पूर्वम्: १।३।४६
अनन्तरम्: १।३।४८
 
प्रथमावृत्तिः

सूत्रम्॥ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः॥ १।३।४७

पदच्छेदः॥ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु ७।३ वदः ५।१ ५० आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
भासनौपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः १।३।४७

शेषात् कर्तरि परस्मैपदे प्राप्ते भासनाऽदिशु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति। भासनं दीप्तिः वदते चार्वी लोकायते। भासमानो दीप्यमानस् तत्र पदार्थान् व्यक्तीकरोति इत्यर्थः। उपसम्भाषा उपसान्त्वनम् कर्मकरानुपवदते। उपसान्त्वयति इत्यर्थः। ज्ञानं सम्यगवबोधः वदते चार्वी लोकायते। जानाति वदितुम् इत्यर्थः। यत्न उत्साहः क्षेत्रे वदते। गेहे वदते। तद्विषयम् उत्साहम् आविष्करोति इत्यर्थः। विमतिर्नानामतिः क्षेत्रे विवदन्ते। गेहे विवदन्ते। विमतिपतिता विचित्रं भाषन्ते इत्यर्थः। उपमन्त्रणं रहस्युपच्छन्दनम् कुलभार्याम् उपवदते। परदारानुपवदते। उपच्छन्दय्ति इत्यर्थः। एतेषु इति किम्? यत् किञ्चिद् वदति।
लघु-सिद्धान्त-कौमुदी
ह्रस्वो नपुंसके प्रातिपदिकस्य २४४, १।३।४७

अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥
न्यासः
भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रमेषु वदः। , १।३।४७

"{भासनादिषु विशेषणेषु" इत्येव-काशिका, पदमञ्जरी च।} भासनादिष्वर्थेषु विशेषणेषु" इति। अत्रापि किंस्विद्विशिष्यते वदत्यर्थोऽनेनेति विशेषणम्? किंस्विद्वदत्यर्थ एव, विशेषणं ह्रर्थान्तराद्विशिष्यते व्यवच्छिद्यत इति कृत्वा? तत्रोपसम्भाषोपलसान्त्वनमुपमन्त्रणञ्च द्वितीयेनार्थेन वदत्यर्थ एव विशेषणम्। परिशिष्टानि तु भासनादीनि प्रथमेनार्थेन विशेषणानि। "भासनमान" इत्यादिना भासनं वदत्यर्थस्य लक्षणभावेन हेतुभावेन वा विशेषणमिति दर्शयति। तथा ह्रत्र भासमान इति "लक्षणहेत्वोः क्रियायाः" ३।२।१२६ इत्यनेन शानजादेशो विहितः। "जानाति" इत्यादिना ज्ञानं वदत्यर्थस्य विषयिभावेन विशेषणमिति दर्शयति। ज्ञानेन ह्रसौ वदितुं जानाति। अत्र येन ज्ञानेन वदनं वदत्यर्थस्य हेतुभावेन तत्र तेनैव विषयेण परिच्छेद्येन विषयीभवति। "तद्विषयम्" इत्यादिना यत्र आविष्करणस्य वदत्यर्थस्य हेतुभावेन विशेषणमित्याचष्टे। उत्साहो ह्राविष्क्रियमाण आदिष्करणक्रियायाः कर्माख्यं साधनं भवति, साधनं च हेतुः; कारकाणां क्रियानिमित्तत्वात्। "विमतिपतिताः" इत्यादिना विमतिर्भाषणस्य वदत्यर्थस्य हेतुभावेन विशेषणमिति दर्शयति। सत्यां विमतौ विचित्रं नानाप्रकारं भाषन्ते। यदि ह्रभिन्ना मतिः स्यादभिन्नमेव भाषेरन्। "उपच्छन्दयति" इति। "भद्रे भजस्य मामिदं ते दास्यामि" इत्येवमादिभिरभिष्टेऽर्थे प्रवत्र्तयतीत्यर्थः॥
बाल-मनोरमा
भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ५४४, १।३।४७

भासनोपसंभाषा। "आत्मनेपद"मिति शेषः। इतरे इति। भासनज्ञानादय इत्यर्थः। प्रयोगोपाधय इति। इदं "सम्माननोत्सञ्जने"त्यत्र व्याख्यातं प्राक्। भासनं तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः। शास्त्रे वदते इति। विषयसप्तम्येषा इति। भासमान इति। नवनवयुक्तीरुल्लिखतीत्यर्थः। शास्त्रे वदते इति - विषसप्तमी। व्यवहरतीत्यर्थः। व्यवहारश्च ज्ञानं विना न संभवतीति ज्ञानमार्थिकम्। ज्ञात्वा व्यवहरतीति फलितम्। क्षेत्रे विवदन्ते इति। विरुद्धं व्यवहरन्तीत्यर्थः। विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी। उपवदते इति। उपपूर्वस्य वदेः प्रार्थनमर्थः। तदाह-- प्रार्थयते इत्यर्थ इत।

तत्त्व-बोधिनी
भासनोपसंबाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ४५७, १।३।४७

भसनोपसंभाषा। एषु किम्?। य()त्कचिद्वदति।