पूर्वम्: १।२।६७
अनन्तरम्: १।२।६९
 
प्रथमावृत्तिः

सूत्रम्॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम्॥ १।२।६८

पदच्छेदः॥ भ्रातृपुत्रौ १।२ स्वसृदुहितृभ्याम् ३।२ शेषः १।१ ६४

काशिका-वृत्तिः
भ्रातृपुत्रौ स्वसृदुहितृभ्याम् १।२।६८

यथा सङ्ख्यं भ्रातृपुत्रशब्दौ शिष्येते सहवचने स्वसृदुहितृभ्यम्। स्वस्रा सहवचने भ्रातृशब्दः शिष्यते। भ्राता च स्वसा च भ्रातरौ। दुहित्रा सहवचने पुत्रशब्दः शिष्यते। पुत्रश्च दुहित च पुत्रौ।
न्यासः
भ्रातृपुत्रौ स्वसृदुहितृभ्याम्। , १।२।६८

बाल-मनोरमा
भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ९२१, १।२।६८

भ्रातृपुत्रौ। स्वसृदुहितृभ्यां सहोक्तौ क्रमात् भ्रातृपत्रौ शिष्यते। स्वरूपतोऽपि वैरूप्यादप्राप्तौ वचनम्।