पूर्वम्: १।३।२५
अनन्तरम्: १।३।२७
 
प्रथमावृत्तिः

सूत्रम्॥ अकर्मकाच्च॥ १।३।२६

पदच्छेदः॥ अकर्मकात् ५।१ २९ उपात् ५।१ २५ स्थः ५।१ २२ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
अकर्मकाच् च १।३।२६

उपातिति वर्तते। उपपूर्वात् तिष्ठतेरकर्मकातकर्मकक्रियावचनादात्मनेपदं भवति। यावद् भुक्तम् उपतिष्ठते। यावदोदनुम् उपतिष्ठते। भुक्तम् इति भावे क्तप्रत्ययः। भोजने भोजने सन्निधीयते इत्यर्थः। अकर्मकातिति किम्? राजानम् उपतिष्ठति।
न्यासः
अकर्मकाच्च। , १।३।२६

"अकर्मकात्" इति। नास्य कर्मास्तीति बहुव्रीहिः। "डुकृञ् करणे"(धा।पा।१४७२), "अन्यभ्योऽपि दृश्यन्ते" ३।२।७५ इति मनिन्, धातोर्गुणः, "शेषाद्विभाषा" ५।४।१५४ इति कप्। ननु धातोः क्रियावचनादकर्मकत्वं न सम्भवतीति तस्मादयुक्तमकर्मकादिति विशेषणम्, व्यवच्छेद्याभावादित्यत आह-- "अकर्मकक्रियावचनात्िति। अकर्मिका चासौ क्रिया चेत्यकर्मकक्रिया, तस्या वचनो यः, तां वक्ति सोऽकर्मकक्रियावचनः। एतेनार्थद्वारकं विशेषणमिदं दर्शयति-- अकर्मको यो धात्वर्थस्तसत्साहचर्यादभिधेयधर्मस्याभिधान उपचारात् धातुरकर्मक इति। अर्थस्य च युक्तमेतद्विशेषणम्,तस्य सकर्मकत्वाकर्मकत्वसम्भवात्। "यावद्भुक्तम्" इति। यावच्छब्दो निपातोऽव्ययम्, तस्य यथार्थे वीप्सायामव्ययीभावः, सप्तम्यन्तञ्चैतत्।अत एवाह-- "भोजने भोजने सन्निधीयते" इति। "भावे क्तः" इति। "नपुंसके भावे क्तः" ३।३।११४ इत्यनेन॥
बाल-मनोरमा
अकर्मकाच्च ५१८, १।३।२६

अकर्मकाच्च। उपात्तिष्ठतेरिति। "उपान्मन्त्रकरणे इत्यतः, "समवप्रविभ्यः स्थः" इत्यतश्च तदनुवृत्तेरिति भावः।