पूर्वम्: १।३।४२
अनन्तरम्: १।३।४४
 
प्रथमावृत्तिः

सूत्रम्॥ अनुपसर्गाद्वा॥ १।३।४३

पदच्छेदः॥ अनुपसर्गात् ५।१ वा क्रमः ५।१ ३८ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
अनुपसर्गाद् वा १।३।४३

क्रमः इति वर्तते। अप्राप्तविभाषेयम्। उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा भवति। क्रमते। क्रामति। अनुपसर्गातिति किम्? सङ्क्रामति।
न्यासः
अनुपसर्गाद्वा। , १।३।४३

"अप्राप्तविभाषेयम्" इति। वृत्यादीनां निवृत्त्वात्।
बाल-मनोरमा
अनुपसर्गाद्वा ५४०, १।३।४३

अनुपसर्गाद्वा। "कर्म आत्मनेपद"मिति शेषः। अप्राप्तविभाषेयमिति। अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः। वृत्त्यादाविति। वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः।

तत्त्व-बोधिनी
अनुपसर्गाद्वा ४५५, १।३।४३

वृत्त्यादौ त्विति। न च वृत्त्यादिसूत्रं सोपसर्गे चरितार्थमित्यनुपसर्गात्क्रमेर्वृत्त्याद्यर्थेऽपि विभाषैवाऽस्त्विति वाच्यम्, "उपपराभ्या"मिति नियमस्योक्तत्वात्।