पूर्वम्: १।१।३०
अनन्तरम्: १।१।३२
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषा जसि॥ १।१।३१

पदच्छेदः॥ विभाषा १।१ ३५ जसि ७।१ ३५ द्वन्द्वे ७।१ ३० २८ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

अर्थः॥

द्वन्द्वे समासे जसि सर्वादीनि सर्वनामसंज्ञकानि विभाषा न भवन्ति।

उदाहरणम्॥

कतरकतमे, कतरकतमाः। दक्षिणपूर्वे, पक्षिणपूर्वाः।
काशिका-वृत्तिः
विभाषा जसि १।१।३२

पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषा आरब्यते। द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। कतरकतमे, कतरकतमाः। जसः कार्यं प्रति विभाषा, अकज् हि न भवति कतरकतमकाः।
न्यासः
विभाषा जसि , १।१।३१

"जसः कार्यं प्रति" इत्यादि। एतच्च् व्यवस्थितविभाषात्वादस्या विभाषाया लभ्यते। अथ वा जसीति कार्यापेक्षया आधारसप्तमीयम्, न तु सर्वाद्यपेक्षया परसप्तमी; तेन जसि यत् कार्यम्= जसाधारं यत् कार्यं जसः शीभावः तत्र विभाषा भवति, नान्यत्र । किं कारणमेवं व्याख्यायत इत्यत आह-"अकज् हि न भवति" इति हि शब्दो हेतौ।एवं व्याख्यायमाने सति "कतरकतमकाः" इत्यत्राकज् न भवति; पूर्वसूत्रेण संज्ञाप्रतिषेधात् अन्यथा हि यदि जसि परतः संज्ञा विकल्प्यते,तदा पक्षेऽकज् भवेदेव। तथा च तस्य तन्मध्यपतित्वात् तद्ग्रहणेन ग्रहणात् पाक्षिकः शीभावः प्रसज्येत। कप्रत्यये तु सति तेन व्यवधानादेवैष दोषो न भवति।
बाल-मनोरमा
विभाषा जसि २२३, १।१।३१

विभाषा जसि। सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च। "जसी"त्यविभक्तिको निर्देशः। जस इः जशिः। आर्षः सप्तम्या लुक्। "इ"शब्द इवर्णपरः सन् "शी"तीकारमाचष्टे। ततश्च जसादेशे शीभावे कर्तव्ये इति फलितम्। तदाह --जसाधारमिति। जस् आधारो यस्येति बहुव्रीहिः। जस्स्थानकमित्यर्थः। ननु "जसि परतो द्वन्द्वे सर्वानामसंज्ञा वा स्या"दित्येव कुतो न व्याख्यायत इत्यत आह--शीभावं प्रत्येवेत्यादिना। यदि त्वकच्स्यात्तर्हि तस्याऽव्यवधायकत्वाच्छीभावः प्रसज्येत। कप्रत्यये तु सति तेन व्यवधानान्नोक्तदोष इत्याह--वर्णाश्रमेतरका इति। नचाऽकचि कर्तव्ये विकल्पाऽभावे।ञपि सर्वादीनी"ति नित्या सर्वनाम संज्ञा कुतोऽत्र न स्यादिति वाच्यं, "द्वन्द्वे चे"ति तस्या नित्यानिषेधात्। नच "द्वन्द्वे"चेति निषेधस्योक्तरीत्याऽवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्याऽवयवस्य सर्वनामत्वाऽनपायादकज्दुर्वार इति वाच्यं, द्वन्द्वावयवमात्रे सुन्दरादिविशेषणान्वयाऽबाववत्कुत्सादिविवक्षाया अभावात्। समुदाये तद्विवक्षायां समुदायोत्तरप्रत्ययेनाऽवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्यः पृथक् तदनुत्पत्तेः। अन्यथा अवयवेभ्यः प्रत्येकं कप्रत्ययापत्तेः। एतदेवाभिप्रेत्योक्तं भाष्ये--"वर्णाश्रमेतरशब्दे अकच् न भवती"ति। एवंच यदा इतरशब्देन द्वन्द्वं कृत्वा कुत्सिता वर्णाश्रमेतरा इति कुत्सायोगः क्रियते तदा कप्रत्यये सति "वर्णाश्रमेतरका" इत्येव रूपम्। यदा तु कुत्सित इतरः-इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते, तदा शीभावविकल्पः स्यादेव॥

तत्त्व-बोधिनी
विभाषा जसि १८८, १।१।३१

जसाधारमिति। शीभावेन जस्यपह्मतेऽप्यौपचारिकमाधारत्वमत्र बोध्यम्। यद्वा जस इर्जसिः,तस्मिन्। सौत्रः सप्तम्या लुगित्यर्थतो व्याचष्टे-जसाधारमिति। अन्यथा सत्यकचि "जसः शी" त्यस्य प्रवृत्तौ "वर्णाश्रमेतरके" इत्यपि रूपं स्यादिति भावः। यदा अज्ञातः कुत्सितो वा इतरः इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते तदा रूपद्वयं स्यादेव। परं तु इतरशब्देन द्वन्द्वं कृत्वा अज्ञाता वर्णाश्रमेतरा इत्यज्ञाताद्यर्थयोगो यदा क्रियते तदा "वर्णाश्रमेतरका" इत्येकमेव रूपं साध्विति बोध्यम्।

ननु द्वन्द्वावयवस्येतरशब्दस्याप्यकच् दुर्वारः, अवयवस्य सर्वनामताऽनपायात्। "द्वन्द्वे चे"त्यनेन हि समुदायस्य निषेधो न त्ववयवानामिति चेत् ; अत्राहुः--सिद्धान्ते हि "जहत्स्वार्था वृत्ति"रिति पक्षो मुख्यस्त()स्मस्तु पक्षेऽवयवानां निरर्थकत्वादज्ञाताद्यर्थयोगाऽभावेनाऽकचः प्राप्तिरेव नास्ति। यैस्तु "द्वन्द्वे चे"ति चकारेणावयवेष्वपि संज्ञा निषिध्यत इत्युच्यते, तेषामजहत्स्वार्थावृत्तिपक्षाभ्युपगमेऽपि न दोष इति।