पूर्वम्: १।३।३०
अनन्तरम्: १।३।३२
 
प्रथमावृत्तिः

सूत्रम्॥ स्पर्धायामाङः॥ १।३।३१

पदच्छेदः॥ स्पर्धायाम् ७।१ आङः ५।१ ह्वः ५।१ ३० आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
स्पर्धायाम् आङः १।३।३१

अकर्त्रभिप्रायार्थो ऽयमारम्भः। स्पर्धायां विषये आङ्पूर्वाद् ह्वयतेरात्मनेपदं भवति। स्पर्धा सङ्घर्षः, पराभिभवेछा, स विषयो धात्वर्थस्य। धातुस् तु शब्दत्रिय एव। मल्लो मल्लम् आह्वयते। छात्रश् छात्रम् आह्वयते। स्पर्धमानस् तस्याऽह्वानं करोति इत्यर्थः। स्पर्धायाम् इति किम्? गाम् आह्वयति गोपालः।
न्यासः
स्पद्र्धायामाङः। , १।३।३१

"स्पद्र्धायां विषये" इति। स्पर्धेह धात्वर्थस्य विषयोऽभिमतः, न धातोः। अत एवाह-- "स्पर्धा सङ्घर्षः। "पराभिभवेच्छा" इति। स्पर्धायाः स्वरूपं दर्शयित्वा धात्वर्थस्य विषयं दर्शयितुमाह- "स विषयो धात्वर्थस्य" इति। कः पुनर्धातोरर्थो नाम यस्यैवं विषयः? इत्याह-- "धातुस्तु शब्दक्रियः" इत्यादि। शब्दनं शब्दः। सा क्रिया यस्य स तथोक्तः। शब्दनक्रियावाचीति यावत्। यद्यपि ह्वयतिः स्पद्र्धायामपि पठ()ते, तथाप्याङपूर्वस्तत्र न वत्र्तते, यथा-- तिष्ठतिर्गतिनिवृत्तौ पठ()ते, अथ च प्रपूर्वो गतावेव वत्र्तते, न गतिनिवृत्तौ; तथा हि प्रतिष्ठित इत्युक्ते गच्छतीत्यर्थः। तस्मादाङपूर्वस्य ह्वयतेः स्पद्र्धायां वृत्त्यभावात् स्पद्र्धा धात्वर्थस्य विषयः। धात्वर्थविषयत्वं तु तद्धेतुभावेन वेदितव्यम्॥
बाल-मनोरमा
स्पर्धायामाङः ५२७, १।३।३१

स्पर्दायामाङः। आङ्पूर्वकात् स्पर्धाविषयकात् ह्वेञ आत्मनेपदमित्यर्थः। कृष्णश्चाणूरमाह्वयते इति। स्पर्धार्थमाकारयतीत्यर्थः।

बाल-मनोरमा
समाहारः स्वरितः ९, १।३।३१

अथ स्वारितसंज्ञामाह-समाहारः स्वरितः। पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते। ऊकालोऽजित्यस्मादजित्यनुवर्तते। ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते। एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य। अतो नैवमर्थः। किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्ट()न्ततया च विपरिणम्येते। यत्र समाहरणं स समाहारः। अधिकरणे घञ्। ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः।