पूर्वम्: १।१।४३
अनन्तरम्: १।१।४५
 
प्रथमावृत्तिः

सूत्रम्॥ इग्यणः सम्प्रसारणम्॥ १।१।४४

पदच्छेदः॥ इक् १।१ यणः ६।१ सम्प्रसारणम् १।१

अर्थः॥

यणः (य् व् र् ल्) स्थाने यः इक् (इ उ ऋ ऌ) (भूतः भावी वा) तस्य सम्प्रसारणसंज्ञा भवति।

उदाहरणम्॥

उक्तः, उक्तवान्। सुप्तः, सप्तवान्॥ इष्टः, इष्टवान्। गृहीतः, गृहीतवान्।
काशिका-वृत्तिः
इग्यणः सम्प्रसारणम् १।१।४५

इक् यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणम् इत्येषा संज्ञा भवति। यजि ष्टम्। वप् उप्तम्। ग्रह गृहीतम्। केचिदुभयथा सूत्रम् इदं व्याचक्षते वाक्यार्थः संज्ञी, वर्णश्च इति। इग्यणः यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स सम्प्रसारणसंज्ञो भवति, यण्स्थानिक इग्वर्णः स सम्प्रसारणसंज्ञो भवति इति। तत्र विधौ वाक्यार्थ उपतिष्ठते ष्यङः सम्प्रसारणं पुत्रपत्योस् तत्पुरुषे ६।१।१३ वसोः सम्प्रसारणम् ६।४।१३१ इति। अनुवादे वर्णः सम्प्रसारणाच् च ६।१।१०४ इति। सङ्ख्यातानुदेशादिह न भवति अधितराम् इति। द्युभ्याम् इत्यत्र दिव उत् ६।१।१२७ इति तपरकरणाद् दीर्घो न भवति। सम्प्रसारणप्रदेशाः वसोः सम्प्रसारणम् ६।४।१३१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
इग्यणः संप्रसारणम् २५७, १।१।४४

यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥
न्यासः
इग्यणः सम्प्रसारणम्। , १।१।४४

"भूतः"इति। यत्र शास्त्रान्तरेण विहितो भूतविभक्त्या कार्यान्तरार्थमनूद्य-ते, यथा- "सम्प्रसारणस्य" ६।१।१३४ "सप्रसारणाच्च" ६।१।१०४इति, तत्र भूतः। "भावी वा" इति। यत्र भाव्यमानविभक्त्या विधानार्थं निर्दिश्यते, यथा "ष्यङः सम्प्रसारणम्" ६।१।१३ "वसोः सम्प्रसारणम्" ६।४।१३१ इति, तत्र भावी। अत्र हि ष्यङः स्थानिको वसुस्थानिकश्चेङः नास्ति यस्य संज्ञा सूत्रस्य शाटकं वय" इति। स इग् यणः स्थाने भवति, यस्य भूतस्य सम्प्रसारणमित्येषा संज्ञा भवतीति। "इष्टम्, उप्तम्" इति। "वचिस्वपियजादीनां किति" ६।१।१५ इत सम्प्रसारणम्। "गृहीतम्ित्यत्रापि "ग्रहिज्यावयि"६।१।१६ इत्यादिना सम्प्रसारणम्। "ग्रहोऽलिटि दीर्घः" ७।२।३७। "केचित्" इत्यादिना ये भाविनीं संज्ञां नाश्रयन्ति तन्मतं दर्शयति। कथं पुनरेकस्य सूत्रस्यैतदर्थद्वयमेकेन वाक्येन लभ्यते? तन्त्रेण, आवृत्त्या वा। ननु च संज्ञाविधौशब्दस्यैव ग्रहणं प्रसिध्दमित्युक्तम्, ततो युक्तं वर्णस्यैव संज्ञित्वम्, अर्थस्यततु कथम्? यथा "नवेति विभाषा" (१॥४४) इति सूत्र इति चेत्? न युक्तम्; तत्रेतिकरण- स्यार्थनिर्देशार्थस्य प्रयोगात्, इह तु स नास्तीत्ययुक्तम्। इहापि तन्त्रस्यावृ- त्तेर्वा न्यायस्याश्रितत्वाद् युक्तमेव। अस्य च सूत्रार्थद्वयस्य विभक्तिविशेषनि-र्देशो लिङ्गम्। यदयं "ष्यडः सम्प्रसारणम्" (६ १।१३) इत्यादौ विधिवाक्ये भाष्यमानविभक्()त्या निर्देशं करोति ततो ज्ञायते-"वाक्यार्थः संज्ञी" इति। यतश्च "सम्प्रसारणस्य" ६।३।१३८ इत्यादौ भूतविभक्()त्या निर्देशं करोति ततोऽवसीयते- "वर्ण" इति। तस्माद् युक्तं वाक्यार्थस्यापि संज्ञित्वम्। किरूपोऽसौ वाक्यार्थः? इत्याह-"स्थान्यदेशः" इत्यादि। तत्रेत्यादिना अनन्तरयोः सूत्रार्थयोर्विषयविभागं दर्शयति--विधौ वर्णो न सम्भवतीति। "ष्यडः सम्प्रसारणम्" (६ १।१३) इत्यादौ विधिवाक्ये प्रथमः सूत्रार्थ उपतिष्ठते। अनवादे तु "सम्प्रसारणस्य"६।३।१३८ इत्यादौ विहितत्वाद्विधेयस्य प्रथमोऽकिञ्चित्कर इति द्वितीयः। "अदुहितराम्" इति। अत्र यणः स्थानिकत्वादिकः सम्प्रसारणसंज्ञया भाष्यम्। तस्यां च सत्यां "हलः" ६।४।२ इति दीर्घत्वं प्रसज्येतीति चोद्यमपाकर्त्तुमाह-"संख्ययातानुदेशात्ित्यादीह स्थानिनो यणश्चत्वारः इकोऽप्यादेशाश्चत्वार एव, तेन संख्यातानुदेशेन भवितव्यम् "यथासंख्यमनुदेशः" १।३।१० इत्यादिना। ततश्च यकारस्य स्थाने य इवर्णस्तस्यैव सम्प्रसारमसंज्ञा भवति। न चेह यकारस्य स्थान इवर्णः। किं तर्हि? लकारस्य। तत् कुतस्तस्याः प्रसङ्गः? "द्रुह प्रपूरणे" (धा। पा। १०१४), लङ, "कर्मवत् कर्मणा तुल्यक्रियः" ३।१।८७ इत्यतिदेशे कर्मकर्तयस्मिनेपदम्, इट्। "न दुहस्नुनमां यक्चिणौ" ३।१।८९ इति यकि प्रतिषिद्धे शप्। तस्यादादित्वाल्लुक्। अदुहि इति स्थिते "तिङश्च" ५।३।५६ इति तरप्। "किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे"(५ ४।११) इत्याम्। तरप इहोपन्यासोऽङ्गसंज्ञार्थः।
बाल-मनोरमा
इग्यणः संप्रसारणम् , १।१।४४

वि()आवागम्, वि()आवाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादावचि संप्रसारणकार्यं वक्ष्यन् संप्रसरणसंज्ञा दर्शयति--इग्यणः यणः स्थाने इति। व्याख्यानात्स्थानार्थलाभः। "षष्ठी स्थानेयोगे"ति तु नेह भवति, अनुवादे परिभाषामनुपस्थितेः। षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसंभवात् "षष्ठीस्थानेयोगा" इत्येत"न्निर्दिश्यमानस्यादेशा भवन्ती"त्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च। संप्रसारणसंज्ञ इति। ततश्च "वसोः संप्रसारणं" "वचिस्वपियजादीना"मित्यादौ संप्रसारणश्रुतौ यण्()स्थानिक इगुपस्थितो भवति। तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः लस्य लृकार इति ज्ञेयम्।

तत्त्व-बोधिनी
इग्यणः संप्रसारणम् २८८, १।१।४४

इग्यणः। यणः स्थाने इति। विधिप्रदेशेषु सूत्रसाटकवद्भाविसंज्ञाश्रयणान्नान्योन्याश्रयः। ननु यण्स्थानिकस्येकः संप्रसारणत्वे "अदुहितचरा"मित्यत्र लङो लकारस्य स्थाने उत्तमपुरुषैकवचनमिट्, तस्य यण्स्थानिकत्वेन संप्रसारणसंज्ञायां सत्यां "हलः"इति दीर्घः स्यात्, तरपं प्रति लङ्न्तस्याऽङ्गत्वादिति चेत्। अत्र कैयटः---यथासङ्ख्यसम्बन्धात्सम्प्रसारणसञ्ज्ञाऽत्र न भवतीति। नन्वनुवादे परिभाषाणामनुपस्थानात्कथमिह यथासङ्ख्यत्वलाभः। नचैवं स्थानेयोगोऽपि न लभ्येतेति वाच्यम्, "षष्ठी स्थानेयोगे"त्यत्रैतत्सूत्रमनुवत्र्तय व्याख्यायां तल्लभात्। अत्राहुः--तन्त्रावृत्त्याद्याश्रयणेन "सम्प्रसारणस्ये"ति सूत्रे तद्भावितग्रहणाददुहिकरामित्यत्र "हलः"इति लङः स्थामिकस्येटः संप्रसारणस्य दीर्घो न भवति, लङ्स्थानिकस्येटः संप्रसारणशब्देनाऽभावितत्वात्ष। नन्वेवमप्यक्षद्युवौ अक्षद्युव इत्यादावूठः संप्रसारणसंज्ञायां "संप्रसारणाच्चे"ति पूर्वरूपं स्यादिति चेन्न, "संप्रसारणपूर्वत्वे समानाङ्गग्रहणं कर्तव्य"मिति वार्तिककृतोक्तत्वाद्वार्णादाङ्गस्य बलीयस्त्वाद्वा उवङेव स्यात्। अत्र नव्याः--"ष्यङः संप्रसारण"मित्यादिविधिप्रदेशेष्वेव "यण् इ"गिति पठित्वा संप्रसारणसंज्ञासूत्रं त्युक्तं शक्यमित्याहुः।