उपदेशसारभाष्यम् २ अथवा तत्त्वबोधिनी
महर्षीरमणस्य उपदेशसारस्य
श्रीजगदीश्वरशास्त्रिणा कृता तत्त्वबोधिन्याख्या व्याख्या
सार्वज्ञ्यं सकलाधिपत्यममितं वेदेषु यस्य श्रुतं
यज्जिज्ञास्यतमं मुमुक्षुनिवहैः सर्वज्ञता यत्ज्ञता ।
यज्जीवादि नियामकं जगदिदं यद्वीक्षणात् उद्गतं
यस्य ज्ञानबलक्रियाश्च सहजास्तन्नौमि(णु-स्तुतौ) पूर्णं महः ॥
अन्तर्दृष्टीनपगतमहामोहगाढान्धकारान्
आत्मारामानमलहृदयानात्मविद्योपदेष्टॄन् ।
आबालत्वादरुण-करुणाजाललीलावकृष्टान्
अंहोहत्यै रमणभगवत्पादसंज्ञान् नमामः ॥
रमणभगवद्वक्त्राम्भोजाद्बहिस्स्वयमुद्गतः
श्रुतिगत-महातात्पर्यार्थ-प्रबोध-सुधाकरः ।
अधिगत-महा-मोहव्याधेः जपेन विनाशकः
जयति सकल-श्रेयोदाता निबन्धमहानिधिः ॥
इह खलु जगति सर्वेपि जन्तवो दुखान्ताय यतन्ते । परन्तु न
जानन्ति तदन्तैकान्तकारणं भ्रमन्तस्तत्तत्साधनेषु रमन्त
विविधविषयकान्तारेषु । लोकावगतसाधनैश्च नात्यन्तं दुःखान्तो
भविष्यति । न खलु व्याधिभीतःऔषधं सेवमानः व्याधिना पुनः न
पीड्यते । समूलोन्मूलनं हि पुनरप्ररोहाय भवति ।
अतश्च दुःखस्य किं मूलं इति प्रमाणतोऽवगत्यतन्निरासप्रयतनमेव
साधीयो भवति । न खलु तदुभयं विना शास्त्रप्रमाणं पुरुषबुद्ध्या
शक्यं अधिगन्तुम् । तथा च तदर्थं ``शास्त्रं किमाहेति''
शास्त्रमेव सद्गुरुमुखाच्छ्रोतव्यम् । शास्त्रं च ज्ञानमन्तरा
दुःखमूलसमुन्मूलनं अशक्य सम्पादनं इति समुद्घोषयति । तथा
च श्रुतिः ``यदा चर्मवदाकाशं वेष्टयिष्यन्तिमानवाः । तदा
देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ '' इत्यादि ।
एवं च दुःखस्य मूलं अज्ञानं एव इति निर्णीतं भवति अज्ञानं हि
अदुःखमात्मानं दुःखा करोति । विषयसंसर्गजनितं सुखमपि दुःखकरमेव
विवेकिनःदुःखसम्भिन्नत्वात् । अत एव ईश्वरगीतासु स्मर्यते ।
``ये हि संस्पर्जा भोगाः दुःखयोनयः एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ '' (५.२)
इति तथान्यत्रापि
``यावतः कुरुते जन्तुस्सम्बन्धान् मनसः प्रियान् ।
तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः इति । अज्ञानं हि
सर्वसुखदुःखाद्यनर्थजालनिदानमिति श्रुतिस्मृतीहासन्यायप्रसिद्धं
अज्ञानं च न स्वरूपतोऽनर्थकरमिव भाति । सुषुप्तौ स्वरूपतः सत्त्वे
अपि अनर्थकरत्वादर्शनात् तथापि अध्यास द्वारा तस्य अनर्थकरत्वं
नापलपितुं शक्यते प्रत्यगात्मनि अनात्माऽध्यासो हि सर्वानर्थहेतुः ।
एवं अनात्मनि देहादौ आत्मसंसर्गाध्यासोऽपि । अन्यस्यान्यात्मता अवभासः
एव अध्यासः इति प्राञ्च आचार्याः आचक्षते । स(अध्यासः) च
परीक्षक-पामरसाधारण्येन सर्वलोकप्रसिद्ध एव ।
``पश्वादिभिश्चाविशेषात्'' अत एव
``आत्मख्यातिरसत्ख्यातिः अख्यातिः ख्यातिरन्यथा ।
तथाऽनिर्वचनीयख्यातिः एत्येवं ख्यातिपञ्चकम् ॥
इति ख्यातिः पञ्चधा व्यवह्रीयते । एतेषां परीक्षकाणां
अन्यथाख्यातित्वादिप्रकारविवादेपि परस्य परात्मतावभासलक्षणे अध्यासे न
विवादः । तेन च अध्यासस्य अनिर्वचनीयता अवश्यम्भाविनी । देहेन्द्रियादौ
आत्मानं आत्मधर्मांश्चाध्यस्य खलु सर्वलोकःसुखदुःखादिकं अनुभवति ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।
इत्यादि स्मृतेः । तथा च आत्मनः न सुखदुःखमोहात्मकत्वं पारमार्थिकं
भवितुं अर्हति । अन्यथा तत् सत्यत्वे च अनिर्मोक्षप्रसङ्गात् ।
आत्मा कर्त्रादिरूपश्चेत् मा काङ्क्षीः तर्हि मुक्तताम् ।
न हि स्वभावो भावानां व्यावर्तेत् औष्ण्यवत् रवेः ॥
इति वार्तिकवचनात् ।
अज्ञानपरिकल्पितेन सुखित्वादिना दोषेण आत्मनो न दुष्टत्वं पारमार्थिकं
भवति आत्मनो असङ्गत्वेन ज्ञेयसम्बन्धासम्भवात् । सर्वेषां हि
देहादिषु अनात्मसु आत्मभावो निश्चितोऽज्ञानविजृम्भितः । तत्रैवं
सति कर्तृत्वभोक्तृत्वादिरूपः संसारः सर्वोऽपि दृगात्मनि अविद्यया
अध्यारोपित एवेति । विद्यया सहकार्येण अविद्यायाः नाशः श्रुतिस्मृतिभ्यः
अवगम्यते । श्रुतयः तावत् ।
इह चेद् अवेदीदथ सत्यमस्ति न चेदिहावेदीन्महति विनष्टिः ।
तमेवं विद्वानमृतं इह भवति इत्याद्याः सहस्रशः । एवं च ईश्वरस्य
एव सतः जीवस्य अज्ञान-उपाधिकृत भेदतः संसारीत्वमिव भवति ।
वक्ष्यति च भगवान श्रीरमणः ॥
विग्रहेन्द्रिय प्राणधीतमः नाहमेक सत् तज्जडं ह्यसत्... इत्यादिना
जीवेश्वर भेदस्य औपाधिकत्वम् । वेषहानतः स्वात्मदर्शनम् ।
ईशदर्शनं स्वात्मरूपतः इति । सहेतुकस्य संसारस्य अत्यन्त
उपरमश्च स्वात्म-अभिन्नपरमेश्वर ज्ञानात् एव भवति इति च । अतश्च
भगवान् श्री रमणाचार्यः स्वप्रयोजन अभावेऽपि भूतानुजिघृक्षया
समस्तशास्त्रार्थसारसङ्ग्रहभूतं दुर्विज्ञेयार्थम् त्रिंशत्
श्लोकपरिमितं उपदेशसाराख्यं इमं ग्रन्थं संसारव्यावृत्सुनां
मुमुक्षूणां उपकाराय उपदिदेश । एतस्य च परं निःश्रेयसमेव
संसारोपरमरूपं प्रयोजनं स्वाभिन्नं ब्रह्मैवाभिधेयभूतम् ।
अतः विशिष्टाभिधेयप्रयोजनसम्बन्धवत् इदं शास्त्रं मीमांसनीयम् ।
एतदर्थे विज्ञाते समस्तपुरुषार्थ सिद्धिः स्यात् इति । विवेकतः तदर्थं
तत्त्वबोधनार्थं यथाप्रतिभानं यत्नः क्रियते ।
तत्र वर्णाश्रमांश्च उद्दिश्य विहितः सर्वोऽपि धर्मः
दृष्टादृष्टाभ्युदयार्थोऽपि सन् ईश्वरार्पण बुद्ध्या अनुष्ठीयमानः
सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः । शुद्धसत्त्वस्य
एव ज्ञानप्राप्ति अर्हता सम्पादनद्वारा ज्ञानोत्पत्तिहेतुत्वेन
निःश्रेयसनिदानत्वमपि परम्परया तस्य भवति इति अभिसन्ध्यादौ
श्रीरमणभगवान ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं कर्मयोगं उपदिशति
स्म ।
``ब्रह्मण्याधाय कर्माणि ... योगिनः कर्म कुर्वन्ति सङ्गं
त्यक्त्वात्मशुद्धये इति भगवद्गीतावचनात् ।
अत्रैवं सति दृष्टानुश्रविकविषयसुखकामनया क्रियमाणानां श्रौतानां
स्मार्तानां लौकिकानां वा कृष्यादिनां कर्मणां अतिफल्गुफलत्वेन
आयासबहुलत्वेन च अनादर्तव्यत्वं व्यवस्थापयितु कामः भगवानादौ
फलदातारं ईश्वरं अनङ्गीकुर्वतां साङ्ख्य-पूर्वमीमांसक-चार्वाकादिनां
मतं असङ्गतं इति निरूपयितुं प्रथमं श्लोकं प्रवर्तयति -
कर्तुराज्ञया प्राप्यते फलम् । कर्म किं परं कर्म तज्जडम् ॥ १॥
कर्तुरिति । कर्माध्यक्षस्य सर्वभूताधिवासिनः साक्षिणः
चेतयितुः सर्वकर्तुः ईश्वरस्य आज्ञया (अनुज्ञया)
अनुग्रहेण फलं ईष्टानिष्टमिश्रलक्षणं प्राप्यते लभ्यते
इत्यर्थः प्रत्यगात्मा स्वयं प्रकाशःसन् निरवयवोऽपि
अनिर्वचनीय-अविद्यापरिकल्पित-बुद्धि-मनः-सूक्ष्म-स्थूलशरीर-
इन्द्रियादि-अवच्छेदेन अनवच्छिन्नोऽपि अवच्छिन्निव अकर्ताऽपि कर्तेव ।
अभोक्ता अपि भोक्ता इव । अविषयोऽपि अस्मद्-प्रत्ययो विषयो जीवभावं
आपन्नः अवभासते । अहं प्रत्यये भासमानस्य चिदात्मनः असङ्गस्य
बुद्धि-इन्द्रियादेः कार्यकरण सङ्घातस्य च क्रियाशक्तिः भोक्तृशक्तिः वा
न सम्भवति । जडत्वेन क्रियाकरणभोगशक्ति नैव सम्भवितुं अर्हतः ।
अतश्च कार्यकरणसङ्घात सङ्कलितं चैतन्यमेव क्रियाकरणभोगशक्तिमत्
अहङ्काररूपं जीव इति जन्तुः इति क्षेत्रज्ञ इति च आख्यायते ।
वस्तुतः तु जीवः चिदात्मनः न भिद्यते तथा च श्रुतिः ``अनेन
जीवेन आत्मना अनुप्रविश्य इत्याद्याः । तस्मात् चिदात्माभिन्नस्यापि जीवस्य
अहङ्कारादि-उपाधिसम्बन्धवशात् एव कर्तृत्व कारयितृत्व भोक्तृत्वादि
व्यवहारः । अहम्प्रत्यय आलम्बनत्वं च अभ्युपगम्यते इति व्यवहाराख्य
भेदावस्थायां इयं चिन्ता भगवता महर्षिणा प्रथमं प्रस्तूयते इति
अवगन्तव्यं अन्यथा ``ईशजीवयोः वेषधीभिदा । सत्स्वभावतो वस्तु
केवलम्'' । इत्यादि उपरितन श्लोकानां असाङ्गत्यापत्तेः अस्मिन्नर्थे च
परः सहस्रश्रुतिस्मृतिवचनानि सन्ति ।
``आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । सधीः स्वप्नोभूत्वा''
``ध्यायतीव लेलायतीव''
``तत्रैव सति कर्तारं आत्मानं केवलं तु यः''
पश्यत्यकृतबुद्धित्वात् न पश्यति दुर्मतिः''
इत्याद्याः यत् एतत् औपाधिकं कर्तृत्वभोक्तृत्वादिकं जीवानां ईश्वर
अपेक्षं एव इति । ``एषह्येव साधु कर्म कारयति तं, यमेभ्यः
लोकेभ्यः उन्निनीषते । to wish to lead or bring or carry to or into)
एषह्येव असाधु कर्म कारयति तं, यमेभ्यः लोकेभ्यः अधो निनीषते । ''
``अज्ञः जन्तुरनीशोयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा
``समाने वृक्षे पुरुषो निमग्नोऽअनीशया शोचति मुह्यमानः । ''
इत्याद्यैः श्रुतिस्मृतिवचनैरवगम्यते ॥
ननु ईश्वरः द्वेषपक्षपातरहितः श्रूयते । स च कथं जीवान्
साध्वसाधुने कर्मणि प्रवर्तयितुं अर्हति । स्वतन्त्रस्सन् ईश्वरः करुणाकरः
धर्ममार्ग एव जीवान् प्रवर्तयेत । न अधर्ममार्गे । ततश्च तत्
प्रेरिताः सर्वेपि जीवाः धर्ममात्रानुष्ठायिनस्सन्तः सुखिनः एव भवेयुः,
य दुःखिनः । तथा च सुखित्वदुःखित्वादि कृतं जगद्वैचित्र्यं
अनुभूयमानं अनुपपन्नं स्यात् । जीवानां स्वान्त्र्ये अभ्युपगते तु रागादिदोषेण
स्वयं धर्माधर्मयोः उभयोरपि प्रवर्तमानत्वेन सुखित्वदुःखित्वादि
कृतं जगद्वैचित्र्यं उपपन्नं स्यात् । तस्मात् स्वतन्त्राः सन्तः जीवाः
पुण्यापुण्येषु प्रवर्तन्ते निवर्तन्ते च इत्येव वक्तव्यम् । एवं च
विधिनिषेधबोधकशास्त्राणां अर्थवत्त्वं स्यात् । इतरथा अस्वतन्त्राः
जीवाः ईश्वरेण एव धर्माधर्मयोः प्रवर्त्यन्ते निवर्त्यन्ते च इति
विधिनिषेधशास्त्रानर्थक्यं दुर्वारम् । विधिप्रतिषेध शास्त्राणां
बहुनां आनर्थक्य परिहाराय ``एषह्येव साधु कर्म कारयति''
इत्यादिवाक्यानि ईश्वरप्रशंसापरतया नेयानि इति चेत् । न । यद्यपि ईशवरो
रागद्वेषरहित एव । तथापि पूर्वपूर्व-जीवकर्मापेक्षया पुण्यापुण्ययोः
उभयोः जीवान् प्रवर्तयन्निवर्तयन् अद्वेष पक्षपाताभ्यां विषमो निर्घृणो
वा भवति । न खलु जीवीय कर्मणां आदिः अस्ति । अनादित्वात् संसारस्य ।
अतो जीवकृत धर्माधर्मापेक्षतया कारयितृत्वं ईश्वरस्य न युक्तम् ।
नापि विधिनिषेध शास्त्रानर्थक्यम् । जीवकृत धर्माधर्मानुसारेण
जीवानां धर्माधर्मयोः रागद्वेषावपि ईश्वरः जनयति । ``पुण्यो
वै पुण्येन कर्मणा भवति पापः पापेन'' इत्यादि श्रुतेः । एवं च
इष्टानिष्टप्राप्ति परिहारार्थिनां विधिनिषेधशास्त्रं अर्थवदेव भवति ।
यदि विधिनिषेधयोः फलं ईश्वरेण जीवीयधर्माधर्मनिरपेक्षेण
विधिनिषेधस्थानीयेन कृतं इति अङ्गीक्रियते, तदा एव
विधिनिषेधशास्त्रान् आनर्थक्यं स्यात् । तस्मात् विधिप्रतिषेधशास्त्राविरोधात्
``एषह्येव'' इति वाक्यानि न प्रशंसापराणि इति बोध्यम् । तस्मात्
ईश्वराधीनमेव जीवानां औपाधिकं अपि कर्तृत्वभोक्तृत्वादिकं न स्वाधीनं
इति सिद्धम् । इष्टानिष्टव्यामिश्रलक्षणसुखदुःखानुभवः एव भोगः ।
स एव फलशब्दवाच्यो भवति । धर्माधर्मकारयितुं ईश्वरस्यैव
धर्माधर्मफलप्रदत्वमपि स्वीक्रियते । तथा च अयं अर्थः गीतायां
अपि निरुक्तः
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥
स तया श्रद्धया युक्तः तस्याराधनमीहते ।
लभते व ततः कामान् मयैव विहितान् हि तान् ॥
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
इत्यादिना ।
एतेन निरीश्वरवादः निराकृतः वेदितव्यः । धर्माधर्मयोः कारयितृत्वेन
फलप्रदत्वेन च सर्वज्ञस्य सर्वजीवबुद्धिकर्मफल विभागसाक्षिणः
सर्वेश्वरस्य सिद्धत्वात् । न खलु कर्तेव कारयितृनिरपेक्षं कर्मफलं
जनयितुं शक्नोति । कर्मकर्तुजीवस्य देशकालनिमित्तविशेष अनभिज्ञत्वात् ।
लौकिकस्य कृषिसेवादेः फलं आत्मसेव्यादि अधीनं हि दृश्यते ।
अतः कर्मफलसिद्धिः ईश्वरात् एव इति ।
तदर्थं ईश्वरः कश्चन अङ्गीकार्यः । श्रुतिस्मृति इत्यादि प्रमाणानि
च सर्वज्ञं ईश्वरं विचित्रप्रपञ्चसृष्ट्यादिकर्तारं अवगमयन्ति ।
न खलु ईश्वरः नास्ति इति प्रतिषेधवचनं किंश्ञ्चित् उपलभ्यते ।
प्रत्युत ईश्वरनास्तित्ववादिनां ``असन्नेव स भवति'' इत्यादि
श्रुतिभिः निन्दा एव क्रियते ।
ननु कालकर्मादि एव जीवानां कर्मफलप्रदत्वम अस्तु । किं ईश्वर कल्पना
इति अतः आह । कर्म किं इति । कर्म परं किं फलप्रदाने स्वतन्त्रं भवितुं
अर्हति किं इत्यर्थः । कुत इत्याह कर्म तत्जडं इति । यस्मात् तत् कर्म
अचेतनं तस्मात् कर्मफलदाने न स्वतन्त्रं इत्यर्थः । कर्तृतन्त्रं
हि कर्म । क्रियात्मकत्वात् । न हि कर्ता करणं क्रिया च फलप्रदं लोके
दृश्यते । तत्र कर्तुः देश काल नियत निमित्त क्रम-अनभिज्ञत्वात्
स्वस्वकर्मफलप्रदत्वं न शक्यं वक्तुं इति प्राक् निरूपितम् । एवं
करणस्यापि । न खलु हलादिकं कृष्यादिसाधनं व्रीह्यादि फलप्रदं
इति युज्यते । अचेतनत्वात् । चेतन अनधिष्ठितस्य अचेतनस्य स्वतः
कार्येषु प्रवृत्तिः तु न भवति । रथादिषु अदर्शनात् । एवं कर्मणः
अपि फलप्राप्तिः न सम्भवति । ``स्वर्गकामो यजेत'' इत्यादि
शास्त्रात् कर्मणः फलसिद्धिः न ईश्वरात् । तद् अस्तित्वे प्रमाण-अभावात्
अनुपयोगात् च इति चेत् । न । लोकदृष्टिन्यायविरोधात् । लोके हि
सेवादिभिः भक्तिश्रद्धापुरःसरं आराधितेन प्रसन्नेन सेव्येन प्रभुणा
तत् तत् सेवानुरूपं आराध्यकार्यफलं प्रदीयते इति दृष्टम् । तदिदं
कर्म अपूर्वं वा चेतन-अनधिष्ठितं अचेतनं फलं ददाति एत्येतत्
दृष्टविरुद्धं वर्तते । यथा आशुतरविनाशिनः कर्मण फलजनकत्वं
दृष्टन्यायविरुद्धं इत्येव अपूर्वं कल्प्यते तथा देवताप्रसादं
अन्तरा कर्मणः फलजनकत्वं न सम्भवति इति दृष्टन्यायानुगुण्येन
देवताप्रसादात् फलसिद्धेः उपपत्तेः कृतं अपूर्व कल्पनेन । न खलु
शुभाशुभकर्मानुसारेण तत्कर्तॄणां फलदात्रीदेवता द्वेषपक्षपातिनी
भवति । न हि भवति भूपतिनीतिमार्गस्थं अनुगृह्णन् अनीतिमार्गस्थं
निगृह्णंश्च दुष्टो रक्तो वा । तस्मात् दृष्टन्यायाविरोधेन सेव्य
इव ईश्वरः त्रिविधकर्मफलं जीवानां प्रसूते नापूर्वं कर्म वा इत्येव
बोध्यम् । असंसारिणः फलदातुः एकस्य ईश्वरस्य सिद्धौ ``विरजो
विमृत्युः'' ``सत्यकाम सङ्कल्पः'' ``एष सर्वेश्वरः
पुण्यं कर्म कारयति'' इत्यादि वेदान्तवाक्यानि परश्शतं सन्ति ।
स्मृतयश्च परस्सहस्रं विद्यन्ते । न एते अर्थवादाः शक्यं
वक्तुम् । अवाधितार्थबोधजनकत्वात् । वेदान्तेषु श्रूयमाणं ईश्वरस्य
जगज्जन्मादिकारणत्वं जीवकृतधर्माधर्मापेक्षमेव इति इदं एव
फलप्रदत्वं दृढयति । कर्तुः परमेश्वरस्य आज्ञया अनुग्रहहेतुकेन
ज्ञानेन फलं मोक्षफलं प्राप्यते सिद्ध्यति इति अर्थान्तं अपि अत्र
विवक्षितम् । एतेन धर्माधर्मफलानुभवरूपबन्धहेतोरपि ईश्वरस्य
मोक्षप्रदत्वं न स्यात् इति शङ्का परास्ता ।
ननु किमर्थं एवं सुखदुःखफलप्रदानेन बन्धं, ज्ञानप्रदानेन
मोक्षं च प्राणिनां परमेश्वरो विदधाति ।
``प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्'' इति न्यायेन
बन्धसृष्टेः अनारम्भस्य एव उचितत्त्वात् इति चेत् परमेश्वरस्य
जगत्सर्जनं बन्धमोक्षप्रदत्वं च अनाद्यविद्याशक्तिनिबन्धं भवति ।
अतः न पारमार्थिकं भवितुं अर्हति येन प्रयोजनमनुयोक्तुं युज्यते ।
आविद्यकस्य अस्य जगत्सृष्टिबन्धमोक्षकारित्वादिस्वभावस्य
प्रयोजनापेक्षाया लोके अपि अदृष्टत्वात् । न खलु
ऐन्द्रजालिकसृष्टेषु नानाविचित्रवस्तुषु प्रयोजनं चिन्तयन्ति
लौकिकाः । जगत्सर्जनफलप्रदत्वादेः व्यावहारिकत्वं अभ्युपेति एव अत्र
श्रीरमणभगवता तस्य ईश्वराधीनत्वं उपवर्ण्यते । तस्य मायिकत्वं
अभ्युपगमेपि विविधविचित्रप्रपञ्चं विरचयतः निग्रह-अनुग्रहमुखेन
फलविशेषादिकं ददतो वा परमेश्वरस्य अविद्याशक्ति सम्बलितस्य
स्वभाव इति लीला इति वा स्वीकर्तव्या इति न कश्चित् दोषः । न हि स्वभावः
पर्यनुयोक्तुं शक्यते ।
ननु माभूत् कर्मणः फलप्रदातृत्वम् । कर्मसापेक्षस्य जगदीश्वरस्य एव
तत् भवतु । तथाऽपि दृष्टादृष्टाभ्युदयार्थानि श्रौतस्मार्तादिकर्माणि
न परितित्याजयिषितानि । निषिधानि च नानुतिष्ठासितव्यानि । सर्वेषु
फलार्थित्वस्वभावत्वात् । अनुकूलर्वन्दनीयः हि फलं भवति ।
इष्टस्वरूपत्वात् सुखस्य ।
तत्तद्-दृष्टादृष्टसुखरूपफलविशेषानुरागहेतौ इष्टसाधनज्ञाने
सति कथं इहामूत्रार्थफलभोगविरागः सम्भवितुं अर्हति । न च
दृष्टादृष्टसुखे दुःखसम्भिन्नत्व अवगमात् तत्रापि वैराग्यं जायेत इति
वाच्यम् । तर्हि दुःखसम्भिन्नत्वेऽपि सुखस्य दुःखपरिहारार्थं यत्नः
आस्थेयः । तथा च अवर्जनीयतया आगतं अपि दुखं परिहृत्य सुखमात्रं
उपादेयम् । यथा धान्यार्थी पलालानि परिहृत्य सुखमात्रं उपादत्ते तद्वत्
तस्मात् दुःखानुषङ्गभयात् ऐहिकं आमुष्मिकं च सुखं धर्मफलभूतं
न परित्यक्तुं उचितम् । किञ्च स्रक्चन्दनादिसम्पर्कजनितस्य सुखस्य
दुःखाक्रान्तत्वात्, क्षयिष्णुत्वात् च परित्याज्यत्वे अपि आमुष्मिकस्य
स्वर्गादिसुखस्य न परित्याज्यत्वम् । तस्य दुःखासम्भिन्नत्वात् अविनाशित्वाच्च ।
श्रूयते हि श्रुतिस्मृतिषु -
``अपाम सोमममृता अभूम
अग्नम ज्योतिरविदाम देवान्''
``अक्षय्यं ह वै चातुर्मास्य याजिनस्सुकृतं भवति'' ।
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलषोपनीतं च स्वर्गं नित्यसुखास्पदम् ॥
इति । न च कृतकत्वहेतुकं आमुष्मिकसुखस्यानित्यत्वानुमानं सम्भवति ।
नरशिरः कपालशुचित्वानुमानवत् तन्नित्यत्वावेदकागमबाधितविषयत्वात्
इत्येवं प्राप्ते आह -
कृतिमहोदधौ पतनकारणम् । फलमशाश्वतं गतिनिरोधकम् ॥ २॥
कृति इति । फलं कर्मफलम् । अतः एव अशाश्वतम् । फल्गुतया लयं
अदर्शनं गच्छति इति फलशब्दनिष्पत्तेः । यत्र यत्र फलत्वं तत्र
तत्र अनित्यत्वम इति व्याप्तेः । न च मोक्षे व्यभिचारः । तत्र फलत्वस्य
अभावात् । तस्य नित्यसिद्धत्व अभ्युपगमात् । अज्ञाननिवृत्ति-उपलक्षित
आत्मचैतन्यस्य एव मोक्षपदार्थत्वात् । ``निवृत्तिः आत्म-मोहस्य
ज्ञातत्वेन उपलक्षित'' इति सिद्धान्तात् । अज्ञाननिवृतौ तु फलत्वं
अनित्यत्वं उभयं अस्ति एव इति न तत्र व्यभिचारः । पक्षसमत्वात् । यत्
कृतकं तत् अनित्यमिति व्याप्त्या कर्मसाध्यस्य फलस्य नित्यत्व असम्भवात् ।
न हि मोक्षः कर्मभिः साधनैः साध्यते येन तस्य आप्यनित्यत्वं
आपाद्येत । स्वयमेव आत्मनः ब्रह्मरूपत्वात् । तत्ज्ञानेन अज्ञानादिनिवृतौ
स्वात्मस्वरूपावस्थानं हि मोक्षः । तथा च आत्मस्वभावसिद्धस्य साधनैः
सिसाधयिषितत्वं सम्भवति । ननु कर्मसाधितस्यापि स्वर्गादिसुखस्य
नित्यत्वं आगमादिप्रमासिद्धमित्युक्तं इति चेत् । सत्यम् । यत् कृतकं तद्
अनित्यं इति न्यायसहितेन ``तद्यथेह कर्मचितो लोकः क्षीयते एवं एव
अमुत्र पुण्यचितो लोकः क्षीयते'' ``अथ यदल्पं तन्मर्त्यम्''
इत्यादि आगमेन ``अपामसोमम्'' इत्यादि आगमस्य बाधितत्वात् ।
``अन्तवन्तु फलं तेषां तद्भवत्यल्पमेधसां
``आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन'' ।
``क्षीणे पुण्ये मर्त्यलोकं विशन्ति'' ।
``इमं लोकं हीनतरं वा विशन्ति''
इत्याद्या श्रुतिस्मृतयः सहस्रशः । ततश्च ``अक्षय्यादिवाक्यानां
आपेक्षिकं अमृतत्वमेव लक्षणामर्यादया अर्थः स्वीकार्यः । अतः एव
``आभूत सम्प्लवं स्थानं अमृतत्वं हि भाष्यते'' इति पौराणिक
आभणकं श्रूयते । स्वर्गाद्यामुष्मिकसुखेपि क्षयिष्णुताकृतदुःखं
अनिर्वार्यम इति ``यन्नदुःखेन सम्भिन्नम्'' इति वचनं
अपि सातिशयत्वप्रतिपादकं इति एव उपेयम् । दृष्टदुःखं
अनेककारणसन्निपातजनितं वर्तते इति न शक्यते पुरुषप्रयत्नेन
परिहर्तुम् । न हि मधुविष-सम्पृक्त यत् विभज्य मधुमात्रं गृहीतुं
शक्यते । पलालपरित्यागेन धान्यमात्रग्रहणं सम्भवति । अपि च
कृतिमहोदधौ, कर्ममहासमुद्रे, पतनकारणं निमज्जनकारकम् ।
सुखभोगार्थं कर्म कुर्वन्ति । कर्मार्थं पुनः भुञ्जते इत्येवं
कर्मपरम्पराऽनादिरनन्ता बन्धरूपिणी भवति इति भावः । उक्तं च
विद्यारण्यश्रीचरणैः
``कुर्वते कर्म भोगार्थं कर्म कर्तुं च भुञ्जते ।
नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते'' ॥
इत्यादि । अग्निष्टोमादिकर्मभिः स्वर्गप्राप्तिप्रतिबन्धककल्मषरहिताः
यजमानाः स्वर्गलोकं काम्यकर्मफलं अनुभूय तद्भोगजनके पुण्ये क्षीणे
तद्देहनाशात् तत्र मरणं अनुभूय पुनर्देहग्रहणार्थं मर्त्यलोकं
सम्पतन्ति । ते च पुनः गर्भवासादिश्रमान् अनुभूय दुस्तरे अगाधेऽप्लवे
जन्ममृत्युतरङ्गान्विते कर्मरूपसंसारमहासमुद्रे पुनरुद्धरणं अविदन्तः
निपतन्ति । अविद्याकाममूलकर्मजालस्य उपरमः नास्ति अविद्याविषयं, कर्म
अत्यल्पफलत्वादिदोषविशिष्टं बन्धरूपं सकामानाम् ।
``कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र'' ।
``इति नु कामयमानः'' ``तदेव सक्तः सहकर्मणा इति
लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणः तस्य यत् किञ्च
इह करोति अयम् । तस्माल्लोकात् पुनःएति अस्मै लोकाय कर्मणे'' । इत्यादि
श्रुतेः । न तु निष्कामानाम् । अतः फलकामनायाः संसारगतिरेव स्यात् ।
न परगतिः । तद् एतद् आह गतिनिरोधकं इति । गतिरत्र ज्ञानम् ।
तन्निरोधकं तत्प्रतिबन्धकम् । ज्ञानोत्पत्तिप्रतिबन्धकं इत्यर्थः ।
कामपूर्वकप्रवृत्तेः ज्ञानप्रतिकूलत्वात् । कर्महेतूनां कामानां ज्ञानाभावे
निवृत्ति असम्भवात् उत्तरोत्तरं कामाभिवृद्धिरेव स्यात् न कर्मक्षयः ।
नापि ज्ञानं न वा मोक्ष इति भावः । यद्वा गतिः उत्तरमार्गप्राप्तिः
तन्निरोधकं तत्प्रतिबन्धकम् । उपासनारहितानां सकामेन पुंसा कृतानां
श्रौतस्मार्तादिकर्मणां दक्षिणमार्गप्रतिपत्यर्थत्वेन उत्तरमार्गं अप्राप्य
हिरण्यगर्भलोकप्राप्तिप्रतिकूलत्वात् । तस्मात् उपासनासहितः कर्मानुष्ठानेन
उत्तरमार्गप्रतिपत्तये एव प्रयत्नः कर्तव्यः इत्यपि तात्पर्यम् ।
``न तत्र दक्षिणा यन्ति नाऽविद्वांसः तपस्विनः ।
अष्टाशीतिसहस्राणां ऋषीणां ऊर्ध्वरेतसाम् ।
उत्तरेणार्यम्णः पन्थाः तेऽमृतत्वं हि भेजिरे ।
ये प्रजामीषिरेऽधीराः ते श्मशानानि भेजिरे ।
ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे । ''
इत्यादिस्मृतेः । इयं हिरण्यगर्भपदप्राप्तिः अपि संसारगतिः एव ।
स्थावरादिसंसारगत्यपेक्षयाऽसौ सात्विकी उत्तमा च भवति इति मनुः
प्रपञ्चयति-
``ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
उत्तमां सात्विकीमेतां गतिं आहुर्मनीषिणः'' ।
अथवा गतिः दक्षिणमार्गः तन्निरोधकं तत्प्रापकम् ।
केवलकाम्यकर्मानुष्ठातॄणां सोमादिलोकप्राप्तेः सर्वशास्त्रसम्मतत्वात् ।
तस्मात् स्थावरान्ताधोगतिप्रापकात् अशास्त्रीयमार्गात् निवृत्य सकामकर्म
वाऽनुष्ठातव्यं इति भावः ॥ २॥
ननु सकामकर्माणि पुनरावृत्तिकराणि भवन्ति इति श्रूयते श्रुतिषु ।
अतः न अनुष्ठातव्यानि । प्रक्षालनात् हि इति न्यायेन कर्मणां
सर्वेषां अननुष्ठानं एव श्रेयः इति प्रतिभाति । अतिफल्गुफलत्वात्
आयासबहुलत्वाच्च तत्त्वज्ञानप्राप्तिमात्रादेव च निश्रेयससिद्धेः इति
प्राप्त आह -
ईश्वरार्पितं नेच्छया कृतम् । चित्तशोधकं मुक्ति साधकम् ॥ ३॥
ईश्वरे इति । नेच्छया,अकामनया,कर्मफलं अनपेक्ष्य इत्यर्थः ।
ननु दृष्टादृष्टानि कर्मफलानि न अपेक्ष्यन्ते चेत् किमर्थं
कर्माणि कर्तव्यानि इत्यतः आह - ईश्वरार्पितं इति । ईश्वराय भगवते
सर्वकर्मफलदात्रेऽर्पितं समर्पितम् । स्वभावतः शास्त्रतश्च प्राप्तं
सर्वं अपि कर्म परमेश्वरप्रीतिप्रसादलाभार्थं कृतं इति भावः । ननु
परमेश्वरप्रीतिप्रसादाय वा किमर्थं तानि कर्माणि अनुष्ठेयानि इति आशङ्क्य
आह - चित्तशोधकं इति । चित्तस्य मनसश्शुद्धिजनकं इत्यर्थः ।
ज्ञाननिष्ठायोग्यताप्राप्त्यर्थं कर्माणि अनुष्ठेयानि एव इति भावः । ननु
चित्तशोधनं अपि कर्मफलं एव इति वाच्यम् । तथा च तत्र तृष्णा
दुर्वारा । तस्मात् तेषां अपि बन्धकत्वं एव इति आशङ्कायां आह । मुक्तिसाधकं
इति । मुक्तिं प्रति साधकं बहिरङ्ग-उपायः इत्यर्थः । फलकामनया
कर्म क्रियते यदि तत् कर्म फलदं भवेत् । कर्मफलतृष्णां विहाय
परमेश्वरार्पणबुद्ध्या क्रियमाणस्य कर्मणश्चित्तशोधनं न फलम् । एवं
तस्य स्वभावः तस्य फलत्वे स्वीकृते अपि चित्तशोधनरूपफलतृष्णापि
न कार्या एव । ईदृशं कर्म एव ज्ञानप्राप्तिद्वारा मोक्षकारणं इति भावः ।
इदम एव च गीतायां अपि उक्तम् ।
``सिद्ध्यसिद्ध्योम्स्समो भूत्वा समत्वं योग उच्यते ।
कर्मजं बुद्धियुकाहि फलं त्यक्त्वा मनीषिणः ।
जन्म बन्ध विनिर्मुक्ताः पदं गच्छन्त्यनामयम्''।
इत्यादिना । तथा च सकामकर्मानुष्ठानमेवात्यल्प फलं बन्धरूपं भवति ।
न तु निष्कामकर्मानुष्ठानम् । तच्च तन्निवर्तक-पुरुषसंस्कारार्थं
भवति । तच्च महाफलम् । आदर्शनिर्मार्जनवद् आत्मज्ञानप्रतिबन्ध
निर्मार्जनाय उपयुज्यते ।
``ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः ।
यथाऽऽदर्शतले प्रख्ये पश्यत्यात्मानमञ्जसा ॥
``आत्मयाजी तु करोति । इदं मे अनेन अङ्गं संस्क्रियते इति''
``महायज्ञैश्च यज्ञैश्च ब्राह्म्यीयं क्रियते तनुः'' ।
``यज्ञो दानं तपश्चेति पावनानि मनीषिणाम्'' इत्यादिश्रुतिस्मृतिभ्यः ।
कर्मपरित्यागश्च श्रुतिस्मृतिप्रमाणप्रसिद्धः । तस्य निरर्थकत्वात् ।
अतः एव श्रुतयः ।
``कर्मणा बध्यते जन्तुः विद्यया च विमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥
``न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः''
क्रियापथश्चैव पुरस्तात् संन्यासाश्चोत्तरेण ।
``नान्यः पन्था विद्यते अयनाय''
इत्याद्याः । उपायभूतानि एव कर्माणि निष्कामकृतानि ज्ञानस्य ।
अमृतत्वप्राप्तिश्च ज्ञानादेव । ``विद्यया विन्दतेऽमृतं''
इति श्रुतेः । तस्मात् उत्पन्नात्मज्ञानस्य पुंस एव कर्मपरित्यागः युज्यते ।
न तु अनुत्पन्नात्मज्ञानस्य । न हि नौकया सागरतीरं गतः पुमान्
नौकां (न)विमुञ्चति इति एतत् चित्रं(आश्चर्यम्) भवेत् । एवं च
वर्णाश्रमकर्मणां सर्वेषां अनात्मज्ञविषयकत्वं व्याख्यातम् । एतेन
फलाभिसन्धिं अन्तरा मोक्षार्थिभिः चित्तशोधकानि कर्माणि अवश्यं
अनुष्ठेयानि इति भावः ॥ ३॥
स्यात् एतत् । परमेश्वरार्पणबुद्ध्यानुष्ठीयमानस्य कर्मयोगस्य
चित्तशोधकत्वं बन्धनाशकत्वं चायुक्तम् । कर्मणां वैदिकानां आनन्त्येन
तेषां सर्वेषां पुरुषायुषेणापि अनुष्ठातुं अशक्यत्वात् इति आशङ्क्य आह -
कायवाङ्मनःकार्यमुत्तमम् । पूजनं जपश्चिन्तनं क्रमात् ॥ ४॥
कायेन, वाचा मनसा च क्रियमाणं धर्म्यं कार्यं उत्तमम् । श्रेष्ठम् ।
न परित्याज्यम् । तच्च क्रमात् पूजनं जपः चिन्तनं भवति इति । न
अशेषकर्मानुष्ठानासम्भव-आशङ्का सम्भवति । कायिकवाचिकमानसिकानि
पूजाजपध्यानानि ज्ञानोत्पत्तिप्रतिबन्धकपापापकर्षणेन ज्ञानोत्पत्तियोग्यता
आधानेन च शोधकानि भवन्ति । अतः एतत् त्रयं मुमुक्षुभिः अवश्यं
अनुष्ठेयं इति भावः । अत्र कार्यपदेन अकार्यव्यवश्छेदो बोध्यः ।
[कायश्च वाक् च कायवाचौ इति प्रथमं विग्रहं कृत्वा ततः समस्तस्य
कायवाक्पदस्य मनः पदेन द्वन्द्वसमासः । न तु केवल वाक्पदस्य मनः
पदेन द्वन्द्वः तेन च अचतुरेत्यादि सूत्रनिपातितं अकारान्तत्वं नास्ति इति
बोध्यम् । शरीरवाङ्मनोभिः यत्कर्म प्रारभते नरः इति श्रीभगवद्गीतायां
प्रयोगदर्शनात् । ]
अत्र इदं नोध्यम् । धर्मो वा अधर्मो वा कर्मसामान्यं कायं वाचं मनश्च
इति त्रीणि आयतनानि आश्रित्य एव उपपद्यमानं दृश्यते । तत्र कायिकस्य
एव कर्मणः वाचिकस्य मानसिकस्यापि धर्मत्वम्-अधर्मत्वं च यथाशास्त्रं
सम्भवत न केनचित् परिहर्तुं शक्यते । धर्माधर्मयोः उभयोः अपि
कायिक अपेक्षया मानसस्य च ज्यायः त्वं उपदिशन्ति धर्मतत्त्वविदो
महर्षयः । किन्तु धर्माधर्मयोः उभयोः अधर्मं अधोगतिप्रापकं
परित्यज्य शास्त्रचोदितो धर्म एव मुमुक्षुभिः कर्तव्यः । अत्र च
क्रमात् उत्तमं इति कायिकपूजन अपेक्षया वाचिको जपः उत्कृष्टः ततः
च मानसचिन्तनं उत्कृष्टं इति भगवता कथितम् । एतत् त्रयं
प्रतिदिनं ज्ञान-इप्सुभिः कर्तव्यम् । नित्यकर्मत्वात् । यस्य अनुष्ठाने
चित्तशुद्धि अतिरिक्तं पुत्रपश्वादिफलादिकं नास्ति, यस्याननुष्ठाने
पातित्यं ,ज्ञान-अधिकारित्वं च भवति इति श्रूयते तदेव नित्यं
कर्म भवति । ततश्च पूजनं इति एतत् स्नानसन्ध्ययोः उपलक्षकम् ।
अकृतस्नानसन्ध्यस्य पुरुषस्य अन्यत्र पूजनादौ अवाससः पुरुषस्य
अलङ्कारः इव निरर्थकत्वेन अधिकार-असम्भवात् । सनियमस्नानं हि
बाह्याभ्यन्तरशोधकत्वेन प्रत्यक्षफलम् । एवं सन्ध्या-कर्म अपि ।
``सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्व कर्मसु ।
ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुर्वाप्नुवन् ।
विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्'' इत्यादि स्मृतेः ।
जपश्च गायत्र्यादिवैदिकमहामन्त्रादीनां कर्तव्यः । वेदानुवचनं च
ब्रह्मयज्ञभूतो जप एव । ``जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्र
संशयः । कुर्याद् अन्यत् न वा कुर्यात् मैत्रो ब्राह्मणः उच्यते । जपस्तु
सर्वधर्मेभ्यः परमो धर्म उच्यते । अहिंसया हि भूतानां जपयज्ञः
प्रवर्तते । यज्ञानां जपयज्ञोऽस्मि''
इत्यादिस्मृतिः । चिन्तनं उपासनं तच्च शास्त्रीयं किञ्चिद्वस्तु उपादाय
तद्विलक्षणप्रत्यय-अनन्तरित समानचित्तवृत्तिसन्तानकरणमेव ।
उपासनं च सत्त्वशुद्धिकरत्वेन वस्तुतत्त्व-अवभासकत्वेन च आत्मज्ञान
उपकारकम् । एवं स्नानसन्ध्यादीनि नित्यकर्माणि अनुष्ठेयानि इति भावः ॥ ४॥
तत्र पूजनजपध्यानानां उत्तरोत्तरं उत्कृष्टानां स्वरूपं उपदेष्टुकामः
क्रमप्राप्तं पूजनस्वरूपं प्रथमं उपदिशति ।
जगत-ईशधी-युक्तसेवनम् । अष्टमूर्तिभृद्देवपूजनम् ॥ ५॥
जगतः सर्वप्रपञ्चस्य ईशभावनासहितं सेवनं परिचरणं यत् तदेव
अष्टमूर्तिभृत्ः पृथिवी-अप्-तेजो-वायु-आकाश- सूर्य-चन्द्र-यजमानाख्य
अष्टतनोः देवस्य परमेश्वरस्य पूजनम् । भवति इति शेषः ।
एवं च प्रपञ्चः सर्वोऽपि परमेश्वरस्वरूपः एव । अहमपि शिवः
एव इति सततविभावनं एव परमेश्वरपूजनं भवति । ``सर्वं
खल्विदं ब्रह्म । '' ``आत्मैवेदं सर्वम्'' इत्यादि श्रुतेः ।
इदं उपासकानां, अत्र पक्षे ईशधीपदं ईश्वरभावनापरं अवगन्तव्यम् ।
अथ ज्ञानिनाम् । स्वात्मनः परमेश्वरत्वज्ञानात् बाधिते अस्मिन् जगति
च परमेश्वरत्व अकारकं यत् ज्ञानं आविर्भवति तत् ज्ञानेन युक्तं
समब्रह्मात्मतासम्यग्दर्शनं यत् तदेव अष्टमूर्तेः देवस्य पूजन
भवति । न अन्यद् आवाहनादि विसर्जनान्तं षोडशोपचारविधानपूर्वकं
पूजनं सम्भवति । ज्ञानिनां स्वात्मज्ञानं एव देवपूजनं इति
भावः । सर्वदेवात्मकत्वात् । अष्टमूर्तिः पुर्यष्टकम् । तत् बिभर्ति
इति अष्टमूर्तिभृत् जीवः स एव देवः स्वयम्प्रकाशात्मा परमेश्वरः
तस्य पूजनं ज्ञानं साक्षात्कार इति यावत् । अथ कर्मिणां अभिधीयते ।
जगतः ईशधीयुक्तं ईश्वरभावनान्वितं सेवनं परिचरणं यस्मिन्
तत् । तादृशं अष्टमूर्तिभृतः देवस्य महेश्वरस्य पूजनं
ध्यानावाहनादिषोडशोपचारविधानेन पूजाकरणं पूजनम् । भवति इति
वाक्यशेषः ।
``आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् ।
पञ्चदेवान्स्मरेन्नित्यं पूजयेत्पापनाशनम् ॥ ''
इत्यादिस्मृति-उकतं महेश्वरपञ्चायतन महापूजाविधानं सूचयितुं जगतः
ईशधीयुक्तत्वं उक्तम् । अयं भावः । शिवार्चनापद्धतौ हि आदित्यस्य
स्फटिकशिलायां महेश्वरस्य वाणे च आवाहनादिकं कर्तव्यं इत्युक्तम् ।
आदित्यादिपञ्चदेवानां मध्ये प्राधान्यं एकस्य देवस्य अन्येषां च चतुर्णां
अप्राधान्यम् । शैवाः शिवं, वैष्णवाः विष्णुम्, शाक्ताः शक्तिरूपिणीं
अम्बिकाम्, सौराः सूर्यः, गाणपताः गणपतिं च प्रधानं मन्यन्ते ।
पूर्वजन्मवासना अनुसारिणी वासना एव अत्र नियामिका बोध्या । एषु पञ्चसु
च यस्य यस्य प्राधान्यं तस्य तस्य मध्यस्थानं
अन्येषां अङ्गदेवानां आग्नेय्यादिस्थानं च शास्त्रविहितम् ।
अङ्गदेवताचतुष्टयविशिष्टं प्रधानदेवताराधनं एव पञ्चायतनपूजा इति
व्यवह्रियते । अङ्गाङ्गीभावभावनापूर्वकपूजाविधाने अस्मिन् अङ्गदेवताराधनस्य
अङ्गि देवताप्रसादात् अतिशयसिद्ध्यर्थं उपयोगः । राजप्रसादसिद्ध्यर्थं
तत् अमात्य-तत्प्रणयित-परिचारक आराधन् विनियोगः इव अत्र अपि बोध्यम् ।
न हि राजपूजन तत् अमात्यादिकं अप्रसाद्य फलाय पर्याप्तं भवितुं अर्हति ।
एवं एव इन्द्रादिदेवपूजात्मको यज्ञादिः अपि तत् देवता अप्रसादयन् न फलाय
कल्पते । तच्च यथा प्रधानयागजन्य परमापूर्वे जनयितव्ये प्रयाजादि
अङ्गजन्यपण्डापूर्वाणां उपयोगः भवति एवं इह अपि । अमात्यादिप्रसादं
अन्तरा राजप्रसादः यथा दुर्घटः तथा अङ्गदेवताप्रसादं विना न
प्रधानदेवताप्रसादश्च भवति । सर्वेश्वरः सर्वकारणभूतः एकः
एवेश्वरः । ``एकोदेव'' इति श्रुतेः । स एव पूज्यः । आदित्यादयः
अङ्गदेवताः । ``अङ्गानि अन्यादेवता'' इति श्रुतेः । अमात्यादिद्वेषे
यथा राजप्रसादो न भवति तथा अङ्गदेवताद्वेषे प्रधानदेवताप्रसादोऽपि न
स्यात् । साङ्गस्य परमेश्वरस्य आराधनात् मोक्षपर्यन्तं फलम् ,विरोधात्
च नरकपर्यन्तं अहितं स्यात् । इदमेव पञ्चायतनदेवतापूजारहस्यम् ।
एतदर्थमेव जगतः ईशस्वरूपत्वविभावनं अभिहितम्,पञ्चदेवायतनानां
पञ्चानां अपि पञ्चभूतात्मकत्वात् । अतः एव अष्टमूर्तिभृत्वं देवस्य
विशेषणं दत्तम् । अष्टमूर्तिभृत् शिवः इति प्रसिद्धः । तस्य पूजनं
इति अनेन शिवस्य प्रधानदेवतात्व-अवगमात् शिवपञ्चायतनदेवतापूजनं
एव अत्र विवक्षितं इति विशेषणानां स्वारस्यात् अवगम्यते ।
``यद्वारे मत्तमातङ्गा वायुवेगास्तुरङ्गप्राः ।
पूर्णेन्दुवदना नार्यश्शिवपूजाविधेः फलम् ॥ ''
इति वचनबलात् अष्टमूर्तेः भगवतो
महेश्वरस्याराधनादेवाष्टैश्वर्यसिद्धिः । एतं कर्मिणां उपासकानां च
ज्ञानिनां त्रयाणां ईश्वर-पूजनं अभिहितं अधिकारानुगुण्येन इति बोध्यम् ।
न चैव अर्थत्रयपरत्वे अस्य श्लोकस्य वर्ण्यमाने कायिकत्वं असङ्गतं
इति वाच्यम् । सेवनपदार्थस्य कायिकत्वेन अर्थत्रयसाधारणत्वात् । न च
अत्र अष्ट मूर्तयः यस्य इति बहुव्रीह्याश्रयणेन एव विवक्षितार्थलाभे,
कर्मधारयसमासाश्रयणेन अष्टमूर्तिपदं विगृह्य, ततः तत् बिभर्ति इति
वा तस्य भृत् इति वा समासाश्रयणेन व्याख्याने क्लेशाधिक्यात् भृत्पदं
अनर्थकं इति वाच्यम् । अमूर्तेरीश्वरस्य अष्टमूर्तित्वं अवास्तवं इति
तत्क्प्रकाशकत्वेन तत्पदसार्थक्यात् । अमूर्तेः असंसर्गिणः परमेश्वरस्य
मूर्तिमत्वं तात्त्विकं न भवति ``असङ्गो न हि सज्जते'' इति श्रुतेः ।
अपितु अभिमानिकं एव इति । अतः एव महाकविः अपि आह ``अष्टाभिः
यस्य कृत्स्नं जगदपि तनुभिः बिभ्रतो न अभिमानः'' इति । तस्मात्
साधु उक्तं अष्टमूर्तिभृत् देवपूजनं इति ॥ ५॥
अथ वाचिकं त्रिप्रकारं जपं उपदिशति -
उत्तमस्तवादुच्चमन्दतः । चित्तजं जप ध्यानमुत्तमम् ॥ ६॥
उत्तम इति । उच्चं उच्चैस्स्वरेण मन्दं मन्दस्वरेण च । प्रकारार्था
तसिः । उत्तमस्य उत्कृष्टतमस्य ऊर्द्ध्वतमस्य उत्गततमस्कस्य वा
सर्वाभिष्टदेवस्य परमेश्वरस्य स्तवात् , वैदिकात् आर्षात् अन्यस्मात्
चित्तजं मनसि जायमानम् । मनसा आवर्त्यमानं इत्यर्थः । जपध्यानं
मननात्मको जपः उत्तमः श्रेष्ठः भवति । जपो द्विविधः''
उच्चैरुपांशुश्चेति । मानसिकोऽपि मननध्यान भेदात् द्विविधः ।
अन्यश्रुतिगोचरत्वं उच्चैष्ट्वम् । स्वश्रुतिमात्रगोचरत्वं उपांशुत्वम् ।
श्रुति-स्मृति-इतिहास-कल्प-सूत्र-पुराण-सहस्रनामादिपारायणं
अपि वाचिकजप अन्तर्गतं भवति । स्वश्रुतेः अगोचरपर अवाग्रूपः
,विच्छिद्य क्रियमाण मानसः भवति । उच्चस्वरेण जप-अपेक्षया
उपांशुजपस्सहस्रगुणः । उपांशुजप-अपेक्षया मानसस्सहस्रगुणः,
उच्चजपः अधमः । मन्दजपो मध्यमः । मानसं मननं उत्तमं कदाचित्
क्रियमाणं अपि । निरन्तर-चिन्तनात्मकं ध्यानं च अनन्तरं वक्ष्यति ।
अतः अत्र ध्यानपदं मननार्थकं बोध्यम् । न चैवं मानसत्वात् मननस्य
वाचिकत्व असाम्प्रतं इति शङ्क्यम् । मननस्य मध्यमारूपत्वसंप्रतिपत्तेः ।
ननु मानसयोः मनन ध्यानयोः को भेदः इति चेत् । मननं मन्त्राणां
आवृत्तिरूपम् । ध्यानं मन्त्रविषयप्रत्ययावृत्तिरूपं इति गृहाण ।
वर्णपदवाक्यविषयाणां मानसवृत्तीनां एव मन्त्रत्वम् । स्पष्टं
च इदं आकरे । अतः एव आहुः भगवत्पादाः ``मनोवृत्तिरूपत्वे
मन्त्राणां मनोवृत्तिः एव आवर्त्यते इति मानसो जपः उपपद्यते । अन्यथा
अविषयत्वात् मन्त्राः न आवर्तयितुं शक्यन्ते घटादिवत् इति मानसः जपो
न उपपद्यते'' इति ॥ ६॥
अथ इदानीं तृतीयं चिन्तनं ध्यान-अपर-पर्याययं आह
आज्यधारया स्रोतसा समम् । सरलचिन्तनं विरलतः परम् ॥ ७॥
आज्यधारयेति । आज्यधारया धृतधारया, स्रोतसा, प्रवाहेण समं
सदृशं सरलचिन्तनं निरन्तरसंसरणं विरलतः विच्छिद्य विच्छिद्य
कृतात् चिन्तनात् पूर्वोक्तमननात् परं श्रेष्ठम् । चिन्तन-स्मरण
ध्यान-निदिध्यासनोपासनादि पदाभिधेयं इदं एव । चिन्तनपदं
एव अन्तर्णीतावृत्तिगुणं मानसव्यापारं अर्थं अभिधत्ते । तेन च
सत्कारदीर्घकालनैरन्तर्येण ध्येयविषयप्रत्ययावृत्तिः अवगम्यते ।
सगुणस्य निर्गुणस्य वा तत् चिन्तनं तत् तत् साक्षात्काराय कल्पत इति
``यस्य स्याद् अद्धा न विचिकित्सा अस्ति''
``देवो भूत्वा देवान् अप्येति'' इति शास्त्रात् दृष्टफलत्वं
अवघातवत् अधिगम्यते । अतः यावत् फलोदयं आवर्तनं उपासनस्य
अभ्युगमनीयम् । निर्विशेषब्रह्म-आत्मसाक्षात्कारफलेषु, ``मानसन्तु
किं मार्गणे कृते'' इत्यादिना उपरि-उपदिश्यमानेषु विचारेषु
च सततचिन्तनं आवश्यकं एव । स्वात्मस्वरूप-अवस्थानलक्षणायाः
मुक्तेः प्रत्यक्षफलत्वेन श्रुति-स्मृति-अनुभवसिद्धत्वात् । एवमेव
सविशेषब्रह्मसाक्षात्कारफलेषु च दृष्टफलत्वात् आवर्तनं आवश्यकम् ।
तत् च सततं विधेयं इति एव अत्र विवक्षितं बोध्यम् । एतत् सर्वं
अभिप्रेत्य एव चिन्तनीयं विहाय चिन्तनक्रममात्रं उपदिष्टम् । तत्र
सुखावबोधार्थं आज्यधारानदीप्रवाह दृष्टान्तद्वयं उपात्तम् । आज्यं हि
देवपितृमनुष्यपूज्यं परमपवित्रं च इति श्रुतिस्मृतिप्रसिद्धम् ।
चिन्तनस्य उत्कृष्टवस्तुविषयकत्वेन पावित्र्यं सूचयितुं तैलादीन् विहाय
आज्यधारा औपम्यं कथितम् । आज्यधारायाः पुरुषप्रयत्न-निष्पाद्यत्वेन
सातत्य असम्भवात् वैरल्यशङ्कायां स्रोतोनिदर्शनान्तरं निर्दिष्टम् ।
स्रोतसः धारावाहिकत्वं स्वभावसिद्धम् । न पुरुषप्रयत्ननिष्पाद्यं
इति एतत् सर्वविदितम् । एवं ध्यानस्य नैरन्तर्यं नैसर्गिकं भवितव्यं
इत्याशयः । ऋजुकुटिल नानापथजुषां अपि स्रोतसां यथा प्रवाहविच्छेदो
न भवति एवं नानाकुटुम्बकार्यव्याकुलीभूतं अपि ध्यानं अविच्छिन्नं
भवितव्यं इति अपि । विरलचिन्तनस्य सरलचिन्तन अपेक्षया अवरत्वे
अपि न त्याज्यत्वम् । सरल चिन्तनद्वारत्वात् ॥ ७॥
एवं सामान्यतः ध्यानस्वरूपं अभिधाय तद्विशेषान् वक्तुं उपक्रमते ।
भेदभावनात्सोहमित्यसौ । भावनाऽभिदा पावनी मता ॥ ८॥
भेदेति । भेदभावनात् । भेदेन भावनात् ध्यानात् अन्यो अहं
अन्यो असौ इति । तस्मात् भेदभावनात् सोऽहं इति ब्रह्मैवाहमस्मीति
असौ अभिदा भेदशून्या भावना ध्यानं पावनी परिशुद्धिकरी मता
सर्वशास्त्र-अनुभव-सम्मता । त्वं वा अहं अस्मि भगवो देवता अहं वै
तत्त्वमसि भगवो देवते'' ``तद्योऽहं सोऽसौ सोऽहं''
``अहं ब्रह्मास्मी''त्येवमादिश्रुतिभिः अभेदध्यानस्य एव उक्तेः ।
``अथ यः अन्यां देवतां उपास्ते अन्यः असौ अन्यः अहं अस्मि इति
न स वेद यथा पशुः'' ``मृत्योस्समृत्युमाप्नोति यः इह
नानेव पश्यति'' ``उदरमन्तरं कुरुते । अथ तस्य भयं
भवति'' इत्यादि श्रुतिभिः भेदः भावनाया अपवादात् च । उपासनेषु
अहङ्ग्रह उपासनं एव श्रेष्ठम् । ब्रह्मात्मनोः अभेदस्य तात्विकत्वात् ।
उपाधिकृतविरुद्धधर्माध्यासेन बिम्बप्रतिबिम्बवत् जीवब्रह्मभेदस्य
अतात्त्विकत्वात् । आत्माभिन्न परमात्मध्यानस्य एव अभयामृतत्व
हेतुत्वम् । मृतिभयहेतोः अन्यस्य अभावात् । न हि स्वेन एव स्वस्य
मृतिभयादिकं सम्भवितुं अर्हति । मृतिभयहेतोः अपि भेदभावनस्य
न अत्यन्तं परित्याज्यत्वं भवितुं अर्हति । अभेदभावनहेतुत्वात् । अन्यथा
शास्त्रविहितानां प्रतीकसम्पदादिभेदोपासनानां आनर्थक्यप्रसङ्गात् । न हि
प्रतीकादिषु अपि अहङ्ग्रहः सम्भवति । स्वभिन्नत्वात् । तथा विधानाभावात्
च । न च प्रतीकानां ब्रह्मरूपत्वात् अहङ्ग्रहोयुक्त इति शङ्क्यम् । प्रतीकं
हि ब्रह्मविकारं भवति । तत्र विकाररूपं ब्रह्मदृष्ट्या यदि तिरस्क्रियते
तदा प्रतीकता अपगच्छति । तथा च तेषां प्रतीकत्वविलयेन ब्रह्मत्व
आपतौ सत्यां आलम्बन अभावात् अहङ्ग्रहो न सघटेत । वस्तुवृत्तं
विकाररूपं अनुपमृद्यैव प्रतीकोपास्तिविधानात् । तस्मात् प्रतीकोपासनानि
भेदोपासनानि भवन्ति । तानि च नानाविधानि भवन्ति । अभ्युदयार्थानि
कानिचित् क्रम्मुक्त्यर्थानि दहरादि उपासनानि कर्म समृद्धि अर्थानि उद्गीथादि
उपासनानि । एतेषु अहङ्ग्रहोपासनं सविशेषनिर्विशेषोभयविषयकं
इति प्राक् उक्तम् । उपासनानां च चितैकाग्र्यद्वारा ज्ञानं एव मुख्यं फलं
इति मन्तव्य ।
तदुक्तं
``निर्विशेषं परम्ब्रह्म साक्षात्कर्तुमनीश्वराः ।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः इति ॥ ८॥
अथ अभेदोपासने विशेषं आह -
भावशून्यसद्भावसुस्थितिः । भावनाबलात् भक्तिरुत्तमा ॥ ९॥
भावेति । भावनाबलात् अभेदानुसन्धानसंस्कारप्राबल्यात् ध्यातुः या
भावशून्या सङ्कल्पविकल्परहिताः सद्भावे सद्रूपे परमात्मनि सुस्थितिः तत्
आत्मतास्थितिः उत्तमा भक्तिः भवति । न अन्या इति भावः । ध्याता यादृशः
ध्यानवान् भवति सः तादृश ध्यानसंस्कारप्रकर्षात् तद् देवतात्मत्वं
जीवदशायां देहपाते अपि प्राप्नोति ।
``तं यथा यथा उपासते तदेव भवति'' ।
``यथा क्रतुः अस्मिन्लोके पुरुषो भवति तथा इतः प्रेत्य भवति''
इत्यादिश्रुतेः । भावनाप्रचयश्च भक्तिश्रद्धापुरस्सरं क्रियमाणया
भावनया एव जायेत इति सद्भावात्मता प्राप्तेः उत्तमभक्तिरूपता अभिहिता ।
एषा एव परभक्तिरिति भावः ।
`` मा भव ग्राह्य भावात्मा ग्राहकात्मा च मा भव ।
भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ।
सशान्तसर्वसङ्कल्पा या शिलावदवस्थितिः ।
जाग्रन्निद्राविनिर्मुक्ता सा भक्तिः परमा मता'' इत्यादि वचनात् । अथवा,
भावनाबलात् अभेदध्यानबलात् , भावशून्यः प्रपञ्चातीतः यः सद्रूपः
भावः तस्मिन् सुस्थितिः उत्तमा भक्तिः इति । एतेन शून्यवादो निराकृतः ।
ध्यानस्य भक्तिरूपत्व अभिधानात् अभेदो व्याख्यातः ॥ ९॥
अथ इदानीं प्रकरणार्थं उपसंहरन् पूर्वोक्तध्यानाभ्यासपरिपाक-जनित
निजात्मसिद्धिलाभं महीकरोति
हृत्स्थले मनस्स्वस्थता क्रिया । भक्तियोगबोधाश्च निश्चितम् ॥ १०॥
हृत्स्थले इति । हृत्स्थले-हृदयस्थाने । अनेन
मूलाधारादि-स्थानव्यवच्छेदः कृतः । तेषां मन
आयतनत्व-अभावात् हृदयमात्रप्रतिष्ठितत्वात् मनसः । तस्मिन्
हृदये मनस्स्वस्थता मनसस्थितिः मनसः स्वस्मिन् आत्मनि स्थितता
निष्ठता वा क्रिया निष्कामकर्मानुष्ठानरूपा च भवति । निश्चितं
प्रत्यक्षानुमानशब्दप्रमाणनिर्णीतं इति भावः । अत्र इदं अनुसन्धेयम् ।
मनो हि इदानीं न स्वस्थानभूते हृदये तिष्ठति । किन्तु बहिर्विषयेषु ।
विषयेभ्यः प्रत्याहृत्य मनसः स्वस्थाने स्थापनं कर्तव्यम् ।
एतदर्थमेव सर्वाणि शास्त्राणि प्रवृत्तानि । पूर्वोक्तपूजनजपध्यानानां
च अत्र एव उपयोगः । रजस्तमोदोषेण बहिर्विक्षिप्यते मनः । तादृक
दोष-अपनयनार्थं कर्माणि प्रवृत्तानि । बहिर्विक्षेपरहितस्य
एकाग्रतासम्पादनार्थं उपासनायोगौ प्रवृतौ । कर्मभक्ति योगादिभिः
स्वस्थानस्थापिते मनसि तत्रस्थ आत्मावबोधश्च अयत्ननिष्पाद्यः
एव । मनसः हृत्स्थलस्थितिः एव हि आत्मविज्ञानं उच्यते न अन्यत् ।
बहिर्विषयात् उपरताः स्वहृदयस्थानसंस्थिताः सम्यग्दर्शिनः बहवः ।
श्रुतिस्मृतिसंवादाश्च भूयांसः । तस्मात् मनसो हृदयस्थापनं एव
दुर्घटं अपि सम्पादनीयम् । हृदयस्थस्य मनसो मनस्त्वं अपगच्छति ।
मनस्वस्थताक्रिया इति एकं वा पदम् । मनसः स्वात्मनिस्थतेः क्रिया करणं
भक्तियोगबोधरूपं भवति इत्यर्थः बोध्यः ॥ १०॥
विषयप्रवणैकस्वभावस्य मनसो हृदयस्थानस्थापना-उपायं आह-
वायुरोधनात् लीयते मनः । जालपक्षिवद्रोधसाधनम् ॥ ११॥
वायुरोधनात् इति । वायोः प्राणस्य रोधनात् निग्रहात् जालपक्षिवत् जालेन
बद्धः श्येनादिपक्षिवत् मनो लीयते निगृह्यते । इदं वायुनिरोधनं
मनोनिरोधनसाधनं एव । न पुनः नाशसाधनम् । एकतत्त्वाभ्यासस्य एव
तन्नाशकत्वात् इति भावः तदुक्तं- चित्तं प्राणेन सम्बद्धं सर्वजीवेषु
संस्थितम् ।
रज्ज्वा यद्वत् सुसम्बद्धः पक्षी तद्वदिदं मनः ॥
तर्कैर्जल्पैस्शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः ।
न मनो जीयते प्राणवायुरोधनात् विना विधे ॥ इत्यादि
अत्र इदं योगशास्त्रतत्त्वं अवगन्तव्यम् । प्राणवायुरोधनं नाम प्राणायामः ।
स च त्रिविधः । रेचकः पूरकः कुम्भक इति । शरीर-अन्तर्गतस्य वायोः
बहिः उच्छ्वासेन निस्सरणे रेचकः । बहिष्ठस्य वायोरन्तर्निश्वासेन
प्रवेशने पूरकः । उच्छ्वासनिश्वासनिरोधेन निश्चलतया अवस्थापने
कुम्भकः । कुम्भको द्विविधः । आन्तर्कुम्भको बाह्यकुम्भकश्चेति ।
तत्र पूरक-अनन्तरं क्रियमाणः स्वासप्रश्वासप्रतिरोधः
अन्तःकुम्भकः । रेचक-अनन्तरं क्रियमाणः तु बाह्यकुम्भकः । एवं
त्रिविधेन प्राणायामेन अभ्यस्यमानेन प्राणः दीर्घसूक्ष्मो भवति ।
यथा च तूलपिण्डो घनीभूतः प्रसार्यमाणः विरल-अवयवतया दीर्घः
सूक्ष्मश्च भवति तद्वत् । श्वासः हृदयात् निर्गत्य नासाग्रसम्मुखे
द्वादशाङ्गुलपरिमितदेशे परिसमाप्यते । तत एव च परावृत्य
हृदयदेशपर्यन्तं अन्तः प्रविशति इति स्वाभाविकी प्राणापानयोः
गतिः । प्राणायाम-अभ्यासेन तु क्रमेण क्रियमाणेन नाभेः मूलाधारात् वा
नासाग्रमुखे चतुर्विंशति-अङ्गुलपर्यन्ते,त्रिंशदङ्गुल-परिमिते वा देशे
परिसमाप्येत । एवं रेचकपूरककुम्भकभेदेन त्रिविधात् प्राणायामात् अन्योऽपि
चतुर्थः कश्चित् प्राणायामः विद्यते । सः अपि कुम्भकाख्यः एव । अयं
तृतीयकुम्भकाभ्यासपाटवात् धारणाख्यभूमिकानिष्पादकतया उपयुज्यते ।
सः अयं चतुर्विधः प्राणायामः एव अत्र मनोनिग्रहोपायतया श्रीरमणेन
कथितः । श्येनादीनां जालान्तः पातित्वे सुनिग्रहत्वं इव प्राणान्तः पातित्वेन
मनसो अपि प्राणरोधेन सुनिग्रहत्वं भवति इति स्फुटयितुं जालपक्षिवत्
इति निदर्शन-उदाहरणम् । उपक्रमस्थं ``लीयते'' इति पदं
उपसंहारस्थरोधपदानुसारेण निग्रहपरं इति बोध्यम् ॥ ११॥
प्राणनिरोधस्य मनोनिरोधहेतुत्वं विशदयितुं आरभते ।
चित्तवायवश्चित्क्रियायुताः । शाखयोर्द्वयी शक्तिमूलका ॥ १२॥
चित्तेति । चिता-चैतन्येन, क्रियया चलनादिक्रियया च
युताः समन्विताः चित्तवायवः चित्तानि प्राणाश्च शक्तिमूलका
सर्वेश्वरशक्तिबीजसम्भूता शाखयोर्द्वयी परमात्मशक्तेः उत्पन्नौ
मनः प्राणौ शाखाद्वयौ भवतः । मनसः ज्ञानशक्तिप्राधान्येन
प्राणस्य क्रियाशाखात्वम् । एतादृशविभागद्वयस्य अनादिमायाशक्तिः
एव मूलं न परमात्मा । तस्य स्वतो मनःप्राणशून्यत्वेन असङ्गत्वेन
च प्राणमनो विभागजनकत्व असम्भवात् । ज्ञानक्रियाशक्ति-अधिष्ठितात्
सृष्टिस्थितिसंहारशक्तिज्ञानवत्तया उपचितात् ब्रह्मणः मनः प्राणानां
सृष्टिः श्रूयते । हृदयं एव प्राणमनसोः उत्पत्तिस्थानं भवति ।
हृदि एव च आत्मज्योतिः प्रकाशते ।
``हृदि अन्तर्ज्योतिः पुरुषः'' ``आत्मनः एष प्राणो जायते''
``एतस्मात् जायते प्राणो मनस्सर्वेन्द्रियाणि च'' ``दश इमे
पुरुषे प्राणाः'' इत्यादि श्रुतिभ्यः । हृदि अन्तस्थं आत्मज्योतिश्च
सूक्ष्मस्थूलतारतम्यक्रमेण परम्परया हृदयादिकं कार्यकरणसङ्घातं
च चैतन्यज्योतिः शूरितं करोति । (शूरीकृ/ शूरी- प्. -करोति, to
turn into a hero) तत्र चित्तं अतिस्वच्छद्रव्यं आदर्शवत् आत्मनः
अतिसमीपवर्तित्वेन प्रथमं आत्मचैतन्यव्याप्तिमद् भवति । एतेन एव
चित्तं आत्मा इति बहवः प्रतिपन्नाः । चित्तं एव अन्तःकरणं भवति ।
तच्च नास्ति इति वक्तुं न पार्यते । कर्मेन्द्रिय-बुद्धीन्द्रियासम्भावितया
कामसङ्कल्पविक्रियायाः अभ्यूहितुं शक्यत्वात् । अन्तः करणस्य कस्यचिद्
अभावे श्रोत्रादिबाह्यकरण विषयसम्बन्धे सत्यपि पुरोवस्थितविषयं
पुरुषो न गृहीतुं शक्नोति । ``अन्यत्रमना अभूवन् अश्रौषं इति
व्यवहारदर्शनात् । तस्मात् यस्य असन्निधानात् शब्दादिग्रहणसमर्थस्य अपि
श्रोत्रेन्द्रियादेः स्वस्वविषयसम्बन्धे सत्यपि शब्दादिविज्ञानं न जायते,
यस्य सन्निधानात् च भवति, तादृशं श्रोत्रादि-इन्द्रियव्यतिरिक्तं
चित्तं नाम अन्तःकरणं श्रोत्रादि-इन्द्रियसम्बन्धि इति स्वीकार्यम् ।
तच्च एकं अपि वृत्तिभेदात् अनेकं भवति । मननात् मनः इति,अभिमानात्
अहङ्कारः इति, निश्चयात् बुद्धिरिति, स्मरणात् चित्तं इति च आख्यायते ।
तत् स्वतः तु एकं एव । तात्त्विकभेदे प्रमाणाभावात् । एवं च अहङ्कारादिषु
आत्मचैतन्यावभासनं आनन्तर्यात् आपतति । ततश्च इन्द्रियादिषु ततः
शरीरे । एवं प्राणादिकेषु अपि तदा आत्मज्योतिषो व्याप्तिः अस्ति । अन्यथा
जाग्रदादिषु प्राणस्फूर्तेः असम्भवात् स्वतः प्राणस्य जडत्वात् । एवं च
ज्ञानेन्द्रियपञ्चकं भूतपञ्चकं अन्तः करणचतुष्टयं प्राणादिपञ्चकं
अविद्याकामकर्मादिकं सर्वं अपि पारम्पर्येण चैतन्यज्योतिषा अवभास्यते ।
इमं एव आशयं आह भगवद्गीता
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ इति
रूपादिविषयपञ्चकव्यवस्थानुगुण्येन चक्षुरादीनि ज्ञानेन्द्रियाणि
पञ्च सिद्ध्यन्ति । तथा वचनादिकार्यपञ्चकव्यवस्थानुगुण्येन
वागादि-इन्द्रियाणि पञ्च सिद्ध्यन्ति । एवं सामान्यकरणभूतं चित्तं अपि ।
एवं प्राणविभागेपि चैतन्यस्य सम्बन्धः वर्तते । परन्तु स्वापे प्राणे
जाग्रति सत्यपि चैतन्य-अननुभवात् अप्राधान्यं बोध्यम् । संहतत्वात्
अचेतनत्वात् भौतिकत्वात् च चक्षुरादिवत् आत्मोपभोगकरणं एव प्राणः ।
स च अध्यात्मं पञ्चव्यूहो भवति । व्यूहश्च कार्यवशात् एव भवति ।
तत्र हृदयजन्या मुखनासिकाभ्यां सञ्चरमाणा वृत्तिः प्रणयनात्
प्राणः । मूत्रपुरीषादि-अपनयनात् अपानः , वीर्यवत्कर्मकरणहेतुः
प्राणापानसन्धिस्थः व्यायमनात् व्यान उच्यते । उदान ऊर्ध्वगमनादिहेतुः
आपादतलमस्तकव्याप्तः ऊर्द्ध्ववृत्तिः । भुक्तपीतान्नस्य समं नयनात्
अन्नपक्ता समानः । एतेषां वृत्तिभेदानां सामान्यभूता चेष्टा अभिधेया
वृत्तिः दशेन्द्रियवृत्ति-अपेक्षया भिन्नः प्राणाख्या भवति । यथा
मनसः चक्षुरादि-इन्द्रियजन्यपञ्च वृत्तयो भवन्ति तथा प्राणस्य
अपि पञ्चवृत्तयो भवन्ति । चक्षुरादि-इन्द्रियेषु मनसः इव प्राणस्य
अपि सम्बन्धो वर्तते । अतः एव श्रुतिषु एकादशप्राणाः इति प्राणपदेन
मन-आदिनां अपि व्यवहारः दृश्यते । प्राणनिरोधस्य मनोनिरोधहेतुत्वं
सम्भवति इति भावः । वृत्तिभेदापेक्षया पुरुषभेदापेक्षया वा
चित्तवायव इति बहुवचनम् । शक्तिः एव मूलकं यस्याः इति विग्रहे
समासात् उत्पन्नस्य टापः सुपः परत्वात् ``प्रत्ययस्थात् कात् पूर्वस्य
अत इदाप्यसुपः'' (७-३-४४) इति इत्वस्य अप्रवृत्तिः । बहुपरिव्राजकाः
इति वत् ॥ १२॥
एवं अविद्याशक्तिशाखाद्वयभूतयोः प्राणमनसोः प्राणरोधेन
मनोरोधनसम्भवेपि पुनः उद्भवः स्यात् इति आह-
लयविनाशने उभयरोधने । लयगतं पुनर्भवति नो मृतम् ॥ १३॥
लयेति । उभययोः चित्तवाय्वोः रोधने निग्रहे सति लयविनाशने
फलभूते सम्भवतः । प्राणनिरोधेन मनोलयो भवति ।
मनोवृत्तिनिरोधे मनोविनाशो भवति । तत्र प्राणरोधेन लयगतं
मनः पुनः उद्भवति । मृतं न भवति । सकलमनोवृत्तीनां
वासनामात्रशेषतया निरोधः एव लयः । मनसो वासनानाशः एव नाशः ।
सर्ववृत्तिनिरोधरूप-आयामसंप्रज्ञातसमाधौ वासनाया अविनाशेन
पुनरपि मनसो व्युत्थानं सम्भवति । अध्यात्मविद्याधिगमेनैव
मनोगता वासना विनश्यति । तदानीं मनोमृतं न पुनरुद्भवितुं
अर्हति । भर्जितबीजवत् पुनः उद्भवशक्तेः ज्ञानाग्निना दग्धत्वात् ।
चित्तवृत्तिनिरोधात्मक-योगमार्गस्य अपि साक्षात्कारसाधनत्वं
विचारमार्गस्य एव सम्भवति इति वासिष्ठादौ प्रपञ्चितम् -
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव ।
योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥
असाध्यः कस्यचिद्योगः कस्यचित्-तत्त्वनिश्चयः ।
प्रकारौ द्वौ ततो देवो जगाद परमःशिवः ॥
इत्यादिना । एतयोर्द्वयोः प्रथमं प्रपञ्चसत्यत्वादिनो हैरण्यगर्भाद्याः
संप्रतिपेदिरे
तन्मते चित्तवृत्तिनिरोधः एव चित्तरहितसाक्ष्यात्मसाक्षात्कारं
प्रति हेतुः । असंप्रज्ञातसमाधौ सर्ववृत्तिनिरोधरूपायां
या चितिशक्तिप्रतिष्ठा सा एव कैवल्यम् । औपनिषदाः तु
श्रीभगवत्पादमतानुसारिणः द्वितीयं विचारमार्गं प्रतिपेदिरे ।
सर्वाधिष्ठानसाक्षिचैतन्यसाक्षात्कारे विचारेण जनिते
तादृक्चैतन्य अध्यस्तस्य चित्तस्य सर्वस्य दृश्यस्य प्रपञ्चस्य
वा प्रतिभासाभावः साक्षात्कारवशात् अनायासेन एव सिद्ध्यति ।
साक्षात्कारेण एव चित्तादिदृश्यप्रतिभास-अभावस्य सिद्धत्वेन
तेषां चित्तवृत्तिनिरोधरूपयोग-अपेक्षा नास्ति । गुरुशास्त्रमुखात्
स्वस्वरूपविचारणेन एव चित्तगताः कामक्रोधादयः दोषाः सर्वेऽपि
विनश्यति । अतः तदर्थं अपि तेषां न योगापेक्षा विद्यते । अतः एव
तैत्तिरीयोपनिषदि ``तपसा ब्रह्म विजिज्ञासस्व'' इति वरुणेन
पुत्रस्य भृगोः पुनः पुनः विचाराख्यं तपः एव ब्रह्मसाक्षात्काराय
उपदिष्टं इत्युक्तम् ॥ १३॥
उभयरोधनप्रयुक्तयोः लयविनाशयोः पुनः अनुद्भवहेतुं
विशदीकर्तुं आरभते ।
प्राणबन्धनाल्लीनमानसम् । एकचिन्तनान्नाशमेत्यदः ॥ १४॥
प्राणबन्धनात् इति । प्राणबन्धनात् प्राणनियमात् लीनं लयगतं मानसं
एकचिन्तनात् एकवस्तुध्यानात् अदः नाशं एति । नश्यति इत्यर्थः ।
प्राणनिरोधेन मनसो लयमात्रं भवति न तु विनाशः । स तु
एकतत्वचिन्तनात् एव भवति । तथाहि - चित्तं रजस्तमोवशात्
प्रतिक्षणं परिणामि द्रव्यम् । ``प्रतिक्षणपरिणामिनो हि भावाः
ऋते चितिशक्तेः'' इति न्यायात् । प्रदीपज्वालासन्तानवत् कामसङ्कल्पादि
वृत्तिरूपेण निरन्तरं परिणममानस्य चित्तस्य वृत्तिरूपपरिणामत्यागेन
निरोधाकारपरिणामः एव मनसो लयः इत्युच्यते । मनसो वृत्तिरूपः
परिणामश्च प्राणस्पन्दाधीनः एव भवति ।
``प्राणबन्धनं हि सोऽस्य मनः'' इत्यादिश्रुतेः ।
अतः प्राणस्पन्दनिरोधात् चित्तस्पन्दो निगृहितो भवेत् । किन्तु
पुनः प्राणे चलति चित्तं अपि निरोधावस्थां विहाय स्पन्दितुं
आरभते । प्राणनिरोधस्य असार्वदिकत्वात् । अतः प्राणनिरोधः मनसो
धारणादि-उपरितनभूमिकासु योग्यतासम्पादकः एव भवति । इदं एव
प्राणायाम-प्रतिष्ठाफलतया भगवान् पतञ्जलिः अपि ``ततः क्षीयते
प्रकाशावरणम्'' । धारणासु च योग्यता मनसः इत्यादिना प्रतिपादयामास ।
प्राणपरिस्पन्दाधीनचित्तपरिस्पन्दात् एव चितिशक्तेः परिस्पन्दो
जायते । तेनैव च संसृतिरनुभूयते । मूलप्रकृतिभागभूतैः
सत्वरजस्तमोगुणैः सम्पन्नस्य चित्तस्य संसर्गात् एव चित्तसंसरणम् ।
स्वतः चित्तः कूटस्थनित्यत्वेन अपरिणामित्वात् । चित्तात् विविक्तं चित्ज्ञानं
एव पुरुषार्थः इति साङ्ख्यपाताञ्जलाः अभिमन्वते । चित्तचितिशक्त्योः
किल संयोगः एव संसारनिदानम् । तस्य च अविवेकाख्या अविद्या एव हेतुः
भवति । सा च तयोः विवेकाख्यात्या निवर्त्यते । तन्निवृतौ तद् हेतुकः
सम्योगो अपि निवर्तते । तन्निवृतौ च तद् हेतुकः संसारः अपि निवर्तते ।
तदुक्तं पञ्चशिखाचार्यैः - ``तत् संयोगहेतुविवर्जनात् स्यात् अयं
आत्यन्तिको दुःखप्रतीकारः'' इति । एवं च चेतनस्य अपरिणामित्वात्
न साक्षात् बन्धमोक्षौ सम्भवतः । गृहीतचित्प्रतिबिम्बस्य चित्तस्य
एव बन्धमोक्षौ । यथा योधेषु वर्तमानौ जयपराजयौ राजनि
उपचर्येते, तथा चित्ते वर्तमानौ बन्धमोक्षौ चेतने अतिदिश्येते ।
चेतनस्य भोगापवर्गौ च साधयितुं प्रकृतिरेव प्रकृत्या
प्रवर्तते इति एवं साङ्ख्यानां सिद्धान्तः । तस्मात् चित्ताख्यं त्रिगुणात्मकं
प्राणस्पन्दनिरोधात् निगृहीतं अपि वासनावशात् पुनः उद्गच्छेत् । तस्य
पुनः अनुद्भवार्थं एकचिन्तनं एव निदानम् । अयं भावः । प्राणायामः
दृढाभ्यासेन निरुद्धं चित्तं प्रत्याहार-धारणा-ध्यान-समाधियोग्यं
भवेत् । तच्च पञ्चावस्थं भवति । क्षिप्तं मूढं विक्षिप्तं
एकाग्रं निरुद्धं चेति । तत्र विषयेषु आसक्तं क्षिप्तम् । कदाचिद्
विषयासक्तम्, कदाचिद् ध्यानासक्तं विक्षिप्तम् । निद्रा-तन्द्रादिग्रस्तं
मूढम् । एकाग्रं तु एकविषयकधारावाहिकवृत्तिसमर्थम् । निरुद्धं
सर्ववृत्ति उपरमावस्थम् । एतेषु विक्षिप्तभूमौ ध्यानं कदाचित्
वर्तमानं अपि प्रवातमध्यस्थप्रदीपवत् विनश्येत् । एकाग्रावस्थायां
संप्रज्ञातसमाधिसिद्धिः । ध्येयाकारवृत्तिमात्रं अस्यां अवस्थायां
प्रतिभासते । तस्या अपि निरोधे असंप्रज्ञातसमाधिसिद्धिः ।
अस्यां भूमौ आत्मसाक्षात्कार-उदयो भवेत् । एक-चिन्तनं इत्येनेन
संप्रज्ञात-असंप्रज्ञातसमाधिद्वयं विवक्षितम् । अतः मनोनाशसाधनं
समाधिद्वयं सम्पादनीयं इति भावः । तादृशसमाधिलाभं प्रति
एकतत्त्वाभ्यास वैराग्ययोःएव मुख्यहेतुत्वं तैर्थिकाः समानन्ति ।
एवं प्राणस्पन्न्दनिरोधस्य अपि लम्बिकायोगादिकं साधनं उपदिशन्ति ।
सर्ववृत्तिनिरोधावस्थायाः असंप्रज्ञातसमाधेः अपि वासनाक्षयार्थं पुनः
पुनः अभ्यासः कर्तव्यः । एवं अभ्यासपरिपाकेन एकवस्तुज्ञानं जायते ।
ततश्व आत्यन्तिक-चित्तनाशः । प्राणबन्धनक्रमोपदेशात् हठनिग्रहो
अनभिमतः इति विज्ञायते । मनस्थानस्य हृदयस्य चक्षुरादिगोलकवत्
हठेन ग्रहीतुं अशक्यत्वात् । क्रमनिग्रहक्रमश्च वासिष्ठादौ विस्तरशः
वर्णितः ।
``अध्यात्मविद्याधिगमस्साधुसङ्गम एव च ।
वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् ॥
एताः ताः युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ '' इत्यादिना ।
यथा दुर्दान्तः मत्तङ्गजो विनाङ्कुशेन नियन्तुं न शक्यते, तथा
दुर्निग्रहं चित्तं सद्गुरूपदिष्ट-सद्युक्तिं विना नियन्तुं न शक्यते ।
तत्र अध्यात्मतत्त्वसाक्षात्कारः प्रथमः उपायः । यस्तु विद्यादिमदेन
साधुसङ्गं न कर्तुं अभिलषति, तस्य प्राणस्पन्दनिरोधः उपायः ।
प्राणस्पन्दनस्य चित्तस्पन्दं प्रति हेतुत्वं पूर्वमुक्तम् । अतः तन्निरोधे
चित्तशान्तिसम्भवात् । तदुक्तं -
``द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥
``चित्तं प्राणपरिस्पन्दमाहुः आगमभूषणाः ।
तस्मिन्संरोधिते नूनं उपशान्तं भवेन्मनः ॥ '' इति ।
एतावता प्राणनिरोधार्थं अभ्यासः एव कारणम् । मनोवासनानाशार्थं
वैराग्यं इति उक्तं भवति । यथाहि तीव्रवेगोपेतं नदीप्रवाहं
मृद्-दार्वादिसेतुबन्धेन निरुध्य कूल्य (belonging to a
bank)-अप्रणयनेन क्षेत्राभिमुखं तिर्यक्-प्रवाहान्तरवत् कुरुते तथा
वैराग्येण चित्तनद्या-विषयप्रवाहं निरुध्य एकवस्तुचिन्तनेन
शान्तेन प्रशान्तवाहिता सम्पाद्यते इति क्रमनिग्रहः सुकरः इति
महर्षेः हृदयम् । अमुं आशयं योगसूत्रभाष्ये व्यासाचार्याश्च
``चित्तनदीनाम-उभयतोवाहिनी । वहति कल्याणाय वहति पापाय च''
इति निरूपयामासुः । एकचिन्तनाभ्यासः च सुचिरं उद्वेगं अन्तरानुष्ठेयः ।
``जन्मान्तर शताभ्यस्ता राम ! संसारवासना ।
सा चिराभ्यासयोगेन न विना क्षीयते क्वचित् ॥ '' इति ॥ १४॥
एवं सुचिराभ्यासे सति नष्टं मनो भवति । नष्टे च मनसि
वासनाजनकबाह्यनिमित्त-अभावात् वासना अपि क्रमेण क्षीयते । क्षीणायां च
वासनायां प्रतिबन्ध-अभावात् आत्मज्ञानं उदेति । ततः कृतकृत्यत्वं
भवति इत्याह -
नष्टमानसोत्कृष्टयोगिनः । कृत्यमस्ति किं स्वस्थितिं यतः ॥ १५॥
नष्टेति । नष्टं मानसं यस्य सः नष्टमानसः स च असौ उत्कृष्टयोगी
च इति । तस्य मनोनाशसम्पादनेन उत्कृष्टस्य योगिनः, मनोनिरोधमात्रं
कृतवतो योगिनोऽपरमत्वं अभिहितम् । अतः एव स्वस्थितिं स्वात्मनि स्थितिं
यतः प्राप्तस्य कृत्यं कार्यं अस्ति किम् ? नास्ति इत्यर्थः । कृतकृत्यत्वं
भवति इति भावः । यद्वा विषयप्रवणं मनः पूर्वोक्त तत्त्वाभ्यासेन
प्रत्यक्प्रवणतासम्पादनद्वारा विनाशं प्रापितवतः स्वनिष्ठस्य योगिनः
किं कुत्सितं कृत्यं अस्ति इति काकुः ।(change of the voice under different
emotions) तादृश योगिश्रेष्ठे विधिनिषेधशास्त्रं न प्रभवति ।
लोकानुग्रहार्थं कर्म कुर्वन् अन्यथा कुर्वन् वा, स न हीयते इति भावः ।
``यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ॥ ''
``आत्मलाभान्नपरं विद्यते''।
``यल्लाभान्नापरो लाभः'' इत्यादि श्रुतिस्मृतेः ।
मनोनाशं अकृतवतः अयोगिनः अस्वस्थत्वेन स्वास्थ्यलाभाय कृत्यमस्ति
एव । अकृतकृत्यत्वात् तस्य । एतेन योगिनः जीवन्मुक्तिप्रापकत्वस्य
शास्त्रसम्मतत्वात् ॥ १५॥
एवं योगिनां कृतकृत्यं उपदिश्य तेषां एव तत्त्वसाक्षात्कारप्राप्तिद्वारा
निरतिशय-आनन्दरूपदृष्टमहाफलं उपदिशन् योगप्रकरणं उपसंहरति -
दृश्यवारितं चित्तमात्मनः । चित्वदर्शनं तत्त्वदर्शनम् ॥ १६॥
दृश्येति । दृश्यवारितं दृश्येभ्यः वारितं परावर्तितं
चित्तं एव आत्मनः चित्वदर्शनं भवति । दृश्यसंविलितं चित्तं
योगाभ्यासेन दृश्यवियुक्तं यदा भवति तदा तच्चित् भवति । चित्वमेव
चित्तस्य यथार्थस्वरूपम् । अतः चित्तसम्बन्धि चैत्यपरिमार्जनं एव
चित्त्वदर्शनम् । चित्तं जडं स्वतः अन्यत् साधयितुं न समर्थं
भवति । अतः स्वसिद्धये स्वविषयसिद्धये च, स्वसाक्षीभूतं
स्वप्रकाशचिद्रूपं वस्तु समालम्बते । ततः च चिद्-अधीनजीवितं
चित्तं असद् एव । स्वसाक्षिणं परमात्मानं विस्मृत्य चित्तं दृश्याकारं
जीवति । यदि पुनरपि परमात्मस्मृतिं प्राप्नोति तदा चित्तत्वं परित्यज्य
चित्तं चित्वं प्राप्नोति । तथा च चित्तात् चैत्यपरित्यागः एव अन्ततः
चिन्मात्रता पर्यवसन्ना भवेत् । इदं एव तत्त्वदर्शनम् । चित्तरहितः
चित्वदर्शनस्य एव परमार्थत्वात् ।
तथा च उक्तम्-
``चित्स्वभाव परामृष्टा स्पन्दशक्तिः असन्मयी ।
कल्पना चित्तिमित्युक्त्या कथ्यते शास्त्रदृष्टिभिः ॥
चित्तमित्येव रूढोऽयं यदैव कलनोदिता ।
तदैव चित्वं विस्मृत्य सा जडेव व्यवस्थिता ।
दृश्याऽसम्भवबोधेन मनसो दृश्यमार्जनम् ।
सपन्नं चेत्तदोत्पन्ना परा निर्वाणनिर्वृतिः ॥ '' इति ।
निर्वाणनिर्वृतिः इति अमनस्कस्य योगारूढस्य निरतिशय-आनन्दप्राप्तिः
अभिहिता । अर्थमनर्थं अन्यत्र अपि उक्तः ।
``समाधिनिर्धूतमलस्य चेतसो
निवेशितस्यात्मनि यत्सुखं भवेत् ।
न शक्यते वर्णयितुं गिरा तत्
यदेतद्-अन्तःकरणेन गृह्यते ॥ '' इति
गीतायां अपि
``प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ ''
इत्यादिना । अचित्तत्वं एव मुक्तिः । अतः तदेव आसादनीयं इति भावः ॥ १६॥
एतावता योगाभ्यासमार्गेण मनोनाशः उपदिष्टः । इदानीं विचारमार्गेण
तन्नाशं आह -
मानसन्तु किं मार्गणे कृते । नैव मानसं मार्ग आर्जवात् ॥ १७॥
मानसमिति । मानसं तु किं ? मनसः स्वरूपं किं इति मार्गणे विमर्शे
कृते मानसं नैव विद्यते । तु शब्दः पूर्वोक्तयोगाभ्यासक्रमापेक्षया
विचारमार्गस्य व्यतिरेकद्योतनार्थः । तु शब्द सूचितं व्यतिरेकं
एव विशदयति-मार्गे इति । मार्गे विचारः मार्गे आर्जवात् ऋजुभावस्य
विद्यमानत्वात् इत्यर्थः । सङ्कल्पविकल्पादिवृत्तिमत्त्वं मनसः स्वरूपम् ।
सर्वशक्तेः मायाशबलस्य आत्मनः समुत्पन्नं भावनामात्रं एतत्
भवति । तच्च चिदचित् उभयसंवलनरूपत्वात् न एकतरं रूपः
भजति । परमार्थतः तु ``मन्वानो मनः'' इति ``तान्येतानि
कर्मनामधेयानि'' इति श्रुतौ आत्मनः कर्मप्रयुक्त-नामधेयेषु
मनस्-शब्दपरिगणनात् चेतन आत्मा एव मनो अविद्या-उपाधिवशात्
अचेतनतां उपगच्छति । अतो नचित् अपि अचित् न सत् न अपि असत्-मनः
इति चिदचिद्विलक्षणं सदसदुभयविलक्षणं च भवति । एवं
चलनस्वभावत्वं अपि तस्य औपाधिकं एव । तथा च तच्छैलूषवत्
थे लेअदेर् ओफ़् अ बन्द् , ओने व्हो बेअत्स् तिमे) क्रियानिमित्तानि नानानामरूपाणि
अहङ्कारचित्तबुद्धिजीवादीनि धत्ते । यथा पचनात् पाचकः इति,
पठनात् पाठकः इति, कर्षणात् कृषिकः इति,आधिपत्यात् अधिपतिः इति
च विचित्रक्रियाकरणाद् एकः एव नरो नानाशब्दप्रत्ययभाक् भवति तथा
मनोऽपि कर्मवशात् तानि नानानामानि धत्ते । वस्तुतः तु मनः एकं एव ।
मनसः कर्मैवेदं देहेन्द्रियादिकं सर्वं जगत् । तद्भावे भावात् तदभावे
च अभावात् । बन्धमोक्षौ अपि मनः आयत्तौ एव ।
``मन एव मनुष्याणां कारणं बन्ध मोक्षयोः । ''
``बन्धाय विषयासक्तं मोक्षे निर्विषयं स्मृतम्'' इत्यादि श्रुतेः ।
अतः मनोनिरोधमात्रेण बाह्याभ्यन्तरकृत्स्नबन्धनिवृत्तिः सिद्ध्यति ।
तन्निरोध-उपायश्च प्राणस्पन्दनिरोधः प्राक् उक्तः । स च धारण
असाधकतया प्राणस्य दीर्घसूक्ष्म-एकाग्रतां जनयति इति समाधेः बहिरङ्गः
एव । एकचिन्तनरूप-संप्रज्ञातसमाधिप्राप्तिद्वारा मनोनाश-सम्पादनं
अनृजुः क्लिष्टश्च पन्थाः । मनसः स्वरूपं कीदृशं इति
मनस्सत्त्वविचारो ऋजुः पन्थाः । मनोभ्रान्तिकृतत्वात् बन्धप्रत्ययस्य
तन्निर्णयाय एव प्रयत्नः कार्यः । यस्य बन्धप्रत्ययप्रयोजकता तस्य
परित्यागेन एव तन्निवृत्तिः स्यात् ।
``सारभे तच्चिकित्सया निदानपरिवर्जनम् । ''
इति च आयुर्वेदविदां समयः । न हि
रोगनिदानापथ्याशनादिरोगतत्त्वनिर्णय-अभावे तच्चिकित्सायै प्रयत्नः
सङ्घटेत । मनः तत्त्वे च विचार्य निर्णीते मनः शशविषाणवद्
असत्कल्पं पर्यवस्यति । अतः अविचारद्वैतभावनामात्रसिद्धस्य मनसो
विचारजन्यज्ञानमात्रात् लयसिद्धिरिति विचारः कार्यः इति भावः ।
तथा च उक्तम् -
``जडत्वात्-निस्वरूपत्वात् सर्वदैव मृतं मनः ।
मिथ्या सङ्कल्पकलितं मिथ्यावस्थितिमागतम् ।
अन्विष्टमपि नो दृष्टं का तस्य किल शक्तता ।
अहो नु खलु चित्रेयं मायामय विहायसि'' ॥ इति ।
अत्र उदाहरन्ति इमं इतिहासम् । आसीत् कश्चन जामातृ प्रियसखः । स
च वितते कस्मिंश्चित् विवाहमहोत्सवे जामातुः स्निग्धोहम् (affectionate,
friendly, attached) इति वदन् जामात्रा साकं प्रविष्टवान् । ततश्च
जामातृसखस्यापि कन्यासम्बन्धिनः अर्हणानि कारयामासुः । जामातरि
निरतिशयविश्वासेन प्रियहितं इव भासमानं अमुं प्रति कन्यासम्बन्धिनः
वरसम्बन्धिनः वा ``कोऽयम्'' , ``कुतो वाऽगतः''
``किं एवं भोगान् भुङ्क्ते'' इत्यादिकं न विचारयामासुः ।
कन्यासम्बन्धिनः जामातृपक्ष्योऽयं कश्चित् स्यात् इति वितर्कयामासुः ।
वरसम्बन्धिनश्च कन्यापक्ष्योऽयं कदाचित् स्यात् इति निर्णयाम्बभूवुः ।
अयं च भोगान् भुङ्क्ते । उभयपक्षीयान् अधिक्षिपति । सर्वकार्यनिर्वाहे
स्वातन्त्र्यं आवहति । उच्चावचं चेष्टते । एवं बहुतिथे काले विगलिते
वितर्कशङ्काकुलाः ते कोऽयं एवं एवं वल्गति इति विचारयितुं आरभन्त ।
जामातृनिकटं आगत्य ``तवाप्तो वाऽयम्'' इति अपृच्छन् । ``न
मम अयं आप्तः किं तु युष्माकं आप्तः स्यात् इति निश्चेयं अहम्'' इति
जामाता प्रत्यवदत् । ते च अस्मद् आप्तः बन्धुः वा नायं इति प्रत्यवादिषुः ।
एवं एतेषां स्वतत्वविचारप्रवृत्ति उन्मुखतां इङ्गितेन अभिज्ञाय
``न इतः परं अत्र अवस्थातुं अस्माभिः न शक्यम्'' इति मनसि
मन्वानः तान् अनापृच्य एव यत्रक्वापि जामातृसखः पलायितः इति ।
अतः जामातृसखवत् मनः अपि अविचारदशायां अधिकरोति । विचार्यमाणे
मनः तत्त्वे चिदचिदुभयपक्षेपि असम्भवात् तन्नास्ति एव अलीकवत् इति
भावः ॥ १७॥
ननु मनसो अलीकवत् असत्वे प्रतियोगिप्रसिद्धेः अभावात् निषेद्धुं विचारयितुं
वा नैव शक्यते इति आशङ्क्य अविचारदशाप्रसिद्धां मनस्थितिं
लक्षणप्रमाणाभ्यां उपवर्णयति -
वृत्तयस्त्वहं वृत्तिमाश्रिताः । वृत्तयो मनो विद्ध्यहं मनः ॥ १८॥
वृत्तय इति । वृत्तयो मनः इति मनसः लक्षणम् ।
कामसङ्कल्पादिवृत्तयः अनन्ताः । वृत्तयः सङ्कल्पाः उच्यन्ते ।
न तद् अतिरिक्तं मनसः तत्त्वं अस्ति । ताः च जडा अपि
चित्सम्बन्धात् तप्तायगोलकवत् चेतना उपलक्ष्यन्ते । एताश्च
वृत्तयो देहादि-अभिमानाख्यं अहङ्कारं आश्रित्य विजृम्भन्ते ।
मिथ्याभूतदेहादि-अभिमानेन निमित्तेन प्रथमं उत्थीयमाना वृत्तिः एव
अहङ्कारः इति भण्यते । सा च सर्वानर्थहेतुत्वात् भवबन्धिनी । परमार्थः
तु जडाजडयोः अज्ञानतत्साक्षिणोः अन्तराळिकं साभासं तत्त्व अन्तःकरणं
एकं एव जीव-बुद्धि-मनः-चित्त-अह्ङ्कारादि नानानामभिर्व्यवह्रियते ।
जीवनात् जीवः इति देहादौ अहं अभिमानात् अहङ्कारः इति निश्चयात्
बुद्धिः इति सङ्कल्पात् मनः इति स्मरणात् चित्तं इति च अज्ञानांशेन
प्रकृतिः इति च एकं एव तत्त्वं औपाधिकनानासंज्ञाभिः श्रौतानां
प्रक्रिया । तत्त्वदर्शिभिः व्यासादिमुनीन्द्रैरपि अन्तःकरणतत्वं एवमेव
व्यवस्थापितम् । गौतमादिकृततन्त्रानुसारिणः तु स्वस्वबुद्ध्यनुसारेण
अहङ्कारादि अन्तःकरण तत्त्वं अन्यथा अन्यथा व्याचक्षते । तत्र
गौतमीयाः अहङ्कारः द्रव्यविशेषः विभुः जीवः । तत्ज्ञानकारणं
मनो अणुप्रमाणम् । बुद्धिः तु जीवगुणः । सा च अत्रिक्षणावस्यायिनि इति
वर्णयन्ति । सङ्ख्याश्च मूलप्रकृतिकार्यभूता बुद्धिः महतत्वम् ।
अहङ्कारः च तत्कार्यः तत्त्वान्तरम् । मनः तु एकादश-इन्द्रिय-अन्तर्गतं
इति सिद्धान्तयन्ति । जैमिनीयमतानुसारिभिः च कैश्चित् मनो विभुद्रव्यं
इति । अन्यैश्च अन्नमयं इति । अहङ्कारश्च जडज्ञानोभयात्मकः । स
एव जीवात्मा । तस्य चिदंशो बुद्धिः इति निरूपयन्ति । पाञ्चरात्रं अतीयैः
च वासुदेवाख्यात् परमात्मनः सङ्कर्षणाख्यः जीवः सः एव अहङ्कारः
तस्मात् प्रद्युम्नाख्यं मनः ततो अनिरूद्धाख्या बुद्धिः च आजायते इति
सङ्गिरन्ते । चार्वाकाः च कायस्य चैतन्यगुणो यः सः एव बुद्धिः ।
कायः एव अहङ्कारः स एव आत्मा । तस्य पूर्वापरपरामर्शः मनः इति
वदन्ति । आर्हतैः च मध्यमपरिमाणः चिद्रूपः जीवाः अस्तिकायः एव
अहङ्कारः । तस्य विषयाभिलाषः मनः । विषयविज्ञानं च बुद्धिः
इति व्यवस्थाप्यते । बौद्धः तु आलयविज्ञानधारा क्षणिकी बुद्धिः ।
स एव आत्मा । अहङ्कारश्च प्रवृत्तिविज्ञानात्मकः । बुद्धेरेव
बाह्यविषयाकारपरिणामः मन इति निश्चीयते । एताः च वादिविकल्पनाः
स्वकपोलकल्पिताः प्रमाणमूर्धन्य-उपनिषद्सम्मताः न भवन्ति । अतः एव
भगवान् श्रीरमणः प्रामाणिकं औपाधिकं संज्ञाभेदं वृत्तयो मनः इति
प्रथमं अङ्गीकृत्य विद्धि अहं मनः इति पश्चात् एकत्वं उपदिशति ।
अतः अहन्त्वं एकं एव आस्ते । वृत्तयो द्विविधा भवन्ति । अहंवृत्तिः
इदंवृत्तिः इति । बुद्धीन्द्रियादि सर्ववृत्तयः इदंवृत्तौ अन्तर्भूताः ।
इदमाकारवृत्तीनां सर्वासां अहमाकारवृत्ति एव मूलस्कन्धः । प्रथमत्वात् ।
अज्ञानतादात्मनः चित्तः देहादि-अभिमानी अहङ्कारः एव प्रथमं उदेति । तद्
अनन्तरं चित्त बुद्ध्यादि-दृश्यसंवेदनात्मिका इदंवृत्तयः प्रादुर्भवन्ति ।
उत्तमपुरुष-अभावे न प्रथम मध्यमौ सम्भवतः । अतः अहङ्कार एव
सर्वस्य मायामयस्य प्रपञ्चस्य मूलप्रदेशः । अहङ्कारस्य इदंवृत्तिषु
अभिमानः एव ममता इति निरुच्यते । विचारेण अहङ्कारत्यागे ममतात्यागः
सुलभः भवति । अतः अहं अर्थविचारः कर्तव्यः ॥ १८॥
ननु अमूर्तत्वेन अहङ्कारस्य कथं दाहः
वा त्यागः वा सम्पादयितुं शक्यते इति आशङ्कायां
अहंवृत्तिमूलस्थान-अन्वेषणाख्यविचारजनितस्वात्मसंवित्-बलेन तद्दाहः
अतिसुकरः इत्याह -
अहमयं कुतो भवति चिन्वतः । अयि पतत्यहं निजविचारणम् ॥ १९॥
अयमहमिति । अहंवृत्तिरूपोऽहङ्कारः कुतः कस्मात् उद्भवति उद्गच्छति
इति चिन्वतः विचारयतः पुंसः अयं अहङ्कारः पतति तद् उत्पत्तिस्थाने
विनश्यति । इदं निजविचारणं आत्मविचारः इत्यर्थः । अयि इति
विचारसुकरता-द्योतनार्थं शिष्यं प्रति अनुनयोक्तिः । तदुक्तम् -
``राजन् ! स्वात्मविचारोऽयं कोऽहं स्यां इति रूपभृत् ।
चित्तदुर्द्रुमबीजस्य दहने दहनः स्मृतः ॥ इति
अयं भावः - यथा अहम्भावलक्षणात् कारणात्
मन-आदिलक्षणस्संसार-अङ्कुरो जायते तथा अहम्भावस्य अपि कारणं
``किम्'' इति शास्त्रप्रमाणतः विचारणीयम् । ततश्च चिद्रूपः आत्मा
एव तत्कारणं इति निश्चीयेत । देहादि-अहङ्कारान्ताः सर्वे अपि अध्यात्मिका
अर्थाः च अनृताः अनात्मानः । अतः तेषां स्वतः सेद्धुं अशक्यत्वात्
तद्-विलक्षण-आत्म-अध्यासात् सिद्धौ मिथ्यात्वं उपगन्तव्यम् । संविद्रूपः
आत्मा मूषानिषिक्त-द्रुतताम्र इव शरीरादि-आकारेण अहं इति प्रतिभासते ।
शरीरादौ अहन्त्ववेदनं च न वास्तवम् । अमूर्तस्य मूर्तदेहादिसम्बन्धस्य
वास्तवत्व असम्भवात् । एवं देहादौ अहं इति तादात्म्य-अभिमानलक्षणस्य
अहमः कारणं किं इति विवेकदशा पर्यालोचनीयम् । अन्ततः अहन्त्वं
असत्कल्पं विनश्यति । इदंवृत्तिपरित्यागेन अहम्वृत्तेः मूलस्थाने
मार्गिते सापि कतकरजोवद् हि नश्यति । देहेन्द्रियादिषु अभिमानाख्य
अहङ्कारवृत्तिविनाशे अनहन्ता स्यात् इति इदं एव आत्मविचारणं इति ।
तथा च वासिष्ठे -
``नाहन्त्वं लभ्यते राम ! बुद्ध्या सम्यङ् निएरीक्षताम् ।
असदेव कुतोप्येतत्-बाह्यलक्ष इवोदितम् ॥ ''
``कोहं कथमिदं चेति विचारेणैव नश्यति ।
नाहमित्येव निर्वाणं किमेतावति मूढता ॥ '' इति ।
``कोहं कथमिदं दृश्यं को जीवः किं च जीवनम् । ''
जीवितं भुवनं वापि ततोऽहमिति नश्यति ॥ '' इति च ।
``यदा यदा देहादौ अहम्भावोदयः स्यात् तत्समकालं एव तत्र तत्र
अनहन्त्वबुद्धिः उत्पादनीया । एवं पुनः पुनः सावधानं उपस्थापितेन
अनहम्भावभावनेन अहम्भावविनाशः कर्तव्यः इति भावः ॥
एवं अहमः मूलास्थान-अन्वेषणेन अहन्ताविनाशकथनेन जगन्नाशः अपि
सूचितः । अहन्तामूलत्वात् जगतः । पूर्वं समाधि-अभ्यासेन मनोनाशः
``नष्टमानसोत्कृष्टयोगिनः'' इति अत्र कथितः इति भेदः ॥ १९॥
ननु लोके अहङ्कारस्य आत्मतया प्रसिद्धत्वात् तन्नाशे स्वात्मनाशापत्या
नैरात्म्यापत्तिः स्याद् इति शङ्कायां आह -
अहमि नाशभाज्यहमहन्तया । स्फुरति हृत्स्वयं परमपूर्णसत् ॥ २०॥
अहमिति । अहमि अहङ्कारे नाशभाजि सति कोऽहं कुतोऽहं इति
विचारजनितसाक्ष्यहङ्कारविवेकविज्ञानेन समूलकाषं कषिते सति हृत्
सर्वोपसंहाराधिष्ठानं परमपूर्णसत् निरतिशयबृहत्वरूपं सद्वस्तु
अहम् - अहं तया विनष्ट-अहङ्कारात् विलक्षण अहन्तया स्वयं प्रयत्नं
विना स्वयं एव स्फुरति प्रकाशते । तथा च आत्मनो नाशः सम्भवति ।
अहेयस्वभावत्वात् । साक्ष्यात्माभिन्नस्य परिच्छिन्नस्य देहमात्र-अहम्भावस्य
विनाशे अपि तादृग् अहम्भावनाशोपलक्षितं पराहम्भावरूपं परमार्थ
सच्चिद्रूपं वस्तु न नश्यति इति भावः ।
अत्र अहङ्कारत्रयं भगवता उपदिष्टम् । तस्य अयं आशयः ।
देहपरिच्छिन्नः अहङ्कारः नाशप्रतियोगितया निर्दिष्टः प्रथमः ।
देहादिपरिच्छेदविहीनः सर्वपदार्थविकारात्मना भासमानो अहङ्कारो द्वितीयः ।
अवस्थात्रयादि सर्वपदार्थसारभूतः सर्वकारणीभूतः सर्वदा एव हृदि
संस्थितः अखण्डाद्वयसन्मात्रस्वरूपः तृतीयः अहङ्कारः । अहन्तया इति
उपलक्षणे तृतीया । तथा च अयं अर्थः सम्पद्यते । अहङ्कारद्वयं अपि
विनाश्य सर्व-अहङ्कारनाश-अवधिभूततया परिशिष्यमाणं निरहम्भावं
पूर्णसन्मात्रं स्फुरति इति । न केवलं ; तादृक्सन्मात्रस्फुरणं
धर्माधर्मादिवद् अलौकिकं किन्तु सर्वप्रत्यक्षानुभवसिद्धं एव इति वक्तुं
स्फुरति इति स्वानुभवसिद्धिः उक्ता । सर्वदृश्यसमष्ट्यभिमन्तारं
देहेन्द्रियादि-व्यष्टि-अभिमानिनं अहङ्कारं च स्वात्मविचारजन्यबोधेन
निर्मूलनं कृत्वा परिशिष्टचिन्मात्रस्थितिः एव श्रेयस्करी इति भावः ॥ २०॥
अहन्तानाश-उपलक्षितचैतन्यस्य व्यपदेश्यतां
अहम्पदलक्ष्यत्वबोधनद्वारा विशदयन् पूर्वसूचितं अहङ्कारत्रयं अपि
स्पष्टयति -
इदमहं पदाभिख्यमन्वहम् । अहमि लीनकेऽप्यलयसत्तया ॥ २१॥
इदमिति । अहमि देहाभिमानात्मकाहङ्कारे लीनके अपि विनष्टे
अपि अन्वहं समष्ट्यहङ्कारात् अनु अनन्तरं अलयसत्तया
अविनश्वरसद्रूपतया अहम्पदाभिख्यं अहम्पदलक्ष्यार्थं
इदम् (प्रकृतम्) स्वप्रकाशापरोक्ष-चिन्मात्रं वस्तु स्फुरति ।
विचारजन्यज्ञानेन देहादिपरिच्छिन्नाहङ्काराध्यासस्य यो विनाशः
प्राक् उक्तः स एव ``अहमिलीनकेऽपि'' इत्यनेन वर्णितः ।
समष्ट्यहङ्कारश्च हिरण्यगर्भः इत्युच्यते । व्यष्ट्यहङ्कारस्य
कल्पितत्वेन विनाश्यत्वं इव समष्ट्यहङ्कारात्मनो हिरण्यगर्भस्य अपि
कल्पितत्वमेव । समष्ट्यहङ्कारभावं आपन्नस्य परमेष्ठित्वम् । इदं
अपरब्रह्मरूपं इति सिद्धान्तः । परमार्थदृष्टौ तु न परमेष्ठी
जीवः जगद्वा किञ्चित् अस्ति । ब्रह्मैव सद्रूपं पूर्णं अवशिष्यते ।
तच्च देशकालवस्तुपरिच्छेदशून्यमिति द्योतयितुं एव पूर्वं
परमपूर्णसत् इति पूर्णात्वांशे परमत्वविशेषणं दत्तम् । अत्रापि अन्वहं
इति सर्वात्मक-अहङ्कारस्य अपि हेयत्वं एव उक्तम् । तस्य सप्रपञ्चत्वात् ।
व्यष्टिसमष्ट्यादिसर्वप्रपञ्च-अतीतः यो अहङ्कारः स एव उपादेयः । सत्तया
सर्वदा स्फुरणात् । अतः एव सुषुप्तौ व्यष्टिसमष्यहङ्कारद्वयविनाशे
सत्यपि सद्रूप-आत्मानुभवश्च सर्वलोकप्रतीतः । तदानीं आत्मनाशस्य
न केनापि अभ्युपगन्तुं शक्यत्वात् । ``अविनाशी वा अरे अयं
आत्माऽनुछित्तिधर्मा'' इत्यादि श्रुतेः । सुषुप्तौ विशेषविज्ञान-अभावे
अपि निर्विशेषस्वरूपचितः नासत्वम् । अहम्पदाभिख्यत्वं अव्यपदेश्यस्य
आत्मनः काल्पनिकं एव । इदन्त्वव्यावृत्तिरूपं प्रवृत्तिनिमित्तं च
पुरस्कृत्य एव सद्ब्रह्मादिशब्दाभिधेयत्वं अपि । न वस्तुवृत्तेन । अतः
अहन्तानाशे न केनापि शब्देन तत्कालस्फुरितं वस्तु व्यपदेष्टुं शक्यते ।
महासमुद्रे विलीनस्य सैन्धवस्य इव व्यपदेश्यत्वं एव तदा भवति ।
एतेन सर्वविध-अहन्तावधिकद्वैतप्रपञ्चोपशमोलक्षितब्रह्मभावेन
अवस्थानं विचारजनितत्वज्ञानं अन्तरा न सम्भवति इति भावः ॥ २१॥
अहमयं कुतो भवति चिन्वतः इति अहमो मूलस्थानान्वेषणं उक्तम् । तद्
अन्वेषणप्रकारं उपदिशति -
विग्रहेन्द्रिय प्राणधीतमः । नाहमेकसत्तज्जडं ह्यसत् ॥ २२॥
विग्रहेति । विग्रहः पाञ्चभौतिकं स्थूलशरीरं इन्द्रियाणि
ज्ञानेन्द्रियकर्मेन्द्रियाणि दश मिलितानि प्रत्येकं वा प्राणः जीवनहेतवो
दश वायवः धीः मनः चित्तं अहङ्कारः इति अन्तःकरणं धीपदेन
ग्राह्यम् । तमः अव्याकृतमाया अव्यक्त-अज्ञानादिपदाभिधेयं वस्तु च,
नाहं अहम्पदाभिख्यः पूर्वोक्तः चिदात्मा न भवति । तत्र हेतुः- जडं
इति । अन्याधीनप्रकाशत्वं एव जडत्वम् । तथा च देहादि अव्यक्तान्ता
अनात्मानः जडत्वात् अनुमानं एकं प्रमाणं उक्तं भवति । न च जडत्व
असिद्धिः । देहादिजाड्यस्य प्रकृतिसिद्धत्वेन अपह्नोतुं अशक्यत्वात् । अतः
स्वरूपसिद्धये स्वसाक्षिभूतंस्वप्रकाशचिद्रूपं तत्त्वं अपेक्षते इति
अन्याधीनप्रकाशत्वं अव्याहृतं देहादेः । अतः नाहम्पदलक्ष्यार्थाः ते
भवन्ति ।
ननु विग्रहेन्द्रियादयः प्रकाशमानाः सन्तः प्रत्यक्षतः अनुभूयन्त ।
नैयायिकप्रभृतयः दर्शनकृतश्च प्रकाशमानतया सदात्मत्वं
तेषां अभिमन्यन्ते । अतः कथं अप्रकाशमानत्वेन तेषां अनात्मत्वं
व्यवस्थापयितुं शक्यते इति चेत् । न । चित्यचिदात्मसन्निधानाभावे
विग्रहादीनां प्रकाशमानता अस्म्भवात् । सुषुप्तौ विग्रहादिप्रकाश-अभावेन
आत्माभावप्रसङ्गाच्च । न च इष्टापत्तिः । कृतहानाकृताभ्यागम
प्रसङ्गात् । अतः सुषुप्तेः प्राक्कालीन आत्मा एव पश्चाद् अपि अनुस्यूततया
वर्तते इति उपेयम् । भिन्नत्वे च प्रत्यभिज्ञा अनुपपत्यादयः दोषाः
परस्सहस्रं सम्भवेयुः । नैयायिकप्रभृतयः तु नित्यसाक्षिप्रकाशं
आत्मानं अजानाना एव परप्रकाश्यस्य अनित्यविज्ञानस्य देहेन्द्रियादि अन्यतमस्य
आत्मत्वं मन्यन्ते । अतः ते भ्रान्ताः एव ।
ननु देहेन्द्रियादिषु सत्वं भासते । अतः सत्तावत्वात् ते कथं अनात्मानः इति
शङ्कायां तेषां सत्वम अपि चिदात्मसत्ताधीनं एव इति चिद्विभिन्नत्वं
इव सद्भिन्नत्वं व्यवस्थापयितुं अनुमानान्तरं आह - एकसद् इति ।
देहेन्द्रियादयः न एकसत् इति पृथक् अन्वयो बोध्यः । एकं अखण्डं सत्
सत्तासामान्यं इत्यर्थः । तथा च देहादयः न अखण्डसन्मात्र आत्मरूपा
भवितुं अर्हन्ति । कुतः इति आकाङ्क्षायां हि असत् इति हि यस्मात् देहेन्द्रियादिकं
सद्भिन्नम् तस्मात् इत्यर्थः । तथा अयं अर्थः सम्पन्नो भवति ।
देहेन्द्रियादयः आत्मानः सद्भिन्नत्वात् । न खलु प्रकाशमान्त्वमात्रं
देहेन्द्रियादेः सत्वं अवगमयति; रज्जुसर्पमरीच्युदकादीनां अपि
प्रकाशमानत्वेन सत्त्वापत्तेः । न च रज्जुसर्पादीनां आरोपितत्वेन
प्रकाशमानत्वे अपि न सत्त्वम् अङ्गीकर्तुं शक्यते । देहेन्द्रियादीनां
अनारोपितत्वात् प्रकाशमानत्वप्रयुक्तं सत्वं अवश्यं अङ्गीकार्यं इति वाच्यम् ।
देहेन्द्रियादीनां अपि चिदात्मनि अध्यासेन रज्जुसर्पादिवद् आरोपितत्वात् ।
देहेन्द्रियादीनाम् अत्यन्त-असत्वे प्रकाशमानत्व अयोगः । तेषां आत्यन्तिकसत्त्वे
च अप्रकाशमानत्व अयोगः । तथा च बाध्यमानत्व अयोगः स्यात् इति न
सत्वं नापि सदसत्वं परस्परविरोधात् इति अनिर्वाच्यत्वं एव विमृश्यमाने
सिद्ध्यति । चिदात्मा एव परमार्थसद्रूपः । सत्वेनैव निर्वाच्यः सः ।
अबाधितस्वयम्प्रकाशता एव सत्ता भवति । सा च स्वरूपं एव आत्मनः । न
तु तद् अतिरिक्ता भवति । सत्तासामान्य-अर्थक्रियाकारित्वादिकं नैय्यायिकादिभिः
अभ्युपगम्यमानं सर्वं आत्मसत्ताधीनसत्ताकत्वात् अलक्षणं एव । न एकसत्
इति अनेन एकसत्तावादं अनुस्मारयति भगवान् । तज्जडं ह्यसत् इति अनेन
देहेन्द्रियादिप्रपञ्चस्य अत्यन्त असत्वपक्षं अपि संसूचयति ।
व्यावहारिकदृष्ट्या भ्रान्तिप्राप्त-अहम्पदाभिधेयत्वं देहेन्द्रियादीनां
निषिध्यते । तेषु अहन्त्वभ्रमनिवृत्तिं विना अहमः मूलान्वेषणस्य
अशक्यसम्पादत्वात् । चार्वाकादयः हि वादिनः विग्रहादीनां एव
अहम्प्रत्ययगम्यत्वं उररीकुर्वन्ति । तदपि अनुचितं इति निरूपणीयम् ।
कोऽहं कुतोऽहं इति विचारः संशयपूर्वकः एव । स च
वादिविप्रतिपत्ति-अधीन इति तत् अभिमतपक्षाणां असाधुत्वनिरूपणं अपि
प्रस्तुत-उपष्टम्भकतया जिज्ञासु-उपयोगितया च भगवता कृतम् ।
न पुनः परमतनिषेधव्यासिनतया इति बोध्यम् ।
किञ्च अज्ञानाद् अनादिकालात् आरभ्य भ्रान्त्या प्रसक्तमनात्मदेहादौ आत्मभ्रमं
अध्यारोपापवाद-न्यायं आश्रित्य अपवदितुं विग्रहादि अनात्मत्वं भगवान्
व्यवस्थापयति । व्यवहारदृष्ट्याध्यारोपः परमार्थदृष्ट्या अपवादः ।
उपदेशादिव्यवहारार्थं एव व्यवहारपरमार्थदृष्टिसम्मेळनं
अपि अङ्गीक्रियते । एतत् दृष्टिपरिकल्पनमूलकं एव सत्तत्रैविध्य
कल्पनं अपि । घटादयो व्यावहारिकाः । रज्जुसर्पादयः प्रातिभासिकाः ।
वन्ध्यापुत्रः शशशृङ्गादयः तु अत्यन्त असन्तः इति चैवं
अवान्तरवैलक्षण्यकल्पनं अपि अज्ञबोधनार्थं एव । परमार्थतः
तु देहादयः वा रज्जुसर्पादयः वा शशविषाणादयः व सर्वेऽपि
विकल्पनामात्रतयाऽत्यन्त असन्तः एव । अतः एवाविग्रहादीनां अत्यन्त असत्वं
वैज्ञानिकदृष्ट्या भगवता ``तज्जडंह्यसत् इति'' प्रतिश्रुतम् ।
तत्त्वविदो भगवतः श्रीरमणस्य तत्त्वदृष्ट्या देहेन्द्रियादिकं
जगदखिलं आत्मरूपं एव इति शशशृंङ्गसमानं असद् एव भवति ।
एवं असतः जगतः आत्मसत्तया सत्वकल्पने च प्रातिभासिकव्यावहारिकादिषु
वस्तुषु त्रिषु अपि समानत्वेन सत्तात्रैविध्यकल्पनायाः न अवकाशः एव ।
अखण्डसद्रूपात्मदर्शने जाते देहेन्द्रियादेः जगतः जगत्वमेव विनश्यति ।
तत्सर्वं आत्मनि तिरोभवति । तन्मात्रं च तत्त्वतो न भिद्यते ।
इदं एव अभिप्रेत्य ``स्फुरति हृत्स्वयं परमपूर्णसत्'' इति
देहेन्द्रियादिभेदप्रतिभासशून्यं आत्मज्ञानं विचारफलतया प्राग्
अभिहितम् । एवं च विग्रहादिकार्यकरणसङ्घाते नाऽहं नाऽहं इति
विचारेण निषिद्धे मिथ्या-अहङ्कारबाधेन परिशिष्ट-अखण्डसद्रूप अहं
स्वरूपबोधः पर्यवस्यति इति भावः । विग्रहेन्द्रियप्राणधीतमः इति
नपुंसक -एकवद्भावः ॥ २२॥
परमपूर्णसत् अलयसत्तया एकसत् इति निरहम्भाक्कालीनस्य अहमः तस्य
च स्फुरति इति स्फुरणक्रियाश्रयत्वं अपि आवेदितम् । अतः भवति सन्देहः
सत्वभासकं स्फुरणान्तरं अस्ति न वा इति । अस्ति चेद् जडत्वप्रसङ्गः, नास्ति
चेत् असत्व आपत्तिः इति इमं संशयं परिहर्तुं सच्चितोः अभेदं आह -
सत्वभासिका चित्क्ववेतरा । सत्तया हि चित् चित्तयाह्यहम् ॥ २३॥
सत्वभासिकेति । आत्मसत्वस्य भासिका प्रकाशप्रयोजिका इतरा अन्या चित्क्व
अस्ति । न कुत्रापि अस्ति इत्यर्थः । सत्त्वभासकचित् अन्तरं नास्ति इति यावत् ।
कुत इति अपेक्षायां आह - सत्तया इति । हि यतः सत्तया सत्वेन एव
चिद्भवति । चित्तया एव हि अहं सद्भवति । सच्चितोः अभेदात् इति भावः ।
सत्वभासकचिद्-अन्तरं अस्ति चेद् तादृक् चिद् अन्तरसत्वभासकचित् अन्तरं
अङ्गीकर्तव्यम् । एवमेव तस्य तस्य अपि स्यात् इति अनवस्था दुर्वारा । अतः सद्
एव चिद् चिद् एव सत् इति स्वीकार्यम् । तथा च सत्वं स्वयम्प्रकाशमानत्वं
एव । आत्मनः सर्वविशेषरहितत्वात् सत्ता सामान्यरूपत्वं एव, नतु
सत्ताश्रयत्वम् । एवं चित्वं अपि सवितृप्रकाशवद् आत्मस्वरूप-अव्यरिक्तं
एव, न तु ज्ञानक्रियाश्रयत्वम् । ज्ञातृत्वं तु आत्मनः बुद्ध्यादि-औपाधिकं
एव । एवं च न अनवस्थादिदोषप्रसङ्गः । आत्मनः सच्चिदंशयोः
एव देहादिप्रपञ्चेषु भानं न स्वतः तेषु सत्वभाने सिद्ध्यतः ।
जडत्वात् अनिर्वचनीयत्वात् असत्वात् च । ``असद्वा इदमग्र आसीत्''
नैवेह किञ्चन अग्रे आसीत् इत्यादिश्रुत्या प्रत्यक्षादि अनुभवेन च
देहेन्द्रियगगन-पवनादिप्रपञ्चस्य आद्यन्तयोः असत्वं अवगम्यते ।
मध्यकाले तेषां सत्वं प्रतीयते । आद्यन्तयोः असद्भूतानां
वर्तमानदशामात्रे सत्वेन प्रतिभासमानानां देहेन्द्रियादीनां कदाचिद्
असत्वं कदाचित् सत्वं इति सदसद् उभयरूपत्वं वक्तुं न शक्यते ।
सत्व-असत्वयोः अन्योन्य-प्रतिद्वन्द्विरूपत्वेन अन्यतरनाशं अन्तरा निवेशन
(bringing to rest, fixing) असम्भवात् । एवं च अवश्यं अन्यतरप्रणाशे
स्वीकर्तव्ये वर्तमानदशाप्रतीतस्य सत्वस्य एव प्रणाशः अभ्युपेयः ।
तथा च त्रिषु अपि कालेषु असत्वं एव देहेन्द्रियादिप्रपञ्चस्य सिद्ध्यति ।
न च आद्यन्तयोः प्रतीतस्य असत्वस्य एव प्रहाणं भवतु । एवं
चेत् प्रपञ्चस्य कालत्रयेपि सत्वं एव सिद्ध्येत् इति वाच्यम् । आद्यन्तयोः
चिरतरं असत्वप्रतीतेः । अतः अचीरप्रतीतमध्यकालसत्वस्य एव प्रहाणं
श्रुतियुक्ति-अनुभवसिद्धं इति दृश्यप्रपञ्चस्य असत्वं सिद्धम् ।
``आदावन्ते च यन्नास्ति वर्तमाने अपि तत्तथा'' इत्यादि वचनात् च ।
एवं च प्रपञ्च-असत्ववादिनां केषाञ्चिद् आचार्याणां पक्षः । सत्वादिनां
अखण्डसन्मात्रं सर्वत्र प्रपञ्चे दृश्यते इति पक्षः । सोऽपि उपपन्नः
एव । ``सदैव सोम्य इदमग्र आसीत्'' इत्यादिश्रुतिभिः आद्यन्तयोः
सद्रूपत्वं प्रपञ्चस्य प्रतिपादितम् । स्थितिकाले च प्रमाणप्रवृतौ
सत्यां सर्वं सत् इति एव प्रतीयते इति अनुभवसिद्धम् । ``असद्वा इदमग्र
आसीत्'' इत्यादिश्रुतियुक्त्योः च अनभिव्यक्तसत्ताकत्वप्रतिपादकतया
चरितार्थत्वेन सत्वश्रुतियुक्त्योः अन्यथा उपपादन-असम्भवात्
सदातनी-सार्वत्रकी सर्ववस्तुसत्ता लाघवात् एक एव इति युक्ता । एवं
सत्ता-एक्ये सिद्धे आदावन्ते च कारणब्रह्मरूपसत्तया एव प्रपञ्चस्य
सत्वं न तु तत् अतिरिक्तसत्ताकत्वम् । अखण्डसत्त सर्वत्र दृश्यते
इत्ययं सत्ववादिनां अभिमतः पक्षः । पक्षद्वय अपि क्षोदक्षमं एव ।
परन्तु देशकालपरिच्छिन्न-अनन्तसत्ता समवायार्थक्रियाकारित्वादिकल्पनं
पक्षद्वयबहिर्भूतं सर्वश्रुतियुक्तिविरुद्धं अनुचितं एव ।
प्रपञ्चस्य सदसत्वपक्षद्वयं सप्रयोजनं एव । आत्मत्वेन्
कल्पितेषु देहादिषु असत्वबुद्ध्या आत्मत्वनिरासद्वारा ऐकात्म्यदर्शने
प्रपञ्चासत्ववादः उपयुज्यते । एवं सत्ववादोऽपि । कथं इति चेत् असद्वात्
अस्य अन्यार्थत्वेन प्रपञ्चस्य नासत्वं मन्तव्यम् । किन्तु सर्वं सद् एव ।
प्रपञ्चस्य असत्वस्थापनार्थं सत्वप्रसिद्धिः वक्तव्या भवति । प्रपञ्चे
सत्वप्रसिद्धौ तद्विरोधित्वात् असत्वं न सिद्ध्यति । तत्र सत्व-अप्रसिद्धौ
च प्रतियोगिप्रसिद्धि-अभावेन तत्प्रतिरोधक असत्वम् सुतरां न
सिद्ध्यति । एवं सर्वत्र सत्तया प्रतिरुद्धं असत्वं निरास्पदं भवेत् इति
अखण्ड-सन्मात्र-आत्मवस्तुपरिशेषे सिद्धे देहादिप्रपञ्चाकारस्य पृथक्
अप्रतिभासमानत्वेन सच्चिन्मात्रं अखण्डं वस्तु एव अहं इति साक्षात्कारात्
स्वात्मप्रतिष्ठासिद्धिः प्रयोजनम् । अतः अखण्डसच्चिद्रूपत्वं आत्मनः
एव न अन्यस्य इति सिद्धम् । एवं आनन्दत्वं अपि । न आनन्दवत्वं आत्मनः ।
``विज्ञानं आनन्दं स्यात्'' यो वै भूमा तत् सुखम्'' ``एष
परम आनन्दः सत्यं ज्ञानं अनन्तं ब्रह्म'' इत्यादि श्रुतिभ्यः ।
तान्त्रिकाः तु आत्मनः धर्मत्वेन सच्चिदानन्दान् कथयन्ति । आत्मा
सत्वधर्मको वा सद्रूपो वा इत्यादिविवादात् प्राक् तादृक् विवादास्पदीभूतं
जडविलक्षणं अनृतभिन्नं स्वतस्सिद्धं किञ्चित् तत्त्वं वादिभिः सर्वैः
अपि अङ्गीकार्यं अकामेन अपि । अन्यथा स्थिरस्य कस्यचित् विवादकर्तुः
अभावे धर्मत्वादिसर्वविवादलोपप्रसङ्गः । अतः विवादकर्तृत्वेन
विवादाभिज्ञत्वेन विवादकृतजयपराजयरूप फलभागत्वेन च
स्थिरः कश्चित् अभ्युपेयः । स च न केनापि निराकर्तुं शक्यते ।
निरालम्बनविवादासम्भवात् । स च सच्चिदानन्दरूपः इति अनुभवसिद्धत्वेन
न कारणान्तरं मार्गणीयम् । इदं अनुभवसिद्धत्वमेव ``चित्तया हि अहं
इति'' भगवान् आह । सच्चिद्रूपः आत्मा स्थिरः कश्चित् सर्वैः वादिभिः
अङ्गीकार्यः इति तदर्थः । अयं विशेषार्थः यदि न अभविष्यत् तर्हि
``चित्तया हि सत्'' इति एव प्रयोगः अभविष्यत् । ``सत्वभासिका
चित्क्ववेतरा'' इति सत्वस्य चित् अन्तरभास्यत्वप्रतिक्षेपे
सत्वाभिन्नचिद्भास्यत्वशङ्कायां तद् अपोदनार्थं सत्तया हि चित् चित्तया
ह्यहं इत्याह । अयं भावः चित्स्वरूपलाभः सत्वेन एव । तच्च सत्वं
चित्स्वरूपमेव सेत्स्यति । सत्वस्य चिद्भिन्नत्वे चितः असत्वप्रसङ्गात् ।
न च इष्टापत्तिः । चिद् अस्ति इति व्यवहारविलोपापत्तेः । एवं सतः
स्वरूपलाभश्च चित्तैव । तच्च सत्वं चिदभिन्नम् । चिद्भिन्नत्वे
सति सत्स्वरूप-अलाभप्रसङ्गात् । न च सदंशेन चित् चिदंशेन सत्
च परस्परभास्यभासकतां प्राप्नोति इति वाच्यम् । आत्मनः निरंशत्वेन
तत्रांशभेदकल्पना अनुपपत्तेः । कथं तर्हि निर्विशेषस्य निरवयवस्य
अतिसूक्ष्मत्वेन अतीन्द्रियस्य आत्मनः सच्चिद्रूपत्वसिद्धिः । सच्चितोः
अभेदेन एव स्वयम्प्रकाशमानताख्यसत्वस्य प्राक् उक्तरीत्या सिद्धेः ।
ननु निर्धर्मके आत्मनि कथं स्वयम्-प्रकाशमानतारूपसत्वाश्रयत्वं
सम्भवति । निर्धर्मकत्वभङ्गापत्तेः इति चेत् । न । सद्रूपत्व उक्त्या
एव प्रत्युक्तत्वात् । ननु कथं सच्चिदादिशब्दप्रत्ययविषयत्वं
नामजातिक्रियागुणविहीनस्य निर्विशेषस्य आत्मनः । सर्वे च शब्दाः
नामजात्यादिसम्बन्धसापेक्षं एव अर्थं बोधयन्ति इति नियमः ।
अतः न चिदादिशब्दप्रत्ययविषयत्वं आत्मनः सिद्ध्यति ।
``यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । अनिरुक्ते अनिलयने
इति च'' श्रुतयः अवाच्यत्वं आत्मनः आमनन्ति । अव्यपदेश्यस्य
च आत्मनः अव्यपदेश्यता कथं इति चेत् अतद्व्यावृत्या इति गृहाण ।
जातिगुणक्रियाकुलगोत्रसूत्रविहीनत्वात् अद्वयत्वात् अविषयत्वात् आत्मत्वात् च
केनापि इदन्तया विधिमुखेन व्यपदेशः सम्भवति । अतः सत् इति अस्य असत्
न इत्यर्थः । चिद् इति अस्य अचित् न इत्यर्थः । आनन्दं इति अस्य आनन्दं न
इत्यर्थः सिद्ध्यति । एवं च अनृतजडदुःखात्मकप्रपञ्चव्यावर्तकत्वं
आयाति । प्रपञ्चस्य अनृतत्वं प्राक् स्थापितम् । ``वाचारम्भणं विकारो
नामधेयं मृत्तिकेत्येव सत्यम्'' इत्यादिश्रुतिभ्यश्च तत्सिद्धम् ।
लोकप्रसिद्ध-अनित्यज्ञप्तिरूपत्वप्रतिषेधेन अपि चित्वं उच्यते ।
नित्यज्ञप्तिरूपं ब्रह्म इत्यर्थः पर्यवस्यति ।
``न हि विज्ञातुः विज्ञातेः विपरिलोपः विद्यते अविनाशित्वात्''
इत्यादिश्रुत्या विज्ञातृस्वरूपव्यतिरिक्तनित्यज्ञप्तिसिद्धेः । तथा च
अनृतजडदुःखव्यावृत्या सद् आदिशब्दाः आत्मानं बोधयन्ति इति आकरे
विस्तारः ॥ २३॥
एवं ``मानसं तु किम्'' इति आरभ्य जीवात्मपरिशोधनं
कृतम् । तेन च अयं अर्थः परिनिष्पन्नः ।
प्रत्यक्षानुमान-उपमानशब्द-अर्थापत्यादिमान-अगम्यत्वात् ज्ञातुः
स्वरूपत्वेन नास्ति इति अपलपितुं अशक्यत्वात् च परिशेषतः
देहेन्द्रिय-अन्तःकरणादिप्रत्याख्यानप्रकारेण स्वयं अन्विष्य तत्साक्षितया
अविषयीभूतस्वयम्प्रकाश-सच्चिदानन्दरूपः आत्मा ज्ञेयः इति ।
एवं जीवात्मपरिशोधनं कृत्वा तस्य परमात्माभिन्नत्वं कथयितुं
परमात्मपरिशोधनं आह -
ईशजीवयोर्विषधीभिदा । सत्स्वभावतो वस्तु केवलम् ॥ २४॥
ईशेति । ईशजीवयोः ईशः सर्वज्ञं सर्वशक्तं मायाशबलं
सर्वनियामकं चैतन्यम् । जीवः किञ्चिज्ञं किञ्चित्छक्तं
देहेन्द्रियान्तःकरणादि-उपाधि-अवच्छिन्नं तत्प्रतिबिम्बितं वा चैतन्यम् ।
तयोः ईशजीवयोः वेषधीभिधा वेषः उपाधिः तस्य धीः भ्रान्तिप्रत्ययः
तेन भिदा भेदः भवति इति शेषः । उपाधिभ्रान्तपरित्यागे विचारेण
ईशजीवयोः सत्स्वभावतः सद्रूपत्व-अविशेषणात् तेनरूपेण वस्तु केवलं
अखण्डं एकं वस्तु शिष्यते । जीवेश्वरभेदक-उपाधिभ्रम-अपगमे जीवत्वं
ईश्वरत्वं उभयं अपगच्छति । अखण्ड-सच्चिद्रूपं अव्यपदेश्यं तत्त्वं
एकं एव शिष्यते इत्यर्थः । भगवता श्रीरमणेन जीवेश्वरजगतां
त्रयाणां अपि अत्र मिथ्यात्वं उपदिष्टं इति विस्पष्टं अधिगम्यते । अन्यथा
वेषकल्पना-प्रयुक्तभेदं जीवेश्वरयोः न उच्येत । सत्स्वभावतः इति च ।
अतः विज्ञायते तेषां त्रयाणां मिथ्यात्वं तद् अभिमतं इति । अखिलवेदान्तानां
अखण्डैकार्थं इष्टत्वं च भगवता सूचितम् । वस्तुकेवलं इति उपदेशात् ।
वस्तुनः केवलत्वं च जीवेश्वरत्व-उपलक्षित-अखण्डव्यक्तिमात्ररूपत्वं
एव । न हि जीवेश्वरयोः अभेदः नाम कश्चन संसर्गरूपः स्वीक्रियते ।
अपितु जीवत्व-उपाधेः ईश्वरत्व-उपाधेश्च विचारजनितविज्ञानेन
विनाशे अखण्डैकसच्चिन्मात्र-व्यक्तिपर्यवसायित्वं एव ।
``तत्त्वमसि'' ``अहं ब्रह्मास्मि'' इत्यादि श्रुतेः । अतः
सद्वस्तु-आश्रयविषयाद् अनादि-अज्ञानात् एव जीवेश्वरजगद्विभ्रमो
जायते इति तेषां सत्स्वभावत्वनिर्धारणार्थं अवश्यं अभ्युपेयम् ।
किञ्च ईशजीवयोः वेषधीकृतो भेदः प्रत्यक्षादिप्रमाणसिद्धः ।
उभयानुगतं सत्स्वभावत्व-उपलक्षित-अखण्डव्यक्तिमात्रत्वं
तु श्रुतिविद्वद्-अनुभवमात्रगम्यम् । एवं च प्रत्यक्षादिना
विरुद्धस्वभावत्वेन अवगम्यमानयोः जीवेश्वरयोः एकव्यक्तिमात्रत्वं
यावत् प्रत्यक्षादीनां अप्रामाण्यं न व्यवस्थाप्यते तावत् दुर्घटम् ।
चन्द्रप्रादेशिकत्वादिस्थले प्रत्यक्षादीनां यथाभूतार्थौ-आवेदकत्व(Making
known)-अभावेन तद्-रीत्या सर्वत्र तेषां अनाश्वासप्रतिपादनद्वारा अप्रामाण्यं
अपि पूर्वाचार्यसम्मतं श्रीरमणभगवद्-अनुमतं इति च विशदम् ॥ २४॥
एवं वेषभ्रान्तिप्रत्ययम्-अन्तरा जीवेश्वरयोः भेद-अनुपलम्भात्
उपाधिभूतवेषाणां स्वातन्त्र्येण सत्तायां प्रमाण-अभावात् आविद्यकत्वे सिद्धे
परिपूर्ण-सच्चिदात्मा जीवः इति अवधृतं भवति । एवं ईशोऽपि इति ।
देहेन्द्रियादि-अपोहमुखेन तत्साक्षितया तद्-अधिष्ठानतया च निरुपाधिकं
ब्रह्मैवाहं इति निखिलवेदान्त-मूर्धन्यभूत-महावाक्यार्थसारसर्वस्वं
ब्रह्मात्मैक्यज्ञानं उपदिशति -
वेषहानतः स्वात्मदर्शनम् । ईशदर्शनं स्वात्मरूपतः ॥ २५॥
वेषहानत इति । वेषहानतः ईशजीवयोः यो वेषः उपाधिः तस्य
हानतः प्राक् उक्तरीत्या विचारेण विना असम्पादनात् स्वात्मदर्शनं
यत् अखण्डसच्चिदात्मज्ञानं तदेव ईशदर्शनं परमात्मज्ञानं
भवति । तद् उपपादयति - स्वात्मरूपतः इति । विवेकेन शोधितस्य
ईशस्य शोधितस्वात्मरूपत्वात् इत्यर्थः । स्वात्मा च सर्वेषां
नित्यसिद्धः इति स्व-अभिन्नब्रह्मज्ञानार्थं न यतनीयम् । किन्तु
अज्ञानजनितवेषनिवृत्यर्थं एव । तत्र प्रथमं स्वात्मनः वेषहाने जाते
परमात्मनः वेषहानं अपि सिद्ध्यति इति न तद्वेषहानार्थं अपि पृथक्
प्रयत्नः आस्थेयः । स्वात्मवेषग्रहणमूलकत्वात् ईशवेषकल्पनस्य ।
यदि स्वात्मनः वेषग्रहः अपनीतः भवेत् तद् ईशवेषः वा ईशो वा जगद्वा
किमपि न स्वरूपसत्तां लभते । अतः ईशदर्शनार्थं स्वात्मवेषहानं
अन्तरा न अन्या गतिः । आत्मा एव ब्रह्म इति च सर्वोपनिषदां सिद्धान्तः ।
स्वात्मविचारापेक्षया ईशदर्शनार्थं न अन्यः अस्ति उपायः । स्वात्मविचारः
एव ब्रह्मविचारः इत्युच्यते । स्व-अन्यत् चेत् ब्रह्मविचारः अपि अन्यः
स्यात् । स्व-अन्यत्वे स्वीकृतेऽपि तादृशस्य ब्रह्मणः न विचारापेक्षा
भवति । विचारात् प्राक् एव गुरूपदेशमात्रेण तत्स्वरूपस्य निर्णीतत्वेन
संशय-असम्भवात् विचारासम्भवः । अतः ब्रह्म-अभिन्नजीवविचारः
एव जीव-अभिन्नब्रह्मज्ञानहेतुः । स्वात्मदर्शनं ईशदर्शनं इति
दर्शनयोः अभेदकथनेन तद्विषययो जीवेशयोः अपि अभेदः सिद्ध्यति ।
स च अभेदः न जीवत्व-ईश्वरत्वाभ्यां सम्भवति । परस्परविरुद्धत्वात् ।
किन्तु स्वात्मरूपतः पूर्वोक्तसत्स्वभावतः इत्यर्थः ॥ २५॥
परितिष्ठितं आत्मतत्त्वज्ञानं सफलं प्रतिजानीते भगवान् -
आत्मसंस्थितिस्स्वात्मदर्शनम् । आत्मनिर्द्वयादात्मनिष्ठता ॥ २६॥
आत्मसंस्थितिरिति । आत्मनि संस्थितिः एव स्वात्मदर्शनम् । न अन्यत् ।
कुतः इति चेत् आत्मनिर्द्वयात् आत्मनः भेद-अभावात् । एतत् उक्तं भवति ।
घटादिदर्शनं इव स्वात्मदर्शनं न भवति । विज्ञानस्वरूपत्वात् आत्मनः ।
न खलु यस्य यत् स्वरूपं भवति तस्य ज्ञानान्तरविषयत्वं सम्भवति ।
स्वात्मनि क्रियाविरोधात् । ज्ञानान्तरविषयत्वे ज्ञानस्वरूपभङ्ग-आपत्तेश्च ।
यो हि ज्ञाता स एव दर्शनरूपः । तस्य च सर्वात्मकत्वात् ज्ञातुः
ज्ञातृ-अन्तर-अभावाच्च न दर्शनविषयत्वम् । तथा च श्रुतिः ।
``विज्ञातारं अरे केन विजानीयात्'' ``स वेत्ति वेद्यं
न च तस्य अस्ति वेत्ता'' इत्याद्याः । अतः च आत्मभावापत्तिः एव
आत्मदर्शनम् । स्वाभाविकी आत्मभावापत्तिश्च नित्यसिद्धा अपि अविद्यया
अप्राप्ता एव भवति । अतः अविद्याजनितविपरीतग्रहे विद्यया अपनीते सा
अभिव्यज्यते इति आत्मदर्शनं आत्मा आप्तिः वा उपचारमात्रं एव । ज्ञानेन
अज्ञान-तत्कार्यदेहादि-अध्यासनिवृतौ स्वाभाविकी या स्वात्मभावस्थितिः
सा एव आत्मनिष्ठता अपि भवति । आत्मनिर्द्वयात् एव । न अन्यादृशी
गृहस्थता एव देवदत्तस्य । आत्मनः अद्वयत्वेन अनन्यत्वात् । यथा
स्वस्वरूप-अनन्यत्वेन आत्मदर्शनं आत्मभावप्राप्तिः एव सम्भवति तेन
एव हेतुना आत्मनिष्ठता अपि इति तादृशः व्यवहारः अपि औपचारिकः एव
इति भावः । अनेन जीवन्मुक्तस्थितिः अभिहिता कृतकृत्यता च सूचिता ।
नित्यमुक्तस्वभावस्य आत्मनः अज्ञान-आवरणं एव बन्धः इत्युच्यते ।
ज्ञानेन तन्नाशः एव मुक्तिः । नष्टे च अज्ञाने दृश्यमानः व्यवहारः
सर्वोऽपि कौतुकाय एव विदुषः ॥ २६॥
ननु कुतः आत्मसंस्थितः एव आत्मदर्शनं इति आकाङ्क्षायां आह -
ज्ञानवर्जिताऽज्ञानहीनचित् । ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥ २७॥
ज्ञानवर्जितेति । ज्ञानवर्जिता वृत्तिज्ञानवर्जिता अज्ञानवर्जिता
च या चित् चैतन्यं ज्ञान-अज्ञानविलक्षणं ज्ञानं आत्मदर्शनं
भवति । तत् ज्ञातुं अन्तरं भेदः नास्ति किम् ? न अस्ति इत्यर्थः ।
ज्ञातत्व-अज्ञातत्वविलक्षण-ज्ञप्तिमात्रस्वभावकं आत्मानं
अन्यज्ञानेन विषयीकर्तुं भेदः नास्ति इति । ज्ञानवर्जितत्व-उक्त्या
अज्ञेयत्वं उक्तम् । अज्ञानहीनत्व उक्त्या च ज्ञेयत्वं अभिहितम् ।
ज्ञेयत्व-अज्ञेयत्व-उभयशून्यकथनेन ज्ञातत्व-अज्ञातत्वविलक्षणं
एव ज्ञानं इति उक्तं भवति । तच्च ज्ञानं आत्मरूपम् । अतः
ज्ञातत्व-अज्ञातत्व-उभयशून्यं आत्मतत्त्वं वेत्तुं ज्ञानान्तरं न
सम्भवति । ज्ञानान्तरं अस्ति चेत् तेन ज्ञातत्वं आत्मचैतन्यस्य स्यात् ।
तथा च चैतन्यभेदापत्तिः । किं च आत्मनः ज्ञातत्व-आपत्तिश्च ।
ज्ञातत्वे च आत्मनः जडत्वविकारित्वादयः दोषाः प्रादुष्यः । अन्तरं
इति अनेन ज्ञानान्तरविषयतापादकभेदः ज्ञानमात्रस्वरूपे आत्मनि
नास्ति इत्यर्थः । नित्यसिद्धज्ञान-प्रकाशस्य स्वरूप-अभिव्यक्तौ
ज्ञानान्तर-अपेक्षा च न युज्यते । स्वतःसिद्धप्रकाशात्मत्वात् । न
खलु दीपः स्वस्वरूप-अभिव्यक्त्यर्थं अन्यदीपप्रकाशं अपेक्षते ।
नापि च ज्ञानाज्ञानविलक्षणरूप-ज्ञानात् अन्यत् ज्ञानं अस्ति । येन
स्वरूपज्ञाने अपि अपेक्षेत । तथा च आत्मानं जानामि न जानामि इति एतद्
उभयविलक्षणचैतन्य-मात्र अवस्थितिः या पूर्वा उक्ता सा एव आत्मदर्शनं
इति भावः ।
``अन्यदेव तद्विदितात् अथो अविदितात् अधि''
``अविज्ञातं विजानतां विज्ञातं अविजानताम्''
इत्यादि श्रुतेः ।
किञ्च अत्र अर्थान्तरं अपि ।
ज्ञातत्व-अज्ञातत्व-उभयविलक्षणज्ञानैकरसे स्वात्मनि
शास्त्र-आचार्य-उपदेशादिना लब्धे ज्ञातुं अन्तरं अन्यत् वस्तु अस्ति
किम् ? आत्मविज्ञानेन एव सर्वविज्ञानप्राप्तेः । कृतकृत्यत्वाच्च
विज्ञेयान्तरं न अवशिष्यते इति ।
ननु ज्ञान-अज्ञानविलक्षणज्ञानस्य ज्ञानार्थं यदि ज्ञानान्तरं नास्ति
तदा ``तत्त्वमसि'' ``अहं ब्रह्मास्मि'' ``तदात्मानं
एव अवेत्'' ``एतं आत्मानं विदित्वा'' इत्याद्याः श्रुतयः
ज्ञानान्तर-अस्तित्व-आवेदका निरर्थिका भवेयुः इति चेत् । न ।
अविद्याजनितविपरीतग्रहणनिवृत्यर्थं ज्ञानान्तर-अस्तिता-आवेदकत्वात् तासाम् ।
``जानाम्यहं ब्रह्म'' न जानामि ब्रह्म इति अविद्यया अन्तः करणादिषु
लौकिकैः व्यवहियते । आत्मानं ज्ञान-अज्ञानविलक्षणज्ञानमात्रं
विवेकतः पृथक्कृत्य अपोहार्थं ज्ञानस्वरूपस्य अपि ज्ञानान्तर-अपेक्षया
उपदेशः श्रुतिषु क्रियते न पुनः स्वभावसिद्धज्ञानस्वरूपप्रकाशनार्थं
ज्ञानान्तर-अपेक्षा श्रुतिभिः उपदिश्यते । अन्तःकरणादौ
आत्मत्वभ्रान्तेः अभावे च ज्ञानान्तर-उपदेश-आनर्थक्यं इष्टं
एव । विपरीतग्रहरूप-निमित्त-अभावे नैमित्तिक-उपदेशस्य अपि
असम्भवात् । अतः ज्ञानाज्ञानविलक्षण-ज्ञानात्मकं स्वरूपं इति
साधु एव । एतेन हेयोपादेयविलक्षणत्वं अर्थात् उक्तं भवति ।
ज्ञानाज्ञानविलक्षणज्ञानस्य स्वस्वरूपभूतत्वेन न हेयत्वं
उपादेयत्वं वा शक्यं वक्तुम् । हेयत्व-उपादेयत्वयोः भेदसापेक्षत्वात् ।
स्वस्माद् अन्यत् हि हेयं उपादेयं वा भवति । न तु स्वस्य स्वयं एव हेयं
उपादेयं वा भवति । भेदाभावात् । ``अस्ति किं ज्ञातुमन्तरम्''
च भेदं व्यावर्तयति भगवान् । ज्ञानाज्ञानविलक्षणत्व-उपदेशेन
ज्ञानस्वरूपस्य आत्मनः हेयोपादेय विलक्षणत्वं व्यक्त-अव्यक्तविलक्षणत्वं
कार्यकारणविलक्षणत्वं सत्त्वासत्त्वविलक्षणत्वं च एकेन
भेद-असम्भवहेतुना एव भगवता संक्षिप्य उपदिष्टं इति बोध्यम् ।
तथा च सर्व-विशेषप्रत्यस्तमित-आत्मतत्त्वं अतिसूक्ष्मं इति भावः ॥ २७॥
एवं ज्ञानाज्ञानविलक्षण-ज्ञप्तिमात्रसंस्थितिरूपां जीवन्मुक्तिस्थितिं
अभिधाय जीवन्मुक्ति-विदेहमुक्त्योः उभयोः अपि आनन्द-आत्मत्वं उपदेष्टुं
उपक्रमते -
किं स्वरूपमित्यात्मदर्शने । अव्ययाऽभवाऽऽपूर्णचित्सुखम् ॥ २८॥
किं स्वरूपमिति । किं स्वरूपम् देहेन्द्रियादिषु अहन्तया भासमानेषु
मुख्यात्मस्वरूपं कीदृशं इति प्राक् उक्तदिशा विचारेण आत्मदर्शने
ज्ञानाज्ञानविलक्षणज्ञानमात्रस्थितिलाभे जाते,अव्ययं नाशरहितं
अभवं भवः संसारः तद् रहितं सांसारिकसुखदुःखोभयविलक्षणं
इत्यर्थः । आपूर्णं आसमन्तात्, पुरस्तात् पश्चात् दक्षिणतः च
उत्तरेण-अधस्तात्-उपरिष्टात् च व्यापकं चिन्मयं सुखं अनायासलक्षणं
सिद्ध्यति इति शेषः ॥ अथवा किं स्वरूपं यस्य तत् किंस्वरूपं ज्ञातं
इति अज्ञातं इति वा निर्णेतुं अशक्यं आत्मस्वरूपमिति एवं आत्मदर्शने
जाते इत्यर्थः । शिष्टं प्राग्वत् । आत्मदर्शनवतां जीवन्मुक्तानां
सच्चिदात्मप्राप्तिः नित्यसिद्धा इति प्राङ्निरूपितम् । आनन्दात्मत्वं
तेन एव सिद्धं अपि वैषयिकसुखदुःखवैलक्ष्यण्यबोधनार्थे
पुनः उपदिष्टम् । साङ्ख्यवैशेषिकादयः हि मोक्षसुखं संवेद्यं
इति विवदन्ते । अन्ये च केचन स्वानुभूति विषयं इति मन्यन्ते ।
उभयं अपि न भगवद्-रमणाचार्यानुमतम् । आपूर्णचित्सुखं इति सुखस्य
आत्मस्वरूपत्ववर्णनात् । श्रुतिषु च सुखस्वरूपत्वं आत्मनः अभिहितम् ।
आत्मानन्दयोः अभेदे सिद्धे च अनुभूतिविषयत्वं प्रमाणान्तरसंवेद्यत्वं
वा न सङ्गच्छते ।
``यत्रत्वस्य सर्वं आत्मा एव अभूत् तत् केन कं विजानीयात्'' ।
``यत्र न अन्यत् पश्यति न अन्यत् श्रुणोति न अन्यद् विजानाति स भूमा'' ।
``भूमैव सुखं नाल्पे सुखं अस्ति''
इत्यादि श्रुतेः । अतः आत्मानन्दः न अनुभाव्यः । किन्तु अनुभवरूपः ।
अतः आनन्दात्मकात्मभावापत्तिः एव वस्तुतः आनन्दानुभवः । आत्मनि
अनृतजडदुःखात्मकत्व-भ्रमनिवृतौ स्वस्वभावभूत-आनन्दात्मतास्थितिः
अधिगम्यते मुक्तैः । ज्ञानेन अज्ञाननाशप्रयुक्तदेहादि-अभावः हि
मोक्षः । मोक्षे देहेन्द्रियमनसां अभावेन कथं आनन्दानुभवः शक्यते
वर्णयितुम् ? समुद्रात् उद्धृतं उदकं पुनश्च समुद्रे प्रक्षिप्तं
यथा न पृथक्त्वेन प्रतीयते तथा आनन्दात्मनि विलीनश्च मुक्तः कथं
स्वाभिन्नानन्दात्मकत्वं ज्ञातुं क्षमेत । अतः मोक्षसुखं न संवेद्यं
इति सिद्धम् ॥ २८॥
ननु ``जक्षन्क्रीडन् रममाण'' ``सोश्नुते सर्वान्कामान्सह ।
ब्रह्मणाविपश्चितेति'' , स यदि पितृलोककामो भवति इत्यादि
श्रुतिषु मुक्तिसुखं संवेद्यं इति प्रतिपादितम् । तासां च न अप्रामाण्यं
भवितुं अर्हति । अतः मानान्तर-अवेद्यत्वे अपि मुक्ति-आनन्दस्य स्वसंवेद्यत्वं
अभ्युपेयं एव । लोके च सुखी अहं इति सुखात्मकं आत्मानं स्वयं वेदयतः
इति प्रसिद्धम् । अतः आनन्दात्मकत्ववचनानां अपि स्वसंवेद्यत्व-अर्थकतया
नेयत्वात् इति आशङ्क्य आह -
बन्धमुक्त्यतीतं परं सुखम् । विन्दतीह जीवस्तुदैविकः ॥ २९॥
बन्धेति । दैविकः दैवीसम्पत्सम्पन्नः । अथवा
जन्मान्तर-अर्जितसुकृतनिकरनिर्धूतपापनिवहः, यद्वा
दैवं मुक्ति सुखानुभावकप्रारब्धकर्म तत्सम्पन्नः । अथवा
दैववश-आसादितज्ञानसामग्रीसम्पन्नः दैविकः जीवः । न तु
सर्वोऽपि । तु शब्दः दौर्लभ्यद्योतनार्थः । इह अस्मिन् शरीरे
वर्तमाने एव । अथवा मनुष्यजन्मनि । यद्वा जीवदशायां एव । अथवा
विद्या-उत्पत्तिसमकाले एव न तु कालान्तरे देशान्तरे लोकान्तरे जन्मान्तरे
वा । बन्धमुक्ति-अतीतं बन्धमोक्षविलक्षणं परं निरतिशयं सुखं
सच्चिदानन्द-एकघनं स्वाभाविकं अजरामरं अभयं पदं विन्दति
लभते । अलब्धत्वभ्रमनिवृत्तिं अश्नुते इति भावः । एवम्भूतस्य
आत्मनः नित्यप्राप्तत्वात् ।
``ब्रह्म एव असन् ब्रह्म अप्येति'' ``ब्रह्मवेद ब्रह्मैव
भवति'' इत्यादि श्रुतिभ्यः । नित्यमुक्तस्वभावस्य आत्मनः
अज्ञान-आवरणं एव बन्धः । तन्नाशः एव मुक्तिः । बन्धस्य सत्यत्वे
अनिर्मोक्षप्रसङ्गात् मिथ्यात्वं पर्यवस्यति । सदैकस्वभावः आत्मनि
बन्धः कल्पितः । कल्पनाकाले अपि स्वभावप्रच्युतिः न आत्मनः ।
सुखित्वदुःखित्वमूढत्व-जनिमरणादयः संसाराः सर्वे अपि आत्मनि
अध्यारोपिताः ।
सुखित्वादिसंसार-अवस्थासु सर्वासु अपि विशेष्यत्वेन अनुगतः आत्मा
अवभासते एव । अथाऽपि सुखित्वादिविशेष-अध्यारोपवशात् एव आत्मनः
स्वरूप-अवस्थानं न सम्भवति । गुरुशास्त्र-उपदेशेन स्वरूप-अवस्थानं
श्रेयः इति श्रुतेः सति सुखित्वादिकृतस्वरूप-अनवस्थानं निवर्तते ।
अतः सुखित्वदुःखित्वादि-विशेष-अध्यारोपसापेक्षा एव मुक्तिः ।
बन्ध-आरोप-अभावे मुक्तिः अपि न अपेक्षिता एव । न खलु निगडबन्ध-अभावे
निगडमुक्तिः आवश्यकी भवति । यदि दुःखित्वादिबन्धः नास्ति तदा
बन्धनिवृत्तिरूपमोक्षः अपि नास्ति एव । परमात्मनि यस्य कस्यचित्
वास्ताविकत्व-असम्भवात् । अतः बन्धभ्रान्तिनिवृत्तिमात्रे मोक्षः अपि
व्यावहारिकः एव । न खलु बन्धः भ्रान्तिमत्व-अविद्यावत्व-तद्-अभावाभ्यां
आत्मस्वभावस्य कश्चित् विशेषः शक्यते वक्तुम् । सर्वदा तस्य
निर्विशेषचैतन्य-एकरसस्वभावत्वात् । अतः बन्धमुक्ति-अतीतं
सुखस्वरूपं आत्मवस्तु एव परमपदं इति भगवता उपदिष्टम् । तदुक्तं -
``न निरोधो न चोत्पत्तिः न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता ॥ इति
किञ्च जीवन्मुक्तः विदेहमुक्तव्यवहारः अपि अज्ञकल्पित एव न परमार्थः ।
स्वस्वाभाविक-आत्मलाभरूपे ज्ञानफले मुक्तिभेदविशेषस्य अपि
असम्भवात् । नापि ज्ञानोदये जाते विदेहतापत्तिः । स्वविरोधि-अंशस्य
एव ज्ञानेन बाधितत्वात् । ज्ञान-अधिकबलस्य प्रारब्धकर्मणः
फलत्वात् देहधारणस्य तस्य च उपजीव्यत्वेन ज्ञान-अविरुद्धत्वात् ।
उपादानभूतनिद्रानाशे अपि स्वप्नसंस्कारस्य किञ्चित् कालं अनुवृत्तिवद्
अज्ञाननाशे अपि यावत् प्रारब्धं देहादिप्रतिभास उपपन्नः एव । स
च चित्रव्याघ्र इव दृश्यमानः कौतुकाय एव न बन्धाय भवति ।
कथं इति चेत् ? सदेहप्रतिभासात् च अन्य-अज्ञजनदृष्ट्या एव न
तु स्वदृष्ट्या भवति । स्वनिश्चयेन तु स्वयं विदेहः एव भवति ।
अतः स्वरूप-अवस्थितेः समत्वे जीवन्मुक्ति-विदेहमुक्त्योः स्वदृष्ट्या
भेदकल्पना-असम्भवात् । अतः न अनयोः स्व-अनुभवतः विशेषः ।
ननु भोक्तृत्व-अभोक्तृत्वकृतः विशेषः तयोः स्यात् ।
प्रारब्धभोगार्थत्वात् देहस्थितेः इति चेत् । न । भोक्तृत्व-अभिमानेन
भोगास्वादने भोगकृतः विशेषः स्यात् । न तु असङ्ग-उदासीन-आत्मैकात्म्यं
गतस्य विदुषः अभिमानलेशः अपि सम्भावयितुं शक्यते । विदुषा
क्रियमाणः सर्वव्यवहारः अपि कर्तृत्वादि-अभिमानशून्यः इति न अनर्थाय ।
व्यवहारकाले अपि स्वरूप-प्रच्युति असम्भवात् । सर्वभेदव्यवहारकल्पके
अज्ञाने विनष्टे ज्ञानमात्रपरिशेषे समे सति जीवन्मुक्तिविदेहमुक्त्योः न
अणुमात्रं अपि स्वदृष्ट्या भेदः भवति इति अन्यत्र विस्तरः ।
दैविकः इति अस्य अयं भावः । आत्मलाभार्थं दैवं प्रधानं पौरुषं तु
अप्रधानं इति । न खलु कार्यसामान्यं पौरुषमात्रेण वा दैवमात्रेण वा
सिद्ध्यति । पौरुषस्य अनुग्राहकतया दैवानुकूल्य-अभावे कार्यं न सिद्धयति
अध्यक्षं इदं सर्वेषाम् । अतः एव दुर्दैवानां बहुशः कृतप्रयत्नानां अपि
न आत्मलाभः पुरुषार्थो वा सिद्ध्यति । तत्र को हेतुः ? दैवप्रातिकूल्यं
एव इति निश्चयः । दैवपौरुषयोः भूयान् विवादः दृश्यते वादिनां
प्रधानत्वे । भगवतः श्रीरमणस्य तु दैवपौरुष-उभयसम्मेलनेन एव
पुरुषार्थः सिद्ध्येत् इति मतम् । ``मानसं तु किं मार्गणे कृते''
इति आरभ्य ``किं स्वरूपमित्यात्मदर्शने'' इति एतावत् पर्यन्तं
पौरुषप्रयत्नरूप-आत्मविचारक्रमः कथितः । अवसाने च दैवं
कथितं इति उभयसम्मिलितत्वं भगवतः मतं इति श्लिष्यते एव ।
अतः एव योगीश्वरेण श्रीयाज्ञवल्क्येन अपि एवं उक्तम् ।
``दैवे पुरुषाकारे च कार्यसिद्धिः व्यवस्थिता'' इति । अतः
मन्यामहे महर्षेः मतं एव बहुमतं सर्वेषां इति । तच्च दैवं
प्राक्तनं कर्म वा प्राक्तनं पौरुषं वा कालयदृच्छानियति-आदिरूपं वा
नवग्रहादिरूपं वा यथातथा भवतु । न तद्विशेषेसु आग्रहः । परन्तु
अदृष्टसहितेन दृष्टप्रयत्नेन एव पुरुषार्थलाभः मुमुक्षूणां इति ।
अथवा दैवं अरुणाचलेश्वरशक्तिपातः । ततः तत्सम्पन्नः दैविकः
स्वयं एव भगवान् श्रीरमणः । अहं इव अन्यः अपि एवं ईश्वर-अनुग्रहात्
तत्पदं अश्नुते इति । अन्यथा मानुषाणां
``त्रिभिर्क्रणवा (अवरोधः) जायत''
इति श्रुतौ देवादि ऋणित्वश्रवणात् ``तस्मात् एषां तन्नप्रियं यत्
एतत् मनुष्याः विद्युः इति श्रुतौ च देवकृतविद्या-विघ्नप्रतिपादनात्
कृतोऽपि पौरुषप्रयत्नः विफलः एव भवेत् ।
श्रुतिः अपि आह -
``यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् । ''
``यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः ॥ ''
इत्यादिना । इह इति लोकान्तरप्राप्यत्वं व्यवच्छिनत्ति ।
``इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । ''
``इह चेद् अवेदीत् अथ सत्यमस्ति । ''
``ईश्वरानुग्रहादेव पुंसां अद्वैतवासना ।
महामयकृतत्राणा द्वित्राणां उपजायते ॥ ''
इत्यादि वचनात् । विन्दति इति अनेन पुरुषार्थ-भागिनः पुरुषस्य दौर्लभ्यं
द्योतयति । ``बहूनां जन्मनामन्ते,'' ``अनेकजन्मसंसिद्धः''
``मनुष्याणां सहस्रेषु'' इत्यादि वचनात् । तस्मात्
सर्वलाभोत्तमलाभं उत आत्मलाभार्थं पूर्वोक्तपौरुषप्रयत्नेन सह
दैवानुग्रह अपि आसादनीयः इति भगवद्-उपदेशसारः ।
परिसमाप्तः समस्तशास्त्रार्थसारसङ्ग्रहभूत उपदेशसारः । अथ इदानीं
स्व-उक्तार्थे मुमुक्षूणां विश्वासं अभिवर्धयितुं उपदेशसारस्य अस्य
आगमसंप्रदायपरिशुद्धिं अन्ते भगवान् वर्णयति-
अहमपेतकं निजविभानकम् । महदिदं तपो रमणवागियम् ॥ ३०॥
अहमिति । अहमा अहम्त्वेन अपेतकं वर्जितं कर्तृत्व-अभिमानरहितं
इत्यर्थः । निरहम्भावसहजब्रह्मस्थितिकं इति यावत् । अतः एव
निजविभानकं निजं स्वीयं आत्मीयं न अन्यापेक्षं विभानं प्रतिभानं
स्फुरणं इति यावत् । सहज-आत्मस्थितौ स्वयं एव स्फुरितं इति भावः ।
दैविकतपः प्रभावप्राप्तत्वं आह । ``महदिदं तपः'' इति । महत्
ब्रह्म तद्विषयकं तद्रूपं वा इदम्-अन्तरं यत् तपः ज्ञानमयं तपः सा
एव इयं ग्रन्थरूपा रमणवाक् । रमणस्य वाक् वाक्यं उपदेशः इत्यर्थः ।
निरहम्भाव-आत्मसहजस्थिति-ज्ञानतपोरूपः अयं श्रीरमण-उपदेशसारः
इत्यर्थः । अहमपेतकं इति अनेन बुद्धिपूर्वकत्वनिरासः । निजविभानकं
इति अनेन स्वयम्प्रतिभान-वेदसमत्वं अभिमतम् । ``महदिदं
तप'' इति स्वीयकठिनतपस्सम्पादितत्वं अनायासलक्षणज्ञानमयत्वं
मुमुक्षूपादेयज्ञानविचार-सार-सङ्ग्रहरूपत्वं इति एवं आदिकं सूचितम् ।
रमणवाक् इति अनेन मुमुक्षूणां आत्मसमतासम्पादकं इति ध्वनितम् ।
उपदेशसाराख्य-उपनिषद्-द्रष्टुः महर्षेः नामधेय-उल्लेखनं च इति
सर्वं रमणीयम् ।
जयन्ति रमणाचार्यं पादपाथोब्जरेणवः ।
विरजस्का विराजन्ते यच्छिरस्का नरालयः ॥ १॥
अन्विष्य खिन्नौ विधिमायवौ यत्
महोद्यमेनापि महः पुरस्थम् ॥ १॥
तदेव यं शक्तिनिपातदम्भात्
वव्रे स्वयं तं रमणं वृणीमः ॥ २॥
यत्कृपालवमात्रेण तीर्णोऽस्मि भवसागरम् ।
श्रीगुरून् रमणाभिख्यान् प्रणतोऽस्मि शिवङ्करान् ॥ ३॥
क्वचैतत्ग्रन्थगाम्भीर्यं क्व मे मन्दमनीषिता ।
तथापि अस्याः कृतेर्मूलं रमणीयनिरीक्षणम् ॥ ४॥
जाग्रत्स्वप्नसुषुप्त्यतीतमखिलाधिष्ठानमाभ्यन्तरं
प्रत्यक् ब्रह्म रसायनं सुखधनं पूर्णं परं पावनम् ।
स्वात्मज्योतिरनादिमध्य निधनं मायाविहीनं शिवं
सर्वज्ञं हृदि मे चकास्तु सततं संसारविच्छित्तये ॥ ५॥
मुक्तिं सिषाधयिषतां अवनाय नॄणां
आनन्दबोधमगुणं स्वमपास्य रूपम् ।
भान्तं गुरोर्भुवनमङ्गलविग्रहेण
शोणाचलैक निलयं रमणं नतास्मः ॥ ६॥
निर्दोषं निर्गुणं वस्तु लोकेस्मिन्नोपलभ्यते ।
अतो मे साहसं सन्तः सहन्तां स्निग्धचेतसः ॥ ७॥
यज्ञेशमखिपुत्रेण जगदीश्वरशास्त्रिणा ।
कृत्रा साधुमुदे भूयात् व्याख्या तत्त्वसुबोधिनी ॥ ८॥
इति भगवच्छ्रीमद्रमणमहर्षेः उपदेशसारस्य
इञ्चिक्कौल्लैग्रामवासिना यज्ञेशमखिसूनुना, अभयाम्बागर्भसम्भवेन
शास्त्ररत्नाकर, आत्मविद्याभूषण, विद्यालङ्कार बिरुदालङ्कृतेन
जगदीश्वरशास्त्रिणा कृता तत्त्वबोधिन्याख्या व्याख्या समाप्ता ।
हृदयकमलवासिने श्रीमते रमणाय नमः ।
Encoded and proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com