पूर्वम्: १।२।६६
अनन्तरम्: १।२।६८
 
प्रथमावृत्तिः

सूत्रम्॥ पुमान् स्त्रिया॥ १।२।६७

पदच्छेदः॥ पुमान् १।१ स्त्रिया ३।१ तल्लक्षणः १।१ ६५ चेत् ६५ एव ६५ विशेषः १।१ ६५ शेषः १।१ ६४

काशिका-वृत्तिः
पुमान् स्त्रिया १।२।६७

तल्लक्षणश्चेदेव विशेषः इति वर्तते। वृद्धो यून इति निवृत्तम्। स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्तते। स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति। ब्राह्मणश्च मयूरी च कुक्कुटमयूर्यौ। एवकरः किमर्थः। इन्द्रश्च इन्द्राणी च इन्द्रेन्द्राण्यौ। पुंयोगादाख्यायाम् ४।१।४८ इत्यपरो विशेषः। पुमानिति किम्? प्राक् च प्राचि च प्राक्प्राच्यौ। प्राकित्यवययम् अलिङ्गम्।
न्यासः
पुमान् स्त्रिया। , १।२।६७

"स्त्रीपुंसलक्षणश्चेदेव विशेषः" इति। यद्येवम्, इह न स्यात्-- गौश्चायं गौश्चेयमित्येतौ गावौ तिष्ठत इति, न ह्रत्र स्त्रीपुंसकृतः कश्चिद्विशेषोऽस्ति? मा भूदनेन , "सरूपाणाम्" (१।२।६४) इत्यादिना भविष्यति? नैतदस्ति; यदि हि तेन स्यात् स्त्रीशब्दस्याप्येकशेषः प्रसज्येत। ततश्च स्त्रीलिङ्गतापि स्यात् लिङ्गमशिष्यं लोकाश्रयत्वात्। स्त्रीलिङ्गस्यैकशेषे कृते पुंसत्वं विवक्षितव्यमित्यदोषः। अथ वा, पुमानिति योगविभागः क्रियते। तेनेहाप्यसत्यपि स्त्रीपुंसकृते विशेषे पुंस एवैकशेषो भवति। न चैवं सत्यतिप्रसङगो भवति; योगविभागादिष्टसिद्धेरिति। "ब्राआहृणी, कुक्कुटी, मयूरी" इति। "जातेरस्त्रीवषयादयोपघात्" ४।१।६३ इति ङीष्। "कुक्कुटमयूर्यौ" इति। अत्र न केवलं स्त्रीपुंसकृतो विशेषः,किं तर्हि? आकृतिश्रुतिकृतोऽपि। "इन्द्राणी" इति। "इन्द्रवरुण" ४।१।४९ इत्यादिना ङीष्, आनुगागमश्च। "प्राक् च प्राची" इति। प्राञ्चीति प्रपूर्वादञ्चतेः "ऋत्विक्" ३।२।५९ इत्यादिना क्विन्, "क्विन्प्रत्ययस्य कुः" ८।२।६२ इति कुत्वम्। क्विनन्तात् "दिक्छब्देभ्यः" ५।३।२७ इत्यादिनाऽस्तातिप्रत्ययः। तस्य "अञ्चेर्लुक्" ५।३।३) इति लुक्। "प्राची" इति। प्राक्छब्दात् "उगितश्च" ४।१।६ इत्यत्राञ्चतेश्चोपसंख्यानान्ङीप्। "प्रागित्यव्ययम्" इति। "तद्धितश्चासर्वविभक्तिः" १।१।३७ इत्यव्ययत्वम्॥
बाल-मनोरमा
पुमान्स्त्रिया ९२०, १।२।६७

पुमान्स्त्रिया। तल्लक्षण एवेति। "वृद्धो यूने"त्यतस्तदनुवृत्तेरिति भावः। हंसी चेति। अत्र पुंस्त्वस्त्रीत्वमात्रकृतवैरूप्यात् पुंलिङ्गो हंसशब्दः शिष्यते। स्त्रीत्वपुंस्त्वकृतवैरूप्यादेव "सरूपाणामि"त्यस्याऽप्राप्तिः। मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवाचकमातृशब्दयोस्तु नायमेकशेषः, एकविभक्तो सरूपाणामित्यनुवत्र्य एकविभक्तौ सरूपाणां स्त्रीत्वपुंस्त्वेतरकृतवैरूप्यरहितानामित्याश्रयणात्। इह च मातरावित्यत्र "अप्तृ"न्निति दीर्घतदभावाभ्यामपि वैरूप्यात्।अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम्।

तत्त्व-बोधिनी
पुमान्स्त्रिया ७९७, १।२।६७

पुमान्स्त्रिया। "वृद्धो यूने"ति निवृत्तम्, "सरूपाणा"मिति त्वनुवर्तते, "भ्रातृपुत्रौ"इत्युत्तरसूत्रारम्भात्। तेन "हंसश्च वरटा चे"त्यत्र न भवति। अन्यथा स्यादेवाऽतिप्रसङ्गः। हंसत्वजातिसाम्येन शब्दवैलक्षण्यस्य स्त्रीत्रपुंस्त्वमात्रप्रयुक्तत्वात्। स्यादेतत्---गौरियं, गौश्चायं, तयोः सहोक्तौ "एतौ गावौ"इति नियमतो न स्यात्, तल्लक्षणविशेषाऽभावात्। किं तु स्त्रीवाचकस्य पुंवाचकस्य वा "सरूपाणा"मित्येकशेषोऽनियमेन स्यात्। अत्राहुः---तदितरकृतविशेषाऽभावे तात्पर्यान्न दोष इति। "इन्द्रेन्द्राण्यौ"इत्यादौ त्वेकशेषो न भवति, स्त्रीत्वपुंस्त्वेतरपुंयोगकृतविशेषस्य सद्भावात्। स्यादेतत्"----"एतौ गावौ"इति नियमतो न स्या"दिति मनोरमादौ यदुक्तं, तत्कथं सङ्गच्छताम्()। "त्यदादितः शेषे पुंनपुंसकतः"इति नियमप्रवृत्त्या स्त्रीवाचिनो गोशब्दस्य शेषेऽपि "एतौ गावौ"इति नियमतः प्रयोगः ध्यत्वेवेति चेत्। अत्र केचित्----दिक्प्रदर्शनमात्रमिदम्। "नीलौ गावौ"इति "सुन्दरौ गावौ"इति नियमतो न स्यादित्युदाहर्तव्यम्। अथवा एतशब्दोऽत्राऽदन्तः कर्बुरवाची। एतश्च एता च एतौ गावौ, कर्बुरौ गावौ। "सरुपाणा---"मित्यनेन स्त्रीलिङ्गशेषे तु "एत#ए गावौ"इत्यपि स्यादिति यथाश्रुतमेव समर्थनीयमित्याहुः। तदपरे न क्षमन्ते। "त्यदादितः शेषे"इति नियमाऽ‌ऽप्रवृत्तावपि "पुमान्स्त्रिया"इति नियमप्रवृत्त्या "नीलौ गावौ" "एतौ गावौ"इति नियमतः सिद्ध्यत्येवेति। अत्र वदन्ति---"अद्वन्द्वतत्पुरुषविशेषणाना"मित्येतन्न्यायसिद्धमेव वचनम्। "विशेष्ये यल्लिङ्गं तदेव विशेषणेष्वपी"ति सर्वसंमतत्वात्, एवं च द्वन्द्वतत्पुरुषविशेषणेष्विव एकशेषविशेषणेऽपि "एतौ"इत्यत्र "त्यदादितः शेषे"इत्यादिनियमाऽप्रवृत्त्या विशेष्यगतमेव लिङ्गं भवतीति स्त्रीवाचिगोशब्दस्य शेषे "एते"इति स्यादेवेति "एतौ गावौ"इति नियमतो न स्यादित्यक्षेपः सङ्गच्छत एवेति दिक्।