यशोदायै राधाकृतं उपदेशवर्णनम्

यशोदायै राधाकृतं उपदेशवर्णनम्

यशोदे च प्रयत्नेन स्वात्मनः पुत्रमीश्वरम् । राम नारायणानन्त मुकुन्द मधुसूदन ॥ १६॥ कृष्ण केशव कंसारे हरे वैकुण्ठ वामन । इत्येकादश नामानि पठेद्वा पाठयेदिति ॥ १७॥ जन्मकोटिसहस्राणां पातकादेव मुच्यते । राशब्दो विश्ववचनो मश्चापीश्वरवाचकः ॥ १८॥ विश्वानामीश्वरो यो हि तेन रामः प्रकीर्तितः । रमते रमया सार्धं तेन रामं विदुर्बुधाः ॥ १९॥ रमाया रमणस्थानं रामं रामविदो विदुः । राश्चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः ॥ २०॥ लक्ष्मीपतिं गतिं रामं प्रवदन्ति मनीषिणः । नाम्नां सहस्रं दिव्यानां स्मरणे यत्फलं लभेत् ॥ २१॥ तत्फलं लभते नूनं रामोच्चारणमात्रतः । सारूप्यमुक्तिवचनो सारेति च विदुर्बुधाः ॥ २२॥ यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः । नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम् ॥ २३॥ यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः । सकृन्नारायणेत्युक्त्वा पुमान्कल्पशतत्रयम् ॥ २४॥ गङ्गादिसर्वतीर्थेषु स्नातो भवति निश्चितम् । नारं च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम् ॥ २५॥ तयोर्ज्ञानं भवेद्यस्मात्सोऽयं नारायणः प्रभुः । नास्त्यन्तो यस्य वेदेषु पुराणेषु चतुर्षु च ॥ २६॥ शास्त्रेष्वन्येषु योगेषु तेनानन्तं विदुर्बुधाः । मुकुमध्ययमानं च निर्वाणं मोक्षवाचकम् ॥ २७॥ तद्ददाति च यो देवो मृकुन्दस्तेन कीर्तितः । मुकुं भक्तिरसप्रेमवचनं वेदसम्मतम् ॥ २८॥ यस्तं ददाति भक्तेभ्यो मुकन्दस्तेन कीर्तितः । सूदनं मधुदैत्यस्य यस्मात्स मधुसूदनः ॥ २९॥ इति सन्तो वदन्तीशं वेदे भिन्नार्थमीप्सितम् । मधु क्लीबं च माध्वीके कृतकर्मशुभाशुभे ॥ ३०॥ भक्तानां कर्मणां चैव सूदनं मधुसूदनः । परिणामाशुभं कर्मं भ्रान्तानां मधुरं मधु ॥ ३१॥ करोति सूदनं यो हि स एव मधुसूदनः । कृषिरुत्कृष्टवचनो णश्च सद्भक्तिवाचकः ॥ ३२॥ अश्चापि दातृवचनः कृष्णं तेन विदुर्बुधाः । कृषिश्च परमानन्दे णश्च तद्दास्यकर्मणि ॥ ३३॥ तयोर्दाता च यो देवस्तेन कृष्णः प्रकीर्तितः । कोटिजन्मार्जिते पापे कृषिःक्लेशे च वर्तते ॥ ३४॥ भक्तानां णश्च निर्वाणे तेन कृष्णः प्रकीर्तितः । नाम्नां सहस्रं दिव्यानां त्रिरावृत्त्या चयत्फलम् ॥ ३५॥ एकावृत्त्या तु कृष्णस्य तत्फलं लभते नरः । कृष्णनाम्नः परं नाम न भूतं न भविष्यति ॥ ३६॥ सर्वेभ्यश्च परं नाम कृष्णेति वैदिका विदुः । कृष्ण कृष्णोति हे गोपि यस्तं स्मरति नित्यशः ॥ ३७॥ जलं भित्त्वा यथा पद्मं नरकादुद्धरेच्च सः । कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ॥ ३८॥ भस्मीभवन्ति सद्यस्तु महापातककोटयः । अश्वमेधसहस्रेभ्यः फलं कृष्णजपस्य च ॥ ३९॥ वरं तेभ्यः पुनर्जन्म नातो भक्तपुनर्भवः । सर्वेषामपि यज्ञानां लक्षाणि च व्रतानि च ॥ ४०॥ तीर्थस्नानानि सर्वाणि तपांस्यनशनानि च । वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम् ॥ ४१॥ कृष्णनामजपस्यास्य कलां नार्हन्ति षोडशीम् । तेषां लोभाद्भवेत्स्वर्गफलं च सुचिरं नृणाम् ॥ ४२॥ स्वर्गादवश्यं पुंसश्च जपकर्तुर्हरेः पदम् । के जले सर्वदेहेऽपि शयनं यस्य चाऽऽत्मनः ॥ ४३॥ वदन्ति वैदिकाः सर्वे तं देवं केशवं परम् । कंसश्च पातके विघ्ने रोगे शोके च दानवे ॥ ४४॥ तेषामरिर्निहन्ता च स कंसारिः प्रकीर्तितः । रुद्ररूपेण संहर्ता विश्वानामपि नित्यशः ॥ ४५॥ भक्तानां पातकानां च हरिस्तेन प्रकीर्तितः । मा च ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी ॥ ४६॥ नारायणीति विख्याता विष्णुमाया सनातनी । महालक्ष्मीस्वरूपा च वेदमाता सरस्वती राधा वसुन्धरा गङ्गा तासां स्वामी च माधवः ॥ ४७॥ ब्रह्मेशशेषादिभवैश्च वन्द्यं ध्यानैर्न किञ्चित्सनकादिभिश्च । वेदैः पुराणैर्न निरूपितं च भजस्व भक्त्या नवनीतचोरम् ॥ ४८॥ क्व चापि दुग्धं क्व दधिर्घृतं वा नवोद्धृतं वा क्व च तक्रमीप्सितम् । तेषां क्व चोरो भवति क्व चापि क्व बन्धनं ते भवमूलमध्ये ॥ ४९॥ न योगिभिः सिद्धगणैर्मुनीन्द्रैर्न भक्तसङ्घैर्भवपद्मशेषैः । योगैर्न बद्धो न हि रक्षितुं क्षमैः कथं स वद्धस्तव मूलमध्यतः ॥ ५०॥ प्रेम्णा नु भक्त्या स्तवनेन पूजया भजस्व पुत्रं तरसा च भारते । हृत्पद्ममध्ये स्थितमीश्वरं परं ध्यानेन यत्नेन च सन्ततं सति ॥ ५१॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे उत्तरे एकादशाधिकशाततमाध्यायान्तर्गतं यशोदायै राधाकृतं उपदेशवर्णनं समाप्तम् । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, उत्तरभाग । अध्याय १११/१६-४८॥ brahmavaivartapurANa . shrIkRRiShNajanma, uttarabhAga . adhyAya 111/16-48.. Proofread by PSA Easwaran
% Text title            : Yashodayai Radhakritam Upadeshavarnanam
% File name             : yashodAyairAdhAkRRitaMupadeshavarNanam.itx
% itxtitle              : upadeshavarNanam (yashodAyairAdhAkRitaM brahmavaivartapurANAntargatam)
% engtitle              : yashodAyairAdhAkRRitaM upadeshavarNanam
% Category              : misc, brahmavaivartapurANa, upadesha, advice
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | shrIkRRiShNajanma, uttarabhAga | adhyAya 111/16-48||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 29, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org