पूर्वम्: १।२।४०
अनन्तरम्: १।२।४२
 
प्रथमावृत्तिः

सूत्रम्॥ अपृक्त एकाल् प्रत्ययः॥ १।२।४१

पदच्छेदः॥ अपृक्त १।१ एकाल् १।१ प्रत्ययः १।१

समासः॥

एकश्च असौ अल् च, एकाल्, कर्मधारयः तत्पुरुषः

अर्थः॥

एकाल् प्रत्ययः अपृक्तसंज्ञकः भवति। असहायवाची एकशब्दः।

उदाहरणम्॥

वाक्, लता, कुमारी। घृतस्पृक्, अर्धभाक्, पादभाक्॥
काशिका-वृत्तिः
अपृक्त एकाल् प्रत्ययः १।२।४१

अपृक्तः इति इयं संज्ञा भवति एकाल् यः प्रत्ययस् तस्य। असहायवाची एकशब्दः। स्प्शो ऽनुदके क्विन् ३।२।५८ धृतस्पृक्। भजो ण्विः ३।२।६२ अर्धभक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्तप्रदेशाः वेरपृक्तस्य ६।१।६५ इत्येवम् आद्यः।
लघु-सिद्धान्त-कौमुदी
अपृक्त एकाल् प्रत्ययः १७८, १।२।४१

एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥
न्यासः
अपृक्त एकाल्प्रत्ययः। , १।२।४१

"घृतस्पृक्" इति। "क्विन्प्रत्ययस्य कुः" ८।२।६२ इति कुत्वम् = शकारस्य खकारः, तस्य जश्त्वम् = खकारस्य गकारः। "अद्र्धभाक्" इति। "चोः कुः" ८।२।३० इति जकारस्य गकारः। उभयत्र "वाऽवसाने" ८।४।५५ इत चर्त्वं ककारः। त्तरापृक्तसंज्ञायां सत्याम् " वेरपृक्तस्य" ६।१।६५ इति वकारलोपो भवति। प्रत्युदाहरणेषु हि तदभावान्न भवति। "दर्विः" इति। "दृ विदारणे" (धा।पा।१४९३) "वृ दृभ्यां विन्" (द।उ।१।२३) इति विन्। "जागृविः" इति। "जागृ निद्राक्षये" (धा।पा।१०७२), "जृशृस्तृजागृभ्यः क्विन्" (द।उ।१।२४) इति क्विन्। "सुराः" इति। "षूञ् अभिषवे" (धा।पा।१२४७), सुरां सुनोतीति "अन्यभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्; सुरासुत्, ह्यस्वस्य तुक्। "तमाचष्टे " (वा। २०१) इति णिच्। "णाविष्टवत् कार्यं प्रातिपदिकस्य" (वा।८१३) इति टिलोपः। सुरासवतेः पुनः क्विप्, णिलोपः, प्रथमैकवनचम्, हल्ङ्यादिना६।१।६६ सुलोपः; रुत्वविसर्जनीयौ। अत्रापि णिलोपे कृतेऽसति प्रत्ययग्रहणे धातुकारस्यापृक्तसंज्ञा स्यात्। तस्यां च सत्यां "हल्ङ्याब्भ्यः" ६।१।६६ इति धातुसकारलोपऋः स्यात्। ननु चासत्यपि प्रत्ययग्रहणे "प्रत्याप्रत्ययोः प्रत्ययस्यैव ग्रहणम्" (व्या।प।७२) इति संज्ञा विज्ञास्यते, तत् किमर्थं प्रत्ययग्रहणम्? क्रियते विस्पष्टार्थम्। अथैकग्रहणं किमर्थम्? अल्समुदायस्य मा भूदिति, नैतदस्ति; अल्ग्रहणसामथ्र्यान्न भविष्यति, अन्यथा ह्रल्ग्रहणमनर्थकं स्यात्- यदि हल्समुदायस्यापि संज्ञा स्यात्। एवं तह्र्रल्ग्रहणेनात्र जातिग्रहणं भवतीति ज्ञापनार्थमेकग्रहणमम्। तेन "हलन्ताच्च" १।२।१० इत्यत्र यदुक्तम्--"दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्" इति तदुपपन्नं भवति।
बाल-मनोरमा
अपृक्त एकाऽल्प्रत्ययः २४९, १।२।४१

सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह--अपृक्तः। एकालिति कर्मधारयः। अत्रैकशब्दो।ञसहायवाची। "एके मुख्यान्यकेवलाः" इत्यमरः। "स्" इत्यस्याऽपृक्तसंज्ञायाम्।

तत्त्व-बोधिनी
अपृक्त एकाऽल्प्रत्ययः २१०, १।२।४१

अपृक्त एकाल्। असहायावाच्यत्रैकशब्दः सङ्ख्यावाची वा। न च सङ्ख्यावाचित्वे "अभैत्सी"दित्यत्र हलन्तात्परस्य सिचोऽपृक्तत्वाल्लोपः स्यादिति वाच्यं, विभक्तिसाहचर्याद्विभक्तेरेव लोप इति व्याख्यानात्। एकालिति किम्? जागृविः। "वरेपृक्तस्ये"ति लोपो न। "अ"लित्यनेनैकत्वे लब्धे इदमेकग्रहण वर्णग्रहणं ज्ञापयतीति। फलं दम्भितुमिच्छति धिप्सतीत्यत्र सनो "हलन्ताच्चे"ति कित्त्वम्। तत्र हल्ग्रहणस्य व्यक्तिपरत्वे योऽत्रैकः समीपबर्ती हल्नकारस्ततः परः सन् न, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्। ततश्च नलोपो न स्यादित्यभ्युपगम्य "निपात एकाजना" ङित्यत्र एकाज्ग्रहणं त्युक्तुं शक्यमित्यवोचान।