यस्नानगन्धादिकमपि च ततो धूपदीपादिकं च ।
स्तुत्वा त्यक्त्वैव देवं सकलनिगमजं, धातुपाषाणमूर्तिं
संसारे सञ्चरन्ति भ्रमनिरतजना नैव जानन्ति हृत्स्थम् ॥ १॥
ब्रह्मेशानपुरन्दरप्रभृतिभिर्देवैर्जनैर्वन्दितं
स्वस्मिन्स्वेन सदाऽनुभूतमचलं तद्वाङ्मनोऽगोचरम् ।
ध्यातृध्येयविवर्जितं शुभतमं ध्यानं स्वमात्रं परं
पूर्णानन्दमखण्डमच्युतमहं ब्रह्मैव सच्चिद्घनम् ॥ २॥
पूर्णात्पूर्णतरं परात्परतरं प्रत्यक्स्वरूपं स्वयं
ब्रह्मैवास्मि सदेकचिद्धनसुखं शान्तं ह्यजं केवलम् ।
व्याप्तं स्वेन चराचरं त्रिभुवनं किं स्वस्य चावाहनं
कर्तुं कोऽपि कदा कथञ्चिदपि नो कुत्रापि शक्नोति वै ॥ ३॥
नाना नास्ति पदार्थमानमपि तत्सच्चित्सुखं केवलं
मायाकारणकार्यशून्यममलं कालत्रयाबाधितम् ।
देहातीतमचञ्चलं पदमहं दिद्गेशभेदो न मे
तस्मादत्र न मह्यमासनविधिर्ब्रह्मैव पूर्णं जगत् ॥ ४॥
पादो नास्ति शरीरशून्यमचलं कल्याणवस्तु स्वयं
चापः सन्ति न भूतरूपमखिलं किञ्चिन्मयि ब्रह्मणि ।
पाद्यं कुत्र समर्प्यतां न हि जलं सङ्कल्पको नास्ति वै
नित्याप्तं परमं पदं निरुपमं पूर्णं परं धाम मे ॥ ५॥
अन्तर्बाह्यविशेषभेदरहितं स्वस्मिन्स्वमात्रं न्वहं
हस्तो नैव च देहभावरहितत्त्वाद्ब्रह्म यस्मात्स्वयम् ।
अर्घ्यं केन कथं च वारिरहितं सङ्कल्पनीयं मनोऽ-
भावाद्ब्रह्म सदद्वितीयपरमानन्दैकसंराडहम् ॥ ६॥
गङ्गा नैव सरस्वती च यमुना कृष्णा न गोदावरी
कावेरी च घटप्रभा न सरयू तुङ्गा तथा नर्मदा ।
सिन्धुर्नैव समुद्र एव न मथि ब्रह्मार्णवे केवले
पूर्णानन्दमये स्वरूपविमले स्नानस्य कोऽयं विधिः ! ॥ ७॥
ब्रह्मैकावरणस्य नाम्बरमहो ! नामाम्बरस्यापि मे
सूत्रं, केवलमेव वस्तु ततमाकाशे पदार्थादिके ।
गन्धो मायिकभेदगन्धरहितं तद्वासनावर्जितम्
सच्चिन्मात्रमनन्तमव्ययपदं ब्रह्मैव भूमा स्वयम् ॥ ८॥
ब्रह्मात्मैक्यरविप्रकाशकिरणैर्हृत्पद्ममुल्हासितं
स्वात्मानन्दसुगन्धलक्ष्म्यनुभवाद्दुर्द्वैतगन्धोगतः ।
नित्यं शुद्धमजं ह्युपाधिरहितं निर्वाणमेकं स्वयं
मय्यात्मन्यचले च केवलमजे पुष्पस्य का कल्पना ! ॥ ९॥
काश्मीरोद्भवगन्धवस्तुबहुलं श्रीचन्दनं चागरुं
मिश्रीकृत्य सुगन्धिधूपममलं कार्पासदीपं वृथा ।
मायामोहमनोमलादिरहिते चाद्वैतसूर्योदये
धूपं दीपमसङ्गवस्तुनि शुभात्मन्येव तस्मात्कथं ! ॥ १०॥
भक्ष्यं भोज्यमनेकमिश्रितपयो लेह्यं च देवाय मे
नैवेद्यं सुनिवेदयन्ति नयने धृत्वाऽथवानासिकाम् ।
त्रैलोक्यं सकलं मया सुगिलितं ब्रह्मात्मना संस्थितः
सच्चिध्द्येकरसोऽमृतोऽहममलो नैवेद्यमस्मान्नु किम् ॥ ११॥
ताम्बूलस्य तु चर्वणं सकलधीर्ब्रह्माहमस्मीति वै
पूर्णा भूरपि काञ्चनेन किमु सा ब्रह्मात्मने दक्षिणा ! ।
निर्वाणं परिपूर्णमेकमचलं किं तत्फलं दीयते
ह्यानन्दामृतवारिधौ किमपि नो ``ब्रह्मास्मि'' वृत्तिर्न हि ॥ १२॥
नैश्चल्ये निरुपाधिके निरुपमे निर्नाम्नि नित्ये निजे
स्वानन्दे किमपि प्रदक्षिणविधिर्नैवास्ति सत्यात्मनि ।
मौनं स्तोत्रमखण्डपूर्णसहजावस्थैव भक्तिः शुभा
कल्याणी मनसो हतिर्ननु नतिर्मे स्वात्मपूजाकृते ॥ १३॥
किं ग्राह्यं च विसर्जनं किमपि न ह्यद्वैतमात्रे परे
प्रज्ञाने परमे पुरातनपदे साक्षान्मयि स्वात्मनि ।
प्रत्यक्पूर्णरसेऽपरोक्षविमले विज्ञानविश्वाधिके
शान्तानन्दसदोज्वलामृतघने कल्याणसत्सेवके ॥ १४॥
इत्थं यः स्वात्मपूजां निरवधिविमलां सौख्यदात्रीं करोति
द्वैताद्भीतिर्न किञ्चिज्जननमरणजा शोकमोहौ न तस्य ।
कालस्थानाद्यपेक्षा किमपि न शुचिता स्वात्मशुद्धिस्तु मुख्या
कल्याणार्थं स्वपूजा विमलनरवरैरेव कार्या हृदब्जे ॥ १५॥
इति श्रीसमर्थरामदास-कल्याणपदान्वित-
कल्याणसेवकप्रणीत रत्नपञ्चके स्वात्मपूजानाम पञ्चमं रत्नं सम्पूर्णम् ।
इति रत्नपञ्चकम् ।
॥ ॐ तत्सत् ॥
Proofread by Brahatha Mohan