पूर्वम्: १।३।५०
अनन्तरम्: १।३।५२
 
प्रथमावृत्तिः

सूत्रम्॥ अवाद्ग्रः॥ १।३।५१

पदच्छेदः॥ अवात् ५।२ ग्रः ५।१ ५२ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
अवाद् ग्रः १।३।५१

गृ̄ निगरणे इति तुदादौ पठ्यते, तस्य इदं ग्रहणम्। न तु गृ̄ शब्दे इति क्र्यादिपठितस्य। तस्य ह्यवपूर्वस्य प्रयोग एव न अस्ति। शेषात् कर्तरि पर्स्मैपदे प्राप्ते अवपूर्वाद् गिरतेरात्मनेपदं भवति। अवगिरते, अवगिरेते, अवगिरन्ते। अवातिति किम्? गिरति।
न्यासः
अवाद्ग्रः। , १।३।५१

"अवगिरते" इति। "ऋत इद्धातोः" ९७।१।१००) इतीत्त्वम्, रपरत्वञ्च।
बाल-मनोरमा
अवाद्ग्रः ५४८, १।३।५१

अवाद्ग्रः। आत्मनेपद"मिति शेषः। "गृ()" इत्यस्य "ग्र" इति पञ्चमी। "प्रकृतिवदनुकरण"मित्यस्याऽनुत्यत्वात् "ऋत इद्धातो"रिति न भवति। तदनित्यत्वे इदमेव मानम्। अवगिरत इति। शविकरणोऽयम्। "अवगृणाती"त्यत्राप्यात्मनेपदमाशङ्क्य आह-- गृणातिस्त्विति। एवं च तुदादेरेव ग्रहणमिति भावः।