पूर्वम्: १।३।२६
अनन्तरम्: १।३।२८
 
प्रथमावृत्तिः

सूत्रम्॥ उद्विभ्यां तपः॥ १।३।२७

पदच्छेदः॥ उद्विभ्याम् ५।२ तपः ५।१ अकर्मकात् ५।१ २६ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
उद्विभ्यां तपः १।३।२७

अकर्मकातिति वर्तते। उत् वि इत्येवं पूर्वात् तपतेरकर्मकत्रियावचनादात्मनेपदं भवति। उत्तपते। वितपते। दीप्यते इत्यर्थः। अकर्मकातित्येव। उत्तपति सुवर्णं सुवर्णकारः। वितपति पृथ्वीं सविता। स्वाङ्गकर्मकाच् च इति वक्तव्यम्। उत्तपते पाणिम्, उत्तपते पृष्ठम्। वितपते पाणिम्, वितपते पृष्ठम्। स्वाङ्गं च इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत् स्वाङ्गम् इति। किं तर्हि? स्वम् अङ्गं स्वाङ्गम्। तेन इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठम् उत्तपति इति। उद्विभ्याम् इति किम्? निष्टपति।
न्यासः
उद्विभ्यां तपः। , १।३।२७

"स्वाङ्गकर्मकाच्चेति वक्तव्यम्" इति। स्वाङ्गं कर्म यस्य तस्मात् तपतेरात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः, तत्रेदं व्याख्यानम्-- पूर्वसूत्राच्चकारोऽनुवत्र्तते, तस्यानुक्तसमुच्चयार्थत्वात् स्वाङ्गकर्मकादपि भविष्यति। स्वाङ्गञ्चेह न पारिभाषिकम्, किं तर्हि? स्वमङ्गं स्वाङ्गमिति। आत्मीयमङ्गमित्यर्थः। "निष्टपति" इति। "निसस्तपतावनासेवने" ८।३।१०२ इति मूर्धन्यः॥
बाल-मनोरमा
उद्विभ्यां तपः ५१९, १।३।२७

उद्विभ्यां तपः। "अकर्मकादित्येवे"ति भाष्यम्। दीप्यते इति। दीप्तिमान् भवतीत्यर्थः। स्वाङकर्मकाच्चेति। "उद्विभ्यां तप" इत्यनुवर्तते। चकारादकर्मकसमुच्चयः। स्वाङ्गशब्दोऽत्र यौगिक इत्याह-- स्वमङ्गमिति। सुवर्णमुत्तपतीति। अस्वाङ्गकर्मकत्वादकर्मकत्वाऽभावाच्च नात्मनेपदमिति भावः। स्वाङ्गशब्दोऽत्र न पारिभाषिकः, किन्तु यौगिक इत्यसय् प्रयोजनमाह--- चैत्रो मैत्रसय् पाणिमुत्तपतीति। अत्र "अद्रवं मूर्तिम"दित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाऽभावान्नात्मनपदमिति भावः।

तत्त्व-बोधिनी
उद्विभ्यां तपः ४४३, १।३।२७

* स्वाङ्गकर्मकाच्चेति। चकारेणाऽकर्मकस्य सङ्ग्रहः। न त्वद्रवमिति। अन्यथा चैत्रो मैत्रस्येत्यादि वक्ष्यमाणं न सङ्गच्छेतेति भावः।