पूर्वम्: १।३।३३
अनन्तरम्: १।३।३५
 
प्रथमावृत्तिः

सूत्रम्॥ वेः शब्दकर्मणः॥ १।३।३४

पदच्छेदः॥ वेः ५।१ ३५ शब्दकर्मणः ५।१ कृञः ५।१ ३२ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
वेः शब्दकर्मणः १।३।३४

कृञः इत्यनुवर्तते। विपूर्वत् करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति। कर्मशब्द इह कारकाभिधायी, न क्रियावचनः। क्रोष्टा विकुरुते स्वरान्। ध्वाङ्क्षो विकुरुते स्वरान्। शब्दकर्मणः इति किम्? विकरोति पयः।
न्यासः
वेः शब्दकर्मणः। , १।३।३४

"कर्तरि कर्म" १।३।१४ इत्येवमादौ क्वचित् कर्मशब्दस्य क्रियावाचिना दृष्टा। इहापि तस्य क्रियावाचिता मा विज्ञायीत्याह- "कर्मशब्द इह कारकाभिधायि"इति। अथ क्रियाभिधायी कस्मान्न भवति? विपूर्वस्य करोतेः शब्दनक्रियायां वृत्त्यसम्भवात्। "शब्दकर्मणः" इति। धातोरर्थद्वारकं चेदं विशेषणम्-- शब्दः कर्मास्येति; शब्दकर्मा धात्वर्थः। तदर्थस्य शब्दकर्मत्वात्तद्द्वारेण धातुरपि शब्दकर्मेति; अन्यथा हि क्रियावाचित्वाद्धातोः कतं शब्दः कर्मास्येति सम्बन्ध उपपद्यते॥
बाल-मनोरमा
वेः शब्दकर्मणः ५३०, १।३।३४

वेः शब्दकर्मणः। शब्दः कर्म कारकं यस्य तस्मात्कृञो विपूर्वादात्मनेपदमित्यर्थः।