पूर्वम्: १।२।१६
अनन्तरम्: १।२।१८
 
प्रथमावृत्तिः

सूत्रम्॥ स्थाघ्वोरिच्च॥ १।२।१७

पदच्छेदः॥ स्थाघ्वोः ६।२ इत् १।१ सिच् १।१ १४ आत्मनेपदेषु ७।३ ११ कित् १।१

समासः॥

स्था च घुश्च स्थाघू, तयोः स्थाघ्वोः, इतरेतरद्वन्द्वः।

अर्थः॥

स्था-धातोः घु-संज्ञकानां च इकारादेशः भवति, तेभ्यः परः सिच् किद्वत् अपि भवति।

उदाहरणम्॥

उपास्थित, उपास्थिषाताम्, उपास्थिषत। घुसंज्ञकानाम् - अदित, अधित।
काशिका-वृत्तिः
स्थाघ्वोरिच्च १।२।१७

सिजात्मनेपदेषु इति वर्तते। तिष्ठतेर् धातोः घुसंज्ञकानां च इकारश्च अन्तादेशः सिच् च किद् भवति आत्मनेपदेषु परतः। उपास्थित, उपास्थिषाताम्, उपास्थिषत। घुसंज्ञकानम् अदित। अधित। इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृते ऽपि सः। अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः।
लघु-सिद्धान्त-कौमुदी
स्थाघ्वोरिच्च ६२७, १।२।१७

अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे। अदित। अदास्यत्, अदास्यत॥ डु धाञ् धारणपोषणयोः॥ १०॥ दधाति॥
बाल-मनोरमा
स्थाध्वोरिच्च २२६, १।२।१७

लुङि सिचि अदास् त इति स्थिते-- स्थाध्वोरिच्च। "असंयोगाल्लिट्" इत्यतः किदिति, "हनस्सि"जित्यतः सिजिति चानुवर्तते। तदाह--- अनयोरित्यादिना। परस्मैपदेषु नेदं प्रवर्तते, तत्र "गातिस्थे" ति सिचो लुका लुप्तत्वात्। अत एव "लिङ्()सिचौ" इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यवर्त्त्याऽभावात्। अदितेति। इत्त्वेकृते "ह्यस्वादङ्गा"दिति सिचो लुक्। त इत्यस्य ङित्त्वादिकारस्य न गुणः। आतामादौ तु इत्वे कृतेऽपि सिचो न लुक्, झलिपरतएव लुग्विधेः। सिचः कित्त्वादिकारस्य न गुणः। अदिषाताम् अदिषत। अदिथाः अदिषाथाम्। अदिढ्वम्। अदिषीति। अदिष्वहि अदिष्महि। अदास्यदित्यपि ज्ञेयम्। श्यैङ् गतौ। श्यायते इति। शपि आयादेशः। शिद्विषत्वादात्वं नेति भावः। शश्ये इति। एशि आत्वे आतो लोपः। शश्याते शश्यिरे। क्रादिनियमादिट्। शश्यिषे शश्याथे शश्यिध्वे। शश्ये शश्यिवहे शश्यिमहे। श्याता। श्यास्यते। श्यायताम्। अश्यायताम्। अश्यायत। श्यायेत। श्यासीष्ट। अश्यास्त। अश्यास्यत। प्यैङ्धातुरपि श्यैङ्वत्। त्रैङप्येवम्। पूङ् पवने इति। पवते इति। सेट्, ऊदन्तानामनिट्()सु पर्युदासात्। पवते इति। शपि गुणः। अवादेशः। पुपुवे इति। कित्त्वाद्गुणाऽभावे उवङ्। पुपुवाते पुपुविरे। पुपुविषे पुपुवाथे पुपुविध्वे। पुपुवे पुपुविवहे पुपुविमहे। पविता। पविष्यते। पवताम्। सेडयम्, अनिट्सु डीङः पर्युदासात्। डयते इति। शपि ईकारस्य गुणेऽयादेश इति भावः। डिड()ए डिडि()वहे डिडि()महे। डयिता। डयिष्यते। डयताम्। अडयत। डयेत। डयीषीष्ट डयिषीयास्ताम्। डयिषीरन्। डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्-डयिषीध्वम्। डयिषीय डयिषीवहि डयिषीमहि। अडयिष्ट।अडयिष्यत। इति स्मिङादयो डीङन्ता ङितः। तृ()धातुः सेट् परस्मैपदी। अनिट्सु ॠदन्तपर्युदासात्सेट्।

तत्त्व-बोधिनी
स्थाध्वोरिच्च १९८, १।२।१७

स्थाध्वोरिच्च। इह "लिङ्सिचौ"इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, परस्मैपदेषु "गातिस्थे" तिलुकः प्रवृत्तेव्र्यावर्त्त्याऽलाभात्। अस्थित। अस्थिषाताम्। "भाव्यमानोऽण् क्वचित्सवर्णान् गृह्णाती"त्यत्रेदमपि तपरकरणं लिङ्गमित्याहुः। अत्र वदन्ति-- विधीयमानस्य सवर्णग्राहकत्वेऽपि तपरकरणमिह व्यर्थम्। न चात्र दीर्घः स्यादिति वाच्यं, "घुमास्थे" त्यनेनैव तत्सिद्धा विधिवैयथ्र्यापत्तेः। न चैवमपि प्लुतः स्यादिति वाच्यं, "प्लुताऽप्लुतप्रसङ्गे "प्लुतश्च विषये स्मृतः" इति सिद्धान्तादिति। डीङ्। विहायसा-- आकाशेन। "विहायसा" मिति पाठस्त्वनाकर इत्याहुः।