पूर्वम्: ३।१।८४
अनन्तरम्: ३।१।८६
 
सूत्रम्
व्यत्ययो बहुलम्॥ ३।१।८५
काशिका-वृत्तिः
व्यत्ययो बहुलम् ३।१।८५

यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति। व्यतिगमनं व्यत्ययः, व्यतिहारः। विषयान्तरे विधानम्, क्वचिद् द्विविकरणता, क्वचित् त्रिविकरणता च। आण्डा शुष्णस्य भेदति। भिनत्ति इति प्राप्ते। ताश्चिन्नौ न मरन्ति। न म्रियन्ते इति प्राप्ते। द्विविकरणता इन्द्रो वस्तेन नेषतु। नयतु इति प्राप्ते। त्रिविकरणता इन्द्रेण युजा तरुषेम वृत्रम्। तीर्यस्म इति प्राप्ते। बहुलग्रहणं सर्वविधिव्यभिचारार्थम्। सुप्तिङुपग्रलिङ्गनरणां कालहलच्स्वरकर्तृयङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सो ऽपि च सिध्यति बहुलकेन।
न्यासः
व्यत्ययो बहुलम्। , ३।१।८५

"यथायथम" इति। यो यस्यात्मीयो विषयः = यथायथम्। यस्मिन् यस्मिन् विषय इत्यर्थः। किं पुनरयं व्यत्ययो नामेत्याह--- "व्यतिगमनं व्यत्ययः" इति। तमेव व्यत्ययं स्पष्टीकर्त्तुमाह-- "{व्यतिहारः-काशिका} व्यतिकरः" इत्यादि। "क्वचित्" इत्यादिना व्यत्यस्य प्रकारान्तरं दर्शयति। "भेदति" इति। श्नमो विषये शपो विधानम्। "मरति" त्यत्रापि शविषये शप्, परस्मैपदञ्च व्यत्ययेनैव। "म्रियते" इति। पूर्ववद्रिङ, तस्येयङ। "नेषतु" इति। नयतेर्लोट्, तिप्, "एरुः" ३।४।८६ सिप्, तस्मात् परः शप्, धातोर्गुणः, सिपः षत्वम्। त्रिविकरणतायास्तूदाहरणम्-- "{तरुषेम वृत्रम्()" -- काशिका} तरुषेम दृषदम्" इति। तरतेराशिषि लिङ्, मस्, "नित्यं ङित्, ३।४।९९ इतिवस्मसोः सलोपः, यासुट्, "छन्दस्युभयथा" ३।४।११७ इति सार्वधातुकत्वाल्लिङ उप्रत्ययः, तस्मात् परः सिप्, तस्मादपि परोऽङ, धातोर्गुणः, सिपः षत्वम्, "अतो येयः" ७।२।८०इतीयादेशः। अङा सह "आद्गुणः" ६।१।८४, "लिङः सलोपोऽनन्तस्य" ६।१।७६ इति सलोपः। "लोपो व्योर्वलि" ६।१।६४ इति यलोपः। अथ "व्यत्ययः" इत्येतावत् कतं नोक्तम्,किं बहुलग्रहणेन, पूर्वसूत्राद्ध्यपिशब्दस्यानुवृत्तौ सत्यां छन्दसि व्यत्ययो भवति, अपिशब्दाद्यथाप्राप्तञ्चेति, एवमभिसम्बन्धे क्रियमाणेऽन्तरेणापि बहुलग्रहणं सर्वमिष्टं सिध्ययत्येवेत्यत आह-- " बहुलग्रहणम्" इत्यादि। सर्वस्य प्रकृतस्याप्रकृतस्य विधेव्र्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थ बहुलम्, इतरथा ह्रसति बहुलग्रहणे प्रकृतानामेव स्यादीनां शानच्()पर्यन्तानां स्यात्, नान्येषां श्नम्प्रभृतीनाम्, इष्यते च तेषामपि। स बहुलग्रहण एव सति लभ्यते। एतमेवार्थं दर्शयितुमाह--- "सुप्तिङुपग्रह" इत्यादि। ततर् सुपां व्यत्ययः-- धुरि दक्षिणायामिति प्राप्ते सप्तम्या विषये षष्ठी। तिङाम्-- ये यूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यक्रियाविशेषो मुख्य उपग्रहः। इह तु तद्व्यक्तिनिमित्तत्वात् परस्मैपदात्मनेदयोरुपग्रहशब्दो वत्र्तते। एतदुक्तं भवति-- आत्मनेपदपरसमैपदयोव्र्यत्यय इति। स ब्राहृचारिणमिच्छते, प्रतीतमन्यद()ग्न युध्यति। इच्छति, बध्यत इति प्राप्ते। लिङ्गस्य-- मधोस्तृप्ता इवासत इति। मधुन इति प्राप्ते। नरस्य = प्रथमपुरुषादेः-- अतोपचारैर्दशभिर्वियूयाय इति। वियूयादिति प्रथमपुरुषविषये मध्यमपुरुषः, "यु मिश्रणे" (धा।पा। १०३३), विपूर्वादाशिषि लिङ, सिप्, यासुट्, "अकृत्सार्व धातुकयोः" ७।४।२४ इति दीर्घः, "स्कोः संयोगाद्योरन्ते च" ८।२।२९ इति सलोपः। कालस्य-- सोऽग्नीनाधास्यमानेन। लुटो विषये लुट्; कालशब्दोऽत्र कालविषयत्वाल्लुडादिप्रत्ययेषु वत्र्तते। न हि मुख्यकालस्य व्यत्ययः शक्यते कर्त्तुम्। हलाम्-- शुफितं मुखबीजम्। शुभितमिति प्राप्ते। "शुभ शुम्भ शोभार्थे" (धा।पा।१३२१,१३२२) निष्ठा, इट्, भकारसय् फकारः। अचाम्-- उपगायन्तु मां पत्नयो गर्भिणयः। पत्न्यो गर्भिण्य इति प्राप्ते। ईकारस्य इकारः। स्वराणाम्-- "अन्तोऽवत्या" ६।१।२१४ इत्यन्तोदात्तत्वं यथेह भवति-- अ()आवतीं सोमवतीं प्रजावतीं सूर्यवतीं दृषदमित, तथेहापि स्यात्-- अ()आवती सोमवती प्रजावती। व्यत्यये तु सत्य()आशब्दस्य प्रकृतिस्वर एव भवति। कः पुनः प्रकृतिस्वरः? आद्युदात्तत्वम्। तथा हि ङीपोऽनुदात्तत्वं पित्त्वात्। मतुपोऽप्यत एव। "{अशूप्रुषिप्लुषिलटिकटिकणिखटिविशिभ्यः क्वन्" इति द।उ।सूत्रम्} अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्" (द।उ।८।१२५) इति क्वन्प्रत्ययान्तत्वात् नित्स्वरेणाद्युदात्तोऽ()आशब्दः। कर्त्तृगर्हणं कारकोपलक्षणार्थम्। कारकाणां व्यत्यय इत्यर्थः। आसादयद्भिरुभयोर्वेदाः। आसादयद्भ्य इति प्राप्ते सम्प्रदानस्य करणत्वम्। "यङ" इति प्रत्याहारग्रहणार्थम्-- "सार्वधातुके यक्" ३।१।६७ इति यक आरभ्य "लिङ्याशिष्यङ" ३।१।८६ इत्यतो ङकारेण। यगादीनां प्रत्ययानामङपर्यन्तानां व्यत्यय इत्यर्थः। मुण्डा शुष्मस्य भेदतीति। श्नमि प्राप्ते शप्। एषां शप्प्रभृतीनां व्यत्ययमिच्छति शास्त्रकृत्-- पाणिनिः। "सोऽपि च सिध्यति बाहुलकेन" अपिशब्दात् स्यादिव्यत्ययः। बाहुलस्य भावो बाहुलकम्, द्वन्द्वमनोज्ञादित्वाद्वुञ् ५।१।१३२। चशब्दो हेतौ। यस्मादेवं प्रकृतानामप्रकृतानाञ्तच बाहुलकेन व्यत्ययः सिध्यति तस्माद्बहुलग्रहणं कृतमिति॥