पूर्वम्: १।३।४५
अनन्तरम्: १।३।४७
 
प्रथमावृत्तिः

सूत्रम्॥ संप्रतिभ्यामनाध्याने॥ १।३।४६

पदच्छेदः॥ संप्रतिभ्याम् ५।२ अनाध्याने ७।१ ज्ञः ५।१ ४४ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
संप्रतिभ्याम् अनाध्याने १।३।४६

ज्ञः इति वर्तते। सकर्मकार्थम् इदम्। सम् प्रति इत्येवं पूर्वाज् जानातेरनाध्याने वर्तमानादात्मनेपदं भवति। आध्यानम् उत्कण्ठास्मरणम्। शतं संजानीते। सहस्रं संजानीते। शतं पतिजानीते। सहस्रं प्रतिजानीते। अनाध्याने इति किम्? मातुः सञ्जानाति। पितुः सञ्जानाति। उत्कण्ठते इत्यर्थः।
न्यासः
संप्रतिभ्यामनाध्याने। , १।३।४६

"उत्कण्ठास्मरणम्" इति। उत्कण्ठापूर्वकस्मरणमिति। "मातुः" इति। "अधीगर्थदयेशां कर्मणि" २।३।५२ इति षष्ठी॥
बाल-मनोरमा
सम्प्रतिभ्यामनाध्याने ५४३, १।३।४६

"ज्ञ आत्मनेपद"मिति शेषः। अवेक्षते इत्यर्थ इति। अकर्मकत्वाऽभावात् पूर्वेणाऽप्राप्तिरिति भावः। अनाध्याने किम्? मातरं संजानाति। आध्यायतीत्यर्थः। उत्कण्ठापूर्वकंस्मरणमाध्यानम्। ननु यदा आध्याने कर्मणः शेषत्वविवक्षया षष्ठीमाश्रित्य मातुः संजानातीति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः। ततर् "संप्रतिभ्यामनाध्याने" इत्यात्मनेपदस्याऽप्रवृत्तावपि "अकर्मकाच्चे"ति सूत्रेणात्मनेपदं दुर्वारम्, तत्र अनाध्याने इत्यभावात्। संप्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मतारं संजानातीति सकर्मके चरितार्थत्वादित्यत आह-- अनाध्याने इति योगो विभज्यते इति। ततश्च "संप्रतिभ्या"मित्येको योगः।संप्रतिपूर्वाज्ज्ञ आत्मनेपदमित्यर्थः। "अनाध्याने" इति योगान्तरम्। अनाध्याने संप्रतिभ्यामात्मनेपदमित्यर्थ-। ततः किमित्यत आह-- अकर्मकाच्चेति प्राप्तिरपि बाध्यते इति। ननु अनन्तरस्येति न्यायेन "सम्प्रतिभ्या"मित्यस्यैव बाधो युक्त इत्यत आह-- तत्सामथ्र्यादिति। एकसूत्रत्वेनैव सिद्धे अनाध्याने इति योगविभागाद्व्यवहितस्यापि बाध इत्यर्थः। ननु "मातरं मातुर्वा संजानाती"त्यत्र मातुः कर्मत्वाद्द्वितीयैव युक्तेत्यत आह-- कर्मणः शेषत्वविवक्षायां षष्ठीति। नचैवमपि "अधीगर्थदयेशां कर्मणि" इति षष्ठ()एव स्यान्नतु द्वितीयेति वाच्यम्, तत्र शेष इत्यनुवर्त्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायां तु द्वितीयेत्यभ्युपगमात्। न चैवं सति "षष्ठी शेषे" इत्यनेनैव सिद्धत्वात् "अधीगर्थे"ति व्यर्थमिति वाच्यम्, "मातुः स्मरण"मित्यादौ शेषष्ठ्याः समासाऽभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम्।