पूर्वम्: १।३।१३
अनन्तरम्: १।३।१५
 
प्रथमावृत्तिः

सूत्रम्॥ कर्त्तरि कर्मव्यतिहारे॥ १।३।१४

पदच्छेदः॥ कर्त्तरि ७।१ कर्म-व्यतिहारे ७।१ १६ आत्मनेपदम् १।१ १२

समासः॥

कर्मणः व्यतिहारः कर्मव्यतिहारः, तस्मिन् ॰ षष्ठीतत्पुरुषः॥

अर्थः॥

कर्मशब्दः क्रियावाची, न तु {कर्त्तुरीप्सिततमं कर्म (१।४।४९)} इति। व्यतिहारः = विनिमयः, परस्परक्रियाकरणम्। क्रियायाः व्यतिहारे = विनिमये कर्तृवाच्ये, आत्मनेपदं भवति॥

उदाहरणम्॥

व्यतिलुनते क्षेत्रम्, व्यतिपुनते वस्त्रम्॥
काशिका-वृत्तिः
कर्तरि कर्मव्यतिहारे १।३।१४

कर्मशब्दः क्रियवाची। व्यतिहारो विनिमयः। यत्रान्यसम्बन्धिनीं क्रियामन्यः करोति, इतरसम्बन्धिनीं चेतरः, स कर्मव्यतिहारः। तद्धिशिष्टक्रियावचनाद् धातोरात्मनेपदं भवति। व्यतिलुनते। व्यतिपुनते। कर्मव्यतिहारे इति किम्? लुनन्ति। कर्तृग्रहणम् उत्तरार्थं शेषात् कर्तरि परस्मैपदम् १।३।७८ इति।
लघु-सिद्धान्त-कौमुदी
कर्तरि कर्मव्यतिहारे ७३४, १।३।१४

क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम्। व्यतिलुनीते। अन्यस्य योग्यं लवनं करोतीत्यर्थः॥
न्यासः
कत्र्तरि कर्मव्यतीहारे। , १।३।१४

"कर्मशब्दः क्रियावाची" इति। एतेन लौकिकमिह कर्म क्रियात्मकं गृह्रते, न पारिभाषिकमिति दर्शयति। कुत एतल्लभ्यते? प्रत्यासत्तेः। क्रिया हि धातोः प्रत्यासन्ना, तत्र साक्षाद्()वृत्तेः। साक्षाद्()वृत्तिस्तु धातुवाच्यत्वात् क्रियायाः। पारिभाषिके तु साधनात्मके कर्मणि धातुः साक्षान्न वत्र्तते;तस्याधातुवाच्यत्वात्। तस्माद्धातुं प्रतिन तस्य प्रत्यासत्तिरिति न गृह्रते, तेन साधनकर्मव्यतीहारे न भवत्यात्मनेपदम्-- देवदत्तस्य धान्यं व्यतिलुनन्तीति। लुनातिरुपसंगर्हार्थे लवने वत्र्तते। देवदत्तेन यद्धान्यं सङगृहीतं पुरस्ताल्लवनेनोपसंगृह्णन्तीत्यर्थः। ततश्चान्यसम्बन्धिनो धानयस्यान्येन संग्रहणाद्भवति साधनकर्मव्यतीहारः। "अन्यसम्बन्धिनीम्" इति। अन्यस्य कर्त्तुरभीष्टया क्रियेमां क्रियां करिष्यामीति सेहान्यसम्बन्धिन्यभिप्रेता, अन्यथा यद्यन्येन निष्पादिता या क्रिया सेहान्यसम्बन्धिन्यभिप्रेता स्यात् तदा व्यतिहारो नोपपद्येत, न ह्रन्येन निष्पादितायाः पुनर्निष्पादनमुपपद्यते। "व्यतिलुनते" इति। "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः, "श्नाभ्यस्तयोरातः" ६।४।११२ इत्याकारलोपः। अथ कर्तृग्रहणं किमर्थम्? भावकर्मनिवृत्त्यर्थमिति चेत्, न; अभीष्टत्वाद्भावकर्मणोरात्मनेपदम्-- व्यतिभूयते सेनया, व्यतिगम्यन्ते ग्रामाः, व्यतिहन्यन्ते दस्यव इति। "भावकर्मणोः" १।३।१३ इत्यनेनैव यथा स्यात्, अनेन मा भूदित्येवमर्थमिति चेत्, न; विशेषाभावात्। न हि तेनात्मनेपदे सत्यनेन वा कश्चिद्विशेषोऽस्ति। यद्यनेन स्यात् तदा "न गतिहिंसार्थेभ्यः" १।३।१५ इति प्रतिषेधः स्यात्, तेन चात्मनेपदे विधीयमाने न भवत्येष दोष इति चेत्, सत्यम्; एषोऽस्तु विशेषः,तथापि न कर्त्तृग्रहणं कत्र्तव्यम्; यस्मात् "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते, न पूर्वा। तेन भावकर्मणोरात्मनेपदं भविष्यति। अत आह--"कर्त्तृग्रहणमुत्तरार्थम्" इति। कः पुनरसावुत्तरो योगो यत्रास्य प्रयोजनमित्याह-- "शेषात्" इत्यादि॥
बाल-मनोरमा
कर्तरि कर्मव्यतिहारे ५०५, १।३।१४

कर्तरि कर्म। कर्मव्यतिहारशब्दं विवृण्वन्नाह-- क्रियाविनिमये द्योत्ये इति। एवं च कर्मशब्दः क्रियापरः, व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति। अन्यस्येति। शूद्रादियोग्यं सस्यादिलवनं ब्राआहृणः करोतीत्यर्थः। परस्परकरणमपि कर्मव्यतिहार इति कैयटः। संप्रहरन्ते राजानः। कर्तृग्रहणं भावकर्मणोरित्यस्याऽनुवृत्तिनिवृत्त्यर्थम्।अन्यथा व्यतिलुनीत इत्यत्र न स्यात्। वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम्। व्यति अस् ते इति स्थिते आह--श्नसोरिति। तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः। इह "उपसर्गप्रादुभ्र्या"मिति न षः, यच्परकत्वाऽभावादिति भावः। व्यतिषाते इति। इह अच्परकत्वादुपसर्गप्रादुभ्र्यामिति षः। व्यति स्?से इति स्थिते आह-- तासस्त्योरिति। "उपसर्गप्रादुभ्र्या"मिति नेह ष्तवम्, अस्त्यवयवस्य सकारस्य लुप्तत्वात्। व्यति स् ध्वे इति स्थिते आह-- धि चेति। "सलोप" इति शेषः। व्यितस् ए इति स्थिते आह-- ह एतीति। सकारस्य हकार इति भावः। व्यत्यसै इति। लोडुत्तमपुरुषैकवचनम्। व्यत्यास्तेति। लङि रूपम्। व्यतिषीतेति। लिङि रूपम्। व्यतिराते इति। लटि प्रथमपुरुषैकद्विबहुवचनेषु समानमेव र#ऊपम्। व्यतिभाते इति। भाधातो रूपम्। व्यतिबभे इति। लिटि रूपम्।

तत्त्व-बोधिनी
कर्तरि कर्मव्यतिहारे ४३३, १।३।१४

कर्तरि कर्म। अन्यस्येति। शूद्रस्य योग्यं सस्यादिलवनं ब्राआहृणः करोतीत्यर्थः। परस्परकरणमपि कर्मव्यतिहारः। संप्रहरन्ते राजानः। पृथक्()सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थम्। व्यतिस्ते इति। यच्परत्वाऽभावान्न षः। व्यतिसे इति। "उपसर्गप्रादुभ्र्या"मिति नेह षत्वम्, सकारस्याऽस्त्यवयवत्वाऽभावात्। "आदेशप्रत्यययो" रिति षत्वं तु "सात्पदाद्यो"रिति निषिद्धम्, एकदेशविकृतन्यायेन प्रत्ययमात्रस्य पदत्वात्।