पूर्वम्: १।३।२२
अनन्तरम्: १।३।२४
 
प्रथमावृत्तिः

सूत्रम्॥ प्रकाशनस्थेयाख्ययोश्च॥ १।३।२३

पदच्छेदः॥ प्रकाशनस्थेयाख्ययोः ७।२ स्थः ५।१ २२ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
प्रकाशनस्थेयाऽख्यहोश् च १।३।२३

स्वाभिप्रायकथनं प्रकाशनम्। स्थेयस्य आख्या स्थेयाख्या। तिष्ठत्यस्मिन्निति स्थेयः। विवादपदनिर्णेता लोके स्थेयः इति प्रसिधः। तस्य प्रतिपत्त्यर्थम् आख्याग्रहणम्। प्रकाशने स्थेयाऽख्यायां च तिष्ठतेरात्मनेपदं भवति। प्रकाशने तावत् तिष्ठते कन्या धात्रेभ्यः। तिष्ठते वृषली ग्रामपुत्रेभ्यः। प्रकाशयत्यात्मानम् इत्यर्थः। स्थेयाऽख्यायाम् त्वयि तिष्ठते। मयि तिष्ठते। संशय्य कर्णादिषु तिष्ठते यः।
न्यासः
प्रकाशनस्थेयाख्ययोश्च। , १।३।२३

"तिष्ठन्त्यस्मिन्नति स्थेयः" इति। "कृत्यल्युटो बहुलम्"३।३।११३ इत्यधिकरणे "अचो यत्" ३।१।९७। "ईद्यति" ६।४।६५ इतीत्त्वम्। गुणः। "विवाद" इति। सन्देहविषये। "निर्णेता" इति। निश्चेता, प्रमाणभूत इत्यर्थः। कथं पुनः स्थेयशब्दात् तस्य प्रतीतिर्भवति, यावता स्थेयशब्दो भावसाधनोप्यस्ति गतिनिवृत्तिवचन इत्याह-- "तस्य" इत्यादि। यस्य "स्थेय" इत्याख्या, लोके तस्य प्रतीतिर्यथा स्यादित्येवमर्थमाख्याग्रहणम्। तेनाख्याग्रहणेन तस्य प्रतीतिर्भवतीति दर्शयितुमाख्याग्रहणं कृतम्। "तिष्ठते कन्या छात्रेभ्यः" इति। पूर्ववत् सम्प्रदानसंज्ञायां सत्यां छात्रेभ्य इति चतुर्थी। "प्रकाशयत्यात्मानमित्यर्थः " इति। अनेकार्थद्धातूनां तिष्ठतिरत्र प्रकाशने वत्र्तते। "संशय्य" इति। जहातु नैनं कथमर्थसिद्धः संशय्य कणादिषु तिष्ठते यः। असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि॥ (किरा-३।१४) इत्यस्य श्लोकस्यायमेकदेश इहोपन्यस्तः। संशय्येति विवादपदभूते वस्तुनि संशयित्वो भूत्वा कर्णादिषु तिष्ठत इति। कर्णशकुनिप्रभृतिषु निर्षेतृत्वेनाभिमतेषु तत्सु पक्षान्तरं परित्यज्य तिष्ठते; तदुपदर्शितस्यैव पक्षस्याश्रयणात्॥
बाल-मनोरमा
प्रकाशनस्थेयाऽ‌ऽख्ययोश्च ५१५, १।३।२३

प्रकाशन। प्रकाशनं-- स्वाभिप्रायाविष्करणम्। स्थेयः-- विवादपदनिर्णेता। तिष्ठति = विश्राम्यति विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुलके अधिकरणे "अचो यत्" इति यति [ईत्वे] स्थेयशब्दव्युत्पत्तेः। "स्थेयो विवादस्थानस्य निर्मएतरि पुरोहिते" इति मेदिनी। इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षितः। आख्या = अभिधानम्। प्रकाशनाख्यायां, स्थेयाख्यायां च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थः। प्रकाशने उदाहरति - गोपी कृष्णाय तिष्ठते इति। "श्लाघह्नुङ्स्थाशपा"मिति संप्रदानत्वाच्चतुर्थी। स्थेये उदाहरति- - संशय्येति। कर्णादिष्विति विषयसप्तमी। फलितमाह-- कर्णादीनिति।

तत्त्व-बोधिनी
प्रकाशनस्थेयाऽख्ययोश्च ४४०, १।३।२३

प्रकाशन। प्रकाशनं -- ज्ञापनम्। स्थेयो-- विवादपदनिर्णेता, तिष्ठन्तेऽस्मिन् विवादपदनिर्मयार्थमिति व्युत्पत्तेः। बाहुलकादधिकरणे "अचो यत्" "स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते" इति मेदिनी। कर्णादिष्विति अधिकरणे सप्तमी। तेषां स्थेयत्वं "तिष्ठते"इत्यात्मनेपदेन द्योत्यते। तमेवाऽर्थमाह-- कर्णादानिति। प्रकाशनेत्यादि। चैत्रे तिष्ठति।