पूर्वम्: १।३।१२
अनन्तरम्: १।३।१४
 
प्रथमावृत्तिः

सूत्रम्॥ भावकर्मणोः॥ १।३।१३

पदच्छेदः॥ भावकर्मणोः ७।२ आत्मनेपदम् १।१ १२

समासः॥

भावश्च कर्म च भावकर्मणी, तयोः भावकर्मणोः, इतरेतरद्वन्द्वः।

अर्थः॥

भावे कर्मणि च अर्थे धातोः आत्मनेपदं भवति।

उदाहरणम्॥

भावे -- आस्यते देवदत्तेन, चिन्त्यते देवदत्तेन, ग्लायते भवता, सुप्यते भवता॥ कर्मणि -- देवदत्तेन वेदः पठ्यते, देवदत्तेन फलं खाद्यते, क्रियते कटस्त्वया, ह्रियते भारो मया॥
काशिका-वृत्तिः
भावकर्मणोः १।३।१३

लः कर्मणि च भावे च अकर्मकेभ्यः ३।४।६९ इति भावकर्मणोर् विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते। तत्रैदम् उच्यते, भावे कर्मणि च आत्मनेपदं भवति। भावे ग्लाय्ते भवता, सुप्यते भवता, आस्यते भवता। कर्मणि क्रियते कटः, ह्रियते भारः। कर्मकर्तरि, लूयते केदारः स्वयम् एव इति, परस्मैपदं न भवति। तस्य विधाने द्वितीयं कर्तृग्रहणम् अनुवर्तते। तेन कर्तिव यः कर्ता तत्र प्रस्मैपदं भवति।
लघु-सिद्धान्त-कौमुदी
भावकर्मणोः ७५४, १।३।१३

लस्यात्मनेपदम्॥
न्यासः
भावकर्मणोः। , १।३।१३

भाव इति धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकमेव। तत्रेदमुच्यते नियमार्थं इति विशेषः। अयमपि पूर्वत् प्रत्ययनियः-- भावकर्मणोरेवात्मनेपदं भवति, नार्थनियमः। अर्थनियमे सति "को भवता दायोदत्तः", "को भवता लाभो लब्धः" इति कर्मणि घञादिर्दुर्लभः स्यात्। "सुप्यते" इति। "ञिष्वप् शये" (धा।पा।१०६८) वच्यादिना ६।१।१५ सम्प्रासरण्। "क्रियते" इति। "रिङ शयग्लिङक्षु" ७।४।२८ इति रिङादेशः। "लूयते केदारः स्वयमेव" इति। "कर्मवत्कर्मणा तुल्यक्रियः" ३।१।८७ इत्यत्र व्यपदेशातिदेशशासत्रातिदेशपक्षयोः कर्मकर्तरि परस्मैपदेन परत्वाद्भवितव्यमिति कस्यचिद्()भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह -- "कर्मकर्तरि" इत्यादि। "द्वितीयं कर्तरिग्रहणमुपतिष्ठते" इति। "कर्तरि कर्मव्यतिहारे" १।३।१४ इत्यतः। तेन कर्त्तैव यः कत्र्ता शुद्धः केवलः कर्मवद्भावरहितः, तत्र परस्मैपदं भवति; यत्र कर्मवद्भावस्तत्रात्मनेपदं भवति।कार्यातिदेशपक्षे "क्रमवत् कर्मणा तुल्यक्रियः" ३।१।८७ इत्यनेनैवात्मनपेपदं भवति।
बाल-मनोरमा
भावकर्मणोः ५०४, १।३।१३

अथ आत्मनेपदप्रक्रिया निरूप्यते। आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि। तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति-- अनुदात्तङित इति। "आत्मनेपद"मित्येतत् "शेषात्कर्तरि परस्मैपद"मित्यतः प्रागनुवर्तते।

भावकर्मणोः। भावः भावना क्रियेति पर्यायाः। कर्मशब्दः कर्मकारके वर्तते। भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः। भावे उदाहरति-- बभूवे इति। वृत्ता भवनक्रियेत्यर्थः। कर्मण्युदाहरति-- अनुबभूवे इति। "आनन्द" इति शेषः। आनन्दकर्मिका वृत्ता अनुभवक्रियेत्यर्थः।

तत्त्व-बोधिनी
भावकर्मणोः ४३२, १।३।१३

भावकर्मणोः। भावे कर्मणि चयो लकारस्तस्याऽ‌ऽत्मनेपदमित्यर्थः।