पूर्वम्: १।२।६८
अनन्तरम्: १।२।७०
 
प्रथमावृत्तिः

सूत्रम्॥ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्॥ १।२।६९

पदच्छेदः॥ नपुंसकम् १।१ अनपुंसकेन ३।१ एकवत् अस्य ६।१ अन्यतरस्याम् ७।१ ७१ तल्लक्षणः १।१ ६५ चेत् ६५ एव ६५ विशेषः १।१ ६५ शेषः १।१ ६४

काशिका-वृत्तिः
नपुंसकम् अनपुंसकेनएकवच्चास्यान्यतरस्याम् १।२।६९

तल्लक्षणश्चेदेव विशेषः इति वर्तते। नपुंसकानपुंसकमात्रकृते विशेषे ऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच् च अस्य कार्यं भवति अन्यतरस्याम्। शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लम् च वस्त्रं, तदिदं शुक्लम्। तानि इमानि शुक्लानि। अनपुंसकेन इति किम्? शुक्लं च शुक्लं च शुक्लं च सुक्लानि। एकवच्च इति न भवति।
न्यासः
नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम्। , १।२।६९

"अनपुंसकेन" इति। "किम" इत्यादि। ननु च विना नपुंसकेनापि सहवचनेन सरूपाणामित्यादिनैकशेषो भवत्येव; तत् कोऽत्र विशेषः, यस्तेनैकशेषो विधीयमानः, अनेनैव चेत्यत आह-- "एकवच्चेति न भवति" इति। यद्यनेनैकशेषः स्यात्, पक्ष एकवद्भावः स्यात्। तेन त्वेकशेषे सति न भवति। अथास्येति किमर्थमुच्यते? यद्यस्येति नोच्येत, उत्तरत्राप्येकवच्चेत्यनुवृत्तिः स्यात्। ततश्चोत्तरत्र तु यस्यैकशेषः करिष्यते, तस्यैकवद्भावः प्रसज्येत। तस्मादस्यैव नपुंसकस्यैकवद्भावो यथा स्यात्। उत्तरत्र तु यस्यैकशेषः करिष्यते, तस्य मा भूदित्येवमर्थमस्येति वचनम्। अस्येति हि वचने सति मा भूदस्य वैयथ्र्यमित्युत्तरत्राप्येकवच्चेति नानुवर्तते। ननु चास्वरितत्वादेव नानुवर्तष्यते। एवं तर्हि तदेवास्वरितत्वमनेन प्रकारेणाख्यायते विस्पष्टार्थम्। एकारोऽत्रानुवत्र्तते। तेन हिमञ्च हिमानी च हिमहिमान्यौ, अरण्यञ्चारण्यानी चारण्यारण्यान्यावित्यत्र न भवति। इन्द्रवरुणादिसूत्रेण ४।१।४९ "हिमारण्ययोर्महत्वे" (वा। ३५२) इति वचनात् महत्त्वमपरो विशेषः॥
बाल-मनोरमा
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ९२२, १।२।६९

नपुंसकम्। अन्यतरस्याङ्ग्रहणमेकवदित्यनेनैवान्वेति, आनन्तर्यात्, नत्वेकशेषेणेत्याह--तच्चेति। तल्लक्षण एवेति। नपुंसकत्वाऽनपुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः। शुक्लः पटः शुक्ला शाटी शुक्ल वस्त्रमिति। पटशब्दसमभिव्याहाराच्छुक्लशब्दः पुंलिह्गः, शाटीशब्दसमभिव्याहारात्स्त्रीलिङ्गः, वस्त्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः, "गुणे शुक्लादयः पुंसि गुणिलिह्गास्तु तद्वती"त्यमरोक्तेरिति भावः। स च सा च तच्च तत्।अयं च इयं च इदं च इदम्। शुक्लश्च शुक्ला च शुक्लं च शुक्लम्। अत्र नपुंसकान्येव शिष्यन्ते एकवच्चा भवन्ति॥ तानीमानि शुक्लानीति। नपुंसकत्वे एकशेषे सति एकवत्त्वाऽभावे रूपाणि। न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहाद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वादेकवदिति व्यर्थमिति वाच्यम्, अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात्। तेन ओदनश्च ओदनं च तयोः समाहारे ओदनमिति न भवति। ओदनशब्दो ह्रर्धर्चादिः। ओदनश्च ओदनं चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति न, अनभिधानात्। एवंच। क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं च#आश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम्।