पूर्वम्: १।३।२३
अनन्तरम्: १।३।२५
 
प्रथमावृत्तिः

सूत्रम्॥ उदोऽनूर्द्ध्वकर्मणि॥ १।३।२४

पदच्छेदः॥ उदः ५।१ अनूर्ध्वकर्मणि ७।१ स्थः ५।१ २२ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
उदो ऽनूर्ध्वकर्मणि १।३।२४

उत्पूर्वात् तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति। कर्मशब्दः क्रियावाची। अनूर्ध्वताविशिष्टक्रियावचनात् तिष्ठतेरात्मनेपदं भवति। गेहे उतिष्ठते। कुटुम्बे उत्तिष्ठते। तदर्थं यतते इत्यर्थः। उद ईहायाम् इति वक्तव्यम्। इह मा भूत्, अस्माद् ग्रामात् शतम् उत्तिष्ठति। शतम् उत्पद्यते इत्यर्थः। ईहग्रहणम् अनूर्ध्वकर्मण एव विशेषनं, न अपवादः। अनूर्ध्वकर्मणि इति किम्? आसनादुत्तिष्ठति।
न्यासः
उदोऽनूध्र्वकर्मणि। , १।३।२४

अनुध्र्वकर्मणि वत्र्तमानादित्युक्ते, यश्चोदयति--- "ननु च तिष्ठतेरकर्मकक्रियावचनत्वान्न कर्मणि वृत्तिरुपपद्यते। तत्किमुच्यते-- "अनूध्र्वकर्मणि वत्र्तमानात्" इति, तं प्रत्याह-- "क्रियावाची" इति। यदुक्तम्-- अनूध्र्वकर्मणि वत्र्तमानादिति, तस्यार्थं विस्पष्टीकर्त्तुमाह-- "अनूध्र्वकर्मविशिष्टात् क्रियावचनात्" इति। "उद ईहायामिति वक्तव्यम्िति। उत्पूर्वात् तिष्ठतेरीहायां परिस्पन्दने वत्र्तमानादात्मेपदं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्-- अन्तरेणापि कर्मग्रहणं क्रियामात्रवृत्तित्वे तिष्ठतेः सिद्धे यत् कर्मग्रहणं तल्लोके या क्रिया कर्मत्वेन प्रसिद्धा तस्याः प्रतिपत्तयर्थं कृतम्, सा तु परिस्पन्दनात्मकैव परिस्पन्दनात्मिकैव घटनभ्रमणादिका, तथा हि--तां कुर्वाणः "सक्रियः" इत्युच्यते। स्थानासनादिकां त्वपरिसम्पन्दनात्मिकां कुर्वाणोऽपि "निष्क्रियः" इति। तस्मादात्मनेपदमिदं कर्मग्रहणादीहायामेव वत्र्तमानाद्भविष्यति। उद ईहायामित्युक्ते, ईहाग्रहणमनूध्र्वकर्मणोऽपवाद इति कस्यचिद्()भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह-- "ईहाग्रहणम्" इत्यादि। विशेषणं व्यक्तीकरणमिहाभिप्रेतम्। एतदुक्तं भवति-- यदिदमुक्तम् "उद ईहायामिति वक्तव्यम्" इति, तत्र यदीहाग्रहणं तदनूध्र्वकर्मण एव विशेषणं सूत्रोपात्तस्य व्यक्तीकरणार्थम्। ईहात्मकमिहानूध्र्वकर्म विवक्षितमिति प्रतिपादनार्थमित्यर्थः॥
बाल-मनोरमा
उदोऽनूध्र्वकर्मणि ५१६, १।३।२४

उदोऽनुध्र्वकर्मणि। ऊध्र्वदेशसंयोगानुकूला क्रिया ऊध्र्वकर्म। तद्भिन्नमनूध्र्वकर्म। तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः। मुक्तावुत्तिष्ठते इति। गुरूपगमनादिना यतते इत्यर्थः। पीठादुत्तिष्ठतीति। उत्पततीत्यर्थः। ईहायामेव - इति वार्तिकम्। ईहा कायपरिस्पन्दः। ग्रामाच्छतमुत्तिष्ठतीति। उत्पद्यत इत्यर्थः।

तत्त्व-बोधिनी
उदोऽनूध्वकर्मणि ४४१, १।३।२४

उदोऽनुर्द्ध्वकर्मणि। "स्थ" इत्यनुवर्तते। ऊर्द्ध्वदेशसंयोगानुकूलं यत्कर्म तदूर्द्ध्वकर्म। "उदोऽनूर्ध्वे" इत्युक्तेऽप्यनूध्र्वक्रियायां वर्तमानादुत्पूर्वात्तिष्ठतेर्लस्यात्मनेपदमित्यर्थो लभ्यत एव, तथापि परिस्पन्दार्थलाभाय कर्मपदमित्यभिप्रेत्याह-- ईहायामेवेति। इच्छापूर्विका चेष्टा--ईहा। सा च "ग्रामाच्छत"मित्यत्र नास्ति।