प्रथमावृत्तिः
सूत्रम्॥
वृत्तिसर्गतायनेषु क्रमः॥ १।३।३८
पदच्छेदः॥
वृत्तिसर्गतायनेषु ७।३ ३९ क्रमः ५।१ ४३ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
वृत्तिसर्गतायनेषु क्रमः १।३।३८
शेषत् कर्तरि परस्मैपदे प्राप्ते वृत्त्यादिश्वर्थेशु कर्मेर् धतोरात्मनेपदं भवति। वृत्तिरप्रतिबन्धः। सर्ग उत्साहः। तायनं स्फीतता। वृत्तौ तावतृक्ष्वस्य क्रमते बुद्धिः। न प्रतिहन्यते इत्यर्थः। यजुःष्वस्य क्रमते बुद्धिः। सर्गे व्याकरणाध्ययनाय क्रमते। उत्सहते इत्यर्थः। तायते अस्मिन् शास्त्रापि क्रमन्ते। स्फीतीभवन्ति इत्यर्थः। एतेषु इति किम्? अपक्रामति।
न्यासः
वृत्तिसर्गतायनेषु क्रमः। , १।३।३८
शेषलक्षणेन क्रमेः परस्मेपदे प्राप्त आत्मेपदं विधीयते। वृत्त्यादयोऽर्था अप्रतिबन्धोत्साहस्फीततासु प्रसिद्धाः॥
बाल-मनोरमा
वृत्तिसर्गरतायनेषु क्रमः ५३४, १।३।३८
वृत्तिसर्ग। "आत्मनेपद"मिति शेषः। तायने उदाहरति-- क्रमन्तेऽस्मिन्निति। तायनं = वृद्धिः। तदाह-- स्फीतानीति।
तत्त्व-बोधिनी
वृत्तिसर्गतायनेषु क्रमः ४५२, १।३।३८
वृत्तिसर्ग। तायृ सन्तानपालनयोः। तायनं स्फीतता।तदाह-- स्फीतानीति। प्रवृद्धानीत्यर्थः।