पूर्वम्: १।२।१०
अनन्तरम्: १।२।१२
 
प्रथमावृत्तिः

सूत्रम्॥ लिङ्सिचावात्मनेपदेषु॥ १।२।११

पदच्छेदः॥ लिङ्सिचौ १।२ १३ आत्मनेपदेषु ७।३ १७ हलन्तात् ५।१ १० इकः ५।१ झल् १।१ कित् १।१

समासः॥

लिङ् च सिच् च लिङ्सिचौ, इतरेतरद्वन्द्वः।

अर्थः॥

इक् समीपात् हलः परौ झलादी लिङ्सिचौ, आत्मनेपदविषये किद्वत् भवति।

उदाहरणम्॥

लिङ् - भित्सीष्ट, भुत्सीष्ट। सिच् - अभित्त, अबुद्ध।
काशिका-वृत्तिः
लिङ्सिचौ आत्मनेपदेषु १।२।११

परतः कितौ भवतः। भित्सीष्ट, भुत्सीष्ट। सिचि खल्वपिअभित्त, अबुद्ध। इकः इत्येव। यक्षीष्ट, अयष्ट। सम्प्रसारणं हि स्यात्। आत्मनेपदेषु इति किम्? अस्राक्षित्। अद्राक्षीत्। सृजिदृशोर् झल्यमकिति ६।१।५७ इत्यमागमो न स्यात्। हलन्तातित्येव। चेषीष्ट, अचेष्ट। गुणो न स्यात्। झलित्येव वर्तिषीष्ट, अवर्तिष्ट। गुणो न स्यात्। लिङ्सिचौ इति किम्? द्वेष्टा द्वेक्ष्यति।
लघु-सिद्धान्त-कौमुदी
लिङ्सिचावात्मनेपदेषु ५९२, १।२।११

इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। धुक्षीष्ट॥
न्यासः
लिङ्सिचावात्मनेपदेषु। , १।२।११

"लिङसिचावात्मनेपदेषु परतः"इति। कथं पुनर्लिङात्मनेपदेषु परतो भवति, यावता सिच एवात्मनेपदेषु परत्वं सम्भवति, न लिङः? एवं मन्यते-- लिङेकदेशेऽत्र सीयुटि लिङशब्दो वर्तते, यथा-- "न धातुलोप आर्धधातुके" १।१।४ इत्यत्र धात्वेकदेशे धातुशब्दो वर्तते। तस्मात् सीयुट एवानेन प्रकारेण कित्त्वं विधीयते। अथ वा-- यथा हल्ङ्यादिसूत्रे ६।१।६६ ययोरेव दीर्घत्वं सम्भवति तयोरेव ङ्यापो दीर्घादित्येतद्विशेषणम्, तथेहापि यस्मादात्मनेपदं परं सम्भवति सिचः, तस्यैवैतद्विशेषणम्। आत्मनेपदग्रहणं भवति परस्मैपदव्यवच्छेदार्थम्। "भिस्तीष्ट"इति। "आशिषि लिङलोटौ" ३।३।१७३ इति लिङ्; स्वरितत्वादात्मनेपदम्। एवमुत्तरत्रापि स्वरितञितः कत्र्रयात्मनेपदमनेनैव वेतितव्यम्। "सुट तिथोः" ३।४।१०७ इति सुट्। कर्तरि श्नम्, "लिङ सलोपोऽनन्त्यस्य" ७।२।७९ इति च न भवति, "लिङाशिषि" ३।४।११६ इत्यार्धधातुकत्वात्, तयोश्च सार्वधातुके विधानात्। "भुत्सीष्ट" इति। बुधेः "अनुदात्तङितः" १।३।१२ इत्यात्मनेपदं वेदितव्यम्। उत्तरत्राप्यनुदात्तङिद्भ्यः कर्तर्यात्मनेपदमनेनैव वेदितव्यम्। "अभित्त" इति। "झलो झलि" ८।२।२६) इति सिचो लोपः। "अबुद्ध" इति। "झषस्तथोर्धोऽधः" ८।२।४० इति तकारस्य धकारः, "झलां जश् झशि" ८।४।५२ इति पूर्वधकारस्य दकारः। "यक्षीष्ट" इति। स्वरितेत्त्वादात्मेपदम्। पूर्ववत् षत्वं कत्वञ्च। "संप्रसारणं हि स्यात्" इति। वच्यादिसूत्रेण ६।१।१५। "अद्राक्षीत्" इति। "अस्ति सिचोऽपृक्ते" ७।३।९६ इतीट्, "वदव्रजहलन्तस्याचः" ७।२।३ इति वृद्धिः। पूर्ववत् षत्वकत्वे॥
बाल-मनोरमा
लिङ्सिचावात्मनेपदेषु १४३, १।२।११

लिङ्। इको झलिति, हलन्ताच्चेति च सूत्रमनुवर्तते। "असंयोगा"दित्यतः किदिति च। इक इति सामीप्ये षष्ठी, हलि अन्वेति। तदाह--इक्समीपादित्यादिना। आत्मनेपदपरकत्वं सिच एव विशेषणं, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वाऽसंभवात्। इकः किम्?। "वह्"वक्षीष्ट। सति तु कित्त्वे "वचिस्वपी"ति संप्रसारणं स्यात्। आत्मनेपदेषु किम्?। अद्राक्षीत्। इह कित्त्वे सति "सृजिदृशोर्झल्यमकिती"त्यम्न स्यात्। अतिप्तेति। लुङस्तादेशे, च्लिः, सिच्। "झलो झली"ति लोपः। आत्मनेपदपरकत्वेन सिचः कित्त्वान्न लघूपधगुणः। अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह-- तितेपे इति। इदुदुपधत्वे तु कित्त्वाद्गुणो न स्यादिति भावः। सेट्कोऽयमिति सूचयति-- तेपितेति। तेपिषीष्ट। अतेपिष्ट। ष्टिपृधातोस्तु "धात्वादेः षः स" इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह-- तिष्टिप इति। "शर्पूर्वाः खयः" इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः। कित्त्वान्न गुणः। तिष्टेप इति। ष्टेपृधातो रूपम्। तेपृ कम्पने चेति। चात्क्षरणे। वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात्पू()रवत्रास्य पाटस्त्यक्तुं शक्यः। केचित्तु "देपृ"इति वर्गतृतीयादिं पठन्ति। चात्कम्पने गतौ चेति। अनुक्तसमुच्चयार्थश्चकार इति भाव-। एतच्च टु वेपृ केपृ गेपृ कम्पन इत्येव सिद्धे पृथ"क्पाठाल्लभ्यते। अर्थभेदादिति। ग्लेपृ दैन्ये" इति पूर्वं पठितम्। #इह त्वर्थभेदात्पुनः पाठः। अन्यथा "ग्लेपृ दैन्ये कम्पने गतौ चे"ति गौरवं स्यादिति भावः। त्रपूषिति। ऊकारः षकारश्च इत्। अदुपधः।

तत्त्व-बोधिनी
लिङ्सिचावात्मनेपदेषु ११८, १।२।११

"इको झल्", "हलन्ताच्च" इति वर्तते। "असंयेगाल्लिट् कित्" इत्यतः किदिति च। तदाह-- इक्समीपादित्यादि। इकः किम्?। यक्षीष्ट। सतिकित्त्वे संप्रसारणं स्यात्। आत्मनेपदेति किम्?। अद्राक्षीत्। कित्त्वे सति "सृजिदृशोर्झल्यमकिति" इत्यम्न स्यात्। आत्मनेपदपरत्वं सिच एव विशेषणं न तु लिङ्स्थानिकस्यात्मनेपदस्य। लिङः परत्वाऽसंभवात्। तेपृ कम्पनेच। चकारात्क्षरणार्थस्य लाभादस्य पूर्वत्र पाठस्त्यक्तुं शक्यः। केचित्तु "तिपृ देपृ" इति पठन्ति। टुवेपृ। वेपथुः। केपृ गेपृ ग्लेपृ च। योगविभागात्पूर्वोत्तरार्थौ चकारेणानुकृष्येते। तदाह--चात्कम्पने गतौ चेति। योगविभागसामथ्र्यादेवार्थद्वयलाबे चकारो व्यर्थ इत्यन्ये। पुनः पाठ इति। दैन्ये पठितस्य कम्पनाद्यर्थलाभार्थमिति भावः। तृ()फल। तरतेरकारस्य गुणशब्देन भावितत्वात्फलभजोर्वैरूप्यसंपादकादेशादित्वात्तरपतेस्त्वेकहल्मध्यस्थत्वाऽभावादप्राप्ते विधिरयम्। तेरतुः। तेरुः। फेलतुः। फेलुः। भेजतुः। भेजुः। अबि शब्दे। अस्मात् "गुरोश्च हलः" इति अप्रत्यये अम्बाशब्दः। तिरुआः--अम्बाः= अकारोकारमकारात्मकाः शब्दा यस्य इति बहुव्रीहौ "शेषाद्विभाषे"ति कप्रत्यये त्र्यम्बक इत्येके। केचित्तु त्र#ईणि अम्बकानि नेत्राणि यस्येतिविगृह्णन्ति। अभिरभी इति। "सर्वधातुभ्योऽसु" न्नित्यधिकारे "उदके नुम्-भौ चे"ति वक्ष्यमाणत्वाद्धात्वन्तरेणापि अम्भः-- शब्दः सिध्यतीति बोध्यम्। अम्भः-- तोयम्। तस्यापत्यम् आम्भिः-- भीष्मः। "अम्भसो लोपश्चे"ति बाह्वादिपाठादिञि सलोपः। तद्वीजं त्विति। पूर्वसवर्णप्रवृत्तेः, षत्वाऽप्रवृत्तेश्च बीजमित्यर्थः।