पूर्वम्: १।२।७
अनन्तरम्: १।२।९
 
प्रथमावृत्तिः

सूत्रम्॥ रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च॥ १।२।८

पदच्छेदः॥ रुदविदमुषग्रहिस्वपिप्रच्छः ५।१ सन् १।१ १० क्त्वा १।१ कित् १।१

समासः॥

रुदश्च, विदश्च, मुषश्च, ग्रहिश्च, स्वपिश्च, प्रच्छ च, रुद॰प्रट्, तस्मात् रुद॰प्रच्छः, समाहारो द्वन्द्वः।

अर्थः॥

{रुदिर् अश्रुविमोचने (अदा॰ प॰)}, {विद ज्ञाने (अदा॰ प॰)}, {मुष स्तेये ( क्र्या॰ प॰)}, {ग्रह अपादाने (क्राय॰ उ॰)}, {ञिष्वप् शये (अदा॰ प॰)}, {प्रच्छ ज्ञीप्सायाम् (तुदा॰ प॰)}, इत्येतेभ्यः धातुभ्यः परौ क्त्वा-सनौ प्रत्ययौ किद्वत् भवतः।

उदाहरणम्॥

रुदित्वा, रुरुदिषति। विदित्वा, विविदिषति। मुषित्वा, मुमुषिषति। गृहीत्वा, जिघृक्षति। सुप्त्वा, सुषुप्सति। पृष्ट्वा, पिपृच्छिषति।
काशिका-वृत्तिः
रुदविदमुषग्रहिस्वपिप्रच्छः संश् च १।२।८

रुद विद मुष ग्रहि स्वपि प्रच्छ इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः। रुदविदमुषीणां रलो व्युपधाद्धलादेः संश्च १।२।२३ इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। ग्रहेर् विध्यर्थम् एव। स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि इत्वा। रुदित्वा, रुरुदिषति। विदित्वा, विविदिशति। मुषित्वा, मुमुषिषति। गृहीत्व, जिघृक्षति। सुप्त्वा, सुषुप्सति। पृष्ट्वा, पिपृच्छिषति। ग्रहाऽदीनां कित्त्वात् सम्प्रसारणं भवति। किरश्च पञ्चभ्यः ७।२।७५ इति प्रच्छेरिडागमः।
लघु-सिद्धान्त-कौमुदी
मुखनासिकावचनोऽनुनासिकः ९, १।२।८

मुखसहतिनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥
न्यासः
रुदविदमुषग्रहिस्वपिप्रच्छः संश्च। , १।२।८

"रुदिर् अश्रुविमोचने" (धा।पा।१०६७), "विद ज्ञाने" (धा।पा।१०६४), "मुष स्तेये" (धा।पा।१५३०), "ग्रह उपादाने" (धा।पा।१५३३), "ञिष्वप् शये (धा।पा। १०६८) "प्रच्छ ज्ञीप्सायाम्" (धा।पा।१४१३)। "ग्रहेर्विध्यर्थमेव" इति। "न क्त्वा सेट" १।२।१८ इति प्रतिषिद्धस्य कित्त्वस्य पुनर्विधिर्यथा स्यात्। "स्वपिर्विध्यर्थमेव" इत्यादि। "सन्नर्थम्" इति। अथ क्त्वार्थं वचनं कस्मान्न भवतीत्याह--- "किदेव हि क्त्वा" स्वपिप्रच्छयोर्हि "एकाच उपदेशेऽनुदात्तात्" ७।२।१० इतीट्प्रतिषेधात् क्त्वा सेड् न भवतीत्यतः "न क्त्वा सेट्" १।२।१८ इति निषेधो न प्रवत्र्तते। तेन किदेव हि क्त्वेति। "रुदित्वा" इति। "समानकर्तृकयोः पूर्वकाले" ३।४।२१ इति क्त्वा। "गृहीत्वा" इति। "ग्रहोऽलिटि दीर्घः" ७।२।३७ ग्रह्रादिसूत्रेण ६।१।१६ संप्रासरणम्। "जिघृक्षति" इति। "हो ढः" ८।२।३१ इति तत्वम्, "ष()ढोः कः सि" ८।२।४१ इति कत्वम्; "एकाचो बसो भष्" ८।२।३७ इत्यादिना गकारस्य घकारः, "सनि ग्रहगुहोश्च" ७।२।१२ इतीट्प्रतिषेधः। "सुषुप्सति" इति। वच्यादिसूत्रेण ६।१।१५ संप्रसारणम्। "पिपृच्छिषति" इति। अत्रापि ग्रह्रादिसूत्रेण ६।१।१६ संप्रसारणम्; "छे च" ६।१।७१ इति तुक्, "स्तोः श्चुना श्चुः" ८।४।३९ इति श्चुत्वम्॥
बाल-मनोरमा
रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ४३६, १।२।८

रुदविद। इका निर्देशात् संप्रसारणे गृहीति निर्देशः। स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः, सुपीति संप्रसारणप्रसङ्गात्। चकारात् "मृडमृदगुधे"ति पूर्वसूत्रस्थं क्त्वेति समुच्चीयते। तदाह -- सन् क्त्वा चेति। किताविति। "असंयोगाल्लि"डित्यतस्तदनुवृत्तेरिति भावः। रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित्। अविशेषात्सर्वस्येत्यन्ये। "हलन्ताच्चे"ति सिद्धे रुदविदमुषां ग्रहणं "रलो व्युपधा"दिति विकल्पबाधनार्थम्। ग्रहेस्तु क्त्वायां "न क्त्वा से"डिति निषेधबाधनार्थम्।स्वपिप्रच्छयोस्तु क्त्वायां कित्त्वेऽपि सनोऽप्राप्तकित्तवविधानार्थम्। रुरुदिषतीत्यादौ सनः कित्वाल्लघूपधगुणाऽभावः।

तत्त्व-बोधिनी
रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ३८०, १।२।८

रुदसाहचर्याद्वेत्तेरेव ग्रहणम्। इह रुदविदमुषाणां ग्रहणं "रलो व्युपधा"दिति विकल्पे प्राप्ते, ग्रहेः "न क्त्वा से"डिति निषेधाक्त्वाया अप्राप्ते, स्वपिप्रच्छयोस्तु क्त्वः कित्त्वेऽपि सनः कित्त्वस्याऽप्राप्तौ वचनम्। रुदित्वा। विदित्वा। मुषित्वा।सुप्त्वा। पृष्ट्वा। एतेषु संप्रसारणमपि फलम्।