जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यम्

जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यम्

लेखकः - डाॅ श्रीधरभास्करवर्णेकरः, नागपुरम् जगद्गुरुश्रीशङ्कराचार्यचरणैः श्रीमद्भगवद्गीतोपनिषद्भाष्यस्य प्रथमाध्यायारम्भे तथा द्वितीयाध्यायस्य ``अशोच्यानन्वशोचस्त्वम्'' इत्यस्मान् श्लोकात् प्राक् स्वाभिमतं गीतारहस्यं युक्तियुक्तैर्वचोभिः प्रतिपादितम् । ``तस्माद् गीतासु केवलाद् एव तत्त्वज्ञानात् मोक्षप्राप्तिः, न कर्मसमुचितादिति निश्चितोऽर्थः ।'' (अध्याय २) ``तस्मात् केवलादेव ज्ञानान्मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ।'' (अध्याय ३) इत्येतद् गीतारहस्यं सुनिश्चितं प्रतिपाद्य तदेव सर्वत्र गीतासु प्रकरणशो विभज्य तत्र तत्र दर्शितम् । तदिदं जगद्गुरुसम्मतं गीतारहस्यमस्माभिः ४४ कारिकासु संक्षेपत उपनिबद्धम् । जगद्गुरुसम्मतं गीतारहस्यं सम्यक् स्मृतिगतं कर्तुमिमाः कारिका अतीवोपकारिण्यो भवेयुरित्याशास्महे ॥ वेदोक्तो द्विविधो धर्मो गीतासु प्रतिपादितः । प्रवृत्तिलक्षणो ह्येकश्चान्यो निर्वृत्तिलक्षणः ॥ १॥ धर्मस्य द्विविधो हेतुर्जगतः संस्थितिस्तथा । प्राणिनोऽभ्युदयश्चान्यो निःश्रेयससमन्वितः ॥ २॥ क्षीणे विवेकविज्ञाने विदुषां कामवर्धने । ग्लानिमापद्यते धर्मो ह्यधर्मः कामवर्धने ॥ ३॥ ब्राह्मण्याधीनमेवेह वर्णाश्रमविभाजनम् । ब्राह्मण्ये रक्षिते धर्मो वैदिकः स्यात् सुरक्षितः ॥ ४॥ ब्राह्मणत्वं विजानीयाद् भौमं ब्रह्म सनातनम् । तद्रक्षणार्थं कृष्णत्वं प्राप नारायणः स्वयम् ॥ ५॥ शोकमोहाब्धिनिर्मग्नं पार्थं प्रत्याह केशवः । द्विविधं वैदिकं धर्मं सर्वलोकाद्दिधीर्षया । प्रचीयते हि धर्मोऽसौ पाल्यते यो गुणाधिकैः ॥ ६॥ सङ्ग्रहः सर्ववेदार्थसाराणामीश्वरोदितः । व्यासः सप्तशतश्लोकैस्तमेवोपनिबद्धवान् ॥ ७॥ निःश्रेयसं परं ज्ञेयं गीताशास्त्रप्रयोजनम् । सहेतुकस्य संसारस्यात्यन्तोपरमो हि तत् ॥ ८॥ निःश्रेयसं तदाध्यात्मज्ञाननिष्ठास्वरूपिणः । प्राप्यते धर्मतः सर्वकर्मसंन्यासापूर्वकात् ॥ ९॥ भगवाननुगीतासु गीताधर्मप्रयोजनम् । समस्तकर्म संन्यासापरमित्यब्रवीत् स्वयम् ॥ १०॥ वर्णानामाश्रमाणां योऽभ्युदयैकप्रयोजनः । प्रवृत्तिलक्षणो धर्मः स स्वर्गप्राप्तिसाधनम् ॥ ११॥ फलाभिसन्धिरहितो ब्रह्मार्पणधिया तथा । प्रवृत्तिलक्षणो धर्मोऽनुष्ठेयः सत्वशुद्धये ॥ १२॥ सत्त्वशुद्धतया ज्ञाननिष्ठापात्रत्वमाप्तवान् । विन्दते परम ज्ञानं निःश्रेयसफलप्रदम् ॥ १३॥ प्रवृत्तिलक्षणो धर्मो गीतासु प्रतिपादितः । ज्ञानोत्पत्तिनिदानत्वान्निःश्रेयसपरो हि सः ॥ १४॥ योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये । हेतुः प्रवृत्तिधर्मस्य गीतावाक्येऽत्र दृश्यते ॥ १५॥ तं शाश्वतं वैदिकमेव धर्म द्विधा हि निःश्रेयसमात्रहेतुम् । तथा परं ब्रह्म च केशवाख्यं गीतामहाशास्त्रमभिव्यनक्ति ॥ १६॥ यो हि सम्यग विजानीते गीताशास्त्रार्थमान्तरम् ॥ समस्तपुरुषार्थानां स सिद्धिमधिगच्छति ॥ १७॥ (गीता-द्वितीयाध्यायप्रास्ताविकम्) शोकमोहादयो दोषाः संसारोत्पत्तिहेतवः । विषादयोगो बोद्धव्यस्तदुत्पत्तिप्रबुद्धये ॥ १८॥ विवेकः शोकमोहाभ्यां विज्ञानं चाभिभूयते । ततः स्वधर्मं सन्त्यज्य प्रतिषिद्धे प्रवर्तते ॥ १९॥ यथा स्वयं प्रवृत्तोऽपि क्षात्रधर्म निजेऽर्जुनः । उपरम्य ततो मेने परधर्मं हितावहम् ॥ २०॥ स्वधर्मेऽपि प्रवृत्तानां प्रवृत्तिः प्रायशो नृणाम् । फलाभिसन्धिसहिता साहङ्कारा च दृश्यते । फलाभिलाषाऽहङ्कारौ धर्मदोषकरावुभौ ॥ २१॥ सकामकर्मतो बुद्धिर्जायते पापपुण्ययोः । तत एव हि संसारे जीवोऽयं परिवर्तते ॥ २२॥ इष्टजन्मसुखानिष्टजन्मदुःखाप्तिलक्षणः संसारः परिहर्तव्यः शोकमोहसमुद्भवः ॥ २३॥ समस्तकर्मसंन्यासापूर्वकादतिनिर्मलात् । आत्मज्ञानादृते नैव निवृत्तिः शोकमोहयोः ॥ २४॥ निमित्तीकृत्य तत् पार्थं शोकमोहसमाकुलम् । भगवानदिशद् गीतां सर्वानुग्रहहेतवे ॥ २५॥ (पूर्वपक्षः) कुरु कर्मेति ब्रुवतोऽभिप्रायः श्रीहरेः स्फुटो नूनम् । ज्ञानाद्धि कर्मसहितात् कैवल्यप्राप्तिरिति वदन्त्येके ॥ २६॥ धर्म्यं युद्धमकृत्वा पापं स्यादिति निवेदयन् कृष्णः । श्रौतं स्मार्तं हिंसाक्रूरं कर्मापि मुक्तये प्राह ॥ २७॥ (उत्तरपक्षः) कैवल्यप्राप्तये ज्ञान-कर्मयोगसमुच्चयम् । ये दर्शयन्ति गीतासु तेषां हि तद्सन्मतम् ॥ २८॥ साङ्ख्य-योगाभिधं बुद्धिद्वयं लोकेषु वर्तते । ज्ञान-कर्माभिधा द्वेधा निष्ठा गीतोदिता ततः ॥ २९॥ षड्विक्रियाविहीनत्वादकर्तात्मैति या मतिः । सा साङ्ख्यबुद्धिः साङ्ख्याख्यज्ञानिनामुचिता मम ॥ ३०॥ प्रायेण साङ्ख्यबुद्धेः प्राग् योगबुद्धिः प्रजायते । ययात्मा देहसम्भिन्नः कर्ता भोक्तेति भासते ॥ ३१॥ धर्माधर्मविवेकेन मोक्षसाधनकर्मणाम् । निरन्तरमनुष्ठानं तद् योग इति कथ्यते ॥ ३२॥ योगबुद्धि समाश्रित्य येऽन्तःकरणशुद्धये ॥ योगाख्यं कर्म कुर्वन्ति ते योगिन इति स्मृताः ॥ ३३॥ ज्ञान-कर्मामिधं निष्ठाद्वयं प्राहेश्वरः पृथक् । पश्यन्नेकत्र पुरुषे वृद्धिद्वयमसम्भवम् ॥ ३४॥ बृहदारण्यकेऽप्येतद् निष्ठाद्वयमुदीरितम् । यत्राकामस्य संन्यासाः प्रोक्तं कर्म च काम्यतः ॥ ३५॥ यदि स्यात् सम्मतः श्रौतकर्मज्ञानसमुच्चयः । गीतासु नोपपद्येत विभागवचनं तदा । ज्यायसी चेदिति प्रश्नः पार्थस्यापि न युज्यते ॥ ३६॥ असम्भवमनुष्ठानमेकेन ज्ञानकर्मणोः । न चेदिदं हरेरुक्तं श‍ृणुयादर्जुनः कथम् ॥ ३७॥ अश्रुतं च कथं बुद्धेर्ज्यायस्त्वं कर्मणोऽर्जुनः । ज्यायसीत्यादिभिर्वाक्यैर्मृषाऽध्यारोपयेत् प्रभौ ॥ ३८॥ उक्तः स्याद् यदि सर्वेषां ज्ञानकर्मसमुच्चयः । पार्थस्यापि कृते तर्हि स एव हि निवेदितः ॥ ३९॥ उभयोरुपदेशेऽपि प्रश्नोत्तरसमाश्रितः ॥ 'यच्छ्रेय एतयोरेक''मिति नैवोपपद्यते ॥ ४०॥ शीतं च मधुरं चान्नं भोक्तव्यं पित्तशान्तये । इत्युक्तेऽन्यतरश्रेयोजिज्ञासा नोपपद्यते ॥ ४१॥ पार्थप्रश्नोऽथ कल्प्येत कृष्णोक्तानवधारणात् । तदुत्तरे कथं नोक्तो बुद्धि-कर्म-समुच्चयः ॥ ४२॥ लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्तेति चोत्तरम् । पृष्टादननुरूपं तन्नेश्वरस्योपपद्यते ॥ ४३॥ समुच्चयस्तथा बुद्धेः श्रौतवत् स्मार्तकर्मणा । नाभिप्रेतोऽन्यथा सर्व विभागवचनं वृथा ॥ ४४॥ युद्ध कर्म क्षत्रियस्य स्मार्त मित्यपि जाननः । उपालम्भो वृथा 'घोरे कर्मणी'त्यर्जुनस्य च ॥ ४५॥ तस्माद् गीतासु नैवेषन्मात्रेणापि प्रदर्श्यताम् । कर्मणा द्विविधेनात्मज्ञानस्य हि समुच्चयः ॥ ४६॥ कर्मण्यभिप्रवृत्तस्याज्ञानरागादिदोषतः । सत्वशुद्धतया ज्ञानं सर्वं ब्रह्मेति जायते ॥ ४७॥ निवृत्तं ज्ञान्नतो यस्य कर्म वा तत्प्रयोजनम् । स हि कर्म प्रवृत्तश्चेल्लोकसङ्ग्रहहेतवे । तस्मिन्नपि न सम्भाव्यो ज्ञानकर्मसमुच्चयः ॥ ४८॥ यथा भगवति क्षात्रकर्मज्ञानसमुच्चयः । न सम्भवति निष्कामे तथा तादृशि पण्डिते ॥ ४९॥ न करोमीति तत्त्वज्ञो मन्यते भगवत्समः । फलं च नाभिसन्धत्ते क्रियमाणस्य कर्मणः ॥ ५०॥ काम्ये यज्ञे प्रवृत्तस्य कामे सामिकृते हते । क्रियमाणः पुनर्यज्ञो निष्कामः खलु जायते । प्रमाणं भगवद्वाक्य- ``कुर्वन्नपि न लिप्यते'' ॥ ५१॥ ``कर्मणैव हि संसिद्धिमास्थिता जनकादयः'' । वाक्यमेवंविधं ज्ञेयं प्रविभज्यैव तत्त्वतः ॥ ५२॥ अथ चेज्जनकाद्यास्ते नैव तत्त्वविदो मताः । कर्मणा चित्तशुद्धिं ते प्राप्ता इत्यवगम्यताम् ॥ ५३॥ ``योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये'' । इत्यस्मिन् भगवद्वाक्ये ज्ञेयं कर्मप्रयोजनम् ॥ ५४॥ न हि निःश्रेयसप्राप्तिर्ज्ञान-कर्मसमुच्चयात् । अभिप्रायेण गीतायास्तत्त्वज्ञानात्तु केवलात् ॥ ५५॥ इति श्रीश्रीधरभास्करवर्णेकरः विरचितं जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यं सम्पूर्णम् । Encoded and proofread by Mandar Mali
% Text title            : Gitarahasyam According to Shankaracharya by S. B. Warnekar
% File name             : gItArahasyamshankarAchAryAbhimatam.itx
% itxtitle              : gItArahasyam shaNkarAchAryAbhimatam  (shrIbhAvarNekaravirachitam)
% engtitle              : gItArahasyam shaNkarAchArya abhimatam
% Category              : shankarAchArya, gItA, giitaa
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Author                : Shri S. B. Warnekar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at gmail.com
% Proofread by          : Mandar Mali aryavrutta at gmail.com
% Description/comments  : Sarawati Sushma 1986, 87 Shankaracharya 12th Birth Centennary Issue Sampurnanada University
% Indexextra            : (Scan)
% Latest update         : April 23, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org