न्यासतिलकम्

न्यासतिलकम्

श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दम्पती जगतां पती ॥ १॥ प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् । हस्तः श्रीरङ्गभर्तुर्मामव्यादभय मुद्रितः ॥ २॥ अनादेर्निःसीम्नो दुरितजलधेर्यन्निरूपमं विदुः प्रायश्चित्तं यदुरघुधुरीणाशयविदः । तदारम्भे तस्या गिरमवदधानेन मनसा प्रपद्ये तामेकां श्रियमखिलनाथस्य महिषीम् ॥ ३॥ महेन्द्राग्नाविष्णुप्रभृतिषु महत्त्वप्रभृतिवत् प्रपत्तव्ये तत्त्वे परिणमितवैशिष्ट्यविभवाम् । अधृष्यत्वं धूत्वा कमितुरभिगम्यत्वजननीं श्रियं शीतापाङ्गामहमशरणो यामि शरणम् ॥ ४॥ स्वतःसिद्ध श्रीमानमितगुणभूमा करुणया विधाय ब्रह्मादीन्वितरति निजादेशमपि यः । प्रपत्त्या साक्षाद्वा भजन शिरसा वाऽपि सुलभं मुमुक्षुर्देवेशं तमहमधिगच्छामि शरणम् ॥ ५॥ वृन्दानि यः स्ववशयन्व्रजसुन्दरीणाम् वृन्दावनान्तरभुवां सुलभो बभूव । श्रीमानशेषजनसङ्ग्रहणाय शेते रङ्गे भुजङ्गशयने स महाभुजङ्गः ॥ ६॥ रङ्गास्तीर्णभुजङ्गपुङ्गववपुःपर्यङ्कवर्यं गतौ सर्गस्थित्यवसानकेलिरसिकौ तौ दम्पती नः पती । नाभीपङ्कजशायिनः श्रुतिसुखैरन्योन्यबद्धस्मितौ डिम्भस्याम्बुजसम्भवस्य वचनैरोन्तत्सदित्यादिभिः ॥ ७॥ घनकरुणारसौघभरितां परितापहरां नयनमहश्छटां मयि तरङ्गय रङ्गपते । दुरितहुताशनस्फुरितदुर्दमदुःख मषी- मलिनितविश्वसौधदुरपह्नववर्णसुधाम् ॥ ८॥ दुर्मोचोद्भटकर्मकोटिनिबिडोऽप्यादेशवश्यः कृतः बाह्मैर्नैव विमोहितोऽस्मि कुद्दशां पक्षैर्न विक्षोभितः । यो माहानसिको महान्यतिपतेर्नीतश्च तत्पौत्रजान् आचार्यानिति रङ्गधुर्य मयि ते स्वल्पावशिष्टो भरः ॥ ९॥ आर्तेष्वाशुफला तदन्यविषयेऽप्युच्छिन्नदेहान्तरा वह्न्यादेरनपेक्षणात्तनुभृतां सत्यादिवद्व्यापिनी । श्रीरङ्गेश्वर यावदात्मनियतत्वत्पारतन्त्रयोचिता त्वय्येव त्वदुपायधीरपिहितस्वोपायभावाऽस्तु मे ॥ १०॥ त्वय्याचार्यैविनिहितभरास्तावका रङ्गनाथ त्वत्कैङ्गर्यप्रवणमनसस्त्वद्गुणास्वादमत्ताः । त्वय्येकस्मिन्नपि विजहतो मुक्तवत्साधनत्वं त्वच्छेषत्वस्वरसरसिकाः सूरयो मे स्वदन्ताम् ॥ ११॥ कल्पस्तोमेऽप्यपास्तत्वदितरगतयोऽशक्तिधीभक्तीभूम्ना रङ्गेश प्रातिकूल्यक्षरणपरिणमन्निर्विघातानुकूल्याः । त्रातारं त्वामभेद्याच्छरणवरणतो नाथ निर्विघ्नयन्तः त्वन्निक्षिप्तात्मरक्षां प्रति रभसजुषः स्वप्रवृत्तिं त्यजन्ति ॥ १२॥ त्यक्तोपायव्यपायांस्तदुभयकरणे सत्रपान्सानुतापान् भूयोऽपि त्वत्प्रपत्त्या प्रशमितकलुषान्हन्त सर्वंसहस्त्वम् । रङ्गिन् न्यासान्तरङ्गाखिलजनहिततागोचरत्वन्निदेश- प्रीतिप्राप्तस्ववर्णाश्रमशुभचरितान्पासि धन्याननन्यान् ॥ १३॥ शोकास्पदांशमथनः श्रयतां भवाब्धौ रागास्पदांशसहजं न रुणत्सि दुःखम् । नो चेदमी जगति रङ्गधुरीण भूयः क्षोदिष्ठभोगरसिकास्तव न स्मरेयुः ॥ १४॥ हेतुवैधे विमर्शे भजनवदितरत् किं त्वनुष्टानकाले वेद्यत्वद्रूपभेदो विविध इह स तूपायान्यनपेक्षा । रङ्गिन्प्रारब्धभङ्गात्फलमधिकमनावृत्तिरुक्तेष्टिवन्स्यात् नाना शब्दादिभेदात्प्रपदनभजने सूचिते सूत्रकारैः ॥ १५॥ भक्तौ रङ्गपते यथा खलु पशुच्छागादिवत्वेदन- ध्यानोपासनदर्शनादिवचसामिच्छन्त्यभिन्नार्थताम् । व्यक्त्यैक्याच्छरणागतिप्रपदनत्यागात्मनिक्षेपण- न्यासाद्येषु तथैव तन्त्रनिपुणैः पर्यायता स्मर्यते ॥ १६॥ विश्वासायासभूम्नोर्न्यसनभजनयोर्गौरवे को विशेषः तत्सद्भावेऽपि धर्मान्तर इव घटते कर्तृभेदाद्विकल्पः । तद्भेदो रङ्गशायिन्ननितरगतिताद्युत्थशोकातिरेकात् सद्विद्यादौ विकल्पस्त्वभिमतिभिदया तेन तत्रैकराश्यम् ॥ १७॥ ध्रृवमधिकृतिभेदाद्कर्मवत्रङ्गशायिन् फलति फलमनेकं त्वत्पदे भक्तिरेका । शरणवरणवाणी सर्वहेतुस्तथाऽसौ कृपणभजननिष्ठा बुद्धिदौर्बल्यकाष्ठा ॥ १८॥ कर्तव्यं सकृदेव हन्त कलुषं सर्वं ततो नश्यति ब्रह्मेशादिसुदुर्लभं पदमपि प्राप्यं मया द्रागिति । विश्वासप्रतिबन्धिचिन्तनमिदं पर्यस्यति न्यस्यतां रङ्गाधीश रमापतित्वसुभगं नारायणत्वं तव ॥ १९॥ धीकर्मभक्तिरहितस्य कदाऽप्यशक्त्या रङ्गेश भावकलुषप्रणतिद्वयोक्तेः । मन्ये बलं प्रबलदुष्कृतशालिनो मे त्वन्मूलदेशिककटाक्षनिपातमाद्यम् ॥ २०॥ अन्धोऽनन्धग्रहणवशगो याति रङ्गेश यद्वत् पङ्गुर्नौकाकुहरनिहितो नीयते नाविकेन । भुङ्क्ते भोगानविदितनृपः सेवकस्यार्भकादिः त्वत्सम्प्राप्तौ प्रभवति तथा देशिको मे दयाळुः ॥ २१॥ उक्त्या धनञ्जयविभीषणलक्ष्यया ते प्रत्याय्य लक्ष्मणमुनेर्भवता वितीर्णम् । श्रुत्वा वरं तदनुबन्धमदावलिप्ते नित्यं प्रसीद भगवन्मयि रङ्गनाथ ॥ २२॥ सकृदपि विनतानां सर्वदे सर्वदेहिनि उपनिषदभिधेये भागधेये विधेये । विरमति न कदाचिन्मोहतो हा हतोऽहं विषमविषयचिन्तामेदुरा मे दुराशा ॥ २३॥ यावज्जीवं जगति नियतं देहयात्रा भवित्री त्यक्ताः सर्वे त्रिचतुरदिनग्लानभोगा नभोगाः । दत्ते रङ्गी निजमपि पदं देशिकादेशकाङ्क्षी किं ते चिन्ते परमभिमतं खिद्यसे यत् पुनस्त्व्म् ॥ २४॥ अपि मुहुरपराधैरप्रकम्प्यानुकम्पे वहति महति योग क्षेम वृन्दं मुकुन्दे । मदकलुषमनीषावज्रलेपावलेपान् अणुगुणयितुमीहे न प्रभूनप्रभूतान् ॥ २५॥ मातर्भारति मुञ्च मानुषचटून्हे देह लब्धैरलं लुब्धद्वारदुरासिकापरिभवैस्तोषं जुषेथा मनः । वाचः सीमनि रङ्गधामनि महानन्दोन्नमद्भूमनि स्वामिन्यात्मनि वेङ्गटेश्वरकवेः स्वेनार्पितोऽयं भरः ॥ २६॥ दास्यं लास्यवताऽनुमत्य मनसा रङ्गेश्वर त्वत्पदे नित्यं किङ्करवाण्यहं न तु पुनः कुर्यां कदर्याश्रयाम् । मीलच्चक्षुषि वेल्लितभ्रुणि मुहुर्दत्तावमानाक्षरे भीमे कस्यचिदाढ्यकस्य वदने भिक्षाविलक्षां द्दशम् ॥ २७॥ त्वय्येकाञ्चलिकिङ्करे तनुभृतां निर्व्याजसर्वंसहे कल्याणात्मनि रङ्गनाथ कमलाकान्ते मुकुन्दे स्थिते । स्वामिन्पाहि दयस्व देव कुशलिन्जीव प्रभो भावयेति आलापानवलेपिषु प्रलपितुं जिह्रेति जिह्वा मम ॥ २८॥ त्वयि सति रङ्गधुर्य शरणागतकामदुधे निरुपधिकप्रवाहकरुणापरिणाहवति । परिमितदेशकालफलदान्फलदाकृतिकान् कथमधिकुर्महे विधिशिवप्रमुखानमुखान् ॥ २९॥ ओमित्यभ्युपगम्य रङ्गनृपतेऽनन्योचितां शेषतां स्वातन्त्र्यादिमयीमपोह्य महतीमाद्यामविद्यास्थितिम् । नित्यासङ्ख्यविसीमभूतिगुणयोर्यायामनायासतः सेवासम्पदमिन्दिरेश युवयोरैकान्तिकात्यन्तिकीम् ॥ ३०॥ आचार्याद्रङ्गधुर्य द्वयसमधिगमे लब्धसत्तं तदात्वे विश्लिष्टाश्लिष्टपूर्वोत्तरदुरितभरं यापितारब्धदेहम् । नीतं त्वत्कैस्त्वया वा निरवधिकदयोद्भूतबोधादिरूपं त्वद्भोगैकस्वभोगं दयितमनुचरं त्वत्कृते मां कुरुष्व ॥ ३१॥ विधानां रङ्गेशादधिगतवतो वेङ्गटकवेः स्फुरद्वर्णं वक्त्रे परिकलयतां न्यासतिलकम् । इहामुत्राप्येष प्रणतजनचिन्तामणिगिरिः स्वपर्यङ्के सेवां दिशति फणिपर्यङ्करसिकः ॥ ३२॥ इति वेदान्तदेशिकविरचितं न्यासतिलकं सम्पूर्णम् । nyAsa tilakam (864 to 895) This and the following two stotras deal with nyAsa or zaraNAgati and are supplementary and complementary to zaraNAgati dIpikA ante. nyAsa tilakam, the name given by the author to it shows the importance that he himself attached to this work. (tilakam--prominent jewel or other article beautifying a person.) It consists of 32 shlokas couched in various metres from anuShTubh with eight syllables in a quarter to sragdharA [twenty-one to a quarter]. The Deity in whose praise this Stotra has been sung is Lord ra~NganAtha of shrIrangam at whose Feet AchArya rAmAnuja performed prapatti in zaraNAgati gadyam. shlokas 866 and 867 refer to shrI-prapatti which comes first, shloka 885 makes pointed reference to the special assurances given by Lord ra~NganAtha to rAmAnuja about the certainty of protection to zaraNAgatas. For these and other reasons this stotra has been taken to be an elucidation of that gadya in addition to its being an embellishment thereof in padya [Poetry]. Several doubts that are likely to assail us about the efficacy and potency of prapatti are mentioned, and at once dispelled by cogent and irrefutable data. shloka 882 deals with the obstacles to MahAvizvAsa and how to remove them. In 877 a very intricate problem is very successfully tackled, viz hopes of a glorious life in future held out to one wallowing in misery here. shlokas 883 and 884 stress the value of the blessing of an AchArya as the only panacea for wavering minds, and how an AchArya can procure to us benefits beyond us. Towards the end, this stotra contains more than the usual measure of personal touches and introspective exclaims. The poet addresses his fickle and vacillating mind in shloka 887 and in shloka 889 informs his speech, body and mind that ve~NkaTesha kavi is now a prapanna at the lovely feet of Lord ra~NganAtha and asks them not to play their old pranks with him any longer. The Stotra winds up with a prayer to be made the recipient of the highly coveted title of “Servant of the Lord and His shrI.” The importance of nyAsa tilakam can also be gathered from another fact. This is the only stotra for which svAmI deshika’s son and disciple, kumAra varadAchArya, has furnished a commentary in Sanskrit. Encoded and proofread by Vikram Bhaskaran vikram85.iyer at gmail.com, NA
% Text title            : Nyasa Tilakam
% File name             : nyAsatilakam.itx
% itxtitle              : nyAsatilakam (vedAntadeshikavirachitam)
% engtitle              : nyAsatilakam
% Category              : major_works, vedAnta-deshika, vedanta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : VedAnta Deshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vikram Bhaskaran vikram85.iyer at gmail.com
% Proofread by          : Vikram Bhaskaran vikram85.iyer at gmail.com, NA
% Indexextra            : (Scans 1, 2)
% Latest update         : May 17, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org