पूर्वम्: १।३।२९
अनन्तरम्: १।३।३१
 
प्रथमावृत्तिः

सूत्रम्॥ निसमुपविभ्यो ह्वः॥ १।३।३०

पदच्छेदः॥ निसमुपविभ्यः ५।३ ह्वः ५।१ ३१ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
निसमुपविभ्यो ह्वः १।३।३०

अकर्मकातिति निवृत्तम्। अतः परं सामान्येन आत्मनेपदविधानं प्रतिपत्तव्यम्। नि सम् उप वि इत्येवं पूर्वात् ह्वयतेर् धातोरात्नमेपदं भवति। निह्वयते। संह्वयते उपह्वयते। विह्वयते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। अन्यत्र हि ञित्त्वात् सिद्धम् एवाऽत्मनेपदम्। उपसर्गादस्यत्यूह्योर् वा वचनम्। निरस्यति, निरस्यते। समूहति, समूहते।
बाल-मनोरमा
निसमुपविभ्यो ह्वः ५२६, १।३।३०

निसमुपवि। ह्वेञः कृतात्त्वस्य ह्व इति पञ्चम्यन्तम्। निह्वयते इति। संह्वयते। उपह्वयते। विह्वयते। अकत्र्रभिप्रायार्थमिदम्।