पूर्वम्: १।१।२८
अनन्तरम्: १।१।३०
 
प्रथमावृत्तिः

सूत्रम्॥ तृतीयासमासे॥ १।१।२९

पदच्छेदः॥ तृतीयासमासे ७।१ २८ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

समासः॥

तृतीयया समासः तृतीयासमासः, तस्मिन् तृतीयासमासे, तृतीयातत्पुरुषः

अर्थः॥

तृतीयासमासे सर्वादीनि सर्वनामसंज्ञकानि न भवन्ति।

उदाहरणम्॥

मासपूर्वाय, संवत्सरपूर्वाय। द्व्यहपूर्वाय, त्र्यहपूर्वाय।
काशिका-वृत्तिः
तृतीयासमासे १।१।३०

तृतीयासमासे सर्वाऽदीनि सर्वनामसंज्ञानि न भवन्ति। मासपूर्वाय। संवत्सरपूर्वाय। द्व्यहपूर्वाय। त्र्यहपूर्वाय। समासे इति वर्तमाने पुनः सम्मसग्रहणं तृतीयासमासार्थवाक्ये ऽपि प्रतिषेधो यथा स्यात्। मासेन पूर्वाय। पूर्वसदृशसमौउनार्थकलहनिपुणमिश्रश्लक्ष्णैः २।१।३० इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्यैदं ग्रहणम्। न यस्य कस्यचित् तृतीयासमासस्य। कर्तृ करणे कृता बहुलम् २।१।३१ इतित्वयका खृतम्, मयका कृतम्।
न्यासः
तृतीयासमासे। , १।१।२९

ननु च "विभाषा दिक्समासे" १।१।२७ इत्यत समासग्रहणमनुवत्र्तत एव, तत् किमर्थं पुनः समासग्रहणमित्यत आह- "समास इत्यनुवत्र्तमाने" इत्यादि। अस्त्येव तृतीयासमासो मुख्यः, यस्मिन् सत्यैकपद्यमैकस्वर्यमेकविभ्कतिकत्वं च भवति। अस्ति च गौणः, य()स्मस्तादथ्र्यादतस्मिन्नपि ताच्छबद्यं भवति। स पुनस्तृतीयासमासार्थं वाक्यम्। तत्रासति पुनः समासग्रहणे "गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः" (व्या।प।४) इति मुख्य एव प्रतिषेधः स्यात्। नेतरत्र। तस्मात् तत्रापि प्रतिषेधो यथा स्यादित्येवमर्थं पुनः समासग्रहणम्। यदि तर्हि तृतीयासमासार्थेऽपि वाक्ये प्रतिषेधो भवति,यावान् कश्चित् तृतीयासमासः, तदर्थे वाक्ये सर्वत्र प्रतिषेधः स्यात्; ततश्च "त्वयका कृतम्, मयका कृतम्ित्यत्राकज् न स्यात्। भवति ह्रेतत् "कर्तृकरणे कृता बहुलम्" २।१।३१ इत्यनेन यः समासस्तदर्थं वाक्यम्;तत्र कप्रत्यये कृते "त्वत्केन कृतम्, मत्केन कृतम्" इति रूपं स्यादित्यत आह- "पूर्वसदृश" इत्यादि। एतच्च लक्षमप्रतिपदोक्तपरिभाषया लभ्यते। "त्वयका, मयका" इति। पूर्ववत् त्वमावादेशौ, सुबन्तादकच्। क्वचित् त्वकया, मकया इति पाठः स त्वयुक्तः। प्रातिपदिकात् त्वकजुत्पत्तौ त्वकया मकयेति भवति, न चात्र प्रातिपदिकादकजुत्पत्तिरिष्यते; अपि तु सुबन्तात्। तथा ह्रकज्विधौ वक्ष्यति-"प्रातिपिदकात्" सुपः" इति च द्वयमपीहानुवत्र्तते। तत्राभिधानतो व्यवस्था- क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। "युष्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवयकयोः" इत्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि,मयकि" इत्यत्र सुबन्तस्य" इति।
बाल-मनोरमा
तृतीयासमासे २२१, १।१।२९

तृतीयासमासे। "सर्वादीनी"त्यतः सर्वनामग्रहणम् , "न "बहिव्रीहा"वित्यतो नेति चानुवर्तते इत्यभिप्रेत्याह--इहेति। मासूपार्वायेति। मासेन पूर्व इति विग्रहः। हेतौ तृतीया। "पूर्वसदृशे"ति तृतीयातत्पुरुषसमासः। मासात्पूर्वभावीत्यर्थः। "विभाषा दिक्समासे बहुव्रीहा"वित्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौकिकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम्। ततश्च फलितमाह--तृतीयासमासार्थेति। द्वन्द्वे च। सर्वादीनीत्यतः सर्वनामग्रहणं, न बहुव्रीहावित्यतो नेति चानुवर्तते।

तत्त्व-बोधिनी
तृतीयासमासे १८६, १।१।२९

तृतीयासमासे। अत्र "विभाषा दिक्समासे" इत्यतः समास इत्यनुवर्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थमित्यभिप्रेत्याह--तृतीयासमासार्थेति। इह "पूर्वसदृशे"ति विहितः समासो गृह्रते, प्रतिपदोक्तत्वात्। न तु "कर्तृकरणे" इति समासः, तेन त्वयका कृत"मित्यत्र निषेधो न भवति। "ओकारसकारभकारादौ सुपी"ति व्यवस्थापयिष्यमाणत्वादिह सुपष्टेः प्रागकच्।