पूर्वम्: १।३।१०
अनन्तरम्: १।३।१२
 
प्रथमावृत्तिः

सूत्रम्॥ स्वरितेनाधिकारः॥ १।३।११

पदच्छेदः॥ स्वरितेन ३।१ अधिकारः १।१

अर्थः॥

स्वरितेन चिह्नेन अधिकारः वेदितव्यः॥

उदाहरणम्॥

प्रत्य॑यः, पर॑श्च (३।१।१,२) धातोः॑(३।१।९१) अङ्ग॑स्य (६।४।१)
काशिका-वृत्तिः
स्वरितेन अधिकारः १।३।११

स्वरितेन इति इत्थम् भूतलक्षणे तृतीया। स्वरितो नाम स्वरविशेषो वर्णधर्मः। तेन चिह्णेन अधिकारो विदितव्यः। अधिकारो विनियोगः। स्वरितगुणयुक्तं शब्दरूपम् अधिकृतत्वादुत्तरत्र उपतिष्ठते। प्रतिज्ञास्वरिताः पाणिनीयाः। प्रत्ययः ३।१।१। धातोः ३।१।९१। ञ्याप्प्रातिपदिकात् ४।१।१। अङ्गस्य ६।४।१। भस्य ६।४।१२९। पदस्य ८।१।१६
न्यासः
स्वरितेनाधिकारः। , १।३।११

"इत्थंभूतलक्षणे तृतीय" इति। स्वरितेन चिह्नेनाधिकारस्योपलक्षणीयत्वात्। यदि पारिभाषिकस्येह स्वतिस्य ग्रहणं स्यात्, "रषाभ्यां नो णः समानपदे" ८।४।१ इत्यत्र णकारण्णाकारस्याधिकारस्याधिकारता न स्यात्; परिभाषिकस्याज्धर्मत्वात्। णकारस्यानच्कत्वादिति मत्वा सर्वेषां वर्णानामचां हलाञ्च स्वरिताख्यो यो वर्णधर्मो गुणस्यस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयन्नाह-- "स्वरितो नाम स्वरदोषो वर्णधर्मः" इति। वर्णधर्मस्य तु गर्हणमधिकारावगमाय। स इह हल्यपि स्वरितासरञ्जनाद्विज्ञायते। "अधिकारो विनियोगः" इति। व्यापारकरणम्। "अधिकृतत्वादुत्तरत्रोपतिष्ठते" इति। यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते, तथा स्वरितगुणयुक्तं शब्दरूपं सूत्रकारेण नियुक्तं सूत्रकारेण तत्र तत्रोपतिष्ठते। "उत्तरत्र" इति वचनमुपलक्षणार्थम्। क्वचित् पूर्वत्राप्युपतिष्ठत एव। क्व पुनरस्य सद्भावो भवति? क्व च वा न भवति? इत्याह-- "प्रतिज्ञास्वरिताः पाणिनीयाः" इति। प्रतिज्ञया स्वरितो येषां ते तथोक्ताः। तदेतदुक्तं भवति-- यत्रेव त आचार्याः स्वरितत्वं प्रतिजानते तत्रैवास्य सद्भावो भवति, नान्यत्रेति। तदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि? यत्राचार्याः स्मरन्ति तत्रैव भवति। स चायं धर्मः कलागद्युपम इति वेदितव्यः। कार्यार्थमुपादीयते, कृतकार्यस्तु निवर्तते; न तु प्रयोगसमवायी भवति। "प्रत्ययः" ३।१।१ इत्यादिना येऽधिकाराः स्वरितनावच्छिद्यन्ते तेषामुदाहरणानि दर्शयति। अथ किमर्थोऽयमधिकारः क्रियते? प्रतियोगं तस् ग्रहणं मा कार्षीदित्येवमर्थमिति चेत्, न; यथा देवदत्ताय गौर्दीयतां कम्बलश्चेत्युक्ते न च पुनरुच्यते देवदत्तायेति, अथ च प्रस्तुतत्वाद्देवदत्तस्य कम्बलश्चेत्यस्य साकाङ्क्षत्वात् तेनैव सम्बन्धो भवति; तथा च "सृ स्थिरे" ३।३।१७"भावे" ३।३।१८ इत्येवमादीनामपि वाक्यानां साकाङ्क्षत्वाद्घञादीनाञ्च प्रस्तुतत्वात् तैरेव सम्बन्धो भविष्यति, तत्किमधिकरेण? सत्यमेतत्; यत्रान्य निर्देशो नास्ति तत्रोपतिष्ठते, यत्र त्वन्यनिर्देशस्तत्रासौ प्रकृतस्य निवर्तक एव स्यात्। तथा हि-- गौर्दीयतां यज्ञदत्ताय कम्बलो विष्णुमित्रायेत्युक्तेऽन्यनिर्देशेन प्रस्तुतो देवदत्तो निवर्तत्ते। एवञ्चान्यनिर्देशेनास्य निवर्तकत्वे सति "अभिविधौ भाव इनुण" ३।३।४४ इत्यस्येनुणो निर्देशेन प्रस्तुतस्य घञो निवर्तितत्वात् "आक्रोशेऽवन्योग्र्रहः" ३।३।४५ इत्यत्रानन्तरेणेनुणा सम्बन्धः स्यात्,न पुनव्र्यवहितेन घञा,घञ् त्विष्यते। ननु च दृष्टानुवृत्तिसामथ्र्याद् घञेवानुवर्तिष्यते तेनैवाभिसम्बन्धो भविष्यति, तथा च तत्र वक्ष्यति-- "दृष्टानुवृत्तिसामथ्र्यात्तत्र घञेवानुवत्र्तते, नानन्तर इनुण् " इति नैतदस्ति; यदि दृष्टानुवृत्तिसामथ्र्यादघञ एवानुवृत्तिः स्यात्, तदा "ऋदोरप्" ३।३।५७ इत्तत्रोत्तरेष्वपि योगेषु घञेवानुवत्र्तेत, नाप्प्रत्ययः। यत्पवुनर्वक्ष्यति-- "दृष्टानुवृत्तिसामथ्र्यात्" इति, तत्र दृष्टानुवृत्तिसामथ्र्यशब्देन स्वरितत्वमेवोक्तम्। दृष्टमनुवृत्तौ सामथ्र्यम्-- अधिकृतस्य शब्दरूपस्य यस्मादिति बहुव्रीहिकृत्वा।तस्मात् स्वरितत्वादित्ययमत्रार्थः। यद्येषोऽर्थः सूत्राकाराभिमतः स्यात्, स्वरितत्वादिति कस्मान्नोक्तमिति चेत्? न;स्वच्छन्दतो हि वचसां प्रवृत्तिः, अर्थस्तु परीक्षणीय इत्यचोद्यतमेतत्। तदेवं यतोऽन्यनिर्दशः प्रस्तुतस्य निवत्र्तको भवति तस्मादधिकारः कत्र्तव्यः। त()स्मश्च क्रियमाणे तदवगमोपायदर्शनाय "स्वरितेनाधिकारः" इत्येतदिप कत्र्तव्यः॥
बाल-मनोरमा
स्वरितेनाधिकारः १९२१, १।३।११

स्वरितेनाधिकारः। अधिकारः=व्यापृतिः। यथा लोके "अधिकृतो ग्रामेऽसा"विति व्यापृत इति गम्यते। शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः। स्वरितेन=स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः। यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति यावत्। फलितमाह--स्वरितत्वयुक्तमित्यादिना। आनुनासिक्यवत्सव्रितोच्चारणमपि प्रतिज्ञागम्यम्। अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः। यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविष्यतीति किं सूत्रेण, तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम्।

परनित्येति। परादीनां मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तपरमित्यर्थः। "उत्तरोत्तर"मित्यत्र "आनुपूव्र्ये द्वे वाच्ये" इति द्वित्वम्। "कर्मधारयवदुत्तरेषु" इति कर्मधारयवद्भावात्सुपो लुक्। बलवच्छब्दात् "द्विवचनविभज्योपपदे तरबीयसुनौ " इति ईयसुन्। "विन्मतोर्लु"गिति मतुपो लुक्। परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयाऽपि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवाद इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः। परं विप्रतिषेधसूत्रात् बलवत्। परान्नित्यं यथा--तुदति। अत्र "तुदादिभ्यः शः" इति शप्रत्ययं बाधित्वा परत्वाल्लधूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति। शप्रत्ययस्तु कृतेऽकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः। "कृताकृतप्रसङ्गी यो विधिः स नित्य" इति हि तल्लक्षणम्। अतो नित्यः शप्रत्ययो लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते। ततः "सार्वधातुकमपित्" इति शस्य ङित्त्वात् "क्ङिति च " इति निषेधान्न गुणः। अक्लृप्ताऽभावकस्य नित्यशास्त्रस्याऽभावकल्पनापेक्षया क्लृप्ताऽभावकस्याऽनित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्त्वे बीजम्। परादन्तरङ्गं यथा--उभये देवमनुष्याः। अत्र "प्रथमचरमे"ति परमपि विकल्पं बाधित्वा "सर्वादीनी"ति नित्यैव सर्वनामसंज्ञा भवति, तस्या विभक्तिनिरपेक्षत्वेनारङ्गत्वात्। अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम्। तस्य बलवत्त्वे बीजमाह--

असिद्धं बहिरङ्गमन्तरङ्गे। अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः। इयं तु परिभाषा "वाहौउठ्"सूत्रे भाष्ये स्थिता। परादपवादो यथा--दध्ना। अस्थिदधीत्यनङ्()। इह परमप्यनेकालिति सर्वादेशं बाधित्वा "ङिच्चे"त्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात्। अपवादस्य बलवत्त्वे बीजं। त्वनुपदमेवोक्तम्। नित्यादन्तरङ्गं यथा--ग्रामणिनि कुले इह। नित्यमपीकोऽचीति नुमं बाधित्वा "ह्यस्वो नपुंसके" इति ह्यस्वः। प्रथमतः कृते नुम्यनजन्तत्वाध्यस्वो न स्यात्। अन्तरङ्गादपवादो यथा--दैत्यारिः। श्रीशः। परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः।

अकृतव्यूहाः पाणिनीयाः। न कृतः अकृतः, व्यूह=प्रकृतिप्रत्ययविवेचनं यैस्तेऽकृतव्यूहाः पाणिनीयाः=पाणिनिशिष्या इत्यक्षरार्थः। तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यमित्यतोऽध्याह्मत्य व्याचष्टे-निमित्तमित्यादिना। "सेदुष" इत्याद्युदाहरणम्। तच्च शब्दाधिकारे "सेदिवस्"शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति। इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम्।

इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां परिभाषाप्रकरणम्॥

*********************

अथ प्राग्दिशीयाः।

------------

तत्त्व-बोधिनी
स्वरितेनाधिकारः १४७०, १।३।११

स्वरितेनाधिकारः। अत्रेत्थंभूतलक्षणे तृतीया। अधिकारो विनियोगः। कियद्()दूरमधिकार इत्यत्रतु व्याख्यानमेव शरणम्। यथा--आ सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः, न तु प्रागभ्यासविकारेभ्य एवेत्यादि। यद्वा स्वरिता इति सप्तम्यन्तम्, स्वरिते दृष्टे अधिकारो निवर्तत इत्यर्थः। कः स्वरितोऽधिकारार्थः, कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम्। नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तः किमनेन सूत्रेणेति चेत्, अत्राहुः-अर्थान्तरसङ्ग्रहायेदं सूत्रं कृतम्। तथाहि-अधि-अधिकः कारोऽधिकारः। अधिकं कार्यं गौणेपि शास्त्रप्रवृत्तिरित्यर्थः। तथा च गौणमुख्यन्यायो यत्र नेष्यते अपादानाधिकरणादौ, तत्र स्वरितः पाठ्यः। किंच अधिकः कारः कृतिरियं-यत्पूर्वः सन् परं बाधते। तथा च "नुमचिरतृज्वद्भावेभ्यो नु"डित्यादिवक्ष्यमाणपूर्वविप्रतिषेधाः सर्वे सङ्गृहीता भवन्ति, तत्र स्वरितपाठेनैव गतार्थत्वादिति॥

परनित्येति। परान्नित्यं यथा-"तुदादिभ्यः शः"। तुदति। "रुधादिभ्यः श्नम्"। रुणद्धि। परमपि लघूपधगुणं बाधित्वा नित्यत्वात् शश्नमौ। तथा धिनवाव, धिनवाम। परमपि "लोपस्चास्यान्यतरस्यां म्वो"रित्युकारलोपं बाधित्वा नित्यत्वादाडुत्तमस्येत्याट्। परादन्तरङ्गं यथापरमपि "अनेका"लिति सर्वादेशं बाधित्वा "डिच्चे"त्यन्तादेशः। दध्ना, दध्ने। "अस्थिदधी"त्यनङ्। नित्यादन्तरङ्गं यथा-"ग्रामणिनी कुले"। नित्यमपीकोऽचीति नुमं बाधित्वा "ह्यस्वो नपुंसके" इति ह्यस्वः। कृते तु नुमि अनजन्तत्वाद्ध्रस्वो न स्यात्। अन्तरङ्गादपवादो यथा-"दैत्यारि", "श्रीशः"। परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः। तथा "उन्न्यः" सुल्वौ "सुल्वः" इत्यत्रान्तरङ्गत्वादियङि उवङि च प्राप्तेऽपवादत्वादेरनेकाच इति, "ओः सुपी"ति च यण्। यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गाभ्यां उवङि च प्राप्तेऽपवादत्वादेरनेकाच इति, "ओः सुपी"ति च यण्। यद्यपवादेऽन्यत्र चरितार्थत्वात्ताताङि न प्रवर्तते, किंतु परेण "अनेकाल्शि"दित्यनेन बाध्यते,-जीवतात्। भवतात्। अयजे इन्द्रम्, ग्रामे इह, सर्वे इत्थम्।-अत्र अयज इ इन्द्रम्, ग्राम इह, सर्व ई इत्थमिति स्थितेऽन्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते। तस्य असमानाश्रये "दैत्यारिः" "श्रीश" इत्यादौ चरितार्थत्वात्॥

असिद्धमिति। तेन "पचावेद"मित्यादौ "एत ऐ" इत्यैत्वं न। अकृतव्यूहा इति। अकृतकार्या इत्यर्थः। एवं तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यं स्यादत आह--निमित्तं विनाशोन्मुखं दृष्ट्वेति। लोकसिद्धार्थकथनमेतत्। यद्वा। अक्षरार्थेनाप्येतत्कथनम्। ऊह्रते तर्क्यत इत्यूहः-कार्यम् , विशिष्टो य ऊहो व्यूहो=विनाशोन्मुखनिमित्तकं कार्यम्। अकृतो व्यूहो यैस्ते अकृतव्यूहा इति। यद्यपि "कृतमपि शास्त्रं निवर्तयन्ती"ति परिभाषान्तरं पठ()ते, फलं च तुल्यं, तथापि "अकृतव्यूहा" इत्येव लघु, "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर"मिति न्यायादिति भावः। न कुर्वन्तीति। यथा निषेदुषी"मित्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपि "भाविना संप्रसारणेन वलादित्वं नङ्क्षयती"त्यालोच्य न कुर्वन्तीत्यर्थः॥

इति तत्त्वबोधिन्यां परिभाषाप्रकरणम्।

-------------------------