पूर्वम्: १।१।६९
अनन्तरम्: १।१।७१
 
प्रथमावृत्तिः

सूत्रम्॥ आदिरन्त्येन सहेता॥ १।१।७०

पदच्छेदः॥ आदिः १।१ अन्त्येन ३।१ सह इता ३।१ स्वम् १।१ ६७ रूपम् १।१ ६७

अर्थः॥

आदिः अन्त्येन इता (इत्संज्ञकेन वर्णेन) सह तयोः मध्यस्थानां, स्वस्य च रूपस्य ग्राहकः भवति।

उदाहरणम्॥

अण् = अ इ उ। अक् = अ इ उ ऋ ऌ। अच् = अ इ उ ऋ लृ ए ओ ऐ औ।
काशिका-वृत्तिः
आदिरन्त्येन सहैता १।१।७१

आदिरन्त्येन इत्संज्ञकेन सह गृह्यमाणस् तन्मद्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य। अण्। अक्। अच्। हल्। सुप्। तिङ्। अन्त्येन इति किम्? सुटिति तृतीयैकवचनेन टा इत्यनेन ग्रहणं मा भूत्।
लघु-सिद्धान्त-कौमुदी
आदिरन्त्येन सहेता ४, १।१।७०

अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥
न्यासः
आदिरन्त्येन सहेता। , १।१।७०

स्वरूपविधिपरिहारायारम्भः।इदमपि संज्ञासूत्रम्। अनादिभूत वस्त्वपेक्ष्य तत्पूर्ववस्तुन आदित्वं न भवति, अन्त्यभूतं वस्त्वपेक्ष्य ततः परस्यान्त्यत्वम्। न चेहाद्यन्तयोः परस्परापेक्षे आद्यन्तत्वे युज्येते। एवं हि सति वस्त्वन्तरस्य संज्ञिनो भावादादिरन्त्येन सहितः स्वर्यैव संज्ञा स्यात्। ततश्च "स्वं रूपम्" १।१।६७ इत्येतस्येहानुवृत्तये स्वरितत्वासङ्गो वृता स्यात्। तस्मादाद्यन्तशब्दाभ्यां सामथ्र्यादाद्यन्तव्यतिरेकेण तन्मध्यपाति वस्तु संज्ञित्वेनाक्षिप्तमिति मत्वाह-- "तन्मध्यपतितानाम्" इति। जाताविदं बहुवचनम्; अन्यथा ह्रेङ शब्द ओकारस्य संज्ञा न स्यात्। ननु चाद्यन्तशब्दाभ्यां नियतदेशावयवावभिधीयते, अवयवाश्चावयविनः समुदाय- रूपस्य सम्बन्धिन इति सम्बन्धिशब्दत्वादाद्यन्तशब्दाभ्यां तस्यैव संज्ञित्वेना- क्षेपो युक्तः। अकत एवं वक्तव्यम्-- "तन्मध्यपतितानां समुदायस्य" इति। एवं मन्यते-- यदयम् "तस्मादित्युत्तरस्य" १।१।६६इत्यादौ वर्णानां समुदाये परतो यकारं यणादेशं कृत्वा निर्देशं करोति, ततो गम्यते-- न वर्णसमुदायः संज्ञीति, किं तर्हि? प्रत्येकं वर्णा एवेति; अन्यथा वर्णसमुदाये संज्ञिनि परतो वर्णमालां यणादेशं कृत्वा निर्देशं कुर्यादिति। असम्भवात् स न कृत इति चेत्, न; वर्णमालात्मन आदेशस्य सम्भवात्। तर्हि समुदाये संज्ञिनि कार्यमेव न सम्भवतीति चेत्, यदि च समुदाये परतः कार्यं न सम्भवति वर्णा एव प्रत्येकं सन्तु संज्ञिनः; तत्र कार्यं सम्भवति, किं समुदायेन? "टा" इत्यनेन ग्रहणं मा भूदिति। ननु च सोऽपि तावतोऽवधेरन्त एव, न; तावतोऽवधेरविवक्षितत्वात्। टकारो ह्रयम् "टाङसिङसामिनात्स्याः" ७।१।१२ "द्वितीयाटौस्त्वेनः" २।४।३४ इत्यत्र तृतीयैकवचनस्य विशेषणार्थः, न तु प्रत्याहारार्थः। अथादिग्रहणं किमर्थम्? अन्त्येन सह समुदाय एव संज्ञा मा भूदिति, नैतदस्ति; "आवृत्तिधर्माणो हि संज्ञाशब्दा भवन्ति"। आदिरेव प्रदेशवाक्येष्वावत्र्तते, न समुदायः; तस्मादन्तरेणाप्यादिग्रहणं सामथ्र्यादादेरेवान्त्यसहितस्य संज्ञात्वं विज्ञायते, न समुदायस्य। एवं तर्हि सामथ्र्यलब्धस्यैवार्थस्य विस्पष्टीकरणार्थमादि- ग्रहणम्। अथ सहग्रहणं किमर्थम्, यावता तृतीययैव सहार्थो गम्यते, यथा-- "वृद्धो यूना" (१।२।६५) इत्यत्र? नैतदेवम्; इत्थम्भूतलक्षणेऽपि तृतीयाऽस्ति। तस्यां च सत्यामादिरेवान्त्येनेत्संज्ञकेनोपलक्षितः संज्ञा स्यात्। ततश्च प्रदेशेष्वक इति, इक इति, अचि इति च समुदायाद्विभक्तिर्न स्यात्, निरर्थकत्वेनाप्रातिपदिक्तवात्। "सह" ग्रहणात् तु सहभूता संज्ञेति समुदायस्य संज्ञात्वेनार्थत्त्वात् प्रातिपदिकत्वे सति विभक्तिर्लभ्यते। इद्ग्रहणं तु "अचि" इत्यत्रानित्संज्ञकेन "चटतव" इत्यनेन चकारेण संज्ञा मा भूदित्येवमर्थम्। अन्त्यत्वं तस्य पूर्ववत्, न समुदायापेक्षया। एवं तर्हि "हलन्त्यम्" १।३।३ इतीत्संज्ञा प्राप्नोति, तदर्थं "न विभक्तौ तुस्माः" १।३।४ इत्यत्र नेति योगविभागः कत्र्तव्यः।